औचित्य-विवेकः
क्वानध्यायः
1/04/12/09 …{Loading}…
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ९
1/03/11/38 …{Loading}…
यथोक्तमन्यदतः परिषत्सु ३८
2/05/12/19 …{Loading}…
दोषफलसंशये न तत्कर्तव्यम् १९
2/05/12/20 …{Loading}…
एवमध्यायानध्याये २०
काल-निमित्तकम् अनध्ययनम्
1/03/09/01 …{Loading}…
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं {अनूक्तम् अननूक्तञ्च} प्रदोषे नाधीयीत १
1/03/09/02 …{Loading}…
तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २
1/03/09/03 …{Loading}…
अर्धपञ्चमांश्चतुरो मासानित्येके ३
1/03/11/35 …{Loading}…
अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५
1/03/11/36 …{Loading}…
{अननूक्तं} प्रदोषे च ३६
1/03/11/37 …{Loading}…
सार्वकालिकमाम्नातम् +++(=अधीतम्)+++ {अध्येतव्यम्} ३७
1/03/11/01 …{Loading}…
{अनध्ययनम्} काण्डोपाकरणे चामातृकस्य १
1/03/11/02 …{Loading}…
काण्डसमापने चापितृकस्य २
1/03/09/28 …{Loading}…
अहोरात्राव् अमावास्यासु +++(पूर्वेद्युश् चतुर्दशीषु चेति हरदत्तः। मनुना पूर्णिमायाम् अपि निषिद्धम्।)+++ २८
1/03/10/01 …{Loading}…
चातुर्मासीषु च १
1/03/11/15 …{Loading}…
सन्ध्योः १५
1/03/11/20 …{Loading}…
अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः +++(=वसन्तोत्सवः)+++ २०
1/11/32/12 …{Loading}…
अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२
घटनानिमित्तम् अनध्ययनम्
1/03/09/18 …{Loading}…
तदहरागतेषु च ग्रामं बाह्येषु १८
1/03/09/19 …{Loading}…
अपि सत्सु १९
1/03/10/02 …{Loading}…
वैरमणे+++(=उत्सर्जने)+++ +++(मृतेषु)+++ गुरुष्व् अष्टाक्य औपाकरण इति त्र्यहाः २
1/03/11/06 …{Loading}…
यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६
1/03/11/07 …{Loading}…
उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ७
1/03/11/11 …{Loading}…
विप्रोष्य च समध्ययनं तदहः ११
1/03/11/12 …{Loading}…
स्वैरिकर्मसु च १२
1/03/11/13 …{Loading}…
यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३
1/03/11/14 …{Loading}…
तावन्तं कालं नाधीयीताध्यापयेद्वा १४
मृताशौचे
1/03/10/03 …{Loading}…
तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावद् आशौचमनध्यायः)+++३
1/03/10/04 …{Loading}…
मातरि पितर्य् आचार्य इति द्वादशाहाः ४
1/03/10/10 …{Loading}…
आचार्ये त्रीन् अहोरात्रान् इत्य् एके १०
1/03/10/11 …{Loading}…
श्रोत्रिय-संस्थायाम् अपरिसंवत्सरायाम् एकाम् +++(रात्रिम्)+++ ११
1/03/10/12 …{Loading}…
सब्रह्मचारिणीत्य् एके १२ …
अन्ननिमित्तम्
1/03/10/26 …{Loading}…
प्रदोषे च भुक्त्वा २६
1/03/10/27 …{Loading}…
प्रोदकयोश्च +++(= भुक्त्वार्द्रयोः)+++ पाण्योः २७
1/03/10/28 …{Loading}…
प्रेतसंकॢप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८
1/03/10/29 …{Loading}…
आ च विपाकात् २९
1/03/10/30 …{Loading}…
अश्राद्धेन तु पर्यवदध्यात् ३०
1/03/11/03 …{Loading}…
मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३
1/03/11/04 …{Loading}…
पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ४
1/03/11/05 …{Loading}…
तथौषधिवनस्पतिमूलफलैः ५
1/03/10/25 …{Loading}…
शुक्तं +++(=पक्वं कालपाकेनाम्लं जात)+++ चात्मसंयुक्तम् +++(=उदरस्थम्)+++ २५
उपप्लवे
1/03/09/25 …{Loading}…
गवां चावरोधे २५
1/03/09/26 …{Loading}…
वध्यानां च यावता हन्यन्ते २६
1/03/10/21 …{Loading}…
सर्वेषु च शब्दकर्मसु +++(=आक्रोश-परिवादादिषु)+++ यत्र +++(+अध्ययन-शब्देन)+++ संसृज्येरन् २१
1/03/10/19 …{Loading}…
+++(बहु-)+++श्व-गर्दभ-नादाः सलावृक्य्-एकसृक+++(=शृगाल)++++उलूक-शब्दाः
सर्वे वादित्र-शब्दा
रोदन-गीत-सामशब्दाश् च १९
1/03/10/20 …{Loading}…
शाखान्तरे +++(श्रूयमाणे)+++ च साम्नाम् अनध्यायः २०
उपप्लवे नैसर्गिके
1/03/09/20 …{Loading}…
संधावनुस्तनिते रात्रिम् २०
1/03/09/21 …{Loading}…
स्वप्नपर्यान्तं विद्युति २१
1/03/09/22 …{Loading}…
उपव्युषं
यावता वा कृष्णां रोहिणीम् इति,
शम्या-प्रासाद् विजानीयाद्
- एतस्मिन् काले विद्योत-माने सप्रदोषम् अहरनध्यायः २२
1/03/09/23 …{Loading}…
दह्रे+++(=अपररात्रे तृतीयो भागः)+++ ऽपररात्रे+++(=रात्रेस् तृतीयो भागः)+++ स्तनयित्नुना २३
1/03/09/24 …{Loading}…
ऊर्ध्वमर्धरात्रादित्येके २४
1/03/11/08 …{Loading}…
वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८
1/03/11/25 …{Loading}…
विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५
1/03/11/27 …{Loading}…
विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्तस्त्र्यहमनध्यायः २७
1/03/11/28 …{Loading}…
यावद्भूमिर्व्युदकेत्येके २८
1/03/11/29 …{Loading}…
एकेन द्वाभ्यां वैतेषामाकालम् २९
1/03/11/30 …{Loading}…
सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३०
1/03/11/31 …{Loading}…
अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१
1/03/11/32 …{Loading}…
मुहूर्तं विरते वाते ३२
1/03/11/33 …{Loading}…
सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ३३
1/03/11/34 …{Loading}…
नक्तं चारण्येऽनग्नावहिरण्ये वा ३४
1/04/12/03 …{Loading}…
अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात्स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ३
1/04/12/04 …{Loading}…
तस्य शाखान्तरे वाक्यसमाप्तिः ४
1/04/12/05 …{Loading}…
अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतेत वावस्फूर्जेद् वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो हैवास्यैतदहः स्वाध्याय उपात्तो भवति ५
1/04/12/06 …{Loading}…
एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ६
1/04/12/07 …{Loading}…
अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ७
1/04/12/08 …{Loading}…
आर्यसमयो ह्यगृह्यमानकारणः ८
सपरिहार-व्यवधानानि
1/03/10/22 …{Loading}…
छर्दयित्वा +++(=वमित्वा)+++ स्वप्नान्तम् +++(नाधीयीत)+++। २२
1/03/10/23 …{Loading}…
सर्पिर्वा प्राश्य +++(अधीयीत)+++। २३
1/03/09/13 …{Loading}…
ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३
1/03/10/13 …{Loading}…
श्रोत्रियाभ्यागमे ऽधिजिगांसमानो ऽधीयानो वा ऽनुज्ञाप्याधीयीत १३
1/03/10/14 …{Loading}…
अध्यापयेद् वा १४
1/03/10/15 …{Loading}…
गुरुसंनिधौ चाधीहि भो इत्य् +++(आत्मगतम्)+++ उक्त्वाधीयीत १५
1/03/10/16 …{Loading}…
अध्यापयेद् वा १६
1/03/10/17 …{Loading}…
उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++
1/03/10/18 …{Loading}…
अधीयानेषु वा यत्रान्यो व्यवेयाद् +++(=मध्ये गच्छेत्)+++, एतम् एव शब्दम् +++(=अधीहि भोः)+++ उत्सृज्याधीयीत १८
स्थानम्
1/03/09/04 …{Loading}…
निगमेष्वध्ययनं वर्जयेत् ४
1/03/09/05 …{Loading}…
आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५
1/03/09/06 …{Loading}…
श्मशाने सर्वतः शम्याप्रासात् ६
1/03/09/07 …{Loading}…
ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७
1/03/09/08 …{Loading}…
ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८
1/03/09/09 …{Loading}…
श्मशानवच्छूद्र पतितौ ९
1/03/09/10 …{Loading}…
समानागार इत्येके १०
1/03/09/11 …{Loading}…
शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११
1/03/09/12 …{Loading}…
तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२
1/03/09/14 …{Loading}…
अन्तःशवम् १४
1/03/09/15 …{Loading}…
अन्तश्चाण्डालम् १५
1/03/09/16 …{Loading}…
अभिनिर्हृतानां तु सीम्न्यनध्यायः १६
1/03/09/17 …{Loading}…
संदर्शने चारण्ये १७
1/03/09/27 …{Loading}…
पृष्ठारूढः पशूनां नाधीयीत २७
1/03/10/24 …{Loading}…
पूतीगन्धः २४
1/03/11/08 …{Loading}…
वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८
1/03/11/09 …{Loading}…
ग्रामारण्ययोश्च सन्धौ ९
1/03/11/10 …{Loading}…
महापथे च १०
1/03/11/16 …{Loading}…
तथा वृक्षमारूढः १६
1/03/11/17 …{Loading}…
अप्सु चावगाढः १७
1/03/11/18 …{Loading}…
नक्तं चापावृते १८
1/03/11/19 …{Loading}…
दिवा चापिहिते १९
क्रमः
1/03/10/17 …{Loading}…
उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++
+++(अन्यत्रोक्तः - उपनयनम्, स्वाध्यायः, अध्यापकः, अभिवादनम्, समावर्तनम्।)+++