01 यत्र शूद्र उपस्पृशेत् ...{Loading}...
यत्र शूद्र उपस्पृशेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Śūdra touches him, (then he shall leave off eating). 1
हरदत्त-टीका
सूत्रम्
यत्र शुद्र उपस्पृशेत् ॥१॥
टिप्पनी
भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जानग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु- सदा भवत्त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति ॥ १ ॥
02 अनर्हद्भिर्वा समानपङ्क्तौ ...{Loading}...
अनर्हद्भिर्वा समानपङ्क्तौ २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he eat sitting in the same row with unworthy people. 2
हरदत्त-टीका
सूत्रम्
अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥
टिप्पनी
सर्वत्र वाशब्दः समुच्चये। अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥२॥
03 भुञ्जानेषु व यत्रानूत्थायोच्छिष्टम् ...{Loading}...
भुञ्जानेषु व यत्रानूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he eat (sitting in the same row with persons) amongst whom one, whilst they eat, rises and gives his leavings to his pupils or sips water; 3
हरदत्त-टीका
सूत्रम्
भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥३॥
टिप्पनी
समानपङ्क्ताविति वर्तते । समानपङ्क्त्तौ बहुषु भुञ्जानेषु यद्येकोऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु4एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥
04 कुत्सयित्वा वा यत्रान्नन् ...{Loading}...
कुत्सयित्वा वा यत्रान्नं दद्युः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall he eat) where they give him food, reviling him. 5
हरदत्त-टीका
सूत्रम्
कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥ ४ ॥
टिप्पनी
मूर्ख, वैधवेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्यभोज्यम् ॥ ४ ॥
05 मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ...{Loading}...
मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ५
06 न नावि भुञ्जीत ...{Loading}...
न नावि भुञ्जीत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not eat in a ship,
हरदत्त-टीका
सूत्रम्
न नावि भुञ्जीत ॥ ६ ॥
टिप्पनी
नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥६॥
07 तथा प्रासादे ...{Loading}...
तथा प्रासादे +++(काष्ठमञ्चे)+++ ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor on a wooden platform.
हरदत्त-टीका
सूत्रम्
तथा प्रासादे ॥ ७॥
टिप्पनी
प्रासादो दारुमयो मञ्चः। तत्रापि न भुञ्जीत ॥ ७॥
08 कृतभूमौ तु भुञ्जीत ...{Loading}...
कृतभूमौ तु भुञ्जीत ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He may eat sitting on ground which has been purified (by the application of cowdung and the like).
हरदत्त-टीका
सूत्रम्
कृतभूमौ तु भुञ्जीत ॥ ८॥
टिप्पनी
भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । 8अपर आह- प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८॥
09 अनाप्रीते मृण्मये भोक्तव्यम् ...{Loading}...
अनाप्रीते मृण्मये भोक्तव्यम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he eats) out of an earthen vessel, he shall eat out of one that has not been used (for cooking).
हरदत्त-टीका
सूत्रम्
अनाप्रीते मृण्मये भोक्तव्यम् ॥९॥
टिप्पनी
यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं क्वचित्कार्ये पाकादावुपयुक्तम् ॥ ९ ॥
10 आप्रीतञ् चेद् अभिदग्धे ...{Loading}...
आप्रीतं चेद् अभिदग्धे १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he can get) a used vessel (only, he shall eat from it), after having heated it thoroughly.
हरदत्त-टीका
सूत्रम्
आप्रीतं चेदभिदग्धे ॥ १० ॥
टिप्पनी
आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥
11 परिमृष्टं लौहम् प्रयतम् ...{Loading}...
परिमृष्टं लौहं प्रयतम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- A vessel made of metal becomes pure by being scoured with ashes and the like. 9
हरदत्त-टीका
सूत्रम्
परिमृष्टं लौहं प्रयतम् ॥ ११ ॥
टिप्पनी
लौह लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं सत् प्रयत भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्द्रष्टव्यम् ॥११॥
12 निर्लिखितन् दारुमयम् ...{Loading}...
निर्लिखितं दारुमयम् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- A wooden vessel becomes pure by being scraped. 10
हरदत्त-टीका
सूत्रम्
निर्लिखितं दारुमयम् ॥ १२॥
टिप्पनी
दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥
13 यथागमं यज्ञे ...{Loading}...
यथागमं यज्ञे १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- At a sacrifice (the vessels must be cleaned) according to the precepts of the Veda.
हरदत्त-टीका
सूत्रम्
यथागमं यज्ञे ॥ १३ ॥
टिप्पनी
यज्ञपात्रं तु यथागम शोधितं प्रयत भवति । तद्यथा अग्निहोत्रहवणी दभैरद्भिः प्रक्षालिता, सोमपात्राणि 4‘मार्जालीये प्रक्षालितानि, आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥
14 नापणीयमन्नमश्नीयात् ...{Loading}...
नाऽऽपणीयम् +++(पक्वं)+++ अन्नम् अश्नीयात् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not eat food which has been bought or obtained ready-prepared in the market.
हरदत्त-टीका
सूत्रम्
नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥
टिप्पनी
आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तद् आपणीयम् । तच्च कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥
15 तथा रसान् आममांसमधुलवणानीति ...{Loading}...
तथा +++(ऽऽपणियान्)+++ रसान् +++(नाश्नीयात्)+++, आम+++(=अपक्व)+++-मांस-मधु-लवणानीति परिहाप्य १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall he eat) flavoured food (bought in the market) excepting raw meat, honey, and salt.
हरदत्त-टीका
सूत्रम्
तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥
टिप्पनी
रसाः रसद्रव्याणि । तान् अप्य् आपणीयान् नाश्नीयात् ।
7आम-मांसादि वर्जयित्वा ॥ १५॥
16 तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ...{Loading}...
तैल-सर्पिषी तूपयोजयेद् उदकेऽवधाय १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Oil and clarified butter (bought in the market) he may use, after having sprinkled them with water. 11
17 कृतान्नम् पर्युषितमखाद्यापेयानाद्यम् ...{Loading}...
कृतान्नं पर्युषितम् अखाद्यापेयानाद्यम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Prepared food which has stood for a night, must neither be eaten nor drunk. 13
हरदत्त-टीका
सूत्रम्
कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ १७ ॥
टिप्पनी
कृतान्नं पक्वान्नं, तत् पर्युषितं पूर्वेद्यु पक्वं सत् अखाद्यम् ।
अपेयम् अनाद्यं च
यथायोगं खरविशदं द्रवं मृदुविशदं सिद्धं च ॥ १७ ॥
18 शुक्तञ् च ...{Loading}...
शुक्तं+++(=काल-पकेनाऽम्लीभूतं)+++ च १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (should prepared food) that has turned sour (be used in any way). 14
हरदत्त-टीका
सूत्रम्
शुक्तं च ॥ १८ ॥
टिप्पनी
शुक्तं यत् काल-पकेनाऽम्लीभूतं
तद् अपर्युषितम् अपि
अखाद्यापेयाः नाद्यम् ॥ १८॥
19 फाणितपृथुक तण्डुलकरम्ब भरुजसक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ...{Loading}...
फाणित+++(=शर्कररस)+++-पृथुक+++(=चिउडा)+++-तण्डुल-करम्ब+++(=दधि+शक्तु)+++-भरुज+++(=भ्रष्टयव)+++-सक्तु-शाक-मांस-पिष्ट-क्षीर-विकारौषधि-वनस्पति-मूल-फल-वर्जम् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The preceding two rules do) not (hold good in regard to) the juice of sugar-cane, roasted rice-grains, porridge prepared with whey, roasted yava, gruel, vegetables, meat, flour, milk and preparations from it, roots and fruits of herbs and trees. 15
हरदत्त-टीका
सूत्रम्
फाणित-पृथुक +++(चिउडा)+++-तण्डुल-करम्ब +++(दधि+शक्तु)+++-4भरुज-सक्तु-शाक-मांस-पिष्ट-क्षीरविकारौषधि-वनस्पति-मूल-फल-वर्जम् १९
टिप्पनी
अनन्तरोक्त-विधिद्वयं फाणितादीन् वर्जयित्वा द्रष्टव्यम् ।
फाणितं पानविशेषः । इक्षुरस इति केचित् ।
7भ्रष्टानां व्रीहीणां तण्डुलाः पृथूकृताः पृथुकाः ।
करम्बो दधि-सक्तु-समाहारः यः करम्भ इति प्रसिद्धः।
वेदेऽप्युभयं भवति8 ‘यत्करम्बैर्जुहोति’ । 12 धानाः करम्भः परिवाप’ इति।
भरूजाः भ्रष्टा यवाः।
क्षीर-विकारो दध्यादि । प्रसिद्धमन्यत् ॥
20 शुक्तञ् चापरयोगम् ...{Loading}...
शुक्तं चापरयोगम् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Substances which have turned) sour without being mixed with anything else (are to be avoided). 16
हरदत्त-टीका
सूत्रम्
शुक्तं चाऽपरयोगम् ॥ २०॥
प्रस्तावः
अथ ‘शुक्तं चे’त्यस्य विधेः शेषः—
टिप्पनी
परेण द्रव्यान्तरेण योगो यस्य तत् परयोगं, ततोऽन्यदपरयोगम् । तदेव शुक्तं वर्ज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तद्भोज्यमेव । एवं च पूर्वत्रैवाऽपरयोगमिति विशेषणं वक्तव्यम् । इदमेव वा सूत्रमस्तु । सूत्रद्वयकरणं त्वाचार्यप्रवृत्तिकृतम्। यथा ‘सलावृक्येकसृकोलूकशब्दा’ (पृ. ५८) इति पूर्वं सामान्येनाऽभिधाय ‘सलावृक्यामेकसृक इति स्वप्नपर्यान्त’(पृ. ६५)मिति पश्चाद्विशेष उक्तः ॥ २० ॥
21 सर्वम् मद्यमपेयम् ...{Loading}...
सर्वं मद्यमपेयम् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- All intoxicating drinks are forbidden.
हरदत्त-टीका
सूत्रम्
सर्वं मद्यमपेयम् ॥ २१ ॥
टिप्पनी
मद्यं मदकरं तत्सर्वमपेयम् । अत्र स्मृत्यन्तरवशाद्व्यवस्था ।
तत्र मनुः —
17 ‘गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा।
यथैवैका न पातव्या18 तथा सर्वा द्विजोत्तमैः । इति । सुराव्यतिरिक्तं तु मद्यं ब्राह्मणस्य नित्यमपेयम् ॥
तथा च गौतमः—
4 ‘मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो’रिति ॥२१॥
22 तथैलकम् पयः ...{Loading}...
तथैलकं पयः २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise sheep’s milk, 19
हरदत्त-टीका
सूत्रम्
तथैलकं पयः ॥ २२ ॥
टिप्पनी
अवि एलका। तस्याः पयः क्षीरमपेयम् ॥ २२ ॥
23 उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ...{Loading}...
उष्ट्रीक्षीर-मृगीक्षीर-सन्धिनीक्षीर-यमसूक्षीराणीति २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise the milk of camels, of does, of animals that give milk while big with young, of those that bear twins, and of (one-hoofed animals), 20
हरदत्त-टीका
सूत्रम्
उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥
टिप्पनी
उष्ट्रीमृग्यौ प्रसिद्धे। या गर्भिणी दुग्धे सा सन्धिनीति शास्त्रान्तरे प्रसिद्धा। एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा यमसूः। उष्ट्र्यादीनां क्षीराण्यपेयानि । इतिकरणमेवं प्रकाराणामन्येषामेकशफादीनां क्षीरमपेयमिति ।
तथा च मनुः—
7 आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैव वानि सर्वशूक्तानि चैव हि ॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥
24 धेनोश्चानिर्दशायाः ...{Loading}...
धेनोश्चानिर्दशायाः +++(प्रसवाद् १० दिनेभ्यः प्राक्)+++ २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise the milk of a cow (buffalo-cow or she-goat) during the (first) ten days (after their giving birth to young ones), 21
हरदत्त-टीका
सूत्रम्
धेनोश्चाऽनिर्दशायाः ॥ २४ ॥
टिप्पनी
धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । 8 ‘अजा गावो महिष्यश्चे’ति मानवे दर्शनात् ॥ २४॥
25 तथा कीलालौषधीनाञ् च ...{Loading}...
तथा कीलालौषधीनां च २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise (food mixed) with herbs which serve for preparing intoxicating liquors,
हरदत्त-टीका
सूत्रम्
तथा कीलालौषधीनां च ॥ २५ ॥
टिप्पनी
कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमनाद्यम् ॥ २५ ॥
26 करञ्जपलण्डुपरारीकाः ...{Loading}...
करञ्ज-पलण्डु-परारीकाः २६
27 यच्चान्यत् परिचक्षते ...{Loading}...
यच्चान्यत् परिचक्षते २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise anything else which (those who are learned in the law) forbid. 23
हरदत्त-टीका
सूत्रम्
यच्चाऽन्यत् परिचक्षते ॥ २७ ॥
टिप्पनी
अभक्ष्यानां प्रतिपदपाठो न शक्यते इति समासेनाह—
टिप्पनी
यच्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यभक्ष्यम् । तत्राह मनुः—
4लशुनं गृञ्जनं चैव पलण्डु कवकानि च ॥
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ इति ॥ २७॥
28 क्याक्वभोज्यमिति हि ब्राह्मणम् ...{Loading}...
क्याक्वभोज्यमिति हि ब्राह्मणम् २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Mushrooms ought not to be eaten; that has been declared in a Brāhmaṇa; 24
हरदत्त-टीका
सूत्रम्
क्याक्वभोज्यमिति हि ब्राह्मणम् ॥२८॥
टिप्पनी
क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥
29 एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ...{Loading}...
एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor the meat) of one-hoofed animals, of camels, of the Gayal, of village pigs, of Śarabhas, and of cattle. 25
हरदत्त-टीका
सूत्रम्
एकखुरोष्ट्रगवयग्राममूकरशरभगवाम् ॥ २९ ॥
टिप्पनी
एकखुरा अश्वादयः । गवयो गोसदृशः पशुः। शरभोऽष्टपाद आरण्यो मृगः। अन्ये प्रसिद्धाः । एतेषां मांसमभक्ष्यम् ॥ २९ ॥
30 धेनु+अनडुहोर्भक्ष्यम् ...{Loading}...
धेनु+अनडुहोर्भक्ष्यम् ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (But the meat) of milch-cows and oxen may be eaten.
हरदत्त-टीका
सूत्रम्
धेन्वनडुहोर्भक्ष्यम् ॥३०॥
टिप्पनी
धेन्वनडुहोर्मांसं भक्ष्यम् । गोप्रतिषेधस्य प्रतिप्रसवः ॥ ३०॥
31 मेध्यमानडुहमिति वाजसनेयकम् ...{Loading}...
मेध्यमानडुहमिति वाजसनेयकम् ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- The Vājasaneyaka declares ‘bull’s flesh is fit for offerings.’
हरदत्त-टीका
सूत्रम्
मेध्यमानडुहमिति वाजसनेयकम् ॥ ३१ ॥
टिप्पनी
7अनुडुहो मांसं न केवलं भक्ष्यम् , किं तर्हि ? मेध्यमपीति वाजसनेयिनः समामनन्ति ॥ ३१ ॥
32 कुक्कुटो विकिराणाम् ...{Loading}...
कुक्कुटो विकिराणाम् +++(=खनित्वा कीटान्यश्नन्ति ये तेषु, अभक्ष्यम्)+++ ३२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Amongst birds that scratch with their feet for, food, the (tame) cock (must not be eaten). 26
हरदत्त-टीका
सूत्रम्
कुक्कुटो विकिराणाम् +++(=खनित्वा कीटान्यश्नन्ति ये तेषु, अभक्ष्यम्)+++ ॥ ३२ ॥
टिप्पनी
व्यवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधान्यादि ये भक्षयन्ति ते मयूरादयो विकिरास्तेषां मध्ये कुक्कुटो न भक्ष्यः। स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥
33 प्लवः प्रतुदाम् ...{Loading}...
प्लवः प्रतुदाम् ३३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Amongst birds that feed thrusting forward their beak, the (heron, called) Plava (or Sakaṭabila, must not be eaten). 27
हरदत्त-टीका
सूत्रम्
प्लवः प्रतुदाम् ॥ ३३ ॥
टिप्पनी
तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्वाघाटादयः प्रतुदाः। तेषां मध्ये प्लव पवाऽभक्ष्यः । प्लवः 8शकटबलाख्यो बकविशेषः ॥ ३३ ॥
34 क्रव्यादः ...{Loading}...
क्रव्यादः ३४
35 हंसभासचक्रवाकसुपर्णाश्च ...{Loading}...
हंसभासचक्रवाकसुपर्णाश्च ३५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise the swan, the Bhāsa, the Brāhmaṇī duck, and the falcon. 29
हरदत्त-टीका
सूत्रम्
हंसभासचक्रवाकसुपणाश्व॥ ३५ ॥
टिप्पनी
हंसः प्रसिद्धः। भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः । सुपर्णः श्येनः। एते चाऽभक्ष्याः ॥ ३५ ॥
36 क्रुञ्चक्रौञ्च वार्ध्राणसलक्ष्मणवर्जम् ...{Loading}...
क्रुञ्च-क्रौञ्च-वार्ध्राणस-लक्ष्मण-वर्जम् +++(अभक्ष्यम्)+++ ३६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Common cranes and Sāras-cranes (are not to 30 be eaten) with the exception of the leather-nosed Lakṣmaṇa.
हरदत्त-टीका
सूत्रम्
क्रुञ्च-क्रौञ्च +++(एतेषु)+++ वार्ध्राणस-लक्ष्मण-वर्जम् +++(अभक्ष्यम्)+++ ॥ ३६॥
टिप्पनी
क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौञ्चेति विभक्तिलोपश्छान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः। नेत्याह-वार्ध्राणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एव विशेष्यन्ते-वार्ध्राणसा इति । वार्ध्रं चर्म तदाकारा नासिका येषां ते वार्ध्राणसाः। एवंभूतान् लक्ष्मणान् वर्जयित्वा क्रुञ्चक्रौञ्चा न भक्ष्या इति।
अन्ये त्वाहुः-‘क्रव्याद’ इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्वप्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति4 ‘ङ्यापोस्संज्ञाच्छन्दसो’रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादिटाबन्तस्य ॥३६॥
37 पञ्चनखानाङ् गोधाकच्छपश्वाविट्शल्यकखण्गशशपूतिखषवर्जम् ...{Loading}...
पञ्चनखानां गोधा-कच्छप-श्वाविट्-शल्यक-खण्ग-शश-पूतिखष-वर्जम् ३७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Five-toed animals (ought not to be eaten) with the exception of the iguana, the tortoise, the porcupine, the hedgehog, the rhinoceros, the hare, and the Pūtikhasha. 31
हरदत्त-टीका
सूत्रम्
पञ्चनखानां7 गोधाकच्छपश्वाविट्छर्यकखङ्गशशपूतिखषवर्जम् ॥ ३७ ॥
टिप्पनी
पञ्चनखा नरवानरमार्जारादयः। तेषांमध्ये गोधादीन् सप्त वर्जयित्वा अन्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाबिट् वराहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यक्रः शल्यकः, यस्य चर्मणा तनुत्राणं क्रियते । श्वाविट्शर्यक इति युक्तः पाठः। एके तु छकारं पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभाजनम् । शशः प्रसिद्धः। पूतिखषः । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥
38 अभक्ष्यश्चेटो मत्स्यानाम् ...{Loading}...
अभक्ष्यश्चेटो मत्स्यानाम् ३८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Amongst fishes, the Ceta ought not to be eaten,
हरदत्त-टीका
सूत्रम्
अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८॥
टिप्पनी
मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥
39 सर्पशीर्षी मृदुरः क्रव्यादो ...{Loading}...
सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये विकृता यथा मनुष्यशिरसः ३९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor the snake-headed fish, nor the alligator, nor those which live on flesh only, nor those which are misshaped (like) mermen. 32
हरदत्त-टीका
सूत्रम्
सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः ॥ ३९ ॥
टिप्पनी
सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये च क्रव्यमेवाऽदन्ति शिंशुमारादयः तेऽप्यभक्ष्याः। ये च उक्तेभ्योऽन्ये मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशेरसः जलमनुष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः—
4 अनुमन्ता विशसिता निहन्ता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
7मांसभक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मासस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
न मांसभक्षणे दोषो न मधे न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥’ इति ।
8अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥
इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥
इति पञ्चमः पटलः
-
- ‘Some say, that this Sūtra indicates that the touch of a Śūdra does not defile at any other time but at dinner, whilst others hold that a Śūdra’s touch defiles always, and that the Sūtra is intended to indicate an excess of impurity, if it happens at dinnertime.’–Haradatta.
-
‘Unworthy people are those who are neither of good family, nor possess learning and virtue.’–Haradatta. ↩︎
-
According to Haradatta a person who misbehaves thus, is called ‘a dinner-thorn.’ This point of etiquette is strictly observed in our days also. Manu IV, 2 12. ↩︎
-
Manu IV, 212; Yājñ. I, 167. ↩︎
-
‘As the text has avaghrāta, “smelt at,” it does not matter if they smell the food from a distance.’–Haradatta. ↩︎
-
‘It must be understood from other Smṛtis, that brass is to be cleaned with ashes, copper with acids, silver with cowdung, and gold with water.’–Haradatta. Manu V, I 14. ↩︎
-
Manu V, 115. ↩︎
-
‘Having sprinkled them with water and purified them by boiling; or, according to others, mixing them with so much water as will not spoil them.’–Haradatta. ↩︎
-
The Sanskrit has two terms for ’eating;’ the first ‘khād’ p. 63 applies to hard substances, the second ‘ad’ to soft substances. Manu I, V, 211; Yājñ. I, 16 7. ↩︎
-
Manu IV, 211; V, 9; Yājñ. I, 167. ↩︎
-
Manu V, 10, 24 and 25. ↩︎
-
According to Haradatta, Āpastamba returns once more to the question about sour food, in order to teach that dishes prepared with curds and other sour substances may be eaten. ↩︎
-
Manu V, 8; Yājñ. I, 170. ↩︎
-
Manu V, 8, 9; Yājñ. I 170. ‘Sandhinī, translated by “females that give milk while big with young,” means, according to others, “female animals that give milk once a day.”–Haradatta. ↩︎
-
Manu V, 8. ↩︎
-
Manu V, 5; Yājñ. I, 176. ↩︎
-
Haradatta observes that Āpastamba, finding the list of forbidden vegetables too long, refers his pupils to the advice of the Śiṣṭas. The force of this Sūtra is exactly the same as that of I, 3, 11, 38. ↩︎
-
Yājñ. I, 171. ↩︎
-
The camel, Gayal, and Śarabha are mentioned as ‘forbidden animals,’ Śatapatha-br. I, 2, 1, 8; Aitareya-br. II, 1, 8; see also Weber, Ind. Stud. X, 62; Manu V, 11, 18; Yājñ. I, 172, 176. ↩︎
-
Yājñ. I, 176. ↩︎
-
Manu V, 12. Yājñ. I, 172. ↩︎
-
Manu V, 11; Yājñ. I, 172. ↩︎
-
Yājñ. I, 172. ↩︎
-
Manu V, 12; Yājñ. I, 172. Other commentators take the whole Sūtra as one compound, and explain it as an exception to Sūtra 34. In that case the translation runs thus: (‘Carnivorous birds are forbidden) except the Kruñca, Krauñca, Vārdhrāṇasa, p. 65 and Lakṣmaṇa.’–Haradatta. This translation is objectionable, because both the Kruñca, now called Kulam or Kūñc, and the Krauñca, the red-crested crane, now called Sāras (Cyrus), feed on grain. Kruñcakrauñca is a Vedic dual and stands for kruñcakrauñcā or kruñcakrauñcau. ↩︎
-
Manu V, 18; Yājñ. I, 77. Pūtikhasha is, according to Haradatta, an animal resembling a hare, and found in the Himālayas. ↩︎
-
Haradatta closes this chapter on flesh-eating by quoting Manu V, 56, which declares flesh-eating, drinking spirituous liquor, and promiscuous intercourse to be allowable, but the abstinence therefrom of greater merit. He states that the whole chapter must be understood in this sense. ↩︎