01 सर्वविद्यानाम् अप्य् उपनिषदाम् ...{Loading}...
सर्व-विद्यानाम् अप्य् उपनिषदाम् उपाकृत्या ऽनध्ययनं तद्-अहः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- On the day on which, beginning the study of the whole sacred science, the Upaniṣads (and the rest, he performs the Upākarma in the morning) he shall not study (at night). 1
हरदत्त-टीका
सूत्रम्
सर्वविद्यानामप्युपनिषदामुपाकृत्याऽनध्ययनं तदहः ॥१॥
टिप्पनी
कर्मणि षष्ठी । सर्वविद्या अङ्गविद्या अप्युपनिषद उपाकृत्याध्येतुमारभ्य वदहरनध्ययनं तस्मिन्नहन्यध्ययनं न कर्तव्यम् । उपनिषद्ग्रहणं प्राधान्यख्यापनार्थम । ब्राह्मणा आयाता, वसिष्ठोऽध्यायात इतिवत् ॥१॥
02 अधीत्य चाविक्रमणं सद्यः ...{Loading}...
अधीत्य चाविक्रमणं सद्यः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall not leave his teacher at once after having studied (the Veda and having returned home) 2
03 यदि त्वरेत गुरोः ...{Loading}...
यदि त्वरेत - गुरोः समीक्षायां स्वाध्यायम् अधीत्य कामं गच्छेत् । एवम् उभयोः शिवं भवति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he is in a hurry to go, he shall perform the daily recitation of the Veda in the presence of his teacher, and then go at his pleasure. In this manner good fortune will attend both of them.
हरदत्त-टीका
सूत्रम्
यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेदेवमुभयोः शिवं भवति ॥ ३ ॥
टिप्पनी
यदि कार्यवशात् गन्तुं त्वरेत तदा गुरोराचार्यस्य समीक्षायां सन्दर्शने संश्रये स्वाध्यायं प्रश्नावरमधीत्य यथाकामं गच्छेत् । एवं कृते उभयोः शिष्याचार्ययोः शिवं भवतीति ॥ ३॥
04 समावृत्तञ् चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य ...{Loading}...
समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य तस्योपसंगृह्य न बीभत्समान उदकमुपस्पृशेत्पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the (former) teacher visits him after he has returned home, he shall go out to meet him, embrace his (feet), and he shall not wash himself (after that act), showing disgust. He then shall let him pass first into the house, fetch (the materials necessary for a hospitable reception), and honour him according to the rule. 5
हरदत्त-टीका
सूत्रम्
समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य तस्योपसङ्गृह्य न बीभत्समान उदकमुपस्पृशेत् पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् ॥ ४ ॥
टिप्पनी
समावृत्तं चेत् शिष्यं कृतदारमाचार्योऽभ्यागच्छेत् अतिथिधर्मेण । तमभिमुखोऽभ्यागम्य । तस्योपसंगृह्य । कर्मणि षष्ठी। तमुपसंगृह्य । यद्यपि तस्य चाण्डालादिस्पर्शः सम्भाव्यते, तथापि न बीभत्समान उदकमुपस्पृशेत् न स्नायात् । उपसंग्रहणे वा धूलिधूसरौ पादौ स्पृष्ट्वा न बीभत्समान उदकमुपस्पृशेत् । ततस्तं पुरस्कृत्य गृहप्रवेशे अग्रे कृत्वा । पूजासाधनान्युपस्थाप्य यथोपदेशं गृह्योक्तेन मार्गेण मधुपर्केण पूजयेत् । पूजाविधानं गृह्योक्तस्याऽयमनुवाद आसनादिषु विशेषं वक्तुम् ॥ ४ ॥
05 आसने शयने भक्ष्ये ...{Loading}...
आसने शयने भक्ष्ये भोज्ये वाससि वा संनिहिते निहीनतरवृत्तिः स्यात् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If his former teacher is) present, he himself shall use a seat, a bed, food, and garments inferior to, and lower (than those offered to the teacher.
हरदत्त-टीका
सूत्रम्
आसने शयने भक्ष्ये वाससि वा सन्निहिते निहीनतरवृत्तिः स्यात् ॥ ५ ॥
प्रस्तावः
तमाह-
टिप्पनी
सन्निहित आचार्य तस्मिन्नेव गृहे अपवरकादिकं प्रविष्टे आसनादिषु निहीनतरवृत्तिः स्यात् । तरप् निर्देशात् नीच आसने गुणतोऽपि निकृष्ट आसीत । एवं शयनादिश्वपि द्रष्टव्यम् ॥ ५ ॥
06 तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ...{Loading}...
तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Standing (with his body bent), he shall place his left hand (under the water-vessel, and bending with his other hand its mouth downwards), he shall offer to his teacher water for sipping. 6
हरदत्त-टीका
सूत्रम्
तिष्ठन् सव्येन पाणिनाऽनुगृह्याऽऽचार्य7माचमयेत् ॥६॥
टिप्पनी
तिष्ठन्निति प्रह्व उच्यते, स्थानयोगात् । न हि साक्षात्तिष्ठन्नाचमयितुं प्रभवति । सव्येन पाणिना करकादिकमनुगृह्याऽधस्ताद्गृहीत्वा इतरेण द्वारमवमृश्येत्यर्थसिद्धत्वादनुक्तम् । एवं कृत्वाऽऽचार्यमाचमयेत् स्वयमेव शिष्यः। एवं हि स3 सम्मतो भवति । आचार्ये प्रकृते पुनराचार्य ग्रहणमातिथ्यादन्यत्राप्याचार्यमाचमयन्नेवमेवाऽऽचमयेदिति ॥ ६॥
07 अन्यं वा समुदेतम् ...{Loading}...
अन्यं वा समुदेतम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (he shall offer water for sipping in this manner) to other guests also who possess all (good qualities) together. 8
हरदत्त-टीका
सूत्रम्
अन्यं वा समुदेतम् ॥ ७॥
टिप्पनी
वाशब्दः समुच्चये । अन्यमप्येवमेवाचमयेत् । स चेत् समुदेतः कुलशीलवृत्तविद्यावयोभिरुपेतो भवति ॥७॥
08 स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ...{Loading}...
स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall imitate (his teacher) in rising, sitting, walking, about, and smiling. 9
हरदत्त-टीका
सूत्रम्
स्थानासनचंक्रमणस्मितेष्वनुचिकीर्षन् ॥ ८ ॥
टिप्पनी
व्यवहितमपि स्यादित्यपेक्ष्यते । चिकीर्षया करणं लक्ष्यते । स्थानादिष्वाचार्यस्य पश्चाद्भावी स्यात् । न पूर्वभावी । न युगपद्भावी ॥ ८॥
09 सन्निहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ...{Loading}...
संनिहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the presence (of his teacher) he shall not void excrements, discharge wind, speak aloud, laugh, spit, clean his teeth, blow his nose, frown, clap his hands, nor snap his fingers.
हरदत्त-टीका
सूत्रम्
सन्निहिते मूत्रपुरीषवातकर्मोच्चैर्भाषाहास4ष्ठीवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठयानीति ॥ ९ ॥
टिप्पनी
वातकर्म अपानवायोरुत्सर्गः । उच्चैर्भाषा महता स्वनेन सम्भाषणं केनाऽपि । ह्रासो हसनम् । ष्ठीवनं श्लेष्मादिनिरसनम् । दन्तस्खलनं दन्तमलापकर्षणम् । परस्परघट्टनमित्यन्ये । निःशृङ्खणं नालिकामलनिस्सारणम् । भ्रुक्षेपणं भ्रूविक्षेपः । छान्दसो ह्रस्वः । तालनं हस्तयोरास्फालनम् । निष्ठ्यमङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैरासनादिकम् । वर्जयेदित्यपेक्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सन्निधौ न कुर्यादिति ॥९॥
10 दारे प्रजायाञ् चोपस्पर्शनभाषा ...{Loading}...
दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he tenderly embrace or address caressing words to his wife or children.
हरदत्त-टीका
सूत्रम्
दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् ॥ १० ॥
टिप्पनी
उपस्पर्शनमालिङ्गनाघ्राणादि । भाषाः सम्भाषाश्चाटुप्रभृतयः । एता अध्याचार्ये सन्निहिते7 दारप्रजाविषये विस्रब्धं न कुर्यात् । ज्वरादिपरीक्षायां न दोषः ॥ १०॥
11 वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य ...{Loading}...
वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य वर्जयेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not contradict his teacher,
हरदत्त-टीका
सूत्रम्
वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जयेच्छ्रेयसां च ॥ ११ ॥
टिप्पनी
आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन तादृशेन प्रतिघातं न कुर्यात् । श्रेयसा च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन न प्रतिहन्यात् ॥ ११ ॥
12 श्रेयसाञ् च ...{Loading}...
श्रेयसां च १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor any of his betters.
हरदत्त-टीका
सूत्रम्
श्रेयसां च ॥ ११ ॥
टिप्पनी
+++(पूर्वसूत्रे द्रष्टव्यम्।)+++
13 सर्वभूतपरीवादाक्रोशांश्च ...{Loading}...
सर्वभूतपरीवादाक्रोशांश्च १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall not) blame or revile any creature. 10
हरदत्त-टीका
सूत्रम्
सर्वभूतपरीवादाक्रोशांश्च ॥ १२ ॥
टिप्पनी
सर्वेषां भूतानां तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान् अश्लीलवादांश्च वर्जयेत् । परीवादस्य पुनःपुनर्वचनमतिशयेन वर्जनार्थम् ॥ १२ ॥
14 विद्यया च विद्यानाम् ...{Loading}...
विद्यया च विद्यानाम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall not revile one branch of) sacred learning by (invidiously comparing it with) another. 11
हरदत्त-टीका
सूत्रम्
विद्यया च विद्यानाम् ॥ १३ ॥
टिप्पनी
विद्यया च विद्यानां परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एव श्रोत्रसुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीयकमुच्छिष्टशाखा, 3याज्ञवल्क्यादीनि ब्राह्मणानीदानींतनानि इत्याद्याक्रोश ॥ १३ ॥
15 यया विद्यया न ...{Loading}...
यया विद्यया न विरोचेत पुनराचार्यमुपेत्य नियमेन साधयेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he is not well versed in a (branch of) sacred learning (which he studied formerly), he shall again go to the (same) teacher and master it, observing the (same) rules as (during his first studentship).
हरदत्त-टीका
सूत्रम्
यया विद्यया न विरोचेत् पुनराचार्यमुपेत्य नियमेन साधयेत् ॥ १४ ॥
टिप्पनी
यया विद्ययाऽधीतया श्रुतया वा न विरोचेत न यशस्वी स्यात् , तामित्यर्थाद्गम्यते । तां विद्यां पुनस्साधयेत् । यथा सम्यक् सिद्धा भवति तथा कुर्यात् । कथम् ? आचार्य तमेवा7न्यं वा उपेत्य उपसद्य । नियमेनाऽपूर्वाधिगमे विद्यार्थस्य यो नियम उक्तः तेन शुश्रूषादिना ॥१४॥
16 उपाकरणादोत्सर्जनादध्यापयितुर्नियमः लोमसंहरणम् मांसं ...{Loading}...
उपाकरणादोत्सर्जनादध्यापयितुर्नियमः। लोमसंहरणं मांसं श्राद्धं मैथुनमिति च वर्जयेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- The restrictions (to be kept) by the teacher from the beginning of the course of teaching to its end are, to avoid cutting the hair on the body, partaking of meat or of oblations to the Manes, and connection (with a woman). 12
हरदत्त-टीका
सूत्रम्
उपाकरणाद्योत्सर्जनाध्यापयितुर्नियमो लोमसंहरणं मांसं श्राद्धं मैथुनमिति वर्जयेत् ॥ १५ ॥
प्रस्तावः
अस्मिन्विषयेऽध्यापयितुर्नियमः —
टिप्पनी
लोमसहरणं लोमवापनम् । इदमनाहिताग्निविषयम् । आहिताग्नेस्तु “3अप्यल्पशो लोमानि वापयत इति वाजसनेयकम्” इति ॥ १५ ॥
17 ऋत्वे वा जायाम् ...{Loading}...
ऋत्वे वा जायाम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (he may have conjugal intercourse) with his wife at the proper season.
हरदत्त-टीका
सूत्रम्
ऋत्वे वा जायाम् ॥ १६ ॥
टिप्पनी
ऋतुकाले वा जायामुपेयात् । स्त्रीणामृतुदिनानि षोडश । तत्रभवः काल ऋत्व्यः। 4भवे छन्दसीति यत्प्रत्यये13 ‘ऋत्व्यवास्त्व्ये’ति सूत्रेण यणादेशो निपातितः । ऋत्व्य इति रूपसिद्धिः । अत्र यलोपश्छान्दसः। चातुर्मास्येषु प्रयुक्तम्-14 ऋत्वे वा जायाम्, नोपर्यास्ते’ इति यथा ॥१६॥
18 यथागमं शिष्येभ्यो विद्यासम्प्रदाने ...{Loading}...
यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च युक्तः स्यात् । एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall be attentive in instructing his pupils in the sacred learning, in such a manner that they master it, and in observing the restrictions (imposed upon householders during their teaching . He who acts thus, gains heavenly bliss for himself, his descendants and ancestors.
हरदत्त-टीका
सूत्रम्
यथागमं शिष्येभ्यो विद्यासम्प्रदाने नियमेषु च युक्तः स्पादेवं वर्तमानः पूर्वापरान् सम्बन्धानात्मानं च क्षेमे युनक्ति ॥ १७ ॥
टिप्पनी
येन प्रकारेणाऽऽगमः पाठार्थयोः तथैव शिष्येभ्यो निर्मत्सरेण विद्या सम्प्रदेया। एवंभूते विद्यासम्प्रदाने युक्तो15वहितः स्यात् । ये च गृहस्थस्य नियमोऽध्यापने ऽन्यत्र च, तेष्वपि युक्तः स्यात् । एवं युको वर्तमानः पूर्वान् पितृपितामहप्रपितामहान् । अपरांश्च पुत्रपौत्रनप्तॄन् । सम्बन्धान् । कर्मणि घञ् । सम्बन्धिनः पुरुषान् । आत्मानं च क्षेमे अभये स्थाने नाकस्य पृष्ठे । युनक्ति स्थापयति ॥ १७ ॥
19 मनसा वाचा प्राणेन ...{Loading}...
मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान्परिवृञ्जानो ऽमृतत्वाय कल्पते १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who entirely avoids with mind, word, nose, eye, and ear the sensual objects (such as are) enjoyed by the touch, the organ, or the stomach, gains immortality.
हरदत्त-टीका
सूत्रम्
मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्छिश्नोदरारम्भणानास्रावान् परीवृञ्जानोऽमृतत्वाय कल्पते ॥१८॥
टिप्पनी
यैः पुरुष आस्राव्यते बहिराकृष्यते । ते आस्रावाः शब्दादयो विषयाः। ते विशेष्यन्ते त्वक्छिश्नोदरारम्भणान् आरभ्यन्ते7 आलम्ब्यन्त इत्यारम्भणाः । तत्र त्वगालम्बना स्रकचन्दनादयः शिश्नालम्बनाः स्त्र्युपभोगादयः । उदरालम्बना 3भक्ष्यभोज्यादयः। उपलक्षणं त्वगादिग्रहणम् । एवंभूतानास्रावान् मनआदिभिः पञ्चभिरिन्द्रियैः परिवृञ्जानस्सर्वतो वर्जयन् अमृतत्वाय मोक्षाय कल्पते। तत्र वागिति रसनेन्द्रियमाह । प्राण इति घ्राणम् ॥ १८॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चमी कण्डिका ॥५॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने द्वितीयः पटलः ॥२॥
इति द्वितीयः पटलः
-
- This rule refers to the Upākarma, to be performed yearly by householders. In our days, too, the custom is observed, and the whole Brahminical community change on this occasion their Jenvīs or sacrificial cords in the month of Srāvaṇa. The adherents of the various Śākhās of the Vedas, however, perform the ceremony on different days. According to Haradatta, the Upaniṣads are named, in order to show that they are of the highest importance. See also Śatapatha-brāhmaṇa X, 3, 5, 12.
-
Others consider that this Sūtra refers to the annual Upākarma of the householder. In that case the translation would be, ‘And after having performed the Upākarma,’ &c. Probably Āpastamba means to give a general rule, applicable both to householders and to students who have returned home. ↩︎
-
एतदनन्तरं ‘उपाकरणात् परमित्यन्ये’ इति क. पुस्तकेऽधिकः पाठः । ↩︎ ↩︎ ↩︎
-
‘Though he may suspect that the teacher had been defiled by the touch of a Cāṇḍāla or the like, still he shall not show disgust nor wash himself.’–Haradatta. Regarding the rule of receiving guests, see below, II, 4, 8, 6 seq. ↩︎
-
According to Haradatta, the repetition of the word ācāryam, ’the teacher,’ in this Sūtra, indicates that the rule holds good not only when the teacher comes as a guest to his former pupil, but on every occasion when he receives water for sipping. ↩︎
-
‘He is called samudeta, “possessed of all (good qualities) together,” who is endowed with (good) birth, disposition, behaviour, (great) learning, and a (venerable) age.’–Haradatta. ↩︎
-
The word syāt is to be understood from Sūtra 5. ↩︎
-
Haradatta states that ‘speaking evil’ is forbidden here once more in order that it should be particularly avoided. ↩︎
-
‘For example, he shall not say, “The Ṛj-veda is sweet to the ear, the other Vedas grate on the ear,” or “the Taittirīya-veda is a Śākhā consisting of leavings,” or “the Brāhmaṇa proclaimed by Yājñavalkya is of modern origin.”’–Haradatta. The second sentence refers to the story that Yājñavalkya vomited the Black Yajur-veda, and his fellow-students, becoming partridges, picked it up. Regarding the third sentence, see Vārttika on Pāṇini IV, 3, 105, and Max Müller’s History of Ancient Sanskrit Literature, P. 363. ↩︎
-
Weber, Ind. Stud. X, 42. ↩︎
-
पा०सू० ६.१.१७५. ↩︎
-
आप० श्रौ० ८. ४.६, ७. ↩︎
-
विहितः इति क. ड. पु. ↩︎