01 भृत्यानामनुपरोधेन क्षेत्रं वित्तञ् ...{Loading}...
भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्तांल् लोकाभिजयति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- A (king) who, without detriment to his servants, gives land and money to Brāhmaṇas according to their deserts gains endless worlds. 1
हरदत्त-टीका
सूत्रम्
भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १॥
टिप्पनी
भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥
02 ब्राह्मणस्वान्यपजिगीषमाणो राजा यो ...{Loading}...
ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति २
सर्वाष् टीकाः ...{Loading}...
Bühler
- They say (that) a king, who is slain in attempting to recover the property of Brāhmaṇas, (performs) a sacrifice where his body takes the place of the sacrificial post, and at which an unlimited fee is given. 2
हरदत्त-टीका
सूत्रम्
ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति ॥२॥
टिप्पनी
ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानायापजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः। तस्य आत्मा यूपस्थानीयः आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा । सूत्रे तु ‘तं यज्ञ इत्याहुरि’ति गौणो वादः ॥२॥
03 एतेनान्ये शूरा व्याख्याताः ...{Loading}...
एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Hereby have been declared (the rewards of) other heroes, who fall fighting for a (worthy) cause. 3
हरदत्त-टीका
सूत्रम्
एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ॥३॥
टिप्पनी
प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥
04 ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये ...{Loading}...
ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये निदध्यात् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall appoint men of the first three castes, who are pure and truthful, over villages and towns for the protection of the people. 4
हरदत्त-टीका
सूत्रम्
ग्रामेषु नगरेषु चाऽऽर्याज्छुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात् ॥४॥
टिप्पनी
आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषानू ग्रामेषु नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जति ॥ ४॥
05 तेषाम् पुरुषास्तथागुणा एव ...{Loading}...
तेषां पुरुषास्तथागुणा एव स्युः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Their servants shall possess the same qualities.
हरदत्त-टीका
सूत्रम्
तेषां पुरुषास्तथागुणा एव स्युः॥ ५॥
टिप्पनी
तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव स्युः ॥५॥
06 सर्वतो योजनन् नगरन् ...{Loading}...
सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- They must protect a town from thieves in every direction to the distance of one yojana. 5
हरदत्त-टीका
सूत्रम्
सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६॥
टिप्पनी
सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नित्यपपाठः ॥६॥
07 क्रोशो ग्रामेभ्यः ...{Loading}...
क्रोशो ग्रामेभ्यः ७
08 तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ...{Loading}...
तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- They must be made to repay what is stolen within these (boundaries). 8
हरदत्त-टीका
सूत्रम्
तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥
टिप्पनी
तत्र योजनमाने क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामिभ्यस्तत्प्रतिदद्यू राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठयं वकारं पठन्ति ॥ ८॥
09 धार्म्यं शुल्कमवहारयेत् ...{Loading}...
धार्म्यं शुल्कमवहारयेत् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- The (king) shall make them collect the lawful taxes (śulka). 9
हरदत्त-टीका
सूत्रम्
धार्म्यं शुल्कमवहारयेत् ॥ ९ ॥
टिप्पनी
तत्र गौतमः—
10‘विंशतिभागश्शुल्कः पण्ये’ इति । यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा। एष धार्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु विशेषस्तेनैवोक्तः—
11 मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षाष्टिक्य’मिति ॥ ९ ॥
10 अकरः श्रोत्रियः ...{Loading}...
अकरः श्रोत्रियः १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- A learned Brāhmaṇa is free from taxes, 12
हरदत्त-टीका
सूत्रम्
अकरः श्रोत्रियः ॥ १० ॥
टिप्पनी
श्रोत्रियः करं न दाप्यः । अन्ये दाप्याः ॥१०॥
11 सर्ववर्णानाञ् च स्त्रियः ...{Loading}...
सर्ववर्णानां च स्त्रियः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And the women of all castes, 13
हरदत्त-टीका
सूत्रम्
सर्ववर्णानां च स्त्रियः ॥ ११ ॥
टिप्पनी
अकराः । वर्णग्रहणात् प्रतिलोमादिस्त्रियो दाप्याः ॥११॥
12 कुमाराश्च प्राग् व्यञ्जनेभ्यः ...{Loading}...
कुमाराश्च प्राग् व्यञ्जनेभ्यः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And male children before the marks (of puberty appear),
हरदत्त-टीका
सूत्रम्
कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥
टिप्पनी
व्यञ्जनानि श्मश्र्वादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥
13 ये च विद्यार्था ...{Loading}...
ये च विद्यार्था वसन्ति १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And those who live (with a teacher) in order to study,
हरदत्त-टीका
सूत्रम्
ये च विद्यार्था वसन्ति ॥ १३ ॥
टिप्पनी
विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा अकराः ॥ १३ ॥
14 तपस्विनश्च ये धर्मपराः ...{Loading}...
तपस्विनश्च ये धर्मपराः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And those who perform austerities, being intent on fulfilling the sacred law, 14
हरदत्त-टीका
सूत्रम्
तपस्विनश्च ये धर्मपराः ॥ १४ ॥
टिप्पनी
तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः। धर्मपरा , अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्रासिद्धये तपस्तप्यन्ते ते अकरा मा भूवन्निति ॥१४॥
15 शूद्रश्च पादावनेक्ता ...{Loading}...
शूद्रश्च पादावनेक्ता +++(= पादधावनजीवी)+++ १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And a Śūdra who lives by washing the feet,
हरदत्त-टीका
सूत्रम्
शुद्रश्च पादावनेक्ता ॥ १५ ॥
टिप्पनी
यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥१५॥
16 अन्धमूकबधिररोगविष्टाश्च ...{Loading}...
अन्धमूकबधिररोगविष्टाश्च १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Also blind, dumb, deaf, and diseased persons (as long as their infirmities last),
हरदत्त-टीका
सूत्रम्
अन्धमूकबधिररोगाविष्टाश्च ॥१६॥
टिप्पनी
एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥
17 ये व्यर्था द्रव्यपरिग्रहैः ...{Loading}...
ये व्यर्था +++(=मुक्ताश् शास्त्रैः)+++ द्रव्यपरिग्रहैः १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And those to whom the acquisition of property is forbidden (as Sannyāsins).
हरदत्त-टीका
सूत्रम्
ये व्यर्था द्रव्यपरिग्रहैः ॥ १७॥
टिप्पनी
ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः।
तथा च वसिष्ठः—
7“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्रशान्ता” इति ॥ १७॥
18 अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन्कुमारीं ...{Loading}...
अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- A young man who, decked with ornaments, enters unintentionally (a place where) a married woman or a (marriageable) damsel (sits), must be reprimanded. 15
हरदत्त-टीका
सूत्रम्
अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन् कुमारीं वा वाचा बाध्यः ॥१८॥
टिप्पनी
यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अबुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते,माऽत्र प्रविशेति ॥१८॥
19 बुद्धिपूर्वन् तु दुष्टभावो ...{Loading}...
बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- But he does it intentionally with a bad purpose, he must be fined. 16
हरदत्त-टीका
सूत्रम्
बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः ॥ १९ ॥
टिप्पनी
यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानुरूपमपराधानुरूपं च । दुष्टभावग्रहणमाचार्यादिप्रेषितस्य प्रवेशे दण्डो मा भूदिति ॥१९॥
20 सन्निपाते वृत्ते शिश्नच्छेदनं ...{Loading}...
संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has actually committed adultery, his organ shall be cut off together with the testicles.
हरदत्त-टीका
सूत्रम्
सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥
टिप्पनी
सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदनं दण्डः । सवृषणस्येत्युपसर्जनस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥२०॥
21 कुमार्यान् तु स्वान्यादाय ...{Loading}...
कुमार्यां तु स्वान्यादाय नाश्यः २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- But (if he has had intercourse) with a (marriageable) girl, his property shall be confiscated and he shall be banished.
हरदत्त-टीका
सूत्रम्
कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥
टिप्पनी
कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न शिश्नच्छेदः ॥ २१ ॥
22 अथ भृत्ये राज्ञा ...{Loading}...
अथ +++(परदार-कुमार्यौ)+++ भृत्ये राज्ञा २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Afterwards the king must support (such women and damsels),
हरदत्त-टीका
सूत्रम्
अथ भृत्ये राज्ञा ॥ २२ ॥
टिप्पनी
अथ सन्निपानात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्ये ग्रासाच्छादनप्रदानेन भर्तव्ये ॥ २२ ॥
23 रक्ष्ये चात ऊर्ध्वम् ...{Loading}...
रक्ष्ये चात ऊर्ध्वं मैथुनात् २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And protect them from defilement.
हरदत्त-टीका
सूत्रम्
रक्ष्ये चाऽत ऊर्ध्वं मैथुनात् ॥ २३ ॥
टिप्पनी
अतः प्रथमात् सन्निपातात् ऊर्ध्वं मैथुनाच्च रक्ष्ये यथा पुनः मैथुनं नाचरतस्तथा कार्ये ॥ २३ ॥
24 निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ...{Loading}...
निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If they agree to undergo the (prescribed) penance, he shall make them over to their (lawful) guardians. 17
हरदत्त-टीका
सूत्रम्
निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥
टिप्पनी
यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छत्तः तदा निर्वेषाभ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदारं भर्त्रे श्वशुराय वा, कुमारीं पित्रे भ्रात्रे वा। अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः ॥ २१ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने षड्विंशी कण्डिका ॥ २६ ॥
-
- Manu VII, 83, 84, 88; Yājñ. I, 314.
-
According to Haradatta the king’s body represents the post (yūpa), his soul the sacrificial animal, the recovered property the reward for the priests or fee. ↩︎
-
Manu VII, 89; Yājñ. I, 323, 324. ↩︎
-
Manu VII, 115-124; Yājñ. I, 321. ↩︎
-
Yājñ. II, 271-272. A yojana is a distance of 4 krośa, kos. ↩︎
-
A krośa, kos, or gāu, literally ’the lowing of a cow,’ is variously reckoned at 1½-4 miles. ↩︎
-
Yājñ. I, 272. This law is, with certain modifications, still in force. See Bombay Regulations, XII, 27 par. ↩︎
-
According to Haradatta, who quotes Gautama in his commentary, the śulka is the 1/20th part of a merchant’s gains. On account of the Sūtras immediately following, it is, however, more probable that the term is here used as a synonym of ‘kara,’ and includes all taxes. ‘Lawful’ taxes are, of course, those sanctioned by custom and approved of by the Smṛtis. ↩︎
-
गौ० ध० १०. २६. ↩︎
-
गौ०ध० १०,२७. ↩︎
-
Manu VII, 133. ↩︎
-
Haradatta thinks that the rule applies to women of the Anuloma, the pure castes, only. ↩︎
-
‘Why does be say “intent on fulfilling the holy law?” Those shall not be free from taxes who perform austerities in order to make their magic charms efficacious.’–Haradatta. ↩︎
-
The ornaments would indicate that he was bent on mischief. Compare above, I, 11, 32, 6. ↩︎
-
‘The punishment must be proportionate to his property and the greatness of his offence. The term “with a bad purpose” is added, because he who has been sent by his teacher (to such a place) should not be punished.’–Haradatta. Manu VIII, 354; Yājñ. II, 284. ↩︎
-
‘I.e. a married woman to her husband or father-in-law an unmarried damsel to her father or to her brother.’–Haradatta. ↩︎