अतिथिः
2/03/06/03 …{Loading}…
अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३
2/03/06/04 …{Loading}…
धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ४
2/03/06/05 …{Loading}…
स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५
2/03/06/06 …{Loading}…
तस्य पूजायां शान्तिः स्वर्गश्च ६
2/03/07/01 …{Loading}…
स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः १
2/03/07/02 …{Loading}…
योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः २
2/03/07/03 …{Loading}…
ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ३
2/03/07/04 …{Loading}…
पयोपसेचनमन्नमग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ४
2/03/07/05 …{Loading}…
प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते ५
2/03/07/06 …{Loading}…
स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति ६
2/03/07/07 …{Loading}…
यदनुतिष्ठत्युदवस्यत्येव तत् ७
2/03/07/08 …{Loading}…
यत्सान्त्वयतति सा दक्षिणा प्रशंसा ८
2/03/07/09 …{Loading}…
यत्संसाधयति ते विष्णुक्रमाः ९
2/03/07/10 …{Loading}…
यदुपावर्तते सोऽवभृथः १०
2/03/07/11 …{Loading}…
इति हि ब्राह्मणम् ११
विधिः
2/04/08/01 …{Loading}…
येन कृतावसथः +++(=दत्ताश्रयः)+++ स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः १
2/04/08/02 …{Loading}…
शेषभोज्यतिथीनां स्यात् २
2/04/08/03 …{Loading}…
न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ३
2/04/08/04 …{Loading}…
नात्मार्थमभिरूपमन्नं पाचयेत् ४
2/02/04/11 …{Loading}…
अतिथीनेवाग्रे भोजयेत् ११
2/02/04/12 …{Loading}…
बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२
2/02/04/13 …{Loading}…
काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३
2/02/04/14 …{Loading}…
अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४
2/02/04/15 …{Loading}…
एवंवृत्तावनन्तलोकौ भवतः १५
2/03/06/07 …{Loading}…
तमभिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७
2/03/06/08 …{Loading}…
शक्तिविषये नाबहुपादमासनं भवतीत्येके ८
2/03/06/09 …{Loading}…
तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावित्येके ९
2/03/06/10 …{Loading}…
अन्यतरोऽभिषेचने स्यात् १०
2/03/06/11 …{Loading}…
तस्योदकमाहारयेन्मृन्मयेनेत्येके ११
2/03/06/12 …{Loading}…
नोदकमाचारयेद् असमावृत्तः १२
2/03/06/13 …{Loading}…
अध्ययनसांवृत्तिश्चात्राधिका १३
2/03/06/14 …{Loading}…
सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४
2/03/06/15 …{Loading}…
आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५
2/03/06/16 …{Loading}…
अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६
2/03/06/17 …{Loading}…
उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७
2/03/06/18 …{Loading}…
इदा३मिति भूय उद्धरेत्येव ब्रूयात् १८
2/03/07/12 …{Loading}…
राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् १२
2/03/07/13 …{Loading}…
आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य तर्पयंस्त्विति १३
2/03/07/14 …{Loading}…
पुराग्निहोत्रस्य होमादुपांशु जपेत् । व्रात्य यथा ते मनस्तथास्त्विति । व्रात्य यथा ते वशस्तथास्त्विति । व्रात्य यथा ते प्रियं तथास्त्विति । व्रात्य यथा ते निकामस्तथास्त्विति १४
2/03/07/15 …{Loading}…
यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज होष्यामि । इत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह १५
विधौ पात्रभेदात् सत्कारभेदः
2/02/04/16 …{Loading}…
ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६
2/02/04/17 …{Loading}…
अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् १७
2/02/04/18 …{Loading}…
राजन्यवैश्यौ च १८
2/02/04/19 …{Loading}…
शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९
2/02/04/20 …{Loading}…
दासा वा राजकुलादाहृत्यातिथिवच् छूद्रम् पूजयेयुः २०
+++(बोधायनो वैश्वदेवप्रकरणे - “सर्वेभ्योभ्यागतेभ्य आश्वचण्डालेभ्यस्स्वागतं कार्यम्” इति। )+++
2/03/07/16 …{Loading}…
एकरात्रं चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमितांल् लोकानभिजयतीति विज्ञायते १६
2/03/07/17 …{Loading}…
असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यात् । एवमस्य समृद्धं भवति १७
2/04/08/05 …{Loading}…
गोमधुपर्कार्हो वेदाध्यायः ५
2/04/08/06 …{Loading}…
आचार्य, ऋत्विक्, स्नातको, राजा वा धर्मयुक्तः +++(मधुपर्कार्हाः)+++६
2/04/08/07 …{Loading}…
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ७
मधुपर्कः
2/04/08/08 …{Loading}…
दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ८
2/04/08/09 …{Loading}…
अभाव उदकम् ९
लोपे प्रायश्चित्तम्
2/04/08/14 …{Loading}…
अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य १४
2/04/09/01 …{Loading}…
श्वोभूते यथामनसं तर्पयित्वा संसाधयेत् १
अनुव्रजनम्
2/04/09/02 …{Loading}…
यानवन्तमा यानात् २
2/04/09/03 …{Loading}…
यावन्नानुजानीयादितरः ३
2/04/09/04 …{Loading}…
अप्रतीभायां +++(बुद्धौ न जातायाम्)+++ सीम्नो निवर्तेत ४
अतिथिभावः
1/02/08/23 …{Loading}…
मातरं पितरम् आचर्यम् अग्नींश् च गृहाणि च रिक्त-पाणिर् नोपगछ्हेद्, राजानं चेन् न श्रुतम् इति २३
2/03/06/19 …{Loading}…
द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९
2/03/06/20 …{Loading}…
पाप्मानं हि स तस्य भक्षयतीति विज्ञायते २०