अभिवादनम्

1/02/05/12 …{Loading}…

सदा महान्तम् अपररात्रम् उत्थाय
गुरोस् तिष्ठन्
प्रातर् अभिवादम् अभिवादयीत - “असाव् अहं भो” इति १२

1/02/05/13 …{Loading}…

समान-ग्रामे च वसताम् अन्येषाम् अपि वृद्धतराणां प्राक् प्रातर्-आशात् १३

1/02/05/14 …{Loading}…

प्रोष्य च समागमे १४

1/02/05/15 …{Loading}…

स्वर्गम् आयुश् चेप्सन् १५

1/02/05/16 …{Loading}…

दक्षिणम् बाहुं श्रोत्र-समं प्रसार्य ब्राह्मणोऽभिवादयीत उरःसमं
राजन्यो मध्यसमं
वैश्यो नीचैः
शूद्रः प्राञ्जलि १६

1/02/05/17 …{Loading}…

प्लावनं च नाम्नो +++(ऽन्तिमस्वरस्य)+++ ऽभिवादन+++(सम्बद्ध)+++-प्रत्यभिवादने च पूर्वेषां वर्णानाम् १७

1/02/05/18 …{Loading}…

उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८

1/02/05/19 …{Loading}…

सदैवाभिवादनम् १९

1/02/05/20 …{Loading}…

उपसंग्राह्य आचार्य इत्येके २०

1/02/05/21 …{Loading}…

दक्षिणेन पाणिना दक्षिणं पादम्
अधस्ताद् अभ्यधिमृश्य सकुष्ठिकम् उपसंगृह्णीयात् २१

1/02/05/22 …{Loading}…

उभाभ्याम् एवोभाव् अभिपीडयत
उपसंग्राह्याव् इत्य् एके २२

1/04/14/18 …{Loading}…

अप्रयतेन नाभिवाद्यम् १८

1/04/14/19 …{Loading}…

तथाप्रयताय १९

1/04/14/20 …{Loading}…

अप्रयतश्च न प्रत्यभिवदेत् २०

1/04/14/22 …{Loading}…

न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत २२

1/04/14/23 …{Loading}…

सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना २३

1/04/14/24 …{Loading}…

मातरमाचार्यदारं चेत्येके २४

1/04/14/26 …{Loading}…

कुशलमवरवयसं वयस्यं वा पृच्छेत् २६

1/04/14/27 …{Loading}…

अनामयं क्षत्रियम् २७

1/04/14/28 …{Loading}…

अनष्टं वैश्यम् २८

1/04/14/29 …{Loading}…

आरोग्यं शूद्र म् २९

1/04/14/30 …{Loading}…

नासंभाष्य श्रोत्रियं व्यतिव्रजेत् ३०

1/04/14/31 …{Loading}…

अरण्ये च स्त्रियम् ३१

1/04/14/11 …{Loading}…

ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ११

1/04/14/12 …{Loading}…

तूष्णीं वोपसंगृह्णीयात् १२

1/04/14/13 …{Loading}…

दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभिवादनमर्हति १३

1/04/14/14 …{Loading}…

ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् १४

1/04/14/15 …{Loading}…

विषमगतायागुरवे नाभिवाद्यम् १५

1/04/14/16 …{Loading}…

अन्वारुह्य वाभिवादयीत १६

1/04/14/17 …{Loading}…

सर्वत्र तु प्रत्युत्थायाभिवादनम् १७

1/04/14/21 …{Loading}…

पतिवयसः स्त्रियः २१

1/04/14/25 …{Loading}…

दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता २५

1/04/13/13 …{Loading}…

समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३

1/04/13/14 …{Loading}…

नित्यमर्हन्तमित्येके १४

1/04/13/15 …{Loading}…

न गतिर् +++(=शुश्रूषा)+++ विद्यते १५