01 यथा कथा च ...{Loading}...
यथा कथा च परपरिग्रहम् अभिमन्यते - स्तेनो ह भवतीति कौत्स-हारीतौ, तथा कण्व-पुष्करसादी १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who, under any conditions whatsoever, covets (and takes) another man’s possessions is a thief; thus (teach) Kautsa and Hārita as well as Kaṇva and Pushkarasādi.
02 सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः ...{Loading}...
सन्त्य् अपवादाः परिग्रहेष्व् इति वार्ष्यायणिः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Vārshyāyaṇi declares, that there are exceptions to this law, in regard to some possessions.
हरदत्त-टीका
सूत्रम्
संत्यपवादाः परपरिग्रहेष्विति वार्ष्यायणिः ॥ २॥
टिप्पनी
वार्ष्यायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्याऽपवादास्सन्तीति॥
03 शम्योषा युग्यघासो न ...{Loading}...
शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (E.g.) seeds ripening in the pod, food for a draught-ox; (if these are taken), the owners (ought) not (to) forbid it. 3
हरदत्त-टीका
सूत्रम्
शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ॥ ३ ॥
प्रस्तावः
तानेवोदाहरति —
टिप्पनी
शमी बीजकोशी तस्याम् उष्यन्ते दह्यन्ते कालवशेन पच्यन्ते इति शम्योषाः -
कोशीधान्यानि मुद्ग-माष-चणकादीनि ।
युगं वहतीति युग्यः शकटवाही बलीवर्दः, तस्य घासो भक्षस्तृणादिः युग्यघासः ।
एते आदीयमानाः स्वामिनो न प्रतिषेधयन्ति - स्वामिभिः प्रतिषेधं न कारयन्ति ।
एतेष्व् आदीयमानेषु स्वामिनो न प्रतिषेधुम् अर्हन्तीत्य् अर्थः । स्वयंग्रहणेऽपि न स्तेय-दोष इति यावत् । अत्र स्मृत्यन्तरे विशेषः —
‘चणकव्रीहिगोधूम-
यवानां मुद्गमाषयोः ।
अनिषिद्धैर् ग्रहीतव्यो
मुष्टिर् एकाऽध्वनि स्थितैः ॥’
मनुस्तु—
4 द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३ ॥
04 अतिव्यपहारो व्यृद्धो भवति ...{Loading}...
अतिव्यपहारो व्यृद्धो भवति ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- To take even these things in too great a quantity is sinful.
हरदत्त-टीका
सूत्रम्
अतिव्यवहारो व्यृद्धो भवति ॥ ४ ॥
टिप्पनी
शम्योषादिष्वपि अतिव्यवहारो व्यृद्धो दुष्टो भवति, अतिमात्रापहारे स्तेयदोषो भवतीत्यर्थः ॥ ४ ॥
05 सर्वत्रानुमतिपूर्वमिति हारीतः ...{Loading}...
सर्वत्रानुमतिपूर्वमिति हारीतः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Hārita declares, that in every case the permission (of the owner must be obtained) first.
हरदत्त-टीका
सूत्रम्
सर्वत्राऽऽनुमतिपूर्वमिति हारीतः ॥ ५ ॥
टिप्पनी
सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाम्यनुमतिपूर्वमेव ग्रहणमिति हारीत आचार्यों मन्यते ॥५॥
06 न पतितमाचार्यञ् ज्ञातिं ...{Loading}...
न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not go to visit a fallen teacher or blood relation.
हरदत्त-टीका
सूत्रम्
न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ॥ ६ ॥
टिप्पनी
‘न पतितैः सव्यवहारो विद्यत’(२१.५.) इत्युक्तेऽपि पुनरुच्यते- आचार्यादिषु विशेषं वक्ष्यामीति ॥ ६ ॥
07 न चास्माद्भोगानुपयुञ्जीत ...{Loading}...
न चास्माद्भोगानुपयुञ्जीत ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he accept the (means for procuring) enjoyments from such a person. 5
हरदत्त-टीका
सूत्रम्
न चाऽस्माद्भोगानुपयुञ्जीत ॥ ७ ॥
टिप्पनी
अस्मात्पतितादाचार्यात् ज्ञातेर्वा पित्रादेः भोगान् भोगसाधनानि दायप्राप्तान्यपि नोपयुञ्जीत न गृह्णीयात् ॥ ७ ॥
08 यदृच्छासन्निपात उपसङ्गृह्य तूष्णीं ...{Loading}...
यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he meets them accidentally he shall silently embrace (their feet) and pass on.
हरदत्त-टीका
सूत्रम्
यदृच्छासन्निपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ॥ ८॥
टिप्पनी
यदि पतितैराचार्यादिभिर्यदृच्छया सन्निपातः सङ्गतिः स्यात् तदाऽविधिनोपसङ्गृह्य तुष्णीं तैस्सह किञ्चिदप्यसम्भाष्य व्यतिव्रजेत् गच्छेत् । न क्षणमपि सह तिष्ठेत् ॥ ८॥
09 माता पुत्रत्वस्य भूयांसि ...{Loading}...
माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- A mother does very many acts for her son, therefore he must constantly serve her, though she be fallen.
हरदत्त-टीका
सूत्रम्
माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ॥९॥
टिप्पनी
पुत्रत्वस्य, स्वार्थिकस्त्वः । यथा ‘देहत्वमेवान्य’दिति । पुत्रस्य कृते माता भूयांसि दृष्टार्थानि गर्भधारणाशुचिनिर्हरणस्तन्यदानप्रदक्षिणनमस्कारोपवासादीनि कर्माणि करोति तस्मात्तस्यां पतितायामपि शुश्रूषा अभ्यङ्गस्नापनादिका । नित्या नित्यमेव कर्तव्या ॥९॥
10 न तु धर्मसन्निपातः ...{Loading}...
न तु धर्मसंनिपातः स्यात् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But (there shall be) no communion (with a fallen mother) in acts performed for the acquisition of spiritual merit.
हरदत्त-टीका
सूत्रम्
न तु धर्मसन्निवापः स्यात् ॥ १० ॥
टिप्पनी
एकस्मिन् धर्मे सहाऽन्वयो धर्मसन्निवापः । स पतितया मात्रा सह न कर्तव्यः। नामसुब्रह्मण्यायां मातुर्नामग्रहणम् । वरुणप्रघासेषु 1यावन्तो यजमानस्याऽमात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानी’त्येवमादिकमुदाहरणम् । किं पुनरेवमादिषु मातुरन्वयः शुश्रूषा ? ओमित्याह । अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमता। वैश्वदेवार्थे च पाके सा न भोजयितव्या । मृतायास्तु तस्याः संस्कारादिकाः क्रियाः कर्तव्याः नेति विप्रतिपन्नाः ॥१०॥
11 अधर्माहृतान्भोगाननुज्ञाय न वयञ् ...{Loading}...
अधर्माहृतान् भोगान् अनुज्ञाय
न वयं चाधर्मश् चेत्य् अभिव्याहृत्या
ऽधोनाभ्य् उपरिजान्व् आछाद्य
त्रिषवणम् उदकम् उपस्पृशन्न्
अक्षीराक्षारालवणं भुञ्जानो
द्वादश वर्षाणि नागारं प्रविशेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Enjoyments taken unrighteously he shall give up; he shall say, ‘I and sin (do not dwell together).’ Clothing himself with a garment reaching from the navel down to the knee, bathing daily, morn, noon, and evening, eating food which contains neither milk nor pungent condiments, nor salt, he shall not enter a house for twelve years. 6
हरदत्त-टीका
सूत्रम्
धर्माहृतान् भोगाननुज्ञाय न वयं चाऽधर्मश्चेत्यभि व्याहृत्याऽधो नाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्नक्षीराक्षारलवणं भुञ्जानो द्वादशवर्षाणि नाऽगारं प्रविशेत् ॥ ११ ॥
टिप्पनी
ब्राह्मणस्वहरणम्,
1चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्य तु गच्छति ॥
इत्येवमादिकमुदाहरणम्। ये अधर्माहृता भोगास्ताननुज्ञाय परित्यज्य ‘न वयं चाऽधर्मश्चेति प्रैषं ब्रूयात् । तस्यार्थः— वयं चाऽधर्मश्च सह न वर्तामह इति । अधो नाभीत्यादि (२४.११.)गतम् । नात्राऽर्धशाणीपक्षो भिक्षाचर्यं वा ॥ ११ ॥
12 ततः सिद्धिः ...{Loading}...
ततः सिद्धिः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that he (may be) purified.
हरदत्त-टीका
सूत्रम्
ततस्सिद्धिः ॥१२॥
टिप्पनी
एतस्य द्वादशवार्षिकस्याऽन्ते सिद्धिः शुद्धिर्भवति ॥ १२ ॥
13 अथ सम्प्रयोगः स्यादार्यैः ...{Loading}...
अथ संप्रयोगः स्याद् आर्यैः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Then he may have intercourse with Aryans.
हरदत्त-टीका
सूत्रम्
अथ सम्प्रयोगस्स्यादार्यैः ॥ १३ ॥
टिप्पनी
प्रायश्चित्तोपदेशात सिध्युपदेशाच्च सिद्धे पुनर्वचनं ‘ज्ञानात्साम्यं तु गच्छती’त्यस्याऽपवादार्थम् ॥ १३ ॥
14 एतदेवान्येषामपि पतनीयानाम् ...{Loading}...
एतद् एवान्येषाम् अपि पतनीयानाम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- This penance may also be employed in the case of the other crimes which cause loss of caste (for which no penance has been ordained above).
हरदत्त-टीका
सूत्रम्
एतदेवाऽन्येषामपि पतनीयानाम् ॥ १४ ॥
टिप्पनी
उक्तव्यतिरिक्तानि यानि पतनीयानि पूर्वमुक्तानि तेषु यत्राऽऽहत्य प्रायश्चित्तं 2नोक्तं तेषामप्येतदनन्तरोक्तमेव प्रायश्चित्तं वेदितव्यम् । उक्तविषये विकल्प इत्यन्ये । तत्र ज्ञानाज्ञानकृतो विकल्पः ॥१४॥
15 गुरुतल्पगामी तु सुषिरां ...{Loading}...
गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But the violator of a Guru’s bed shall enter a hollow iron image and, having caused a fire to be lit on both sides, he shall burn himself. 7
हरदत्त-टीका
सूत्रम्
गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याऽभिदहेदात्मानम् ॥१५॥
टिप्पनी
यस्तु गुरुतल्पगामी सोऽन्तःप्रवेशयोग्यां सुषिरां सूर्मिं कृत्वा प्रविशेत प्रविश्योभयतः पार्श्वयो4र्वह्निमादीपयेत् । आदीप्याऽऽत्मानमभिदहेत् । “ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुया (२५.२.)" दित्यत्रैव कियानपि विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्त्यर्थं वचनम् ॥ १५ ॥
16 मिथ्यैतदिति हारीतः ...{Loading}...
मिथ्यैतदिति हारीतः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- According to Hārita, this (last-mentioned penance must) not (be performed).
हरदत्त-टीका
सूत्रम्
मिथ्यैतदिति हारीतः ॥ १६ ॥
टिप्पनी
हारीतस्त्वृषिर्मन्यते- एतदनन्तरोक्तं मरणान्तिकप्रायश्चित्तं मिथ्या न कर्तव्यमिति ॥ १६॥
17 यो ह्यात्मानम् परं ...{Loading}...
यो ह्यात्मानं परं वाभिमन्यते +++(=हन्ति)+++ ऽभिशस्त एव स भवति १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- For he who takes his own or another’s life becomes an Abhiśasta.
हरदत्त-टीका
सूत्रम्
यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव स भवति ॥ १७ ॥
प्रस्तावः
कुत इत्यत आह—
टिप्पनी
हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभिशस्त एव भवति ब्रह्महैव भवति । 1न च पतनीयापनोदनं चिकीर्षुरन्यत् पतनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाच्चाऽन्येषामपि मरणान्तिकानां ब्राह्मणविषये निवृत्तिः ॥ १७॥
18 एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् नास्यास्मिंल् ...{Loading}...
एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He (the violator of a Guru’s bed) shall perform to his last breath (the penance) prescribed by that rule (Sūtra 11). He cannot be purified in this world. But (after death) his sin is taken away.
हरदत्त-टीका
सूत्रम्
एतेनैव विधिनोत्तमादुज्छासाचरेनाऽस्याऽस्मिल्लोके प्रत्यापत्तिर्विद्यते कल्पषं तु निहण्यते ॥ १८ ॥
प्रस्तावः
किं तर्हि तस्य प्रायश्चित्तमिति 1 आह—
टिप्पनी
‘अधोनाभ्युपरिजान्वि’(२८.११.)त्यादि यदनन्तरोक्तमेतेनैव विधिना । शिष्टं गतम् ॥ १८॥
19 दारव्यतिक्रमी खराजिनम् बहिर्लोम ...{Loading}...
दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has unjustly forsaken his wife shall put on an ass’s skin, with the hair turned outside, and beg in seven houses, saying, ‘Give alms to him who forsook his wife.’ That shall be his livelihood for six months.
हरदत्त-टीका
सूत्रम्
दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय ‘दारव्यतिक्रमिणे भिक्षा’मिति सप्ताऽगाराणि चरेत् । सा वृत्तिः षण्मासान् ॥ १९ ॥
टिप्पनी
2 यस्तु अन्तरेणैव निमित्तं कौमारान् दारान् परित्यजति स दारव्यतिक्रमी । खरस्य, गर्दभस्याऽजिनं बहिर्लोम परिधाय वसित्वा दारव्यतिक्रमिणे भिक्षां दत्तेति सप्तागाराणि भिक्षां चरेत् । 4कौमारदारपरित्यागिने भिक्षां दत्ते’ति वासिष्ठे । 8सा वृत्तिः षण्मासान् । ततः सिद्धिः ॥ १९ ॥
20 स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तङ् ...{Loading}...
स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if a wife forsakes her husband, she shall perform the twelve-night Kṛcchra penance for as long a time.
हरदत्त-टीका
सूत्रम्
स्त्रियास्तु भर्तुव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् ॥ २० ॥
टिप्पनी
भर्तुव्यतिक्रम इति छान्दसो रेफलोपः । व्यतिक्रमः परित्यागः । या तु स्त्री भर्तारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं षण्मासान् कृच्छ्रद्वादशरात्राभ्यासः प्रायश्चित्तम् ॥ २० ॥
21 अथ भ्रूणहा श्वाजिनङ् ...{Loading}...
अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has killed a Bhrūṇa (a man learned in the Vedas and Vedāṅgas and skilled in the performance of the rites) shall put on the skin of a dog or of an ass, with the hair turned outside, and take a human skull for his drinking-vessel,
हरदत्त-टीका
सूत्रम्
अथ भ्रूणहा वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥
टिप्पनी
इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥
-
‘कथा’ इति छान्दसं रूपं कथमित्यर्थः । दृष्टं च “तमब्रुवन् कथा हास्थाः”(तै०सं० २.६.३.) “कथा मा निरभागिति” (तै०सं० ३.१.९) इत्यादौ । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
- ↩︎ ↩︎ ↩︎
-
- The same rule Manu emphatically ascribes to himself, Manu VIII, 339, But see also VIII, 331.
-
Haradatta remarks, that this Sūtra implicitly forbids to accept the heritage of an outcast. ↩︎
-
A similar but easier penance is prescribed, Manu XI, 19 4. ↩︎
-
‘(This penance, which had been prescribed above, I, 9, 25, 1), is enjoined (once more), in order to show that it is not optional (as might be expected according to Sūtra 14).’–Haradatta. ↩︎
-
षण्मासादूर्ध्वं शुद्धः, इति. ग. पु. ‘सा वृत्ति’रित्यादि पृथक्सूत्रं च ॥ ↩︎