01 विद्यया स्नातीत्येके ...{Loading}...
विद्यया स्नातीत्येके १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that a student shall bathe after (having acquired) the knowledge of the Veda, (however long or short the time of his studentship may have been). 1
हरदत्त-टीका
सूत्रम्
विद्यया स्नातीत्येके १
प्रस्तावः
‘न समावृत्ता वपेरन्’ ( ८. ७. ) स्नातस्तु काल’ (१०.७.) इत्यादिषु प्रसक्तस्य स्नानस्य कालमाह —
टिप्पनी
वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मन्यन्ते । मनुरित्याह—
2वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ इति ॥ १॥
02 तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन ...{Loading}...
तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He may) also (bathe) after having kept the student’s vow for forty-eight, (thirty-six or twenty-four) years, (though he may not have mastered the Veda).
हरदत्त-टीका
सूत्रम्
तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेन ॥२॥
टिप्पनी
परिमाणमेव परीमाणम् । छान्दसो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं 3 ‘पादूनम्, अर्धेने’(२.१३,१४)त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाचत्वारिंशदादिपरिमाणेन व्रतेन 4वा सम्पन्नः स्नायात् असम्पन्नोऽपि विद्यया ॥२॥
पादूनम् , अर्धेन, त्रिभिर्वा’ इत्येतेषां पूर्वोक्तानामुपलक्षणम् । इति. क. पु.
‘अथ ब्रह्मचर्यविधिः’ इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादिरूपेण । अस्ति च तेषु व्रतशब्दः ‘यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः" इति । इह तु समुदायाभिप्रायमेकवचनम् । तेन वा व्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया । ‘चत्वारि वेदव्रतानी’त्येषां तु ग्रहणमत्र नाऽऽङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिकः पाठो ग. पु.
03 विद्याव्रतेन चेत्येके ...{Loading}...
विद्याव्रतेन चेत्येके ३
सर्वाष् टीकाः ...{Loading}...
Bühler
Some declare, that the student (shall bathe) after (having acquired) the knowledge of the Veda and after (the expiration of) his vow.
हरदत्त-टीका
सूत्रम्
विद्या व्रतेन चेत्येके ॥३॥
टिप्पनी
विद्येति तृतीयैकवचनस्याकारस्य5 ‘सुपां सुलुक्’ इत्यादिना लुक् । विद्यया व्रतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च 6‘वेदमधीत्य स्नास्य’नित्यत्र वेदमधीत्येत्युपलक्षणम् । अत्र याज्ञवल्क्यः —
7वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्या स्त्रियमुद्वहेत् ॥ इति ।
-
अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते। तेषु हि कालपरिमाणस्य श्रुतत्वातू पारं नीत्वेति युज्यते । दृश्यते च तेषु व्रतशब्दः। ‘यथा व्रतेषु समर्थस्स्याद्यानि वक्ष्याम इति। न तु सावित्र्यादीनि वेदव्रतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया तदभावेऽभावाद्वेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशेषावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थः * ॥ ३ ॥
-
*.एतच्चिन्हान्तर्गतो भागोऽधिकपाठतया परिगणितः ख. पुस्तके । ग. पुस्तके नास्ति पाठः । अन्यत्र तु यथायथमस्ति ।
04 तेषु सर्वेषु स्नातकवद्वृत्तिः ...{Loading}...
तेषु सर्वेषु स्नातकवद्वृत्तिः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- To all those persons who have bathed (In accordance with any of the above rules must be shown) the honour due to a Snātaka.
हरदत्त-टीका
सूत्रम्
तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥
टिप्पनी
विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः तेषु सर्वेषु स्नातकवत् ‘तदर्हती’ति वतिः । स्नातकार्हा वृत्तिः पूजा2 ‘यत्राऽस्मा अपचिति’मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्नातकेऽधिकेति ॥ ४॥
05 समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायाम् फलविशेषः ...{Loading}...
समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- The reverence (shown to a Snātaka) brings, however, different rewards according to the degree of devotion or of learning (possessed by the person honoured).
हरदत्त-टीका
सूत्रम्
समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥५॥
प्रस्तावः
यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह—
टिप्पनी
कर्तव्येषु कर्मस्ववधानं समाधिः श्रुतिः श्रुतम् ॥ ५ ॥
06 अथ स्नातकव्रतानि ...{Loading}...
अथ स्नातकव्रतानि ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now follow the observances (chiefly to be kept) by a Snātaka.
हरदत्त-टीका
सूत्रम्
अथ स्नातकव्रतानि ॥ ६ ॥
टिप्पनी
इत उत्तरं स्नातकव्रतान्यधिकृतानि वेदितव्यानि । यद्यपि वक्ष्यमाणेषु कानिचित् साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकव्रतान्यधिक्रियन्ते ॥६॥
07 पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण ...{Loading}...
पूर्वेण ग्रामान् निष्क्रमण-प्रवेशनानि शीलयेद्, उत्तरेण वा ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall usually enter the village and leave it by the eastern or the northern gate.
हरदत्त-टीका
सूत्रम्
पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥ ७ ॥
टिप्पनी
यदा ग्रामान्निष्कामति ग्रामं वा प्रविशति तदा पूर्वेण द्वारणोत्तरेण वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण निष्क्रमणप्रवेशनयोरपि न प्रायश्चितम् ॥ ७ ॥
08 सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ...{Loading}...
संध्योश् च बहिर्ग्रामाद् आसनं, वाग्-यतश् च ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- During the morning and evening twilights, he shall sit outside the village, and not speak anything (referring to worldly matters).
हरदत्त-टीका
सूत्रम्
सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ॥ ८ ॥
टिप्पनी
अहोरात्रयोः सन्धानं सन्धिः ।
तौ च द्वौ - सायं प्रातश् च । 8
‘सज्योतिष्याज्योतिषोऽदर्शनात्’ इति गौतमः ।
तयोस् सन्ध्ययोर् ग्रामाद् बहिर् आसीत ।
वाग्यतश् च भवेत् । मनुः पुनराह—
9 ‘पूर्वां सन्ध्यां जपंस् तिष्ठेत्
सावित्रीम् आर्कदर्शनात् ॥
पश्चिमां तु समासीत
सम्यगृक्षविभावनात् ॥’
इति
10तिष्ठेत् पूर्वाम् आसीतोत्तराम्
इति गौतमः। एते ब्रह्मचारि-विषये।
स्नातके आसनस्य वाङ्-निमनस्य चाऽत्र विधानात् ॥
अन्ये तु -
आसनग्रहणं स्थानस्याऽप्य् उपलक्षणम्,
वाग्यमश् च लौकिक्या वाचो निवृत्तिः,
न सावित्रीजपस्येति वर्णयन्ति ॥ ८ ॥
09 विप्रतिषेधे श्रुतिलक्षणम् बलीयः ...{Loading}...
विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (But an Agnihotrī, who is occupied at home by oblations in the morning and evening, must not go out; for) in the case of a conflict (of duties), that enjoined by the Veda is the more important.
हरदत्त-टीका
सूत्रम्
विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९॥
प्रस्तावः
अहिताग्निविषयेऽस्याऽपवादः—
टिप्पनी
विरोधो विप्रतिषेधः अग्निहोत्रिणो बहिर् आसनम् अग्निहोत्रहोमश् च विरुध्येते । तथा च श्रूयते-“समुद्रो वा एष यद् अहो-रात्रः, तस्यैते गाथे तीर्थे यत् सन्धी, तस्मात् सन्धौ होतव्यम्” इति । तत्र श्रुति-लक्षणम् अग्निहोत्रम् एव कर्तव्यम्, न स्मार्तं बाहिरासनम् । तस्य कल्प्य-मूलत्वाद् इतरस्य च , क्लृप्त-मूलत्वाद् अति । 4जैमिनिरत्याह— 5विरोधे त्वनपेक्षं स्थादसति हनुमानमिति ॥९॥
10 सर्वान्रागान्वाससि वर्जयेत् ...{Loading}...
सर्वान् रागान् वाससि वर्जयेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid all dyed dresses, 11
हरदत्त-टीका
सूत्रम्
सर्वान्रागान्वाससि वर्जयेत् ॥ १० ॥
टिप्पनी
कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनचिद्रक्त-वासो बिभृयादिति ॥ १०॥
11 कृष्णञ् च स्वाभाविकम् ...{Loading}...
+++(वस्त्रं यत्)+++ कृष्णं च स्वाभाविकम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And all naturally black cloth.
हरदत्त-टीका
सूत्रम्
कृष्णं च स्वाभाविकम् ॥ ११ ॥
टिप्पनी
यश् च स्वभावतः कृष्णं कम्बलादि तदपि न वसीत ॥ ११ ॥
12 अनूद्भासि वासो वसीत ...{Loading}...
अनूद्भासि वासो वसीत १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall wear a dress that is neither shining,
हरदत्त-टीका
सूत्रम्
अनूद्भासि वासो वसीत ॥ १२ ॥
टिप्पनी
उद्भासनशीलमुद्भासि उल्बणम् । ततोऽन्यदनूद्भासि । छान्दसो दीर्घः । एवंभूतं वासो वसीत् आच्छादयेत् ॥ १२ ॥
13 अप्रतिकृष्टञ् च शक्तिविषये ...{Loading}...
अ-प्रतिकृष्टं +++(जीर्णत्वादेः)+++ च शक्तिविषये १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor despicable, if he is able (to afford it). 12
हरदत्त-टीका
सूत्रम्
अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥
टिप्पनी
प्रतिकृष्टं निकृष्टं जीर्णं मलवत् स्थूलं च । तद्विपरीतमप्रतिकृष्टम् । तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥
14 दिवा च शिरसः ...{Loading}...
दिवा च शिरसः प्रावरणं वर्जयेन् - मूत्र-पुरीषयोः कर्म परिहाप्य १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And in the day-time he shall avoid to wrap up his head, except when voiding excrements.
हरदत्त-टीका
सूत्रम्
दिवा च शिरसः प्रावरणं वर्जयेन् - मूत्र-पुरीषयोः कर्म परिहाप्य ॥ १४॥
टिप्पनी
चकारः पूर्वापेक्षया समुच्चयार्थः । दिवा शिरसः प्रावरणं पटादिना न कुर्यात् । किमविशेषेण ? नेत्याह- मूत्रपुरीषयोः कर्म क्रियां परिहाप्य वर्जयित्वा ॥ १४ ॥
15 शिरस्तु प्रावृत्य मूत्रपुरीषे ...{Loading}...
शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But when voiding excrements, he shall envelop his head and place some (grass or the like) on the ground. 13
हरदत्त-टीका
सूत्रम्
शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किञ्चिदन्तर्धाय ॥ १५ ॥
टिप्पनी
दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्त्य कुर्यात् । भूम्यां किञ्चिदन्तर्धाय तृणादिकम्, न साक्षात् भूम्यामेव । इह कामचारे प्राप्ते ‘दिवा च शिरसः प्रावरणं वर्जये’दित्युक्तम् । तस्य पर्युदासः कृतः-‘मूत्रपुरीषयोः कर्म परिहाप्ये’ति । तत्र मूत्रपुरीषकाले स एव कामचारः स्थितः। अत आरभ्यते-शिरस्तु प्रावृत्येति । एवं तर्हीदमेवाऽस्तु । न पूर्वः पर्युदासः। सोऽप्यवश्यं कर्तव्यः । अन्यथा ‘शिरस्तु प्रावृत्ये’त्यस्य रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्त रात्रौ सदैव प्रावरणमाह2 ‘न प्रावृत्त्य शिरोऽहनि पर्यटेत्, प्रावृत्य रात्री, मुत्रोच्चारे चे’ति ॥ १५ ॥
16 छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् ...{Loading}...
छायायाम् मूत्रपुरीषयोः कर्म वर्जयेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not void excrements in the shade (of a tree, where travellers rest).
हरदत्त-टीका
सूत्रम्
छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥
टिप्पनी
‘न चोपजीव्यच्छायास्वि’ति स्मृत्यन्तरे दर्शनात् यस्यां पथिकादयो विश्राम्यन्ति सा गृह्यते । तेन छत्रछायादेरप्रतिषेधः मेघच्छायाया अप्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥
17 स्वान् तु छायामवमेहेत् ...{Loading}...
स्वां तु छायाम् अव-मेहेत् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- But he may discharge urine on his own shadow.
हरदत्त-टीका
सूत्रम्
स्वां तु छायामवमेहेत् ॥ १७॥
टिप्पनी
छान्दसस्तुगभावः । द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं मूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रसवोऽयं न भवति । तेन सति सम्भवे स्वामेव छायां प्रत्यवमेढव्यम् ॥१७॥
18 न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे ...{Loading}...
न सोपानह् मूत्र-पुरीषे कुर्यात्, कृष्टे, पथ्य्, अप्सु च १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not void excrements with his shoes on, nor on a ploughed field, nor on a path, nor in water. 14
हरदत्त-टीका
सूत्रम्
3 न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥
टिप्पनी
+++(अग्रिमे सूत्रे द्रष्टव्यम्)+++
सूत्रम्
कृष्टे ॥ १९ ॥
सूत्रम्
पथि ॥२०॥
सूत्रम्
अप्सु च ॥२१॥
टिप्पनी
स्पष्टानि चत्वारि ॥ १८-२१ ॥
19 तथा ष्ठेवनमैथुनयोः कर्माप्सु ...{Loading}...
तथा ष्ठेवन-मैथुनयोः कर्माप्सु वर्जयेत् १९
20 अग्निमादित्यमपो ब्राह्मणङ् गा ...{Loading}...
अग्निम् आदित्यम् अपो ब्राह्मणं गा देवताश् चाभिमुखो मूत्र-पुरीषयोः कर्म वर्जयेत् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not void excrements facing the fire, the sun, water, a Brāhmaṇa, cows, or (images of) the gods. 16
हरदत्त-टीका
सूत्रम्
अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाऽभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥
टिप्पनी
देवताः देवता प्रतिमाः ॥२३॥
21 अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः ...{Loading}...
अश्मानं, लोष्ठम्,
आर्द्रान् ओषधि-वनस्पतीन्+++(←पुष्पैर् विना फलन्ति)+++ ऊर्ध्वान् +++(→वातादिभिर् अभग्नान्)+++ आच्छिद्य,
मूत्र-पुरीषयोः शुन्धने वर्जयेत् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid to clean his body from excrements with a stone, a clod of earth, or with (boughs of) herbs or trees which he has broken off, whilst they were on the tree and full of sap.
हरदत्त-टीका
सूत्रम्
अश्मानं लोष्टमानोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥
टिप्पनी
फल-पाकावसाना ओषधयः ।
ये पुष्पैर् विना फलन्ति ते वनस्पतयः ।
आर्द्रान् इति वचनात् शुष्केषु न दोषः ।
ऊर्ध्वान् इति वचनाद् वातादि-निमित्तेन भग्नेषु न दोषः। ‘एतैरश्मादिभिमूत्रपुरीषयोश्शोधनं न कुर्यात् ॥
22 अग्निमपो ब्राह्मणङ् गा ...{Loading}...
अग्निम्, अपो, ब्राह्मणं, गा, देवता, द्वारं, प्रतीवातं च
शक्ति-विषये नाभिप्रसारयीत +++(पादौ)+++२२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If possible, he shall not stretch out his feet towards a fire, water, a Brāhmaṇa, a cow, (iniages of) the gods, a door, or against the wind. 17
हरदत्त-टीका
सूत्रम्
अग्निमादित्यमपो ब्राह्मणं गा देवताद्वारं प्रति पादं च शक्तिविषये नाऽभिप्रसारयीत ॥ २५॥
टिप्पनी
शक्तौ सत्यां अग्न्यादीन्प्रति पादौ न प्रसारयेत् ॥ २५ ॥
23 अथाप्युदाहरन्ति ...{Loading}...
अथाप्य् उदाहरन्ति +++(ऽग्रे वक्ष्यमाणम्)+++ २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now they quote also (the following verse):
हरदत्त-टीका
सूत्रम्
अथाऽप्युदाहरन्ति ॥ २६ ॥
टिप्पनी
॥ इत्यापस्तम्बधर्मसूत्र प्रथमप्रश्ने त्रिंशी कण्डिका ॥ ३०॥
-
- The bath is taken at the end of the studentship, and forms part of the Samāvartana-ceremony. From this rite a student who has completed his course of study derives the name Snātaka, ‘one who has bathed.’ See also Weber, Ind. Stud. X, 125.
- ↩︎ ↩︎
- ↩︎ ↩︎ ↩︎
-
आप० गृ० १२. १. ↩︎
-
याज्ञ० स्मृ० १. ५२. ↩︎
-
गौ० २, ११, ‘सज्योतिषि’ इत्यादि ‘गौतम’ इत्यन्तं नास्ति छ. पु. ↩︎
-
म०स्मृ० २. १०१ ↩︎
-
गौ०ध० २. ११. ↩︎
-
The rule to wear white garments is given Yājñ. I, 131; Manu IV, 35. 33. ↩︎
-
Manu IV, 34. ↩︎
-
Manu IV, 49. ↩︎
-
Manu IV, 45, 46; Yājñ. I, 137. ↩︎
-
Manu IV, 56. ↩︎
-
Manu IV, 48, 52; Yājñ. I, 134. ↩︎
-
The prohibition to stretch the feet towards a fire occurs also Manu IV, 53; Yājñ. I, 137. ↩︎