01 प्रवचनयुक्तो वर्षाशरदम् मैथुनं ...{Loading}...
प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him who teaches, avoid connubial intercourse during the rainy season and in autumn. 1
हरदत्त-टीका
सूत्रम्
प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १॥
टिप्पनी
प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेत् ऋतावपि ॥१॥
02 मिथुनीभूय च न ...{Loading}...
मिथुनी-भूय च, न तया सह सर्वां रात्रिं शयीत २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if he has had connection (with his wife), he shall not lie with her during the whole night 2
हरदत्त-टीका
सूत्रम्
मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ॥ २॥
टिप्पनी
मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रिं सर्वां न शयीत ॥ २ ॥
03 शयानश्चाध्यापनं वर्जयेत् ...{Loading}...
शयानश् चाध्यापनं वर्जयेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not teach whilst he is lying on a bed.
हरदत्त-टीका
सूत्रम्
शयानश्चाऽध्यापनं वर्जयेत् ॥ ३॥
टिप्पनी
दिवा नक्तं च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधीयानस्य न दोषः ॥ ३ ॥
04 न च तस्यां ...{Loading}...
न च तस्यां शय्यायाम् अध्यापयेद् यस्यां शयीत ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he teach (sitting) on that couch on which he lies (at night with his wife).
हरदत्त-टीका
सूत्रम्
न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥४॥
टिप्पनी
यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शय्यायामासीनोऽपि नाऽध्यापयेत् ॥ ४॥
05 अनाविःस्रगनुलेपणः स्यात् ...{Loading}...
अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not show himself adorned with a garland, or anointed with ointments. 3
हरदत्त-टीका
सूत्रम्
अनाविःस्रगनुलेपणस्स्यात् ॥ ५ ॥
टिप्पनी
आविर्-भूते प्रकाशिते स्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्ववत् ॥ ५ ॥
06 सदा निशायान् दारम् ...{Loading}...
सदा निशायां दारं प्रत्य् अलंकुर्वीत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- At night he shall always adorn himself for his wife.
हरदत्त-टीका
सूत्रम्
सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥
टिप्पनी
‘दारं प्रतीति वचनादुपगमनार्थमलङ्करणम् । तेन भार्या अशक्त्यादिना उपगमनायोग्यत्वे नाऽयं नियमः ॥ ६ ॥
07 सशिरावमज्जनमप्सु वर्जयेत् ...{Loading}...
+++(नित्य-स्नाने स्नातकोचिते)+++ सशिरा वमज्जनम् अप्सु वर्जयेत् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not submerge his head together with his body (in bathing),
हरदत्त-टीका
सूत्रम्
सशिरा वमज्जनमप्सु वर्जयेत ॥७॥
टिप्पनी
वमज्जनम् अवमज्जनम् ।
‘वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो’रित्य् अकारलोपः ।
तत् सशिरा वर्जयेत् ।
सह शिरसा स्नानं न कुर्यात् ।
अवगाहन-विधयः सर्वे स्नातक-व्यतिरिक्ते चरितार्थाः, नैमित्तिकाश् च ।
स्नातकस्य तु नित्य-स्नानम् अवगाहन-रूपं न भवतीत्य् आचार्यस्य पक्षः ॥ ७ ॥
08 अस्तमिते च स्नानम् ...{Loading}...
अस्तम् इते च स्नानम् +++(वर्जयेत्)+++८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (let him avoid) to bathe after sunset.
हरदत्त-टीका
सूत्रम्
अस्तमिते च स्नानम् ॥ ८ ॥
टिप्पनी
अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥ ८॥
09 पालाशमासनम् पादुके दन्तप्रक्षालनमिति ...{Loading}...
पालाशम् {आसनं, पादुके, दन्त-प्रक्षालनम्} इति च वर्जयेत् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him avoid to use a seat, clogs, sticks for cleaning the teeth, (and other utensils) made of Palāśa-wood.
हरदत्त-टीका
सूत्रम्
पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥ ९ ॥
टिप्पनी
पालाशमासनादि वर्जयेत् । दन्तप्रक्षालनं दन्तकाष्ठम् । इतिशब्दः प्रकारे। तेनाऽन्यदपि गृहोपकरणं पालाशं वर्जयेत् ॥ ६ ॥
10 स्तुतिञ् च गुरोः ...{Loading}...
स्तुतिं च गुरोः समक्षं - यथा “सुस्नातम्” इति १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him avoid to praise (himself) before his teacher, saying, ‘I have properly bathed or the like.’
हरदत्त-टीका
सूत्रम्
स्तुतिं च गुरोस्समक्षं यथा सुस्नातमिति ॥१०॥
टिप्पनी
‘सुस्नात’मित्यादिकां च स्तुतिं गुरोस्सन्निधौ वर्जयेत् ॥१०॥
11 आ निशाया जागरणम् ...{Loading}...
आ +++(मध्य)+++निशाया जागरणम् +++(स्यात्)+++ ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him be awake from midnight.
हरदत्त-टीका
सूत्रम्
आ निशाया जागरणम् ॥ ११ ॥
टिप्पनी
निशा रात्रेर्मध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥
12 अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ...{Loading}...
अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not study (or teach) in the middle of the night; but (he may point out) their duties to his pupils.
हरदत्त-टीका
सूत्रम्
अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ॥१२॥
टिप्पनी
निशायामनध्यायः अध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मोपदेशोऽनुज्ञायते ॥ १२ ॥
13 मनसा वा स्वयम् ...{Loading}...
मनसा वा स्वयम् +++(अधीयीत)+++॥ १३ ॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (he may) by himself mentally (repeat the sacred texts).
हरदत्त-टीका
सूत्रम्
मनसा वा स्वयम् ॥ १३ ॥
टिप्पनी
निशायामनध्यायस्य प्रतिप्रसवः-मनसा वा स्वयं चिन्तयेदिति ॥ १३ ॥
14 ऊर्ध्वम् अर्धरात्राद् अध्यापनम् ...{Loading}...
ऊर्ध्वम् अर्धरात्राद् अध्यापनम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- After midnight he may teach.
हरदत्त-टीका
सूत्रम्
ऊर्ध्वमर्धरात्रादध्यापनम् ॥ १४ ॥
टिप्पनी
अयमपि प्रतिप्रसवः । निशायामपि षोडश्या नाडिकाया आरभ्याध्यापनं भवतीति ॥१४॥
15 नापररात्रमुत्थायानध्याय इति संविशेत् ...{Loading}...
नापररात्रम् उत्थायानध्याय इति संविशेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he has risen (at midnight, and taught) during the third watch of the night, let him not lie down again (saying), ‘Studying is forbidden.’ 4
हरदत्त-टीका
सूत्रम्
नाऽपररात्रमुत्थायाऽनध्याय इति संविशेत् ॥ १५ ॥
टिप्पनी
रात्रेस्तृतीयो भागोऽपररात्रः । ऊर्ध्वमर्धरात्रादुत्थायाऽध्यापयन्नपररात्रे न संविशेत् न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति । किं पुनः स्वाध्याये । तथा च मनुः—
5‘न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।’ इति ॥१५॥
16 काममपश् शयीत ...{Loading}...
कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- At his pleasure he may (sleep) leaning (against a post or the like).
हरदत्त-टीका
सूत्रम्
6काममपशयीत ॥ १६ ॥
टिप्पनी
अनेन स्तम्भाद्य्-उपाश्रयणेनाऽऽसीनस्य स्वापो ऽनुशायते । श्रिञ् सेवायाम् । तत्र रेफलोपश् छान्दसः। तथा शकारस्य द्विर्वचनम् ॥ १६ ॥
17 मनसा वाधीयीत ...{Loading}...
मनसा वाधीयीत १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may mentally repeat (the sacred texts).
हरदत्त-टीका
सूत्रम्
मनसा वाऽधीयीत ॥ १७ ॥
टिप्पनी
अयमप्यूर्ध्वमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते। म नसा प्राप्तं प्रदेशमधीयीत स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥
18 क्षुद्रान्क्षुद्राचरितांश्च देशान्न सेवेत ...{Loading}...
क्षुद्रान्, क्षुद्राचरितांश् च देशान् न सेवेत १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not visit inferior men (such as Niṣādas), nor countries which are inhabited by them, 7
हरदत्त-टीका
सूत्रम्
क्षुद्रान् क्षुद्राचारितांश्च देशान्न सेवेत ॥ १८ ॥
टिप्पनी
क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रैर्निषादादिभिरधिष्ठितांश्च देशान्न सेवेत ॥१८॥
19 सभाः समाजांश्च ...{Loading}...
सभाः समाजांश्+++(=जनयूथं)+++ च १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor assemblies and crowds.
हरदत्त-टीका
सूत्रम्
सभास्समाजांश्च ॥ १९ ॥
टिप्पनी
सभास्समाजाश्च व्याख्याताः। तान्न सेवेत ॥ १९ ॥
20 समाजञ् चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् ...{Loading}...
समाजं+++(=जनयूथं)+++ चेद् गच्छेत्, +++(निर्गच्छन्)+++ प्रदक्षिणी-कृत्यापेयात् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has entered a crowd, he shall leave it, turning his right hand towards the crowd.
हरदत्त-टीका
सूत्रम्
समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २०॥
टिप्पनी
यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥
21 नगरप्रवेशनानि च वर्जयेत् ...{Loading}...
नगर-प्रवेशनानि च वर्जयेत् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he enter towns frequently.
हरदत्त-टीका
सूत्रम्
नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥
टिप्पनी
बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिद्यादृच्छिके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥
22 प्रश्नञ् च न ...{Loading}...
+++(दुर्बोध्यार्थ-)+++प्रश्नं+++(→प्रश्नोत्तरं)+++ च न विब्रूयात् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not answer directly a question (that is difficult to decide).
हरदत्त-टीका
सूत्रम्
प्रश्नं च न विब्रूयात् ॥ २२ ॥
टिप्पनी
विविच्य वचनं विवचनं निर्णयः । पृष्टम् अर्थं न विविच्य ब्रूयादिदमित्थमिति । दुर्निरूपार्थ-विषयम् इदम् ॥ २२ ॥
23 अथाप्युदाहरन्ति ...{Loading}...
अथाप्य् उदाहरन्ति +++(वक्ष्यमाणं श्लोकम्)+++ २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now they quote also (the following verse):
हरदत्त-टीका
सूत्रम्
अथाऽप्युदाहरान्ति ॥ २३ ॥
टिप्पनी
अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥
24 मूलन् तूलं वृहति ...{Loading}...
मूलं तूलं+++(→आगामिनी सम्पत्)+++ वृहति+++(=उत्पाटयति)+++
दुर्विवक्तुः प्रजां पशून् आयतनं हिनस्ति ।
“धर्मप्रह्राद! न कुमालनाय +++(इदं कुकर्म)+++”
रुदन् ह मृत्युर् व्य्-उवाच +++(ऋषिकृतं)+++ प्रश्नम्
+++(“केनानवधानेन पातितेन मच्छिशुर् मृत” इति )+++
इति २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The foolish decision) of a person who decides wrongly destroys his ancestors and his future happiness, it harms his children, cattle, and house. ‘Oh Dharmaprahrāda, (this deed belongs) not to Kumālana!’ thus decided Death, weeping, the question (addressed to him by the Ṛṣi). 8
हरदत्त-टीका
सूत्रम्
मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशुनायतनं हिनस्ति । धर्मप्रह्राद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् । इति ॥ २४ ॥
टिप्पनी
दुर्निरूपमर्थं सहसा निर्णीयं यो दुर्विवक्ति, अन्यथा वर्णयति स दुर्विवक्ता । तस्य दुर्विवक्तुस् तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृधनम् । तूलम् आगामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्टयोः वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति।
अत्रेतिहासः —
कस्यचिद् ऋषेर् धर्मप्रह्रादः कुमालनश्चेति द्वौ शिष्यावास्ताम् ।
तौ कदाचिद् अरण्यान् महान्तौ समिद्-भाराव् आहृत्य श्रमाद्5 दृष्टिपूत एवाचार्यगृहे प्राक्षिपताम् ।
तयोरकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः ।
ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ- “केनायं मारित” इति ।
तावुभावपि न मयेत्य् ऊचतुः ।
तथा पतितस्य परित्यागम् अदुष्टस्य परिग्रहं कर्तुम् अशक्नुवन्न् ऋषिर् मुत्युम् आहूय पप्रच्छ- “केनायं व्यापादित” इति ।
ततो धर्मसङ्कटे पतितो मृत्यू रुदन्न् एव प्रश्नं व्युवाच विविच्य कथितवान् ।
कथम् ? हे धर्मप्रह्राद न कुमालनाय । षष्ठपर्थे चतुर्थी । कुमानलस्य नेदं पतनीयम् इति । धर्मप्रह्राद त्वयेदं कृतम् इति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथापीतरस्यास्तीत्य् अर्थाद् गम्यते । इति रुदन् ह व्युवाचेति । ह-शब्द ऐतिह्यत्वद्योतनार्थः । प्रह्रादशब्दे हकारात्परो रेफश्छान्दसः ॥ २४ ॥
25 गार्दभं यानमारोहणे विषमारोहणावरोहणानि ...{Loading}...
गार्दभं यानम् आरोहणे,
विषमारोहणावरोहणानि च वर्जयेत् २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not ascend a carriage yoked with asses; and let him avoid to ascend or to descend from vehicles in difficult places.
हरदत्त-टीका
सूत्रम्
गादर्भं यानमारोहणे विषमारोहणावरोहणानि च वर्जयेत् ॥ २५ ॥
टिप्पनी
गर्दभयुक्तं यानं गार्दर्भं शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा विषमेषु निम्नोन्नतेष्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं निम्नेष्ववरोहणम् ॥ २५॥
26 बाहुभ्याञ् च नदीतरम् ...{Loading}...
बाहुभ्यां च नदी-तरम् २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (let him avoid) to cross a river swimming. 9
हरदत्त-टीका
सूत्रम्
बाहुभ्यां च नदीतरणम् ॥ २६ ॥
टिप्पनी
तरण तरः । बाहुभ्यां च नद्यास्तरणं वर्जयेत् । ‘बाहुभ्यां’मिति वचनात् प्लवादिना न दोषः ॥ २६ ॥
27 नावाञ् च सांशयिकीम् ...{Loading}...
नावां च सांशयिकीम् +++(वर्जयेत्)+++२७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (let him avoid) ships of doubtful (solidity).
हरदत्त-टीका
सूत्रम्
नावं च सांशयिकीम् ॥ २७ ॥
टिप्पनी
भिद्यते न वेति संशयमापन्ना सांशयिकी नौः । जीर्णां नावं वर्जयेत् । ‘नावा’मिति षष्ठयन्तपाठे नावां मध्ये सांशयिकीं नावं वर्जयेत् ॥ २७॥
28 तृणच्छेदनलोष्टविमर्दनाष्ठेवनानि चाकारणात् ...{Loading}...
तृण-च्छेदन-लोष्ट-विमर्दनाष्ठेवनानि चाकारणात् २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid cutting grass, crushing clods of earth, and spitting, without a particular reason, 10
हरदत्त-टीका
सूत्रम्
तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८॥
टिप्पनी
तृणच्छेदनादि नाऽकारणाद्वर्जयेत् न कुर्यात् । तृणच्छेदनस्याऽग्निज्वलनादि कारणम् । ष्ठेवनस्य कारणं प्रतिश्यायादि । इतरच्च मृग्यम् ॥
29 यच्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते ...{Loading}...
यच् चान्यत् परिचक्षते, यच् चान्यत् परिचक्षते २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And whatever else they forbid.
हरदत्त-टीका
सूत्रम्
यच्चाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥
टिप्पनी
यच्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षक्रीडादि वर्जयेत् । द्विरुक्तिः प्रश्नपरिसमाप्तिकृता ॥ २९ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी कण्डिका ॥ ३२ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायामेकादशः पटलः ॥
॥ समाप्तः प्रथमः पश्नः ॥
॥ श्रीः ॥
इत्येकादशः पटलः
इति प्रथमोऽध्यायः
-
- Weber, Ind. Stud. X, 42.
-
Manu IV, 40. ↩︎
-
Manu IV, 72. ↩︎
-
I.e. if the following day is a forbidden day, e.g. an Aṣṭamī. See also Manu IV, 99. ↩︎
-
काममुपशयीत इति म. पु. ↩︎
-
Manu IV, 60 and 61. ↩︎
-
Haradatta tells the story to which the second half of the verse alludes, in the following manner: ‘A certain Ṛṣi had two pupils, called Dharmaprahrāda and Kumālana. Once they brought from the forest two great bundles of firewood and threw them negligently into their teacher’s house, without looking. One of the bundles struck the teacher’s little son so that he died. Then the teacher asked his two pupils, “Which of you two has killed him?” Both answered, “Not I, not I.” Hereupon the teacher, being unable to (come to a decision in order to) send away, the sinner and to keep the innocent one, called Death, and asked him, “Which of the two has killed the boy?” Then Death, finding himself involved in a difficult law-question, began to weep, and p. 99 giving his decision, said, “Oh Dharmaprahrāda, not to Kumālana (the dative has the sense of the genitive), this sin is none of Kumālana’s!” Instead of declaring, “Dharmaprahrāda, thou hast done this,’ he said, “The other did not do it.” Still from the circumstances of the case it appeared that the meaning of the answer was, “The other has done it.” “This was the decision which he gave crying.”’–The reading of the text rendered in the translation is, dharmaprahrāda na kumālanāya. ↩︎
-
Manu IV, 77. ↩︎
-
Manu IV, 70 and 71. ↩︎