01 इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य ...{Loading}...
इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डम्प्रणयेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the cases of (men of) other castes, the king, after having examined their actions, may punish them even by death.
हरदत्त-टीका
सूत्रम्
इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत् ॥१॥
प्रस्तावः
एवं ब्राह्मणविषये उक्तम् । इतरेषामाह -
टिप्पनी
इतरेषां ब्राह्मणव्यतिरिक्तानां वर्णानां राजा पुरोहितोक्तं दण्डं स्वयमेव प्रणयेत् तेषां कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् । अभिविधाधाकारः ॥१॥
02 न च सन्देहे ...{Loading}...
न च संदेहे दण्डं कुर्यात् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And the king shall not punish on suspicion.
हरदत्त-टीका
सूत्रम्
न च सन्देहे दण्डं कुर्यात् ॥ २ ॥
टिप्पनी
अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २ ॥
03 सुविचितं विचित्या दैवप्रश्नेभ्यो ...{Loading}...
सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- But having carefully investigated (the case) by means of questions (addressed to witnesses) and even of ordeals, the king may proceed to punish. 1
हरदत्त-टीका
सूत्रम्
सुविचितं विचित्या देवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ॥ ३॥
प्रस्तावः
किन्तु —
टिप्पनी
आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभिः शपथान्तैः सुविचितं यथा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्येत उपक्रमेत ॥३॥
04 एवंवृत्तो राजोभौ लोकावभिजयति ...{Loading}...
एवंवृत्तो राजोभौ लोकावभिजयति ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- A king who acts thus, gains both (this and the next) world.
05 राज्ञः पन्था ब्राह्मणेनासमेत्य ...{Loading}...
राज्ञः पन्था ब्राह्मणेनासमेत्य ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- The road belongs to the king except if he meets a Brāhmaṇa. 4
हरदत्त-टीका
सूत्रम्
राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥५॥
प्रस्तावः
गच्छतां प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्यःत आह—
टिप्पनी
राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य पन्था दातव्यः । क्षत्रियैरप्यनभिषिक्तैः एतदर्थमेव चेदं वचनम् । अन्यत्र ‘वर्णज्यायसां चे’(२.११.८)ति वक्ष्यमाणेनैव सिद्धम् ॥ ५ ॥
06 समेत्य तु ब्राह्मणस्यैव ...{Loading}...
समेत्य तु ब्राह्मणस्यैव पन्थाः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if he meets a Brāhmaṇa, the road belongs to the latter. 5
हरदत्त-टीका
सूत्रम्
समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ६ ॥
टिप्पनी
आपदि शिष्यभूतब्राह्मणविषयमिदम् । शिष्यभूतेनाऽपि ब्राह्मणेन समेत्य तस्यैव राज्ञा पन्था देय इति ॥ ६॥
07 यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया ...{Loading}...
यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर्दातव्यः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- All must make way for a (laden) vehicle, for a person who carries a burden, for a sick man, for a woman and others (such as old men and infants).
08 वर्णज्यायसाञ् चेतरेर्वर्णैः ...{Loading}...
वर्णज्यायसां चेतरेर्वर्णैः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (way must be made), by the other castes, for those men who are superior by caste.
हरदत्त-टीका
सूत्रम्
वर्णज्यायसां चेतरैर्वणैः ॥ ८॥
टिप्पनी
वर्णेनोत्कृष्टां वर्णज्यायांसः । तेषां चेतरैरपकृष्टैषणैर्ब्राह्मणैश्च दातव्यः ॥८॥
09 अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ...{Loading}...
अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- For their own welfare all men must make way for fools, outcasts, drunkards, and madmen.
हरदत्त-टीका
सूत्रम्
अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ॥९॥
टिप्पनी
अशिष्टो मूर्खः । अन्ये प्रसिद्धाः । एतेषां सर्वैरेवंजातीयैरुत्कृष्टैरपकृष्टैर्ब्राह्मणैश्च । आत्मस्वस्त्ययनार्थेन स्वस्त्ययनमात्मत्राणम् । तेन प्रयोजनेन तदर्थम्, न त्वष्टार्थमिति । अत्र कौटिल्येन देयस्य पथः प्रमाणमुक्तम्-6 ‘पञ्चारत्नी रथपथश्चत्वारो हस्तिपथो द्वौ क्षुद्रपशुमनुष्याणा’मिति ॥९॥
10 धर्मचर्यया जघन्यो वर्णः ...{Loading}...
धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- In successive births men of the lower castes are born in the next higher one, if they have fulfilled their duties. 7
हरदत्त-टीका
सूत्रम्
धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ ॥ १० ॥
टिप्पनी
धर्मचर्यया स्वधर्मानुष्ठानेन जघन्यो वर्णः शूद्रादिः पूर्वं पूर्वं वर्णमापद्यते वैश्यादिकं प्राप्नोति । जातिपरिवृत्तौ जन्मनः परिवर्तने । शुद्रो वैश्यो जायते । तत्रापि स्वधर्मनिष्ठः क्षत्रियो जायते । तत्रापि स्वधर्मपरो ब्राह्मण इति। एवं क्षत्रियवैश्ययोरपि द्रष्टव्यम् ॥१०॥
11 अधर्मचर्यया पूर्वो वर्णो ...{Loading}...
अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- In successive births men of the higher castes are born in the next lower one, if they neglect their duties.
हरदत्त-टीका
सूत्रम्
अधर्मचर्यथा पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ॥ ११ ॥
टिप्पनी
पूर्वेण गम् । महापातकव्यतिरिक्ताधर्मानुष्ठानविषयमेतत् । महापातकेषु ‘स्तेनोऽभिशस्त’ (२.२.६) इत्यादिना नीचजातिप्राप्तेरुक्तत्वात् ॥ ११॥
12 धर्मप्रजासम्पन्ने दारे नान्याङ् ...{Loading}...
धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has a wife who (is willing and able) to perform (her share of) the religious duties and who bears sons, he shall not take a second. 8
हरदत्त-टीका
सूत्रम्
धर्मप्रजासम्पन्ने दारे नाऽन्यां कुर्वीत ॥ १२ ॥
टिप्पनी
श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु श्रद्धा शक्तिश्च धर्मसम्पत्तिः । प्रजासम्पत्तिः पुत्रवत्वम् । एवंभूते दारे सति नान्याम् । ‘दारे’ इति प्रकृते अन्यामिति स्त्रीलिङ्गनिर्देशादत्रार्थाद्भार्यामिति गम्यते । नान्यां भार्यां कुर्वीत नोऽद्वहेत् ॥ १२ ॥
13 अन्यतराभावे कार्या प्राग् ...{Loading}...
अन्यतराभावे कार्या प्राग् अग्न्याधेयात् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a wife is deficient in one of these two (qualities), he shall take another, (but) before he kindles the fires (of the Agnihotra). 9
हरदत्त-टीका
सूत्रम्
अन्यतराभावे कार्या प्रागग्न्याधेयात् ॥ १३ ॥
टिप्पनी
धर्मप्रजयोरन्यतरस्याऽभावे कार्या उद्वाह्या । तत्रापि प्रागग्न्याधेयात् नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसम्पत्तौ न कार्येत्युक्ते अन्यतराभावे कार्येत्यस्यांशस्य प्राप्तत्वात् । यदा चाऽन्यतराभावे कार्या तदा का शङ्का उभयाभावे कार्येति ॥ १३॥
14 आधाने हि सती ...{Loading}...
आधाने हि सती कर्मभिः संबध्यते येषामेतदङ्गम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- For a wife who assists at the kindling of the fires, becomes connected with those religious rites of which that (fire-kindling) forms a part. 10
हरदत्त-टीका
सूत्रम्
आधाने हि सती कर्मभिस्संबध्यते येषामेतदङ्गम् ॥१४॥
प्रस्तावः
प्रागग्न्याधेयादित्यत्र हेतुः —
टिप्पनी
हि यस्मात् आधाने सती विद्यमाना सहान्विता कर्मभिस्सम्बध्यते अधिक्रियते । कैः ? येषामग्निहोत्रादीनामेत2दाधानमङ्गमुपकारकम् । तैः । अत्र
‘दारे सती’ति वचनात् मृते तस्मिन्प्रागूर्ध्वं वाऽऽधानात् सत्यामपि पुत्रसम्पत्तौ धर्मसम्पत्त्यर्थं दारग्रहणं भवत्येव । तथा च मनुः —
3“भार्यायै पूर्वमारिण्यै दत्वाऽग्नीनन्त्यकर्मणि ।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥” इति ।
याज्ञवल्क्योऽपि—
2 ‘आहरेद्विधिवद्दारनग्नींश्चैवाऽविलम्बयन् ।’ इति ।
न हि वाचनिकेऽर्थे युक्तयः क्रमन्ते । तेनैतन्न चोदनीयम्-यजमानः पूर्वमन्वारम्भणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं शक्यः । या च भार्या आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्शपूर्णमासादिष्वधिकारः । स कथं तया तैर्यष्टुमर्हतीति । अन्वारम्भणीयाजन्यश्च संस्कारो यदि संयोगवद्भयनिष्टः तदा भार्यानाशे नश्यतीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणीयामपेक्ष्यन्ते स्मार्तानि गार्ह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः ।
ननु च प्रागन्याधानात् कर्मभिस्सम्बध्यते गार्ह्यैस्स्मार्तैश्च, तत्किमुच्यते आधाने हि सती कर्मभिस्सम्बध्यत इति ? सत्यम् , अस्मादेव
च हेतुनिर्देशादवसीयते-प्रागाधानात् सत्यामपि धर्मसम्पत्तौ प्रजासम्पत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नाऽतीव दोष इति । अथ यस्याहिताग्नेर्भार्या सत्येव कर्मण्यश्रद्दद्धाना अशक्ता वा भवति पुत्राश्च मृता अनुत्पन्ना वा तस्य कथम् । यद्येषा युक्तिः ‘धर्मप्रजासम्पन्न’ इति कर्मभिस्सम्बध्यत इति च, तदा कर्तव्यो विवाहः । (न च ‘प्रागग्न्याधेया’दित्यस्य विरोधः । अन्यतराभावे कार्येत्यस्यैव स शेषः । न पुनरुभयाभावे कार्येत्यस्य । भारद्वाजसूत्रे तु यद्यप्यविशेषेणाऽहिताग्नेर्दारानुज्ञा प्रतीयते-“अथ यद्याहिताग्निः पुनर्दारक्रियां कुर्वीत यद्यग्नीनोत्सृजेत् लौकिकास्सम्पद्येरन् तस्य पुनरग्न्याधेयं कुर्वीतेत्याश्मरथ्या, पुनराधनमित्यालेखनः, पुनरग्न्याधेयमित्यौडुलोमि,रिति । तथापि तस्याप्ययमेव विषयः) ॥ १४ ॥
15 सगोत्राय दुहितरन् न ...{Loading}...
सगोत्राय दुहितरं न प्रयच्छेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not give his daughter to a man belonging to the same family (Gotra), 11
हरदत्त-टीका
सूत्रम्
सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥
टिप्पनी
कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय हारीतीं, वात्स्याय वात्सीमित्यादि ॥ १५ ॥
16 मातुश्च योनिसम्बन्धेभ्यः ...{Loading}...
मातुश्च योनिसंबन्धेभ्यः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor to one related (within six degrees) on the mother’s or (the father’s) side. 12
हरदत्त-टीका
सूत्रम्
मातुश्च योनिसम्बन्धेभ्यः ॥ १६ ॥
टिप्पनी
मातुर्योनिसम्बन्धाः कन्याया मातुलादयः । चकारात् पितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनुः—
3 ‘असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां 2दारकर्मण्यमैथुनी ॥
13 स्नात्वा समुद्वहेत्कन्यां सवर्णं लक्षणान्विताम् ।
यवीयसी भ्रातृमतीमसगोत्रां प्रयत्नतः ॥
मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि ।
जन्मनाम्नोरविज्ञाने नोद्वहेदविशङ्कितः ॥
मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति।’
गौतमः —
14 असमानप्रवरैर्विवाहः । ऊर्ध्वं सप्तमात्पितबन्धुभ्यो बीजिनश्च । मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायनः— ‘प्रवर एषामविवाह इत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरः तेषामेवाऽविवाह’ इति । कारिका च भवति —
रातीयानामविवाह एषामिति येषां सूत्रकृदब्रवीत् ।
तेषामेव विवाहः स्यात् नान्येषामिति धारणेति ॥
शङ्खः[^२४] —
‘दारानाहरेत्सदृशानसमानार्षेयानसम्बन्धानासप्तमपञ्चमात्पितृमातृबन्धुभ्यः, इति ।
वसिष्ठः —
15 गृहस्थो विनीतक्रोधहर्षों गुरुणाऽनुरज्ञातः स्नात्वाऽसमानार्षेयामस्पृष्टमैथुनामवरवयसीं भ्रातृमतीं सदृशीं भार्यां विन्देत । पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः’ इति ।
हारीत[^२६] —
‘शिवत्री कुष्ठ्युदरी यक्ष्मामयाव्यल्पायुरनार्षेयमब्रह्म समानार्षेयमित्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा भवन्तीति । आदितष्षडयझियत्वादनार्षेयम् । अवेदत्वादब्रह्म । एककुलत्वात् समानार्षेयमिति । तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतोऽनग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत ॥
पैठीनसिः—असमानायां कन्यां वरयेत् । पञ्चमातृतः परिहरेत्सप्तपितृतः त्रीन्मातृतः पञ्च पितृतो वा’।
याज्ञवल्क्यः —
16 अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥’
विष्णुः—
17 असगोत्रामसमानप्रवरां भार्यां विन्देत मातृतः पञ्चमात् पितृतस्सप्तमात् ।
नारदः —
18आसप्तमात्पञ्चमाच्च बन्धुभ्यः पितृमातृतः ।
अविवाह्यास्सगोत्रास्स्युस्समानप्रवरास्तथा ।’
शातातपः—
19 परिणीय सगोत्रां तु समानप्रवरां तथा ।
कृत्वा तस्यास्समुत्सर्गमतिकृच्छ्रो विशोधनम् ॥
मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजचान्द्रायणं चरेत् ॥’
मनुः —
20पैतृष्वसेयीं भगिनीं स्वस्नीयां मातुरेव च ।
मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ।
ज्ञातित्वेनाऽनुपेयास्ताः पतति ह्युपयन्नधः ॥’
बौधायनः—
21 ‘सगोत्रां चेदमत्योपयच्छेत मातृवदेनां विभृयात्’ । 22 सगोत्रां गत्वा चान्द्रायणमुपदिशेत् ॥ व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेत् मातृवद्भगिनीवद्गर्भो न दुष्यतीति काश्यप इति विज्ञायते । अथ सान्निपात अविवाहः तदाध्यायं वर्जयेत् । बोधायनस्य तत्प्रमाणं कर्तव्यम् । मानव्यो हि प्रजा इति विज्ञायते इति ।
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ।
ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥
एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते ।
तावत्समानगोत्रत्वमन्वद्भृग्वाङ्गिरोगणात ॥’ इति ।
सुमन्तुः —
23पितृपत्न्यस्सर्वा मातरस्तद्भ्रातरो मातुलाः तत्सुता मातुलसुतास्तस्मात्ता नोपयन्तव्या’ इति ॥ १६ ॥
17 ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि ...{Loading}...
ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजासहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणालंकृत्य १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the wedding called Brāhma, he shall give away (his daughter) for bearing children and performing the rites that must be performed together (by a husband and his wife), after having enquired regarding (the bridegroom’s) family, character, learning, and health, and after having given (to the bride) ornaments according to his power. 24
हरदत्त-टीका
सूत्रम्
ब्राह्मे विवाहे बन्धुशीललक्षणसम्पन्नश्रुतारोग्याणि बुध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणाऽलंकृत्य ॥ १७ ॥
टिप्पनी
ब्रह्मणा इष्टो ब्राह्मः । तस्मिन् विवाहे वरस्य बन्ध्वादीन् बुध्वा परीक्ष्य प्रजां दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि कर्तुम्, प्रतिपादयेत् दद्यात् । शक्तिविषयेण विभक्तिप्रतिरूपोऽयं निपातो यथाशक्तीत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः । प्रजासहत्वकर्मभ्य’ इति पाठे प्रजार्थं सहत्वकर्मार्थं चेति ॥ १७॥
18 आर्षे दुहितृमते मिथुनौ ...{Loading}...
आर्षे दुहितृमते मिथुनौ गावौ देयौ १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the wedding called Ārsha, the bridegroom shall present to the father of the bride a bull and a cow. 25
हरदत्त-टीका
सूत्रम्
आर्षे दुहितृमते मिथुनौ गावौ देयौ ॥ १८ ॥
टिप्पनी
ऋषिभिर्दष्टे विवाहे मिथुनौ गावौ स्त्रीगवी पुंगवश्च दुहितृमते देयौ । एष आर्षः ॥ १८ ॥
19 दैवे यज्ञतन्त्र ऋत्विजे ...{Loading}...
दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the wedding called Daiva, (the father) shall give her to an officiating priest, who is performing a Śrauta-sacrifice. 26
हरदत्त-टीका
सूत्रम्
दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९॥
टिप्पनी
देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् । एष दैवो विवाहः ॥ १९॥
20 मिथः कामात्सांवर्तेते स ...{Loading}...
मिथः कामात्सांवर्तेते स गान्धर्वः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a maiden and a lover unite themselves through love, that is called the Gāndharva-rite. 27
हरदत्त-टीका
सूत्रम्
मिथः कामात्सांवर्तेते स गान्धर्वः ॥ २० ॥
टिप्पनी
यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सांवर्तेते मिथुनी भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोत्तरकालं विवाहसंस्कारः कर्तव्यः ॥ २०॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकादशी कण्डिका ॥ ११ ॥
-
- See also below, II, 11, 29, 6.
-
Manu II, 139; Yājñ. I, 117. According to Haradatta this Sūtra is given, though the precedence among the various castes has been already settled, in order to show that common Kṣatriyas must make way for an anointed king. ↩︎
-
Manu II, 138; Yājñ. I, 117. ↩︎
-
कौ० अ० २.४.२२. ‘पञ्चारत्नयः’ इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु पञ्चारत्निः इत्येवानुवादो ग्रन्थान्तरेष्वपि । ↩︎
-
Manu X, 64, 65; Yājñ. 1, 96. ↩︎
-
Manu IX, 95; Yājñ. I, 76. ↩︎
-
Manu IX, 80, 81; Yājñ. I, 73. ↩︎
-
A wife who assists at the kindling of the fires for any sacrificial rite, becomes connected with that rite like any priest, and in that rite no other woman can take her place. Hence in the case of an Agnihotra, which lasts during the performer’s lifetime, or at least as long as be is a householder, the performer cannot take another principal wife after be once has begun his sacrifice. If the wife of an Agnihotrin dies, he must marry again, and also kindle his fires afresh. Manu V, 167, 168; Yājñ. I 80. ↩︎
-
The term Gotra corresponds to the Latin Gens. It may be of two kinds, Vaidika for Brāhmaṇas and Laukika, ‘worldly’, for men of other castes. In the first case it denotes ‘persons descended from the same Ṛṣi;’ in the second, ‘persons distinguished by the same family name, or known to be descended from the same ancestor.’ In our days Brāhmaṇas also have Laukika Gotras, which form subdivisions of the very large Vedic Gotras. Regarding the Vaidika Gotras, see Max Müller’s History of Ancient Sanskrit Literature, pp. 379-390, and particularly p. 387. Manu III, 5; Yājñ. I, 33; Weber, Ind. Stud. X, 75 seq. ↩︎
-
The term yonisambandha, ‘related (within six degrees),’ corresponds to the more common Sapiṇḍa of Manu, Yājñavalkya, and others; see the definitions given below, II, 6, 15, 2. In Āpastamba’s terminology Sapiṇḍa has probably a more restricted sense. It seems very doubtful whether Haradatta’s explanation of ka, translated by ‘or,’ is correct, and whether his interpolation of ’the father’s’ ought to be admitted. Probably Sūtra 15 refers to the father’s side, and Sūtra 16 to the mother’s side. ↩︎
-
४. ६. एतदङ्काङ्कितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ↩︎
-
गौ०ध० ४.२—५. ↩︎
-
व०ध० ८.१.२. ↩︎
-
या०स्मृ० १.५२,५३. ↩︎
-
मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु ग्रन्थान्तरेष्वस्याविष्णुस्मृतित्वमुक्तम् । ↩︎
-
नार०स्मृ० व्यवहा० १२. श्लो० ७. ↩︎
-
मुद्रितशातातपस्मृतौ लघुशतातपस्मृतौ बृद्धशातातपस्मृतौ वा नेदं वचनमुपलभ्यते ॥ ↩︎
-
म.स्मृ. ११.१७१, १७१. ↩︎
-
बौ. ध. २.१.३८. ↩︎
-
महाप्रवरे समाप्तिसूत्रकाण्डे । बौ० सू० (प्रवर) १३.५५. ↩︎
-
सु० स्मृ० ↩︎
-
Manu III, 27; Yājñ. I, 58. ↩︎
-
Manu III, 29; Yājñ. I, 59. ↩︎
-
Manu III, 28; Yājñ. I, 59. ↩︎
-
Manu III, 32; Yājñ. I, 61. ↩︎