01 विलयनम् मथितम् पिण्याकम् ...{Loading}...
विलयनं +++(=नवनीत-मलम्)+++, मथितं, पिण्याकं, +++(=तैलोत्पादनावशेषः)+++ मधु, मांसं च वर्जयेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid butter, butter-milk, oil-cake, honey, meat. 1
हरदत्त-टीका
सूत्रम्
विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥
टिप्पनी
विलयनं नवनीतमलम् । यस्य दध्नो हस्तादिना मन्थनमात्रं न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्टुकाः—
2 तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलमिति।
यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमासे प्रसिद्धे मांसमप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥
02 कृष्णधान्यं शूद्रान्नं ये ...{Loading}...
कृष्ण-धान्यं, शूद्रान्नं, ये चान्ये नाश्य-संमताः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And black grain (Such as kulittha), food given by Śūdras, or by other persons, whose food is not considered fit to be eaten.
हरदत्त-टीका
सूत्रम्
कृष्णधान्यं शूद्रान्नं ये चान्येऽनाश्यसम्मताः ॥ २ ॥
टिप्पनी
कृष्णधान्य3माषादिः । न कृष्णा व्रीहयः । शूद्रान्न पक्वमपक्वं च। ये चान्येऽनाश्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥
03 अहविष्यमनृतङ् क्रोधं येन ...{Loading}...
अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And food unfit for oblations, speaking an untruth, anger, and (acts or words) by which he might excite anger. He who desires a (good) memory, fame, wisdom, heavenly bliss, and prosperity, shall avoid these twelve (things and acts);
हरदत्त-टीका
सूत्रम्
4अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३॥
टिप्पनी
अहविष्य कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृतेनोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥३॥
सूत्रम्
स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत् ॥ ४ ॥
टिप्पनी
स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽनुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादेरपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥४॥
04 अधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः ...{Loading}...
अधो-नाभ्य्–उपरि-जान्व्-आच्छाद्य त्रि-षवणम् उदकम् उपस्पृशन्न्
अनग्नि-पक्व-वृत्तिर् अच्छायोपगः स्थानासनिकः संवत्सरम् एतद् व्रतं चरेत् ।
एतद् अष्टा-चत्वारिंशत् संमितम् इत्य् आचक्षते ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Wearing a dress that reaches from the navel to the knees, bathing morning, noon, and evening, living on food that has not been cooked at a fire, never seeking the shade, standing (during the day), and sitting (during the night), he shall keep this vow for one year. They declare, that (its merit) is equal to that of a studentship continued for forty-eight years.
हरदत्त-टीका
सूत्रम्
अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्ननग्निपक्ववृत्तिरच्छायोपगतस्थानासनिकस्संवत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्सम्मितमित्याचक्षते ॥ ५॥
टिप्पनी
अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवणं त्रिषु सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नानं कुर्वन् । अनग्निपक्ववृत्तिः, वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात् कालपक्वस्याऽऽम्रादेरदोषः । अच्छायोपगतः छायामनुपगच्छन् । स्थानासनिकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदाचिच्छयनम् । एतत् ‘विलयनं मथित’मित्यारभ्याऽनन्तरमुक्तं संवत्सरं व्रतं चरेत् । एतद्व्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मितं सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवलं स्मृत्यादिकमेव प्रयोजनमिति।
अपर आह- ‘विलयनं मथित’मित्यादिकं व्रतान्तरं स्मृत्यादिकामस्य। ‘अधोनाभी’त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारिणो गृहस्थस्य च भवति ।
तथा च बौधायनः
2 ‘अष्टाचत्वारिंशत्सम्मितमित्याचक्षते तस्य सक्षेपः संवत्सरः। तं संवत्सरमनुव्याख्यास्यामः-स यदि ब्रह्मचारी स्यान्नियमेव प्रतिपद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयित्वा तीर्थं गत्वा स्नात्वे’त्यादि ॥ ५ ॥
05 नित्यश्राद्धम् ...{Loading}...
नित्य-श्राद्धम् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Now follows) the daily funeral-oblation. 5
हरदत्त-टीका
सूत्रम्
नित्यश्राद्धम् ॥ ६॥
टिप्पनी
अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥
06 बहिर्ग्रामाच्छुचयः शुचौ देशे ...{Loading}...
बहिर्ग्रामाच् छुचयः शुचौ देशे संस्कुर्वन्ति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Outside the village pure (men shall) prepare (the food for that rite) in a pure place. 6
हरदत्त-टीका
सूत्रम्
बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७॥
टिप्पनी
तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व मेव प्रायत्यस्य विहितत्वात् ॥ ७॥
07 तत्र नवानि द्रव्याणि ...{Loading}...
तत्र नवानि द्रव्याणि +++(=वक्ष्यमाणानि भाण्डादीनि)+++ ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- New vessels are, used for that, 7
हरदत्त-टीका
सूत्रम्
तत्र नवानि द्रव्याणि ॥ ८ ॥
टिप्पनी
तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८॥
08 यैरन्नं संस्क्रियते येषु ...{Loading}...
यैर् अन्नं संस्क्रियते येषु च भुज्यते ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- In which the food is prepared, and out of which it is eaten.
हरदत्त-टीका
सूत्रम्
यैरन्नं संस्क्रियते येषु च भुज्यते ॥९॥
प्रस्तावः
कानि पुनस्तानि ?
टिप्पनी
यैर्भाण्डैरत्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥९॥
09 तानि च भुक्तवद्भ्यो ...{Loading}...
तानि च भुक्तवद्भ्यो दद्यात् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And those (vessels) he shall present to the (Brāhmaṇas) who have been fed.
हरदत्त-टीका
सूत्रम्
तानि च भुक्तवद्भयो दद्यात् ॥ १० ॥
टिप्पनी
तानि भाण्डानि कांस्यादीनि च भुक्तवद्भयो ब्राह्मणेभ्यो दद्यात् । एवं प्रत्यहम् ॥१०॥
10 समुदेतांश्च भोजयेत् ...{Loading}...
समुदेतांश् च भोजयेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall feed (Brāhmaṇas) possessed of all (good qualities).
हरदत्त-टीका
सूत्रम्
समुदेतांश्च भोजयेत् ॥ ११ ॥
टिप्पनी
समुदेतवचनं गुणाधिक्यार्थम् ॥ ११ ॥
11 न चातद्गुणायोच्छिष्टम् प्रयच्छेत् ...{Loading}...
न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall hot give the residue (of that funeral-dinner) to one who is inferior to them in good qualities.
हरदत्त-टीका
सूत्रम्
न चाऽतद्गुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥
टिप्पनी
भाण्डेषु यत भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाय भुक्तवतां ये गुणास्तद्रहिताय न दद्यात् तद्गुणायैव दद्यादिति2 ॥ १२ ॥
12 एवं संवत्सरम् ...{Loading}...
एवं संवत्सरम् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Thus (he shall act every day) during a year.
हरदत्त-टीका
सूत्रम्
एवं संवत्सरम् ॥ १३ ॥
टिप्पनी
एवमेतन्नित्यश्राद्धं सवत्सरं कर्तव्यमहरहः ॥ १३ ॥
13 तेषामुत्तमं लोहेनाजेन कार्यम् ...{Loading}...
तेषाम् उत्तमं लोहेनाजेन कार्यम् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The last of these (funeral-oblations) he shall perform, offering a red goat. 8
हरदत्त-टीका
सूत्रम्
तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥
टिप्पनी
तेषां संवत्सरस्याऽह्नां उत्तममहस्समाप्तिदिनम् । लोहेन लोहितवर्णन अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नर्थे लोहशब्दः-3 ‘लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वेति । चमकेषु च भवति 4 ‘श्यामं च मे लोहं च म’ इति ॥ १४ ॥
14 मानञ् च कारयेत्प्रतिच्छन्नम् ...{Loading}...
मानं +++(=वेदीं)+++ च कारयेत् प्रतिच्छन्नम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And let him cause an altar to be built, concealed (by a covering and outside the village).
हरदत्त-टीका
सूत्रम्
मानं च कारयेत्प्रतिच्छन्नम् ॥ १५ ॥
टिप्पनी
मानं धिष्ण्वं वेदिका । दृश्यते हि मिनोतेरस्मिन्नर्थे प्रयोगः अग्रेणाऽऽग्नीध्रं चतुर उपस्नावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चान्निनुतमि’ति । स एवायमुपसर्गरहितस्य प्रयोगः । तं मानं कारयेत् कर्मकरैः, प्रतिच्छन्नं च तद्भवति तिरस्करिण्यादिना । इदमपि ग्रामाद्बहिरेव ॥
15 तस्योत्तरार्धे ब्राह्मणान्भोजयेत् ...{Loading}...
तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him feed the Brāhmaṇas on the northern half of that.
हरदत्त-टीका
सूत्रम्
तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥
टिप्पनी
तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः ॥ १६ ॥
16 उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने ...{Loading}...
उभयान् पश्यति - ब्राह्मणांश् च भुञ्जानान्, माने च पितॄन्
इत्य् उपदिशन्ति १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- They declare, that (then) he sees both the Brāhmaṇas who eat and the Manes sitting on the altar.
हरदत्त-टीका
सूत्रम्
उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान् माने च पितॄन्नित्युपदिशन्ति ॥१७॥
टिप्पनी
तस्यैवं कृतस्य कर्मणो महिम्ना उभयान् पश्यति, कांश्च कांश्च ब्राह्मणान्भुञ्जानान् तस्मिन्नेव च माने पितॄन् यथा ब्राह्मणान् भुजानान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितॄनपि प्रत्यक्षेण पश्यतीत्युपदिशन्ति धर्मज्ञाः ॥ १७॥
17 कृताकृतमत ऊर्ध्वम् ...{Loading}...
कृताकृतम् अत ऊर्ध्वम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that he may offer (a funeral-sacrifice once a month) or stop altogether.
हरदत्त-टीका
सूत्रम्
कृताकृनम् अत ऊर्ध्वम् ॥ १८ ॥
टिप्पनी
अत ऊर्ध्वं मासिश्राद्धं क्रियताम्, मा वा कारि । अकरणेऽपि न प्रत्यवाय इति ॥ १८॥
18 श्राद्धेन हि तृप्तिं ...{Loading}...
श्राद्धेन हि तृप्तिं वेदयन्ते पितरः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- For (by appearing on the altar) the Manes signify that they are satisfied by the funeral offering.
हरदत्त-टीका
सूत्रम्
श्राद्धेन तृप्तिं निवेदयन्ते पितरः ॥ १९ ॥
टिप्पनी
हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते ज्ञापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥
19 तिष्येण पुष्टिकामः ...{Loading}...
तिष्येण पुष्टि-कामः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Under the constellation Tiṣya he who desires prosperity,
हरदत्त-टीका
सूत्रम्
तिष्येण पुष्टिकामः ॥ २० ॥
प्रस्तावः
अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिरुच्छिष्टं दद्युरित्यन्त एकः ।
टिप्पनी
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्नेऽष्टादशी कण्डिका ॥ १८ ॥
-
- Sūtras 1-4 contain rules for a vow to be kept for the special objects mentioned in Sūtras 3 and 4 for one year only Haradatta (on Sūtra 4) says that another commentator thinks that Sūtras 1-3 prescribe one vow, and Sūtra 4 another, and that the latter applies both to householders and students. A passage front Baudhāyana is quoted in support of this latter view.
-
कुलुत्थादि इति घ. च. पुस्तकयोः, कृष्णकुलुत्थादि. इति ड, पु, ↩︎ ↩︎
-
‘अहविष्य’मित्यादि ‘वर्जये’दित्यन्तमेकसूत्रं क. पुस्तके परम् । ↩︎ ↩︎
-
Manu III, 82 seq. ↩︎
-
The term ‘pure (men)’ is used in order to indicate that they must be so particularly, because, by II, 2, 3, 11, purity has already been prescribed for cooks. ↩︎
-
For the unusual meaning of dravya, ‘vessel,’ compare the term sītādravyāṇi, ‘implements of husbandry,’–Manu IX, 293, and the Petersburg Dict. s. v. ↩︎
-
The red goat is mentioned as particularly fit for a Śrāddha, Yājñ. I, 259, and Manu III, 272. ↩︎