01 स एष प्राजापत्यः ...{Loading}...
स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- This reception of guests is an everlasting (Śrauta)-sacrifice offered by the householder to Prajāpati. 1
हरदत्त-टीका
सूत्रम्
स एष प्रजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः ॥१॥
टिप्पनी
स एषोऽभिहितो मनुष्ययज्ञः प्राजापत्यः प्रजापतिना दृष्टः, तद्दैवत्यो वा । कुटुम्बिनो नित्यप्रततो, यज्ञः नाऽग्निष्टोमादिवत् कादाचित्कः ॥१॥
02 योऽतिथीनामग्निः स आहवनीयो ...{Loading}...
योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- The fire in the stomach of the guest (represents) the Āhavanīya, (the sacred fire) in the house of the host represents the Gārhapatya, the fire at which the food for the guest is cooked (represents) the fire used for cooking the sacrificial viands (the Dakṣiṇāgni). 2
हरदत्त-टीका
सूत्रम्
योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥२॥
टिप्पनी
तस्याऽग्नीन् सम्पादयति —
टिप्पनी
योऽतिथीनां जाठरोऽग्निः स आवाहनीयः, तत्र हि हूयते । यः कुटुम्बे गृहे अग्निरोपासनः स गार्हपत्यः, नित्यधार्यत्वात् । यस्मिन् पच्यते3 लौकिकाग्नौ सोऽन्वाहार्यपचनः दक्षिणाग्निः, तत्र 4ह्यन्वाहार्यं पच्यते ॥२॥
03 ऊर्जम् पुष्टिम् प्रजाम् ...{Loading}...
ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who eats before his guest consumes the food, the prosperity, the issue, the cattle, the merit which his family acquired by sacrifices and charitable works.
हरदत्त-टीका
सूत्रम्
ऊर्जं पुष्टिं प्रजां पशुनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥ ३॥
टिप्पनी
योऽतिथेः पूर्वमश्नाति स गृहाणां कुलस्य सम्बन्धि ऊर्गादिकमश्नाति भक्षयति विनाशयति । ऊर्गन्नम् । इष्टमग्निहोत्रादि । पूर्तं स्मार्तं कर्म5 कूपखातादि । अन्ये प्रसिद्धाः ॥३॥
04 पयोपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितम् मधुनातिरात्रसम्मितम् ...{Loading}...
पयोपसेचनमन्नमग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Food (offered to guests) which is mixed with milk procures the reward of an Agniṣṭoma-sacrifice. Food mixed with clarified butter procures the reward of an Ukthya, food mixed with honey the reward of an Atirātra, food accompanied by meat the reward of a Dvādaśāha, (food and) water numerous offspring and long life. 6
हरदत्त-टीका
सूत्रम्
पय उपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं, मधुनाऽतिरात्रसम्मितं, मांसेन द्वादशाहसम्मित, मुदकेन प्रजावृद्धिरायुषश्च ॥४॥
टिप्पनी
पय उपसेचनं यस्य तदन्नम7ग्निष्टोमतुल्यम् । सर्पिषा, उपसिक्तमिति प्रकरणाद्गम्यते तदुक्थ्यतुल्यम् । मधुनोपसिक्तमन्नमतिरात्रतुल्यम् । मांसेन सह दत्तमन्नं द्वादशाहतुल्यम् । उदकेन सह दत्तेन प्रजावृद्धिर्भवति। आयुषश्च । उपसमस्तमपि वृद्धिरिति सम्बध्यते ॥४॥
05 प्रिया अप्रियाश्चातिथयः स्वर्गं ...{Loading}...
प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is declared in the Veda, ‘Both welcome and indifferent guests procure heaven (for their host).’
हरदत्त-टीका
सूत्रम्
प्रिया अप्रियाश्चाऽतिथियः स्वर्गं लोकं गमयन्तीति विज्ञायते ॥ ५ ॥
टिप्पनी
प्रियाः प्रसिद्धाः अप्रिया उदासीनाः, द्विषतो निषिद्धत्वात् ॥ ५ ॥
06 स यत्प्रातर्मध्यन्दिने सायमिति ...{Loading}...
स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he gives food in the morning, at noon, and in the evening, (these gifts) are the Savanas (of that sacrifice offered to Prajāpati). 8
हरदत्त-टीका
सूत्रम्
स यत्प्रातर्मध्यन्दिने सायमिति ददाति सवनान्येव तानि भवन्ति ॥ ६ ॥
टिप्पनी
त्रिषु कालेषु दीयमानान्यन्नानि अस्य यज्ञस्य 3प्रातस्सवनादीनि त्रीणि भवन्ति । तस्मात्सर्वेषु कालेषु दातव्यमिति ॥ ६ ॥
07 यदनुतिष्ठत्युदवस्यत्येव तत् ...{Loading}...
यदनुतिष्ठत्युदवस्यत्येव तत् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he rises after his guest has risen (to depart), that act represents the Udavasānīyā iṣṭi (of a Vedic sacrifice). 9
हरदत्त-टीका
सूत्रम्
यदनुतिष्ठत्युदवस्यत्येव तत ॥ ७ ॥
टिप्पनी
यत् गन्तुमुत्तिष्ठन्तमतिथिमनूत्तिष्टति तदुदवस्यत्येव4 उदवसानीया साऽस्य यज्ञस्येति । प्रायेणोच्छब्दं न पठन्ति । केवलमनुशब्दमेव पठन्ति । तत्राप्यर्थः स एव ॥ ७ ॥
08 यत्सान्त्वयतति सा दक्षिणा ...{Loading}...
यत्सान्त्वयतति सा दक्षिणा प्रशंसा ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he addresses (the guest) kindly, that kind address (represents) the Dakṣiṇā. 10
हरदत्त-टीका
सूत्रम्
यत्सान्त्वयति सा दक्षिणा प्रशंसा ॥८॥
टिप्पनी
यत् सान्त्वयति प्रशंसति सा प्रशंसा दक्षिणा ॥ ८॥
09 यत्संसाधयति ते विष्णुक्रमाः ...{Loading}...
यत्संसाधयति ते विष्णुक्रमाः ९
10 यदुपावर्तते सोऽवभृथः ...{Loading}...
यदुपावर्तते सोऽवभृथः १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he returns (after having accompanied his guest), that (act represents) the Avabhṛtha, (the final bath performed after the completion of a sacrifice.)
11 इति हि ब्राह्मणम् ...{Loading}...
इति हि ब्राह्मणम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Thus (a Brāhmaṇa shall treat) a Brāhmaṇa, (and a Kṣatriya and a Vaiśya their caste-fellows.)
हरदत्त-टीका
सूत्रम्
इति ब्राह्मणम् ॥ ११ ॥
टिप्पनी
इति ब्राह्मणमित्यस्य सर्वेण सम्बन्धः ॥ ११ ॥
12 राजानञ् चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः ...{Loading}...
राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a guest comes to a king, he shall make (his Purohita) honour him more than himself. 12
हरदत्त-टीका
सूत्रम्
राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् ॥ १२ ॥
टिप्पनी
3राजा अभिषिक्तः क्षत्रियः । सोऽतिथयेऽभ्यागताय आत्मनोऽपि सकाशात् श्रेयसी पूजां कारयेत् पुरोहितेन ॥ १२ ॥
13 आहिताग्निञ् चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् ...{Loading}...
आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य तर्पयंस्त्विति १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a guest comes to an Agnihotrin, he himself 13 shall go to meet him and say to him: ‘O faithful fulfiller of thy vows, where didst thou stay (last night)?’ (Then he offers water, saying): ‘O faithful fulfiller of thy vows, here is water.’ (Next he offers milk or the like, saying): ‘O faithful fulfiller of thy vows, may (these fluids) refresh (thee).’
हरदत्त-टीका
सूत्रम्
आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयाद्-व्रात्य क्वाऽवात्सीरिति, व्रात्योदकमिति, व्रात्य तर्पयंस्त्विति ॥ १३ ॥
टिप्पनी
यद्याहिताग्निमुद्दिश्यातिथिरागच्छेत्, तत एनमतिथिं स्वयमेवाभिमुख उपसर्पेत् । अत्र स्वयमिति वचनादनाहिताग्निरन्येन शिष्यादिना कारयन्नपि न दुष्यति । तमभ्युदेत्य ब्रूयातू-व्रात्य क्वावासीरिति कुशलप्रश्नः । व्रते साधुर्व्रत्यः स एव व्रात्य इति पूजनाभिधानम् । क्व पूर्वस्यां रात्र्यामुषितवानसीति । ‘व्रात्योदक’मित्युदकदानम् । ‘व्रात्य तर्पयस्त्वि’ति गोरसादिभिस्तर्पणम् । अनुस्वारसकारौ छान्दसौ । क्रियाभेदात्प्रतिमन्त्रमितिशन्दः । एतत्सर्वेषु कालेषु कर्तव्यम् ॥१३॥
14 पुराग्निहोत्रस्य होमादुपांशु जपेत् ...{Loading}...
पुराग्निहोत्रस्य होमादुपांशु जपेत् । व्रात्य यथा ते मनस्तथास्त्विति । व्रात्य यथा ते वशस्तथास्त्विति । व्रात्य यथा ते प्रियं तथास्त्विति । व्रात्य यथा ते निकामस्तथास्त्विति १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If the guest stays at the time of the Agnihotra, he shall make him sit down to the north of the fire and) murmur in a low voice, before offering the oblations: ‘O faithful fulfiller of thy vows, may it be as thy heart desires;’ ‘O faithful fulfiller of thy vows, may it be as thy will is;’ ‘O faithful fulfiller of thy vows, may it be as thy wish is;’ ‘O faithful fulfiller of thy vows, may it be as thy desire is.’ 14
हरदत्त-टीका
टिप्पनी
पुराऽग्निहोत्रस्य होमादुपांशु जपेत्-व्रात्य यथा ते मनस्तथाऽस्त्विति, व्रात्य यथा ते वशस्तथाऽस्त्विति, व्रात्य यथा ते प्रियं तथाऽस्त्विति, व्रात्य यथा ते निकामस्तथास्त्विति ॥ १४ ॥
सूत्रम्
स यदि होमकालेऽप्यासीत, तदा पुरा होमादपरेणाग्निं दर्भेषु सादयित्वा ‘व्रात्य तथा ते मन’ इत्यादिमन्त्रानुपाशु जपेत् ब्रूयात् । तत्र प्रतिमन्त्रमितिशब्दप्रयोगादर्थभेदाच्चतुर्णां विकल्पः । समुच्चय इत्यन्ये । अत्र चाऽध्वर्युर्यजमानो वा यो4होता स जपेत् । ततो जुहुयात् ॥ १४॥
15 यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज ...{Loading}...
यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज होष्यामि । इत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a guest comes, after the fires have been placed (on the altar), but before the oblations have been offered, (the host) himself shall approach him and say to him: ‘O faithful fulfiller of thy vows give me permission; I wish to sacrifice.’ Then he shall sacrifice, after having received permission. A Brāhmaṇa declares that he commits a sin if he sacrifices without permission. 15
हरदत्त-टीका
सूत्रम्
यस्योदधृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्-व्रात्याऽतिसृज होष्यामीत्यतिसृष्टेन होतव्यमनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह ॥ १५ ॥
टिप्पनी
उद्धृतेष्विति बहुवचनं सभ्यावसथ्यापेक्षम्। यस्य तु योऽग्नयः, तस्यापि । अहुतेष्वित्यनेन सामानाधिकरण्यात् होमोऽपि त्रिष्वपि भवति। तेनाऽऽहवनीयहोमानन्तरमतिथावागतेऽपि त्रिषु होमो न कृत इति वक्ष्यमाणो विधिर्भवत्येव । कः पुनरसौ ? स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्याऽतिसृज, अनुजानीहि होष्यामीति । ततो जुहुधीत्यतिसृजेत् । अतिसृष्टेन होतव्यम् । यदि पुनरनतिसृष्टोऽननुज्ञातो जुहुयात्, तस्य दोषमाथर्वणिकानां ब्राह्मणवाक्यमाह । 3तदत्र न पठितं तत्र प्रत्येतव्यम् । अत्र पक्षे स्वयं होमो नियतः ॥ १५ ॥
16 एकरात्रञ् चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति ...{Loading}...
एकरात्रं चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमितांल् लोकानभिजयतीति विज्ञायते १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who entertains guests for one night obtains earthly happiness, a second night gains the middle air, a third heavenly bliss, a fourth the world of unsurpassable bliss; many nights procure endless worlds. That has been declared in the Veda.
हरदत्त-टीका
सूत्रम्
एकरात्रं चेदतिथीन्वासयेत्पार्थिवाँल्लोकानभिजयति द्वितीययाऽऽन्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमिताँल्लोकानभिजयतीति विज्ञायते ॥ १६ ॥
टिप्पनी
य4एकां रात्रिमतिथीन् गहे वासयति, स पृथिव्यां भवान् लोकानभिजयति । द्वितीयया रात्र्या आन्तरिक्ष्यान् । तृतीयया दिव्यान् । चतुर्थ्या परावतः सुखस्य परा मात्रा येषु लोकेषु तानभिजयति । अपरिमिताभीरात्रिभिरपरिमितान् लोकानिति विज्ञायते ब्राह्मणं भवति ॥ १६ ॥
17 असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ...{Loading}...
असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यात् । एवमस्य समृद्धं भवति १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If an unlearned person who pretends to be (worthy of the appellation) ‘guest’ comes to him, he shall give him a seat, water, and food, (thinking) ‘I give it to a learned Brāhmaṇa.’ Thus (the merit) of his (gift) becomes (as) great (as if a learned Brāhmaṇa had received it).
हरदत्त-टीका
सूत्रम्
असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यादेवमस्य समृद्धं भवति ॥ १७ ॥
टिप्पनी
विद्यादिभीरहितोऽसमुदेतः । स चेदतिथिरिति ब्रुवाण आगच्छेत्तदा तस्मै आसनादिकं श्रोत्रियायैव ददामीत्येवं मनसि कृत्वा दद्यात् । एवं ददतोऽस्य तद्दानं समृद्धं भवति श्रोत्रियायैव दत्तं भवति ॥ १७॥
इति द्वितीयप्रश्ने सप्तमी कण्डिका ॥ ७ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने तृतीयः पटलः ॥ ३ ॥
इति तृतीयः पटलः
-
- ‘Prājāpatya may mean either “created by Prajāpati” or sacred to Prajāpati."’–Haradatta.
-
in the first Sūtra the reception of guests had been compared to an everlasting Vedic sacrifice. This analog is traced further in detail in this Sūtra. One of the chief characteristics of a Vedic sacrifice is the vitāna, or the use of three sacred fires. Hence Āpastamba shows that three fires also are used in offering hospitality to guests. ↩︎
-
दर्शपूर्णमासेष्टावृत्विजां दक्षिणात्वेन यद्देयमन्नं तदन्वाहार्यपचनम् । ↩︎ ↩︎ ↩︎ ↩︎
-
तडागादि इति ड. पु. तडागखननादि इति घ. पु.
अग्निहोत्रं तपस्सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ -
Regarding the Agniṣṭoma and the other sacrifices mentioned, see Aitareya-brāhmaṇa III, 8; IV, 1; IV, 4. ↩︎
-
अग्निष्टोमोक्थ्यातिरात्राः ज्योतिष्टोमस्य संस्थाविशेषाः। ↩︎ ↩︎
-
The morning, midday, and evening offerings offered at the great Vedic sacrifices are called Savanas. The object of this Sūtra is to prescribe the hospitable reception of guests at a times of the day, and to further describe the similarity of a guest-offering to a Vedic sacrifice. ↩︎
-
Regarding the Udavasānīyā iṣṭi, see Aitareya-brāhmaṇa VIII, 5. It is the ‘concluding iṣṭi.’ ↩︎
-
Dakṣiṇā is the reward given to priests who officiate at a sacrifice. ↩︎
-
‘The steps of Viṣṇu’ are three steps which the sacrificer has to make between the Vedi and the Āhavanīya-fire. See Pet. Diet. s. v. ↩︎
-
‘A guest,’ i.e. such a one as described above, II, 3, 6, 4 and 5. ↩︎
-
An Agnihotrin is a Brāhmaṇa who offers certain daily burnt offerings called Agnihotra. The translation of the last clause renders tarpayantu, the reading of the Atharva-veda. ↩︎
-
According to some, all these sentences must be pronounced; according to Haradatta, one only, which may be selected optionally. ↩︎
-
Haradatta states that the Brāhmaṇa mentioned in the text is the Āharvaṇa-brāhmaṇa. See Atharva-veda. XV, 11-12. ↩︎