01 शक्तिविषयेण द्र व्याणि ...{Loading}...
शक्ति-विषयेण द्रव्याणि दत्वा वहेरन् - स आसुरः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the suitor pays money (for his bride) according to his ability, and marries her (afterwards), that (marriage is called) the Āsura-rite. 1
हरदत्त-टीका
सूत्रम्
शक्तिविषयेण द्रव्याणि दत्वाऽऽवहरेन् स आसुरः ॥१॥
टिप्पनी
यत्र विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्त्वाऽऽवहेरन् कन्यां स आसुरः । 2 ‘वित्तेनाऽऽनतिस्त्रीमतामासुर’ इति गौतमः। तेन कन्यायै गृहक्षेत्राभरणादिदानेन विवाहो नाऽऽसुरः ॥१॥
02 दुहितृमतः प्रोथयित्वा वहेरन्स ...{Loading}...
दुहितृमतः प्रोथयित्वा वहेरन् - स राक्षसः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the (bridegroom and his friends) take away (the bride), after having overcome (by force) her father (or relations), that is called the Rākṣasa-rite. 3
हरदत्त-टीका
सूत्रम्
दुहितृमतः प्रोथयित्वाऽऽवहेरन् स राक्षसः ॥२॥
टिप्पनी
दुहितृमतः कन्यावतः पित्रादीन् प्रोथयित्वा प्रमथ्य यत्राऽऽवहेरन् स राक्षसो विवाहः।
4 ‘हत्वा मित्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षस’ इत्याश्वलायनः । अत्रापि विवाहसंस्कारः कर्तव्यः। द्वौ चाऽपरौ विवाहौ शास्त्रान्तरेषुक्तौ । तत्राऽऽश्वलायनः-5 ‘सह धर्मं चरतमिति प्राजापत्यः । सुप्तां प्रमत्तां वाऽपहरेत् स पैशाच’ इति । ताविह पृथङ्नोक्तौ ब्राह्मराक्षसयोरन्तर्भावादिति ॥२॥
03 तेषान् त्रय आद्याः ...{Loading}...
तेषां त्रय आद्याः प्रशस्ताः, पूर्वः पूर्वः श्रेयान् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The first three amongst these (marriage-rites are considered) praiseworthy; each preceding one better than the one following. 6
हरदत्त-टीका
सूत्रम्
तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ॥ ३ ॥
टिप्पनी
तेषां विवाहानां मध्ये आद्यास्त्रयो ब्राह्मार्षदैवा प्रशस्ताः । तत्रापि पूर्वः पूर्वोऽतिशयेन प्रशस्त इति ॥ ३ ॥
04 यथा युक्तो विवाहस्तथा ...{Loading}...
यथा युक्तो विवाहस् - तथा युक्ता प्रजा भवति ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The quality of the offspring is according to the quality of the marriage-rite. 7
हरदत्त-टीका
सूत्रम्
यथायुक्तो विवाहस्तथा युक्ता प्रजा भवति ॥ ४ ॥
टिप्पनी
प्रशस्ते विवाहे जाता प्रजापि प्रशस्ता भवति । निन्दिते निन्दिता तत्र मनुः—
8ब्राह्मादिषु विवाहेषु चतुर्वेदानुपूर्वशः ।
ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥
रूपसत्त्वगुणापेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
उत्तरेषु च शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मसमुज्झिताः ॥
प्राजापत्येन सह ब्राह्माद्याश्चत्वारो ब्राह्मणस्य ।
गान्धर्वराक्षसौ क्षत्रियस्य । आसुरं तु वैश्यशूद्रयोः ।
पैशाचो न कस्यचिदपि ॥४॥
05 पाणिसमूढम् ब्राह्मणस्य नाप्रोक्षितम् ...{Loading}...
पाणि-समूढं +++(भूभागम्)+++ ब्राह्मणस्य नाप्रोक्षितम् अभितिष्ठेत् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not step on a spot which has been touched by the hand of a Brāhmaṇa, without having sprinkled it with water.
हरदत्त-टीका
सूत्रम्
पाणिसमूढं ब्राह्मणस्य नाऽप्रोक्षितमभितिष्ठेत् ॥ ५॥
टिप्पनी
ब्राह्मणस्य पाणिना समूढम् उपलिप्तं सम्मृष्टं वा भूप्रदेशम् अप्रोक्षितं नाभितिष्ठेत् नाधितिष्ठेत् । प्राध्यैवाऽधितिष्ठेदिति ॥ ५॥
06 अग्निम् ब्राह्मणञ् चान्तरेण ...{Loading}...
अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not pass between a fire and a Brāhmaṇa,
हरदत्त-टीका
सूत्रम्
अग्निं ब्राह्मणं चाऽन्तरेण नाऽतिक्रामेत् ॥ ६॥
टिप्पनी
अग्नेर्ब्राह्मणस्य च मध्ये न गच्छेत् ॥ ६ ॥
07 ब्राह्मणांश्च ...{Loading}...
ब्राह्मणांश्च ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor between Brāhmaṇas.
हरदत्त-टीका
सूत्रम्
ब्राह्मणांश्च ॥ ७ ॥
टिप्पनी
अन्तरेण नातिक्रामेदित्येव । ब्राह्मणानां च मध्ये न गच्छेत् ॥७॥
08 अनुज्ञाप्य वातिक्रामेत् ...{Loading}...
अनुज्ञाप्य वातिक्रामेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may pass between them after having received permission to do so.
हरदत्त-टीका
सूत्रम्
अनुज्ञाप्य वाऽतिक्रामेत् ॥ ८ ॥
टिप्पनी
स्पष्टम् ॥८॥
09 अग्निमपश्च न युगपद्धारयीत ...{Loading}...
अग्निमपश्च न युगपद्धारयीत ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not carry fire and water at the same time.
हरदत्त-टीका
सूत्रम्
अग्निमपश्च न युगपद्धारयीत ॥ ९ ॥
टिप्पनी
अग्निमुदकञ्च न युगपद्धारयेत् ॥९॥
10 नानाग्नीनाञ् च सन्निवापं ...{Loading}...
नानाग्नीनां च संनिवापं वर्जयेत् १०
12 प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितम् भूमौ ...{Loading}...
प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितं भूमौ प्रदक्षिणीकुर्यात् +++(प्रतिष्ठिते तु प्रदक्षिणीकुर्यात्)+++११
सर्वाष् टीकाः ...{Loading}...
Bühler
- If, whilst he walks, fire is being carried towards him, he shall not walk around it with his right hand turned towards it, except after it has been placed on the ground. 10
हरदत्त-टीका
सूत्रम्
प्रतिमुखमग्निमाह्रियमाणं नाऽप्रतिष्ठितं भूमौ प्रदक्षिणीकुर्यात् ॥ ११ ॥
टिप्पनी
यदाऽस्य गच्छतः प्रतिमुखमग्निह्रियते तदा न तं प्रदक्षिणीकुर्यात् स चेद्भूमौ प्रतिष्ठितो न भवति । प्रतिष्ठिते त्वग्नौ दृष्टे प्रदक्षिणीकुर्यादिति ॥११॥
12 पृष्ठतश्चाऽऽत्मनः पाणी ...{Loading}...
पृष्ठतश्चात्मनः पाणी न संश्लेषयेत् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not join his hands on his back.
हरदत्त-टीका
सूत्रम्
पृष्ठतश्चाऽऽत्मनः पाणी न संश्लेषयेत् ॥१२॥
टिप्पनी
स्वस्य पृष्ठभागे स्वपाणिद्वयं न सश्लेषयेन्न बध्नीयात् ॥ १२॥
13 स्वपन्न् अभिनिम्रुक्तो नाश्वान् ...{Loading}...
स्वपन्न् अभिनिम्रुक्तो +++(=सूर्यास्तसमये निद्रालुः)+++ नाश्वान् +++(=अनश्नन्)+++ वाग्यतो रात्रिमासीत । श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the sun sets whilst he sleeps, he shall sit up, fasting and silent, for that night. On the following morning he shall bathe and then raise his voice (in prayer). 11
हरदत्त-टीका
सूत्रम्
स्वपन्नभिनिम्रुक्तो नाश्वान् वाग्यतो रात्रिमासीत श्वोभूत उदकमुपस्पृश्य वाचं विमृजेत् ॥ १३ ॥
टिप्पनी
4 सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ।
अंशुमानभिनिम्रुक्ताभ्युदितौ तौ यथाक्रमम् ॥
स्वपन्नभिनिम्रुक्तो नाश्वानभुजानस्तूष्णीं भूतो रात्रिं सर्वामासीत न शयीत । अथाऽपरेद्युः उदकमुपस्पृश्य प्रातः स्नात्वा वाचं विसृजेत् । अयमस्य निर्वेषः ॥
14 स्वपन्न् अभ्युदितो नाश्वान् ...{Loading}...
स्वपन्न् अभ्युदितो +++(नाम सूर्योदये निद्रालुः)+++ नाश्वान्+++(=अनश्नन्)+++ वाग्यतोऽहस्तिष्ठेत् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the sun rises whilst he is asleep, he shall stand during that day fasting and silent.
हरदत्त-टीका
सूत्रम्
स्वपन्नभ्युदितो नाश्वान्वाग्यतोऽहस्तिष्ठेत् ॥१४॥
टिप्पनी
पूर्वेण गतम् । ‘उदकमुपस्पृश्य वाचं विसृजेदिति चात्राऽपेक्ष्यते । तत्रास्तमिते स्नानप्रतिषेधात् सायमेव स्नात्वा वाचं विसृज्य सन्ध्यामुपासीत ॥१४॥
15 आतमितोः प्राणमायच्छेदित्येके १५ ...{Loading}...
आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare that he shall restrain his breath until he is tired.
हरदत्त-टीका
सूत्रम्
आतमितोः प्राणमायच्छेदित्येके ॥ १५ ॥
टिप्पनी
यावदङ्गानां ग्लानिर्भवति तावत्प्राणमायच्छेत् प्राणवायुमाकृष्य धारयेत् । प्राणायाम कुर्यादित्येके मन्यते । शक्त्यपेक्षो विकल्पः ।
तत्र मनुः —
2सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥ इति ।
एवमावर्तयेद्यावद्ग्लानिः ॥ १५॥
16 स्वप्नं वा पापकं दृष्ट्वा ...{Loading}...
स्वप्नं वा पापकं दृष्ट्वा १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (he shall restrain his breath until he is tired) if he has had a bad dream,
हरदत्त-टीका
सूत्रम्
स्वप्नं वा पापकं दृष्ट्वा ॥ १६ ॥
टिप्पनी
पापकस्वप्नो दुस्स्वप्नः मर्कटास्कन्दनादिः । तं च दृष्ट्वा ॥ १६ ॥
17 अर्थं वा सिषाधयिषन् ...{Loading}...
अर्थं वा सिषाधयिषन् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or if he desires to accomplish some object,
हरदत्त-टीका
सूत्रम्
अर्थं वा 4सिसाधयिषन् ॥ १७ ॥
टिप्पनी
अर्थः प्रयोजनम् । तञ्च दृष्टमदृष्टं वा साधयितुमिच्छन् ॥ १७ ॥
18 नियमातिक्रमे चान्यस्मिन् ...{Loading}...
नियमातिक्रमे चान्यस्मिन् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or if he has transgressed some other rule. 12
हरदत्त-टीका
सूत्रम्
नियमातिक्रमे चाऽन्यास्मिन् ॥ १८॥
टिप्पनी
नियमानां ‘उदङ्मुखो मूत्रं कुर्यादि’ (१.३१.१.) त्येवमादीनामतिक्रमे च आतमितो’ प्राणमायच्छदिति सर्वत्र शेषः ॥ १८ ॥
19 दोषफलसंशये न तत्कर्तव्यम् ...{Loading}...
दोषफलसंशये न तत्कर्तव्यम् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he is) doubtful (whether) the result (of an action will be good or evil), he shall not do it.
हरदत्त-टीका
सूत्रम्
दोषफलसंशये न तत् कर्तव्यम् ॥ १९ ॥
टिप्पनी
यस्मिन् कर्मणि कृते पक्षे दोषः फलं सम्भाव्यते न तत् कुर्यात, यथा सभये देशे एकाकिनो गमनमिति ॥ १९ ॥
20 एवमध्यायानध्याये ...{Loading}...
एवमध्यायानध्याये २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall follow) the same principle (if he is in doubt whether he ought) to study or not.
हरदत्त-टीका
सूत्रम्
एवमध्यायानध्याये ॥ २० ॥
टिप्पनी
संशय इत्युपसमस्तमप्यपेक्ष्यते । अध्यायोऽनध्याय इति संशयेऽप्येवं न तत् कर्तव्यमिति । ‘सन्धावनुस्तनित’ (१.९.२०.) इत्युदाहरणम् । पूर्वस्यैवाऽयं प्रपञ्चः ॥ २० ॥
21 न संशये प्रत्यक्षवद्ब्रूयात् ...{Loading}...
न संशये प्रत्यक्षवद्ब्रूयात् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not talk of a doubtful matter as if it were clear. 13
हरदत्त-टीका
सूत्रम्
न संशये प्रत्यक्षवद्ब्रूयात् ॥ २१ ॥
टिप्पनी
संशयितमर्थमात्मनोऽज्ञानपरिहाराय प्रत्यक्षवत् निश्चितवन्न ब्रूयात् ॥
22 अभिनिम्रुक्ताभ्युदितकुनखिश्यावदाऽग्रदिधिषु दिधिषूपति पर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानेषु ...{Loading}...
अभिनिम्रुक्ताभ्युदित+++(=सन्ध्याशायिनौ)+++-कुनखि-श्यावदा-ऽग्रदिधिषु+++(=कनिष्ठाया वोढा)+++–दिधिषू-पति+++(अग्रदिधिषौ ज्येष्ठायाः पश्चाद् वोढा)+++-पर्याहित-परीष्ट-परिवित्त+++(=अकृतविवाहः कनिष्ठे कृतविवाहे)+++-परिविन्न+++(=कनिष्ठे भागग्राहिणि ज्येष्ठः)+++-परिविविदानेषु +++(=परिविन्न-भ्राता)+++ चोत्तरोत्तरस्मिन्न् अशुचिकर-निर्वेषो गरीयान् गरीयान् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the case of a person who slept at sunset, of 14 one who slept at sunrise, of one who has black nails, or black teeth, of one who married a younger sister before the elder one was married, of one who married an elder sister whose younger sister had been married already, (of a younger brother who has kindled the sacred Gṛhya-fire before his elder brother,) of one whose younger brother has kindled the sacred fire first, (of a younger brother who offers a Soma-sacrifice before his elder brother,) of an elder brother whose younger brother offered a Soma-sacrifice first, of an elder brother who marries or receives his portion of the inheritance after his younger brother, and of a younger brother who takes a wife or receives his portion of the inheritance before his elder brother,–penances ordained for crimes causing impurity, a heavier one for each succeeding case, must be performed.
हरदत्त-टीका
सूत्रम्
अभिनिर्मुक्ताभ्युदितकुनखिश्यावदाग्रदिधिषुदिधिषूपतिपर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वेषो गरीयान् गरीयान् ॥ २२ ॥
टिप्पनी
आद्यौ द्वौ गतौ। कुनखी कृष्णनखः । श्यावा दन्ता यस्य स श्यावदन् विवर्णदन्तः। ‘2विभाषा श्यावारोकाभ्यामि’ति दत्रादेशः । तस्य न लोपश्छान्दसः । ज्येष्ठायामनूढायां पूर्वं कनीयस्या वोढा अप्रदिधिषुः । पश्चादितरस्या वोढा दिधिषूपतिः । ज्येष्ठे अकृताधाने कृताधानः कनिष्ठः पर्याधाता । ज्येष्ठः पर्याहितः । ज्येष्ठे अकृतसोमयागे कृतसोमयागः कनिष्ठः परियष्टा । ज्येष्ठः परीष्टः । अकृतविवाहे ज्येष्ठे कृतविवाहः कनिष्ठः 4परिवेत्तेति प्रसिद्धः । ज्येष्ठः 5परिवित्तः । 8ज्येष्ठस्य भार्यामुपयच्छमानः परिविन्नः। यस्मिन्नगृहातभागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः । कनिष्ठः परिविविदानः । चकारः पर्याधातृप्रभृतीनां समुच्चयार्थः । एतेष्वभिनिम्रुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर निर्वेषो यः पूर्वमुक्तः तत्र तत्र गरीयान् भवति । पूर्वत्र पूर्वत्र लघीयान् । अभिनिम्रुताभ्युदितयोरनन्तरोक्तं प्रायश्चित्तद्वयमपि विकल्पेन भवति ॥ २२ ॥
23 तच्च लिङ्गञ् चरित्वोद्धार्यमित्येके ...{Loading}...
तच्च लिङ्गं +++(=कुनखित्वादिकम्)+++ चरित्वोद्धार्यमित्येके २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that after having performed that penance, he shall remove its cause. 15
हरदत्त-टीका
सूत्रम्
तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥
टिप्पनी
यस्मिन् कौनख्यादिके लिङ्गे यत् प्रायश्चितमुक्तं तच्चरित्वा तत् कौनख्यादिकं लिङ्गमुद्धरेदित्येके मन्यन्ते । अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥
इति पञ्चमः पटलः
-
- Manu III, 31; Yājñ. I, 61. It must be understood that, at this rite, a regular sale of the bride must take place. If a suitor merely gives presents to the bride, that is not an Āsura-marriage.
-
Manu III, 33; Yājñ. I, 61. Haradatta points out that the other law-books enumerate two additional marriage-rites, the Prājāpatya or Kāya and the Paiśāca. But Vasiṣṭha I, 29-35, like Āpastamba, gives six rites only. ↩︎
-
Manu III, 24, 25; Yājñ. I, 58-60. ↩︎
-
I.e. from praiseworthy marriages virtuous children are born, and from blamable marriages bad ones. Manu III, 42. ↩︎
-
Another commentator says, ‘He shall not throw (brands taken from) one fire into another fire.’–Haradatta. ↩︎
-
The Sūtra implies that under other circumstances he must show this respect to a fire. ↩︎
-
Manu II, 220. ↩︎
-
Manu XI, 200. ↩︎
-
See above, I, 11, 32, 22. ↩︎
-
These sinners are, enumerated in nearly the same order, p. 130 Taittirīya-brāhmaṇa III, 2, 8, 11 and 12, and Āp. Śrauta-sūtra IX, 12, 11. See also Manu XI, 44-49. Regarding the crimes causing impurity, see above, I, 7, 21, 12-19. ↩︎
-
‘Its cause, i.e. the black nails, &c. According to another Smṛti, one shall not put away a wife or extinguish a fire, for the taking or kindling of which the penance had to be performed.’–Haradatta. But see Vasiṣṭha XX, 7 seq. ↩︎