01 उपासने गुरूणां वृद्धानामतिथीनां ...{Loading}...
उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he shows his respect to Gurus or aged persons or guests, when he offers a burnt-oblation (or other sacrifice), when he murmurs prayers at dinner, when sipping water and during the (daily) recitation of the Veda, his garment (or his sacrificial thread) shall pass over his left shoulder and under his right arm. 1
हरदत्त-टीका
सूत्रम्
उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् ॥१॥
प्रस्तावः
सर्वेषामेव कर्मणां शेषभूतमाचमनं विधास्यंस्तदुपयोगिनो विधीनाह —
टिप्पनी
गुरूणामाचार्यादीनाम् , अन्येषां च वृद्धानां पूज्यानामतिथीनां च उपासने यदा तानुपास्ते तदा, होमे साङ्गे पित्र्यादन्यत्र, जप्यकर्मणि जपक्रियायां भोजनाचमनयोश्च, स्वाध्यायाध्ययने च, यज्ञोपवीती स्यात् यज्ञोपवीती भवेत् । वासोविन्यासविशेषो यज्ञोपवीतम्2 ‘दक्षिणं वाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्, इति ब्राह्मणम् । वाससोऽसम्भवेनुकल्पं वक्ष्यति ‘अपि वा सूत्रमेवोपवीतार्थ’ (२-४-२२) इति । मनुरप्याह—
3 कार्पासमुपवीतं स्याद्विप्रस्योर्ध्वकृतं त्रिवृत् । इति ॥
4 उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ॥ इति च । एषु कर्मसु यज्ञोपवीतविधानात्कालान्तरे नावश्यम्भावः ॥ १ ॥
02 भूमिगतास्वप्स्वाचम्य प्रयतो भवति ...{Loading}...
भूमिगतास्वप्स्वाचम्य प्रयतो भवति २
सर्वाष् टीकाः ...{Loading}...
Bühler
- By sipping (pure) water, that has been collected on the ground, he becomes pure. 5
हरदत्त-टीका
सूत्रम्
भूमिगतास्वप्वाचम्य प्रयतो भवति ॥२॥
टिप्पनी
6आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः7 ॥ इति मनुः ।
‘शुचि गातृप्तिकृतोयं प्रकृतिस्थं महीगतम्’ इति । याज्ञवल्क्य.
8 अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका! दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥’ 9इति ।
श्रावणे मासि सम्प्राप्ते सर्वा नद्यः रजस्वलाः2 ।
इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वपस्वाचम्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कर्तव्यमिति ॥ २॥
03 यं वा प्रयत ...{Loading}...
यं वा प्रयत आचामयेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he, whom a pure person causes to sip water, (becomes also pure). 10
हरदत्त-टीका
सूत्रम्
यं वा प्रयत आचमयेत् ॥ ३ ॥
टिप्पनी
यं वा प्रयतोऽन्य आचमयेत् सोऽपि प्रयतो भवति । सर्वथा स्वयं वामहस्तावर्जिताभिरद्भिराचमनं न भवति । एतेन शास्त्रान्तरोक्त कमण्डलुधारणमप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण वा स्वयमाचमनमाचरन्ति शिष्टाः ॥ ३॥
04 न वर्षधारास्वाचामेत् ...{Loading}...
न वर्षधारास्वाचामेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not sip rain-drops. 11
हरदत्त-टीका
सूत्रम्
न वर्षधारास्वाचामेत् ॥ ४ ॥
टिप्पनी
पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गाभावात् पिपासितस्य पानप्रतिषेधार्थमिति केचित् । अपर आह-अस्मादेव प्रतिषेधाच्छिक्यादिस्थकरकादेर्या धारा तत्र प्रायत्यार्थमाचमनं3 भवतीति ॥ ४॥
05 तथा प्रदरोदके ...{Loading}...
तथा प्रदरोदके +++(स्वयंभुवि गर्ते)+++ ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall not sip water) from a (natural) cleft in the ground.
हरदत्त-टीका
सूत्रम्
तथा4 प्रदरोदके ॥५॥
टिप्पनी
भूमेः स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिगतेऽपि नाऽऽचामेत् ॥ ५॥
06 तप्ताभिश्चाकारणात् ...{Loading}...
तप्ताभिश्चाकारणात् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not sip water heated (at the fire) except for a particular reason (as sickness). 12
हरदत्त-टीका
सूत्रम्
तप्ताभिश्चाऽकारणात् ॥ ६ ॥
टिप्पनी
तप्ताभिरद्भिर्नाचामेत् अकारणात् ज्वरादौ कारणे सति न दोषः । ‘तप्ताभि’रिति वचनात् शृतशीताभिरदोषः। तथा चोष्णानामेव प्रतिषेधः स्मृतिषु 6प्रायो भवति ॥ ६ ॥
07 रिक्तपाणिर् वयस उद्यम्याप ...{Loading}...
- रिक्तपाणिर् वयस उद्यम्याप उपस्पृशेत् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who raises his empty hands (in order to scare) birds, (becomes impure and) shall wash (his hands). 13
हरदत्त-टीका
सूत्रम्
रिक्तपाणिर्वयस उद्यम्याऽप उपस्पृशेत् ॥ ७॥
टिप्पनी
वय इति पक्षिनाम । यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य प्रोत्सारणाय पाणिमुद्यच्छते स तत्कृत्वाऽप उपस्पुशेत् तेनैव पाणिना। ‘रिक्तपाणि’रिति वचनात् काष्ठलोष्टादिसहितस्य पाणेरुद्यमने न दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥
08 शक्तिविषये न मुहूर्तमप्यप्रयतः ...{Loading}...
शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he can (find water to sip) he shall not remain impure (even) for a muhūrta.
हरदत्त-टीका
सूत्रम्
शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ॥ ८॥
टिप्पनी
शक्तौ सत्यां मुहूर्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव मूत्र पुरीषादिकं कुर्यात् यदि तावन्तं कालं2 वेगं धारयितुं शक्नुयात् इति ॥८॥
09 नग्नो वा ...{Loading}...
नग्नो वा ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall he remain) naked (for a muhūrta if he can help it).
हरदत्त-टीका
सूत्रम्
नग्नो वा ॥ ९॥
टिप्पनी
न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । व्रणादिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९॥
10 नाप्सु सतः प्रयमणम्विद्यते ...{Loading}...
नाप्सु सतः प्रयमणम्विद्यते १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Purification (by sipping water) shall not take place whilst he is (standing) in the water.
हरदत्त-टीका
सूत्रम्
नाप्सु सतः प्रयमणं विद्यते ॥ १० ॥
टिप्पनी
येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे ल्युट । तदप्सु सतो वर्तमानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १० ॥
11 उत्तीर्य त्वाचामेत् ...{Loading}...
उत्तीर्य त्वाचामेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Also, when he has crossed a river, he shall purify himself by sipping water. 14
हरदत्त-टीका
सूत्रम्
उत्तीर्य त्वाचामेत् ॥ ११ ॥
टिप्पनी
तीर उत्तीर्याचामेत् न जल इति । अयमर्थो न विधेयः । पूर्वेण गतत्वात् । तस्मादयमर्थः-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामुत्तीर्य तीरान्तरं गतः प्रयतोऽप्याचामेत् । नद्यादेरुत्तरणमाचमनस्य निमित्तमिति । 3तुरप्यर्थः ॥ ११ ॥
12 नाप्रोक्षितमिन्धनमग्नावादध्यात् ...{Loading}...
नाप्रोक्षितमिन्धनमग्नावादध्यात् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not place fuel on the fire, without having sprinkled it (with water). 15
हरदत्त-टीका
सूत्रम्
नाऽप्रोक्षितमिन्धनमग्नावादध्यात् ॥१२॥
टिप्पनी
श्रोते स्मार्ते लौकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽदध्यात् न प्रक्षिपेत् । केचिल्लौकिके नेच्छन्ति ॥ १२ ॥
13 मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो ...{Loading}...
मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो मन्येत १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If he is seated in company with) other unclean persons on a seat consisting of a confused heap of straw, and does not touch them, he may consider himself pure.
हरदत्त-टीका
सूत्रम्
मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतान्प्रयतो मन्येत ॥ १३ ॥
टिप्पनी
4पतितचण्डाल सूतिकाद्येकाशनस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलमिति गौतम । 6तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा सुष्ठ्वास्तीर्णः पलालादिसङ्घातः स्वस्तरः । पृषोदरादिषु दर्शनाद्रूपसिद्धिः । यत्रातिश्लक्ष्णतया पलालादेर्मूलाग्रविभागो न ज्ञायते स मृढः । मूढश्चासौ स्वस्तरश्च मूढस्वस्तर तस्मिन् पतितादिष्वप्रयतेष्वासीनेषु यः कश्चित्प्रयत उपविशेत् न च तान् संस्पृशेत् । तदा स प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैव मन्येत । नैवंविधे विषये तत्पृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥
14 तथा तृणकाष्ठेषु निखातेषु ...{Loading}...
तथा तृणकाष्ठेषु निखातेषु १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The same rule applies, if he is seated) on grass or wood fixed in the ground. 16
हरदत्त-टीका
सूत्रम्
तथा तृणकाष्ठेषु निखातेषु ॥ १४ ॥
टिप्पनी
तृणकाष्ठेष्वपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥
15 प्रोक्ष्य वास उपयोजयेत् ...{Loading}...
प्रोक्ष्य वास उपयोजयेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall put on a dress, (even if it is clean,) only after having sprinkled it with water. 17
हरदत्त-टीका
सूत्रम्
प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥
टिप्पनी
शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि वाससः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥
16 शूनोपहतः सचेलो ऽवगाहेत ...{Loading}...
- शूनोपहतः सचेलो ऽवगाहेत १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has been touched by a dog, he shall bathe, with his clothes on;
हरदत्त-टीका
सूत्रम्
शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥
टिप्पनी
शुना उपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्ट तथापि सचेलोऽवगाहेत भूमिगतास्वप्सु स्नायात् नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्रायश्चित्तम् । तत्र वसिष्ठः2
ब्राह्मणस्तु शुना दष्टो नदी गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति।”
अङ्गिराः—
3 ब्रह्मचारी शुना दष्टस्त्रिरात्रेणैव शुद्यति । गृहस्थस्तु द्विरात्रेण ह्येकाहेनाऽग्निहोत्रवान् ॥ नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
तदेव त्रिगुणं वक्त्रे मूर्ध्नि चेत्स्याच्चतुर्गुणम् ॥
क्षत्रविट्छूद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् । द्विगुणं तु वनस्थस्य तथा प्रव्रजितस्य च ॥
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
यदा न दृश्यते सोमः प्रायश्चित्तं तदा कथम् ।
यां दिशं तु गतस्सामस्तां दिशं त्ववलोकयेत् ॥
सोममार्गेण सा पूता पञ्चगव्येन शुद्धति ॥ इति ॥ १६ ॥
17 प्रक्षाल्य वा तन् ...{Loading}...
प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he becomes pure, after having washed that part (of his body) and having touched it with fire and again washed it, as well as his feet, and having sipped water. 18
हरदत्त-टीका
सूत्रम्
प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ॥ १७ ॥
टिप्पनी
शुना स्पृष्टं प्रदेशं प्रक्षाल्याग्निना च संस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षाल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥
2ऊर्ध्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते ।
तत्र स्नानविधिः प्रोक्तो ह्यधः प्रक्षालनं स्मृतम् ॥’
इति मानवे दर्शनात् ॥ १७ ॥
18 अग्निन् नाप्रयत आसीदेत् ...{Loading}...
अग्निं नाप्रयत आसीदेत् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Unpurified, he shall not approach fire, (so near that he can feel the heat). 19
हरदत्त-टीका
सूत्रम्
अग्निं नाप्रयत आसीदेत् ॥ १८ ॥
टिप्पनी
अप्रयतस्सन्नग्निं नासीदेत् अग्नेरासन्नो न भवेत् , यावति देशे ऊष्मोपलम्भः । तत्राप्यशक्तौ न दोषः ॥ १८ ॥
19 इषुमात्रादित्येके ...{Loading}...
इषुमात्रादित्येके १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that (he shall not approach nearer) than the length of an arrow.
हरदत्त-टीका
सूत्रम्
इषुमात्रादित्येके ॥ १९ ॥
टिप्पनी
इषुमात्रादर्वाङ्नासीदेत् । ऊष्मोपलम्भो भवतु वा मा भूदित्येके मन्यन्ते ॥ १९ ॥
20 न चैनमुपधमेत् ...{Loading}...
न चैनमुपधमेत् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he blow on fire with his breath. 20
हरदत्त-टीका
सूत्रम्
न चैनमुपधमेत् ॥ २० ॥
टिप्पनी
अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोषः।
‘मुखेनोपधमेदग्निं मुखाग्निरजायत ।’
इति स्मृत्यन्तरे दर्शनात् ।
3 ‘नाग्निं मुखेनोपधमे’दिति मानवे दर्शनादुभयोर्विकल्पः। अपर आह- वाजसनेये श्रौतप्रकरणे ‘मुखाद्ध्यग्निरजायत । तस्मान्मुखेनोपसमिन्ध्या’दिति दर्शनात् श्रौतेषु मुखेनोपसमिन्धनम् , अन्यत्र स्मार्ते
प्रतिषेध इति।
अन्ये तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं हि मुखव्यापारस्यान्वयाच्छ्रुतिरप्यनुगृहीता भवति, आस्यबिन्दूनां पतनशङ्काभयात् प्रतिषेधस्मृतिरपीति ॥ २०॥
21 खट्वायाञ् च नोपदध्यात् ...{Loading}...
खट्वायां च नोपदध्यात् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he place fire under his bedstead. 21
हरदत्त-टीका
सूत्रम्
खट्वायां च नोपदध्यात् ॥ २१ ॥
टिप्पनी
खट्वायां खट्वाया अधोऽग्निं नोपध्यात् । अत्राप्यशक्तौ न दोषः ॥२१॥
22 प्रभूतैधोदके ग्रामे यत्रात्माधीनम् ...{Loading}...
प्रभूतैधोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धार्म्यो ब्राह्मणस्य २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is lawful for a Brāhmaṇa to dwell in a village, where there is plenty of fuel and water, (and) where he may perform the rites of purification by himself. 22
हरदत्त-टीका
सूत्रम्
प्रभूतैधोदके ग्राम यत्राऽऽत्माधीनं प्रयमणं तत्र वासो धार्म्यो ब्राह्मणस्य ॥ २१॥
टिप्पनी
प्रभूतं एधः उदकं च यस्मिन् ग्रामे तत्र वासो धार्म्यः धर्म्यः । अत्रापि न सर्वत्र । किं तर्हि ? यत्रात्माधीन प्रयमणं प्रायत्यं मूत्रपुरीषप्रक्षालनादीनि यत्रात्माधीनानि तत्र । यत्र तु कूपेष्वेवोदकं तत्र बहुकूपेऽपि न वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । ग्रामग्रहणादेवंभूतेषु घोषादिश्वपि न वस्तव्यम् ॥ २२ ॥
23 मूत्रङ् कृत्वा पुरीषं ...{Loading}...
- मूत्रं कृत्वा पुरीषं वा मूत्रपुरीष-लेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसश् च ये लेपास्, तान् प्रक्षाल्य पादौ च, +आचम्य प्रयतो भवति २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he has washed away the stains of urine and fæces after voiding urine or fæces, the stains of food (after dinner), the stains of the food eaten the day before (from his vessels), and the stains of semen, and has also washed his feet and afterwards has sipped water, he becomes pure. 23
हरदत्त-टीका
सूत्रम्
मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान् रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचम्प प्रयतो भवति ॥ २३ ॥
टिप्पनी
मूत्रं पुरीष वा कृवा उत्सृज्य तयोर्मुत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे स्थिताः प्रदेशान्तरे वा पतिताः तान् सर्वान् । 2अन्नलेपांश्चानुच्छिष्टानपि उच्छिष्टलेपांश्चानन्नलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ मैथुने वा तान् सर्वानद्भिर्मृदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य पश्चादाचम्य प्रयतो भवति । अत्र मृत्प्रमाणस्य सङ्ख्यायाश्चानुक्तत्वात् यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च याज्ञवल्क्यः—
3गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः।’ इति ।
देवलस्तु व्यक्तमाह—
4 यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् ।
प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ॥’ इति ।
पैठीनसि -
‘मुत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये।
अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः।’ इति ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥
-
- Taitt. Ār. II, 1, 2 seq.; Manu IV, 58.
-
म० स्मृ० २. ६३. ‘द्विजः’ इति ख. च. पुस्तकयोः मुद्रितमनुस्मृतिपुस्तके च । ↩︎ ↩︎ ↩︎ ↩︎
-
Pure water is that which a cow will drink. Yājñ. I, 192; Manu V, 128. ↩︎
-
म० स्मृ० ५. १२७. या. स्मृ. १.१९२ ↩︎
-
अयं श्लाको मुद्रितमनुस्मृतिपुस्तकेषु नोपलभ्यते । ↩︎
-
‘मनुः’ इति क.पु. ↩︎
-
The ceremony of ‘sipping water’ may be performed in two ways; either the ‘person sipping’ may take the water out of a river, pond, &c., or he may get the water poured into his hand by another person. But, according to Āpastamba, he must not take a pot or gourd in his left hand and pour the water into his right, as some Smṛtis allow. The reason for this rule is, that Āpastamba considers it essential that both hands should be used in conveying the water to the mouth; see also above, I, 1, 4, 21. This agrees with the custom now followed, which is to bend the right hand into the form of a cow’s ear, and to touch the right wrist with the left hand while drinking. ↩︎
-
‘Some think, that this Sūtra is intended to forbid also the drinking of rain-water. Other commentators declare that, according to this Sūtra, it is allowed to use for “sipping” drops of water which fall from a vessel suspended by ropes [because the Sūtra emphatically excludes “rain-drops only].’–Haradatta. ↩︎
-
Manu II, 61. ‘Because the term “heated by fire” is used, there is no objection to water heated by the rays of the sun. In the same manner the use of, “hot” water only is usually forbidden in the Smṛtis.’– Haradatta. ↩︎
-
‘Because the phrase “with empty hands” is used, he commits no fault if he raises his hand, holding a stick or a clod. Some declare, that the term “touching water” (rendered by “washing means “sipping water.”’–Haradatta. ↩︎
-
The translation given above is based on the interpretation of Haradatta, who considers that Āpastamba holds ‘crossing a river’ to cause impurity. The natural and probably the right interpretation, however, is that rejected by Haradatta, ‘But he shall sip water after having come out (of the river or tank).’ ↩︎
-
‘“On the fire used for Vedic or Smārta sacrifices or for household purposes.”. . . Some declare, that (the fuel need not be sprinkled with water) if used for the kitchen fire.’–Haradatta. ↩︎
-
Haradatta’s commentary is of little use, and I am not quite certain that my translation is correct. ↩︎
-
Manu V, 118. ↩︎
-
This second proceeding is adopted in case the dog has touched the hands or the lower parts of the body, as may be learnt by the comparison of a verse of Manu. ↩︎
-
Manu IV, 142; Yājñ. I, 155. ↩︎
-
Manu IV, 53. Haradatta mentions other explanations of this Sūtra. Some say, that the Śrauta fire may be kindled by blowing, because that is ordained particularly in the Vājasaneyaka, but that the domestic fire is not to be treated so. Others again consider the rule absolute, and say, that a hollow reed or bellows must be used for kindling the fire, lest drops of saliva should fall upon it. ↩︎
-
Manu IV, 54. ↩︎
-
The last condition mentioned in the Sūtra indicates, that the place must have a river or tank, not wells only, as the purification by sipping water cannot be performed without help, with water from wells. ↩︎
-
Manu V, 138. ↩︎