01 व्याख्याताः सर्ववर्णानां साधारणवैशेषिका ...{Loading}...
व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्वक्ष्यामः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- The general and special duties of all castes have been explained. But we will now declare those of a king in particular.
हरदत्त-टीका
सूत्रम्
व्याख्यातास्सर्ववर्णानां साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १॥
टिप्पनी
उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृबुद्धिसमाधानार्थम् । अहिंसासत्यास्तेयादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापनादयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्यादयो वैश्यस्य । शुश्रूषा शूद्रस्य । राजाऽत्राभिषिक्तो विविक्षितः। तस्यैव हि वक्ष्यमाणं धर्मजातं सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति द्वितीयान्तपाठस्तु युक्तः॥१॥
02 दक्षिणाद्वारं वेश्म पुरञ् ...{Loading}...
दक्षिणाद्वारं वेश्म पुरं च मापयेत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall cause to be built a town and a palace, the gates of both of which (must look) towards the south.
हरदत्त-टीका
सूत्रम्
दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥ २॥
टिप्पनी
वेश्म गृहं पुरं नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थपत्यादिभिः । दक्षिणपार्श्वे द्वारं यस्य तत्तथोक्तम् ॥ २ ॥
03 अन्तरस्याम् पुरि वेश्म ...{Loading}...
अन्तरस्यां पुरि वेश्म ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The palace (shall stand) in the heart of the town. 1
हरदत्त-टीका
सूत्रम्
अन्तरस्यां पुरि वेश्म ॥ ३ ॥
टिप्पनी
सर्वेषामेव प्राकाराणां मध्ये या पुस्तस्यामन्तरस्यां पुरि वेश्म मापयेदात्मनः ॥३॥
04 तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ...{Loading}...
तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- In front of that (there shall be) a hall. That is called the hall of invitation.
हरदत्त-टीका
सूत्रम्
तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ॥ ४॥
टिप्पनी
तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यस्मिन्नित्यावसथः आस्थानमण्डपः। तस्यामन्त्रणमिति संज्ञा2 ॥४॥
05 दक्षिणेन पुरं सभा ...{Loading}...
दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (At a little distance) from the town to the south, (he shall cause to be built) an assembly-house with doors on the south and on the north sides, so that one can see what passes inside and outside.
हरदत्त-टीका
सूत्रम्
दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं सन्दृश्येत बहिरन्तरं चेति ॥५॥
टिप्पनी
दक्षिणेनेत्येनबन्तम् । पुरमिति3 ‘एनपा द्वितीये’ति द्वितीयान्तम् । पुरस्य दक्षिणतः अदूरे सभा कारयितव्या। दक्षिणोदग्द्वारा दक्षिणस्यामुत्तरस्यां च दिशि द्वारं यस्यास्सा तथोक्ता। किमर्थमुभयत्र द्वारमिति चेत् । यद्बहिर्वृत्तं यच्चाऽभ्यन्तर तदुभयमपि यथा सन्दश्येतेत्येवमर्थमिति । सैषा द्यूतसभा । तस्यां धूतार्थिनः प्रविशन्तीति तदायस्थानं राज्ञः ॥ ५॥
06 सर्वेष्वेवाजस्रा अग्नयः स्युः ...{Loading}...
सर्वेष्वेवाजस्रा अग्नयः स्युः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- In all (these three places) fires shall burn constantly. 4
हरदत्त-टीका
सूत्रम्
सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥६॥
टिप्पनी
वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्नयोऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६॥
07 अग्निपूजा च नित्या ...{Loading}...
अग्निपूजा च नित्या यथा गृहमेधे ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And oblations must be offered in these fires daily, just as at the daily sacrifice of a householder. 5
हरदत्त-टीका
सूत्रम्
अग्निपूजा च नित्या यथा गृहमेधे ॥ ७॥
टिप्पनी
तेषु चाग्निषु नित्यमग्निपूजा कार्या। यथा गृहमेधे औपासने सायंप्रातर्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७॥
08 आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ...{Loading}...
आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the hall he shall put up his guests, at least those who are learned in the Vedas. 6
हरदत्त-टीका
सूत्रम्
आवसथे श्रोत्रियावरार्ध्यानतिथीन् वासयेत् ॥ ८॥
टिप्पनी
आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावरार्ध्यानिति । अवरपर्यायोऽवरार्ध्यशब्दः । यदि सर्वान्वासयितुं न शक्नोति श्रोत्रियानपि तावद्वासयेदिति ॥ ८॥
09 तेषां यथागुणमावसथाः शय्यान्नपानञ् ...{Loading}...
तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Rooms, a couch, food and drink should be given to them according to their good qualities.
हरदत्त-टीका
सूत्रम्
तेषां यथागुणमावसथाः शय्याऽन्नपानं च विदेयम् ॥९॥
टिप्पनी
तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेयं विशेषेण देयम् । आवसथा अपवरकादयः । शय्या खट्वादयः । अन्नमोदनादि। पान2 तक्रादि ॥९॥
१. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.
10 गुरूनमात्यांश्च नातिजीवेत् ...{Loading}...
गुरूनमात्यांश्च नातिजीवेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not live better than his Gurus or ministers. 7
हरदत्त-टीका
सूत्रम्
गुरूनमात्यांश्च नातिजीवेत् ॥१०॥
टिप्पनी
गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छादनादिषु तान्नाऽतिशयीत ॥ १० ॥
11 न चास्य विषये ...{Loading}...
न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And in his realm no (Brāhmaṇa) should suffer hunger, sickness, cold, or heat, be it through want, or intentionally. 8
हरदत्त-टीका
सूत्रम्
न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽवसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ॥११॥
टिप्पनी
अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः। एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिदब्राह्मणोऽप्यवसीदेत् अवसन्नो न स्यात् । राज्ञो हयमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् । बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति, तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः। तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥
12 सभाया मध्ये ऽधिदेवनमुद्धत्या ...{Loading}...
सभाया मध्ये ऽधिदेवनमुद्धत्या ऽऽवोक्ष्या ऽऽक्षान् निवपेद् युग्मान् वैभीतकान्यथार्थान् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the midst of the assembly-house, (the superintendent of the house) shall raise a play-table and sprinkle it with water, turning his hand downwards, and place on it dice in even numbers, made of Vibhītaka (wood), as many as are wanted.
हरदत्त-टीका
सूत्रम्
सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षान्निवपेद्युग्मान् वैभीतकान् यथार्थान् ॥ १२ ॥
टिप्पनी
पूर्वोक्तायाः सभाया मध्ये अधिदेवनं यस्योपरि कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम् । तत् पूर्वं काष्ठादिना उद्धन्ति उद्धत्यावोक्षति । अवोक्ष्य तत्राऽक्षान् युग्मसङ्ख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान् यथार्थान् यावद्भिर्द्यूतं निर्वर्तते, तावतो निवपति । कः ? यस्तत्र राज्ञा नियुक्तः सभिको नाम ॥ १२॥
13 आर्याः शुचयः सत्यशीला ...{Loading}...
आर्याः शुचयः सत्यशीला दीवितारः स्युः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Men of the first three castes, who are pure and truthful, may be allowed to play there. 9
हरदत्त-टीका
सूत्रम्
आर्याः शुचयस्सत्यशीला दीवितारस्स्युः ॥ १३॥
टिप्पनी
आर्याः द्विजातयः । 2शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः। त एव तत्र दीव्येयुरित्यर्थः । ते च तत्र देवित्वा यथाभाषितं पणं सभिकाय दत्वा गच्छेयुः। स च राज्ञे तमायमहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्यः—
3 ‘ग्लहे शतिकवृद्धस्तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् ॥
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमुद्ग्राहयेज्जैत्रं दद्यात्सत्यं वचः क्षमी ॥ इति ॥ १३॥
14 आयुधग्रहणन् नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र ...{Loading}...
आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Assaults of arms, dancing, singing, music, and the like (performances) shall be held only (in the houses) of the king’s servants. 10
हरदत्त-टीका
सूत्रम्
आयुधग्रहणे नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् ॥ १४ ॥
टिप्पनी
आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विद्येरन् न भवेयुः । उत्सवादिष्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥
15 क्षेमकृद्राजा यस्य विषये ...{Loading}...
क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- That king only takes care of the welfare of his subjects in whose dominions, be it in villages or forests, there is no danger from thieves. 11
हरदत्त-टीका
सूत्रम्
क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥
टिप्पनी
यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति स एव राजा क्षेमकृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥ १५ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चविंशी काण्डिका ॥ २५ ॥
इति नवमः पटलः
-
- ‘In the heart of the town, i.e. in that town which is surrounded by all the walls.’–Haradatta. Compare Manu VII, 76.
-
According to Haradatta, the fires are to be common, not consecrated ones. ↩︎
-
Manu VII, 78; Yājñ. I, 313. ↩︎
-
Manu VII, 82 seq. ↩︎
-
‘The Gurus are the father and other (venerable relations).’–Haradatta. ↩︎
-
Manu VII, 134. ‘Or intentionally; with reference to that the following example may be given. If anybody is to be made to pay his debts or taxes, then he is to be exposed to cold or heat, or to be made to fast (until he pays). The king shall punish (every one) who acts thus.’–Haradatta. ↩︎
-
Having played there, they shall give a fixed sum to the gambling-house keeper and go away. The latter shall, every day or every month or every year, give that gain to the king. And the king shall punish those who play elsewhere or quarrel in the assembly-house.’–Haradatta. ↩︎
-
‘At festivals and the like occasions (these performances) take place also elsewhere, that is the custom.’–Haradatta. ↩︎
-
Manu VII, I 43, and passim; Yājñ. 1, 335. ↩︎