01 श्रावण्याम् पौर्णमास्यान् तिलभक्ष ...{Loading}...
श्रावण्यां पौर्णमास्यां तिल-भक्ष उपोष्य वा
श्वोभूते महानदम् उदकम् उपस्पृश्य
सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा १
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having eaten sesamum or having fasted on the full moon day of the month Srāvaṇa July-August), he may on the following day bathe in the water of a great river and offer (a burnt-oblation of) one thousand pieces of sacred fuel, whilst. reciting the Gāyatrī, or he may mutter (the Gāyatrī) as many times. 1
हरदत्त-टीका
सूत्रम्
श्रावण्यां वा पौर्णमास्यां तिलभक्ष उपोष्य वा श्वो भूते 2माहानदमुदकमुपस्पृश्य सावित्र्या समित्सहस्रमादध्याज्जपेद्वा ॥१॥
टिप्पनी
गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समित्सहस्रं याज्ञिकस्य वृक्षस्य । ‘आदध्यादि’ति वचनान्न होमधर्मः स्वाहाकारः3 ‘जुहोतिचोदना स्वाहाकारप्रदान,’ इत्युक्तत्वात् । जपेद् वा ॥१॥
02 इष्टियज्ञक्रतून् वा पवित्रार्थान् ...{Loading}...
इष्टि-यज्ञ-क्रतून् वा पवित्रार्थान् आहरेत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may perform Iṣṭis and Soma-sacrifices for the sake of purifying himself (from his sins), 4
03 अभोज्यम् भुक्त्वा नैष्पुरीष्यम् ...{Loading}...
अभोज्यं भुक्त्वा नैष्पुरीष्यम् +++(कदेति चेत् -)+++३
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having eaten forbidden food, he must fast, until his entrails are empty. 7
हरदत्त-टीका
सूत्रम्
अभोज्यं भुक्त्वा नैष्पुरीष्यम् ॥३॥
टिप्पनी
अभोज्यस्य मार्जारादिमांसस्य भक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तव्यम् ॥ ३॥
04 तत्सप्तरात्रेणावाप्यते ...{Loading}...
तत्-सप्त-रात्रेणावाप्यते ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- That is (generally) attained after seven days.
हरदत्त-टीका
सूत्रम्
तत्सप्तरात्रेणाऽवाप्यते ॥ ४ ॥
प्रस्तावः
तत्कियता कालेनाऽवाप्यते ? तदाह—
टिप्पनी
तत् नैष्पुरीष्यम् । सप्तरात्रेणाऽवाप्यते सप्तरात्रमुपवस्तव्यमित्यर्थः । सप्तरात्रमुपवसदित्येव सिद्धे नैष्पुरीष्यवचनाद्येषां त्रिरात्रेणैव तदवाप्यते तेषां तावतैव शुद्धिः। तथा च गौतमः-8 ‘अभोज्यभोजने निष्पुरीषभावः त्रिरात्रावरमभोजनं सप्तरात्रं वे’ति ॥ ४ ॥
05 हेमन्तशिशिरयोर्वोभयोः सन्ध्योरुदकमुपस्पृशेत् ...{Loading}...
हेमन्त-शिशिरयोर् वोभयोः संध्योर् उदकम् उपस्पृशेत् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may during winter and during the dewy season (November-March) bathe in cold water both morning and evening.
हरदत्त-टीका
सूत्रम्
हेमन्तशिशिरयोर्वोभयोस्सन्ध्योर्वोदकमुपस्पृशेत् ॥ ५ ॥
टिप्पनी
उभयोः सन्ध्ययोः सायं प्रातश्च । उदकमुपस्पृशेत् भूमिगतास्वप्सु स्नायात् । उद्धृताभिर्वा शीताभिः ॥ ५ ॥
06 कृच्छ्रद्वादशरात्रं वा चरेत् ...{Loading}...
कृच्छ्र-द्वादश-रात्रं वा चरेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may perform a Kṛcchra penance, which lasts twelve days.
हरदत्त-टीका
सूत्रम्
कृच्छ्वादशरात्रं वा चरेत् ॥ ६ ॥
टिप्पनी
द्वादशरात्रसाध्यो व्रतविशेषः कृच्छ्रद्वादशरात्रः ॥ ६ ॥
07 त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहन् त्र्यहमयाचितव्रतस्त्र्यहन् ...{Loading}...
त्र्यहम् अनक्ताश्य्
अदिवाशी ततस् त्र्यहं
त्र्य्-अहम् अयाचित-व्रतस्
त्र्यहं नाश्नाति किंचनेति
कृच्छ्र-द्वादश-रात्रस्य विधिः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- The rule for the Kṛcchra penance of twelve days (is the following): For three days he must not eat in the evening, and then for three days not in the morning; for three days he must live on food which has been given unasked, and three days he must not eat anything. 9
हरदत्त-टीका
सूत्रम्
त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहम्, त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किञ्चनेति कृच्छ्रद्वादशरात्रस्य विधिः ॥ ७ ॥
प्रस्तावः
तस्य विधिमाह2—
टिप्पनी
आदितस्त्रिष्वहस्सु नक्तं नाश्नीयात् । दिवैव भुञ्जीत । ततस्त्र्यहमदिवाशी रात्रावेव भुञ्जीत । न दिवा । ततस्त्र्यहमयाचितमेव भुञ्जीत। याच्ञाप्रतिषधोऽयम । तेन स्वद्रव्यस्याप्रतिषेधः । तथा च गौतमः 3 ‘अथाऽपरं त्र्यहं न कंचन याचे’दिति । ततत्र्यहं नाश्नाति किञ्चन फलादिकमपीति । एवं कृच्छ्रद्वादशरात्रस्य विधिः । तत्र स्मृत्यन्तरवशाद्धविष्यमन्नं, ब्रह्मचर्यं, स्त्रीशूद्रादिभिरसम्भाषणं च द्रष्टव्यम् ॥ ७ ॥
08 एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसंवत्सरः ...{Loading}...
एतम् एवाभ्यसेत् संवत्सरं - स कृच्छ्रसंवत्सरः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he repeats this for a year, that is called a Kṛcchra penance, which lasts for a year.
हरदत्त-टीका
सूत्रम्
एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥८॥
टिप्पनी
एतमेव विधिं संवत्सरं निरन्तरमभ्यस्येत् । स एष कृच्छ्रसंवत्सरो वेदितव्यः । यः पूर्वोक्तः ‘कच्छ्रसंवत्सरं वा चरे’( २५.९ )दिति ॥८॥
09 अथापरम् बहून्यप्यपतनीयानि कृत्वा ...{Loading}...
अथाऽपरम् ।
बहून्य् अप्य् अपतनीयानि कृत्वा
त्रिभिर् अनश्नत्-पारायणैः कृत-प्रायश्चित्तो भवति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now follows another penance. He who has committed even a great many sins which do not cause him to fall, becomes free from guilt, if, fasting, he recites the entire Śākhā of his Veda three times consecutively. 10
हरदत्त-टीका
सूत्रम्
अथाऽपरं बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नन् पारायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥
टिप्पनी
अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तरं त्रीणि पारायणानि कर्तव्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि । अपिशब्दात्किं पुनरेकं द्वे वा ॥९॥
10 अनार्यां शयने बिभ्रेद्ददद्वृद्धिङ् ...{Loading}...
अनार्यां शयने बिभ्रेद्,
ददद् वृद्धिं+++(=interest)+++ +++(स्वद्रव्यस्य)+++, कषाय-पः+++(=सुराव्यतिरिक्तं मद्यं पिबन्)+++ ।
अब्राह्मण इव +++(सर्वान्)+++ वन्दित्वा,
तृणेष्व् आसीत पृष्ठ-तप् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who cohabits with a non-Aryan woman, he who lends money at interest, he who drinks (other) spirituous liquors (than Surā), he who praises everybody in a manner unworthy of a Brāhmaṇa, shall sit on grass, allowing his back to be scorched (by the sun).
हरदत्त-टीका
सूत्रम्
अनार्यां शयने विभ्रद्ददद्वृद्धिं कषायपः ।
अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतप् ॥१०॥
टिप्पनी
अनार्यां शूद्रा तां शयने बिभ्रत् उपगच्छन् ।
ददद् वृद्धिं वृद्ध्यर्थं द्रव्यं ददत् । वृद्ध्याजीव इत्यर्थः ।
सुराव्यतिरिक्तं मद्यं कषायः । 5 तस्य पाता कषायपः ।
यश्चाऽब्राह्मण इव सर्वान् वन्दी भूत्वा स्तौति स सर्वोऽपि तृणेषूदयादारभ्याऽऽसीत् । यावदस्याऽऽदित्यः पृष्ठं पश्चाद्भागं तपति । आदित्ये तपति तदानुगुण्याचरणात् स्वयमेव पृष्ठतवित्युच्यते । अभ्यासे अभ्यासो यावता शुद्धिं मन्यते ॥ १०॥
11 यदेकरात्रेण करोति पापङ् ...{Loading}...
यद् एकरात्रेण करोति पापं
कृष्णं+++(→शूद्रं)+++ वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदकाभ्यवायी +++(स्नानकर्ता)+++
त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa removes the sin which he committed by serving one day and night (a man of) the black race, if he bathes for three years, eating at every fourth meal-time. 11
हरदत्त-टीका
सूत्रम्
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणस्सेधमानः चतुर्थकाल 2उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापम् ॥ ११॥
टिप्पनी
कृष्णो वर्णः शूद्रः। तमाज्ञाकरो भूत्वा वृत्त्यर्थं सेवमानः । शिष्टं स्पष्टं गतं च । अपर आह- शूद्रां मैथुने सेवमान इति । अस्मिन्पक्षे ऋतावुपगमने अपत्योत्पत्ताविदं द्रष्टव्यम् । मनुः—
3वृषलीफेनपीतस्य निश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ इति ॥११॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने सप्तविंशी कण्डिका ॥२७॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्वलायां प्रथमप्रश्ने नवमः पटलः ॥ ९ ॥
इति नवमः पटलः
-
- ‘The oblations of sacred fuel (samidh) are not to be accompanied by the exclamation Svāhā’–Haradatta.
-
(आप० प० ३.४.) “जुहोतिचोदना स्वाहाकारप्रदान इत्युक्तत्वात् । जपेद्वा” इति नास्ति. क. छ. पु. ↩︎ ↩︎ ↩︎
-
Iṣṭis are the simplest forms of the Śrauta-sacrifices, i.e. of those for which three fires are necessary. ↩︎
-
अग्नयेऽहोमुचेऽष्टाकपालः (तै० सं० ७. ५. २२.) इति विहितेष्टिर्मृगोरिष्टिदर्श हविष्का । ↩︎ ↩︎
-
यज्ञाः क्रतवः । इति. क.छ.पु. ↩︎
-
For some particular kinds of forbidden food the same penance is prescribed, Manu XI, 153-154. ↩︎
-
गौ० ध० २६.४. ↩︎
-
The same penance is described, under the name Prājāpatya kṛcchra, the Kṛcchra invented by Prajāpati, Manu XI, 212, and Yājñ. III, 320. ↩︎
-
Manu XI, 259. ↩︎
-
The expression kṛṣṇa varṇa, ’the black race,’ is truly Vedic. In the Ṛj-veda it usually denotes the aboriginal races, and sometimes the demons. Others explain the Sūtra thus: p. 88 A Brāhmaṇa removes the sin, which he committed by cohabiting for one night with a female of the Śūdra caste, &c.–Haradatta. The latter explanation has been adopted by Kullūka on Manu XI. 179. ↩︎