01 अथाप्यस्य प्रजातिम् अमृतम् ...{Loading}...
अथाप्यस्य प्रजातिम्
अमृतम् आम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृतमिति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now the Veda declares also one’s offspring to be immortality (in this verse): ‘In thy offspring thou art born again, that, mortal, is thy immortality.’
हरदत्त-टीका
सूत्रम्
अथाप्यस्य प्रजातिममृतमानाय आह—
प्रजामनु प्रजायसे तदु ते मत्थोऽमृतामिति ॥ १ ॥
प्रस्तावः
पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति—
टिप्पनी
अथाऽपि अपि च अस्य गृहस्थस्य प्रजापतिं प्रजासन्तानम् अमृतम् अमरमणम् आम्नायो वेद आह हे मर्त्य मरणधर्मन् ! प्रजां जायमानामनु त्वं प्रजायसे त्वमेव प्रजारूपेण जायसे । तदेव ते मरणधर्मिणः अमृतममरणमिति । न त्वं म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १॥
02 अथापि स एवायं ...{Loading}...
अथापि - स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now it can also be perceived by the senses that the (father) has been reproduced separately (in the son); for the likeness (of a father and of a son) is even visible, only (their) bodies are different.
हरदत्त-टीका
सूत्रम्
अथाऽपि स एवाऽयं विरूढः पृथक्प्रत्यक्षेणोपलभ्यते दृश्यते चाऽपि सारूप्यं देहत्वमेवाऽन्यत् ॥ २ ॥
प्रस्तावः
उपपन्नं चैतदित्याह—
टिप्पनी
अपि च स एवाऽय पृथग्विरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्यं द्वयोः । देहमात्रं तु भिन्नम् । देहत्वमिति स्वार्थिकस्त्वः ॥ २॥
03 ते शिष्टेषु कर्मसु ...{Loading}...
ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- ‘These (sons) who live, fulfilling the rites taught (in the Veda), increase the fame and heavenly bliss of their departed ancestors.’
हरदत्त-टीका
सूत्रम्
ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गं च वर्धयन्ति ॥ ३ ॥
प्रस्तावः
यदि पुत्ररूपेणाऽवस्थानं, किमेतावतेत्याह—
टिप्पनी
ते पुत्राश्शिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिताः पूर्वेषां पितृपितामहादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्तिं स्वर्गं च वर्धयन्ति— अस्याऽयं पुत्र एवं कर्मा, अस्याऽयं पौत्र इति । स्वर्गं च वर्धयन्ति । कीर्तिमतां हि स्वर्गवासश्श्रूयते ॥ ३ ॥
04 एवमवरोऽवरः परेषाम् ...{Loading}...
एवमवरोऽवरः परेषाम् +++(=पूर्विकाणाम्)+++ ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- ‘In this manner each succeeding (generation increases the fame and heavenly bliss) of the preceding ones.’
हरदत्त-टीका
सूत्रम्
एवमवरोऽवरः परेषाम् ॥ ४॥
टिप्पनी
एवमनेन प्रकारेण अवरोऽवर परेषां कीर्तिं स्वर्गं च वर्धयति ॥ ४॥
05 आ भूतसम्प्लवात् ते ...{Loading}...
आ भूतसंप्लवात् ते स्वर्गजितः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- ‘They (the ancestors) live in heaven until the (next) general destruction of created things.’
हरदत्त-टीका
सूत्रम्
आभूतसम्प्लवात्ते स्वर्गजितः ॥५॥
टिप्पनी
भूतसम्प्लवो महाप्रलयः । आ तस्मात्ते पुत्रिणस्स्वर्गजितो भवन्ति ते च ५
06 पुनः सर्गे बीजार्था ...{Loading}...
पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the new creation (of, the world) they become the seed. That has been declared in the Bhaviṣyatpurāṇa. 1
हरदत्त-टीका
सूत्रम्
पुनस्सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ॥६॥
टिप्पनी
प्रलयानन्तरं सर्गः, तत्र संसारस्य बीजार्थाः प्रजार्थाः प्रजापतयो भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥
07 अथापि प्रजापतेर्वचनम् ...{Loading}...
अथापि प्रजापतेर्वचनम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now Prajāpati also says,
हरदत्त-टीका
सूत्रम्
अथाऽपि प्रजापतेर्वचनम् ॥ ७॥
टिप्पनी
अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गार्हस्थ्यमेव वरिष्ठमिति ॥७॥
08 त्रयीं विद्याम् ब्रह्मचर्यम् ...{Loading}...
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- ‘Those dwell with us who fulfil the following (duties): the study of the three Vedas, the studentship, the procreation of children, faith, religious austerities, sacrifices, and the giving of gifts. He who praises other (duties), becomes dust and peṛṣes.’ 2
हरदत्त-टीका
सूत्रम्
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति ॥ ८॥
टिप्पनी
त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजातिं प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यज्ञमग्निहोत्रादिकं सोमयागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित् तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः। अन्यत्तु ऊर्ध्वरेतसामाश्रमादिकं प्रशंसन् पुरुषो रजः पांसुर्भूत्वा ध्वंसते नश्यति । इतिशब्दो व वनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेषां कीर्तिं स्वर्गं च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमानां अकीर्तिं नरकं च वर्धयेयुः॥८॥
09 तत्र ये पापकृतस्त ...{Loading}...
तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Those among these (sons) who commit sin, peṛṣ alone, just as the leaf of a tree (which has been attacked by worms falls without injuring its branch or tree). They do not hurt their ancestors.
हरदत्त-टीका
सूत्रम्
तत्र ये पापकृतस्त एवं ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान् हिंसन्ति ॥ ९॥
प्रस्तावः
तत्राऽऽह—
टिप्पनी
तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव ध्वंसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पर्णं वनस्पतेः कीटादिभिर्दूषितं तदेव पतति, न वनस्पतिं शाखान्तरं वा पातयति तद्वत् ॥९॥
10 नास्यास्मिंल् लोके कर्मभिः ...{Loading}...
नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (For) the (ancestor) has no connection with the acts committed (by his descendant) in this world, nor with their results in the next.
हरदत्त-टीका
सूत्रम्
नाऽस्याऽस्मिँल्लोके कर्मभिस्सम्बन्धो विद्यते तथा परस्मिन् कर्मफलैः ॥१०॥
प्रस्तावः
एतदेवोपपादयति—
टिप्पनी
अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य आस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः॥ १० ॥
11 तदेतेन वेदितव्यम् ...{Loading}...
तदेतेन वेदितव्यम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The truth of) that may be known by the following (reason):
हरदत्त-टीका
सूत्रम्
तदेतेन वेदितव्यम् ॥ ११ ॥
टिप्पनी
यदुक्तं ये पापकृतस्त एव ध्वंसन्ति न परान् हिंसन्तीति तदर्थरूपमेतेन वक्ष्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥
12 प्रजापतेरृषीणामिति सर्गोऽयम् ...{Loading}...
प्रजापतेरृषीणामिति सर्गोऽयम् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- This creation (is the work) of Prajāpati and of the sages.
हरदत्त-टीका
सूत्रम्
प्रजापतेर्ऋषीणामिति सर्गोऽयम् ॥१२॥
टिप्पनी
प्रजापतेर्हिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामयं सर्गो देवादिस्तिर्यगन्तः । ते चाऽध्वस्ता एच स्वे स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः स्वयं ध्वंसमानाः परानपि ध्वंसयेयुः, सदैतन्नोपपद्यते— पुण्यकृतः सुखेनाऽद्यापि वर्तन्ते इति ॥ १२॥
13 तत्र ये पुण्यकृतस्तेषाम् ...{Loading}...
तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The bodies of those (sages) who stay there (in heaven) on account of their merits appear visibly most excellent and brilliant (as, for instance, the constellation of the seven Ṛṣis). 3
हरदत्त-टीका
सूत्रम्
तत्र ये पुण्यकृतस्तेषां प्रकृतयःपरा ज्वलन्त्य उपलभ्यन्ते ॥ १३ ॥
प्रस्तावः
अत्रोदाहरणमाह—
टिप्पनी
तत्र स्वर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः ज्वलन्त्यः दीप्यमाना उपलभ्यन्ते, दिवि यथा सप्तर्षिमण्डलम् । श्रूयते च4 ‘सुकृतां वा एतानि ज्योतींषि, यन्नक्षत्राणी’ति । इदमपि प्रमाणं न पुत्राणां ध्वंसे पूर्वेषां प्रध्वंस इति ॥ १३ ॥
14 स्यात्तु कर्मावयवेन तपसा ...{Loading}...
स्यात् तु कर्मावयवेन तपसा वा कश्चित् सशरीरो ऽन्वन्तं लोकं जयति, सङ्कल्पसिद्धिश् च स्यान् - न तु तज् ज्यैष्ठ्यम् आश्रमाणाम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- But even though some (ascetic), whilst still 5 in the body, may gain heaven through a portion of (the merit acquired by his former) works or through austerities, and though he may. accomplish (his objects) by his mere wish, still this is no reason to place one order before the other.
हरदत्त-टीका
सूत्रम्
स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्तवन्तं लोकं जयति सङ्कल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥
टिप्पनी
कर्मावयवेन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीव्रेण कश्चिदूर्ध्वरेतास्सहशरीरेणाऽन्तवन्तं लोकं जयतीति यत्तत् स्यात् सम्भवेदपि । यश्च सङ्कल्पादेव सिद्धिस्स्यादिति, तदपि स्यात् न तु तदाश्रमाणां ज्यैष्ठ्यकारणमिति । तदेव “मैकाश्रम्यं त्वाचार्या’ इत्ययमेव पक्षः स्थापितः । अन्ये मन्यन्ते-सर्वे आश्रमा दूषिताः भूषिताश्च । ततस्तेषु सर्वेषु यथोपेदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्येतदेव स्थितमिति ॥ १४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विशी कण्डिका॥ १७ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायां उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥
-
- ‘They become the seed,’ i.e. ‘The Prajāpatis.’
-
‘Other (duties), i.e. the order of ascetics and the like.’–Haradatta. ↩︎
-
As the Ṛṣis have not lost heaven through the sins of their sons, the dogma according to which ancestors lose heaven through the sins of their sons, must be false. ↩︎
-
तै० सं० ५.५ १. ↩︎
-
Āpastamba’s own opinion is apparently against pure asceticism. ↩︎