01 देवेभ्यः स्वाहाकार आ ...{Loading}...
देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- The oblation to the gods accompanied by the exclamation Svāhā, which may consist even of a piece of wood only; the offering to the Manes accompanied by the exclamation Svadhā, which may consist even of a vessel with water only; the daily recitation. 1
हरदत्त-टीका
सूत्रम्
देवेभ्यः स्वाहाकार आ काष्ठात् पितृभ्यः स्वधाकार ओदपात्रात् स्वाध्याय इति ॥१॥
टिप्पनी
देवेभ्यः स्वाहाकारेण प्रदानम् आकाष्ठात् अशनीयाभावे काष्ठमपि तावद्देयम् । वैश्वदेवोक्तप्रकारेणैवैष देवयज्ञः । केचिद्वैश्वदेवाहुतीभ्यः पृथग्भूतामिमामाहुतिं मन्यन्ते । ‘देवेभ्यः स्वाहे’ति च मन्त्रमिच्छन्ति । ‘देवयज्ञेन यक्ष्य’ इति सङ्कल्पमिच्छन्ति । वयं तु न तथेति2 गृह्य एवाऽवोचाम । केचिदाहुः—‘आकाष्ठा’दिति वचनादशनीयाभावेन भोजनलोपेऽपि यथाकञ्चित् वैश्वदेवं कर्तव्यम्, पुरुषसंस्कारत्वादिति ।
अपरे तु-अशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न कर्तव्यमिति स्थिताः।
पितृभ्यः स्वधाकारेण प्रदानम् आरपात्रात् अन्नाद्यभावे उदपात्रमपि स्वधाकारेण तावद्देयम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः । स्वाध्याय 3 ‘तस्य विधिरित्यारभ्योक्तो नित्यस्वाध्यायः । स तु ब्रह्मयज्ञः। इतिः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान उपयुज्यते । अनुष्ठानं तु—4ब्रह्मयज्ञो, देवयज्ञः, पितृयज्ञो, भूतयज्ञो, मनुष्ययज्ञ इति ॥ १॥
02 पूजा वर्णज्यायसाङ् कार्या ...{Loading}...
पूजा वर्णज्यायसां कार्या २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Respect must be shown to those who are superior by caste, 5
हरदत्त-टीका
सूत्रम्
पूजा वर्णज्यायसां कार्या ॥ २ ॥
प्रस्तावः
पूजां प्रसङ्गादाह—
टिप्पनी
वर्णतो2 ये ज्यायांसः प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥२॥
03 वृद्धतराणाञ् च ...{Loading}...
वृद्धतराणां च ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And also to (persons of the same caste who are) venerable (on account of learning, virtue, and the like).
04 हृष्टो दर्पति दृप्तो ...{Loading}...
हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- A man elated (with success) becomes proud, a proud man transgresses the law, but through the transgression of the law hell indeed (becomes his portion).
हरदत्त-टीका
सूत्रम्
हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ॥ ४॥
प्रस्तावः
पूजा कार्येत्युक्तम् । तद्विरोधी हर्षो वर्ज्य इत्याह—
टिप्पनी
अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तद्युक्तो हृष्टः । स दर्पति दृप्यति। दर्पो गर्वोऽभिमानः। दृप्तो धर्ममतिक्रामति, पूज्यपूजनादिकं प्रति स्तब्धत्वात् । खलुपुनश्शब्दो वाक्यालङ्कारे । धर्मातिक्रमे खलु पुनर्नरको भवति निरय प्रतिपद्यते । तस्माद्धर्मातिक्रममूलभूतो हर्षो न कर्तव्यः । यद्यपि भूतदाहीयेषु 3दोषेषु वर्जनीयेषु हर्षोऽपि, 4वक्ष्यते । तथापीह विशेषेण हर्षस्य वर्जनार्थोऽयमारम्भः ! योगाङ्गात्वाद्वक्ष्यमाणस्य ॥ ४॥
05 न समावृत्ते समादेशो ...{Loading}...
न समावृत्ते समादेशो विद्यते ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- It has not been declared, that orders (may be addressed by the teacher) to a pupil who has returned home. 8
हरदत्त-टीका
सूत्रम्
न समावृत्ते समादेशो विद्यते ॥ ५॥
टिप्पनी
समावृत्तं शिष्यं प्रति आचार्येण समादेशो न देयः-इदं त्वया कर्तव्यमिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैवमिदानीम्। स्वेच्छया करणे न प्रतिषेध्यम् ॥ ५॥
06 ॐकारः स्वर्गद्वारन् तस्माद्ब्रह्माध्येष्यमाण ...{Loading}...
ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- The syllable ‘Om’ is the door of heaven. 9 Therefore he who is about to study the Veda, shall begin (his lesson) by (pronouncing) it.
हरदत्त-टीका
सूत्रम्
ओङ्कारस्स्वर्गद्वारं तस्माद्ब्रह्माऽध्येष्यमाण एतदादि प्रतिपद्येत ॥ ६॥
टिप्पनी
ओङ्कारः प्रणवः स्वर्गस्य द्वारमिव । यथा द्वारेण गृहाभ्यन्तरं प्राप्यते तथाऽनेन स्वर्गः ! तम्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अनाम्नातमप्योङ्कारमादौ कृत्वा प्रतिपद्येत उपक्रमेताऽध्येतुम् ॥ ६ ॥
07 विकथाञ् चान्याङ् कृत्वैवं ...{Loading}...
विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has spoken anything else (than what refers to the lesson, he shall resume his reading by repeating the word ‘Om’). Thus the Veda is separated from profane speech.
हरदत्त-टीका
सूत्रम्
विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ ७॥
टिप्पनी
अध्ययने ऽनुपयुक्ता कथा विकथा ।
तां चान्यां कृत्वा एतदादि प्रतिपद्येत । एवं सति ब्रह्म वेदः लौकिक्या वाचा व्यावर्तते तया मिश्रितं न भवति ॥७॥
08 यज्ञेषु चैतदादयः प्रसवाः ...{Loading}...
यज्ञेषु चैतदादयः प्रसवाः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And at sacrifices the orders (given to the priests) are headed by this word.
हरदत्त-टीका
सूत्रम्
यज्ञेषु चैतदादयः प्रसवाः॥८॥
प्रस्तावः
पुनरप्योङ्कारमेव स्तौति—
टिप्पनी
यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुज्ञावाक्यानि भवन्ति ब्रह्मादीनाम्-ॐ प्रणय, ॐ निर्वप, ॐ 2स्तुध्वमिति ॥ ८॥
09 लोके च भूतिकर्मस्वेतदादीन्येव ...{Loading}...
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And in common life, at the occasion of ceremonies performed for the sake of welfare, the sentences shall be headed by this word, as, for instance, ‘(Om) an auspicious day,’ ‘(Om) welfare,’ ‘(Om) prosperity.’ 10
हरदत्त-टीका
सूत्रम्
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ॥९॥
टिप्पनी
यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति— यथेति । पुण्याहवाचने ॐ कर्मणः पुण्याहं भवन्तो ब्रुवन्वि’ति वाचयिता वदति । 3 ‘ॐ पुण्याहं कर्मणोऽस्तु’ इति प्रतिवक्तारः । 4 ॐ कर्मणे स्वस्ति भवन्तो अवन्तु’ इति वाचयिता। ‘ॐ कर्मणे स्वस्ति’ इतीतरे। 2 ॐ कर्मण ऋद्धि भवन्तो ब्रुवन्तु" इति वाचयिता । ‘ॐ कर्मर्घ्यतामितीतरे । तस्मादेवं प्रशस्त ॐकार इति ॥ ९॥
10 नासमयेन कृच्छ्रङ् कुर्वीत ...{Loading}...
नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति परिहाप्य १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Without a vow of obedience (a pupil) shall not study (nor a teacher teach) a difficult (new book) with the exception of (the texts called) Triḥsrāvaṇa and Tr.ihsahavacana. 11
हरदत्त-टीका
सूत्रम्
नाऽसमयेन कृच्छं कुर्वीत त्रिःश्रावणं त्रिस्सहवचनमिति परिहाप्य ॥१०॥
टिप्पनी
समयः शुश्रूषा, तेन विना कृच्छ्रं दुःखं दुरवधारणं अपूर्वं ग्रन्थं न कुर्वीत । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । समयेन विना शिष्योऽपि कृच्छ्रं ग्रन्थं नाऽधीयीत । आवार्योऽपि नाध्यापयेत् । तथा च मनुः—
6 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे’ ॥ इति । किमविशेषेण ? नेत्याह-त्रिःश्रावणमात्रे त्रिस्सहवचनमिति परिहाप्य वर्जयित्वा । त्रिःश्रावणमात्रे त्रिस्सहवचनमात्रे चान्यतरापेक्षया क्रियमाणे
शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्यति ॥१०॥
11 अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति ...{Loading}...
अविचिकित्सा यावद् ब्रह्म निगन्तव्यम् इति हारीतः ११ +++(????)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- Hārita declares, that the (whole) Veda must be studied under a vow of obedience until there is no doubt (regarding it in the mind of the pupil). 12
हरदत्त-टीका
सूत्रम्
अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥ ११ ॥
टिप्पनी
विचिकित्सा संशयः। तदभावोऽविचिकित्सा सा यावदुत्पद्यते तावद्ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यो मन्यते । अत्र पक्षे त्रिःश्रावणत्रिस्सहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणादङ्गेषु नायं विधिः ॥ ११ ॥
12 न बहिर्वेदे गतिर्विद्यते ...{Loading}...
न बहिर्वेदे गतिर्विद्यते १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- No obedience is due (to the teacher for teaching) works which do not belong to the Veda.
हरदत्त-टीका
सूत्रम्
न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥
टिप्पनी
वेदाद्बहिर्भूते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि तदुपयुक्तं वेदार्थज्ञाने ॥ १२ ॥
13 समादिष्टमध्यापयन्तं यावदध्ययनमुपसङ्गृह्णीयात् ...{Loading}...
समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (A student) shall embrace the feet of a person, who teaches him at the request of his (regular teacher), as long as the instruction lasts. 13
14 नित्यमर्हन्तमित्येके ...{Loading}...
नित्यमर्हन्तमित्येके १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some (declare, that he shall also) always, (if the substitute is) a worthy person. 14
हरदत्त-टीका
सूत्रम्
नित्यमर्हन्तमित्येके ॥ १४ ॥
टिप्पनी
स चेत्समादिष्टोऽर्हन् भवति6 विद्यासदाचारादिना । ततो नित्यमुपसंगृह्णीयात्, इत्येके मन्यन्ते । स्वमते तु यावदध्ययनमिति ॥ १४ ॥
15 न गतिर् विद्यते ...{Loading}...
न गतिर् +++(=शुश्रूषा)+++ विद्यते १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But obedience (as towards the teacher) is not required (to be shown towards such a person).
हरदत्त-टीका
सूत्रम्
न गतिर्विद्यते ॥ १५ ॥
टिप्पनी
यद्यसावर्हन् भवति तथाप्याचार्ये या गतिःशुश्रषा सा तस्मिन्न् कर्तव्या ॥ १५ ॥
16 वृद्धानान् तु ...{Loading}...
वृद्धानां तु १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (pupils) older (than their teacher need not show him obedience). 15
हरदत्त-टीका
सूत्रम्
वृद्धानां तु ॥१६॥
टिप्पनी
तुश्चार्थे । वृद्धानां चान्तेवासिनां न गतिर्विद्यते । पूर्ववयसाऽन्ते वासिना अवरवया आचार्यो न शुश्रूषितव्यः। अध्ययनादूर्ध्वमित्येके । अध्ययनकालेऽपीत्यन्ये । केचिदवरवयसाऽप्यन्तेवासिना न वार्धके गतिः कर्तव्येत्याहुः ॥ १६ ॥
17 ब्रह्मणि मिथो विनियोगे ...{Loading}...
ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (two persons) teach each other mutually (different redactions of) the Veda, obedience (towards each other) is not ordained for them.
हरदत्त-टीका
सूत्रम्
ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ १७ ॥
टिप्पनी
ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बह्वृचो यजुर्वेदिनः सकाशाद्यजुर्वेदमधीते सोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा न कर्तव्या ॥ १७ ॥
18 ब्रह्म वर्धत इत्युपदिशन्ति ...{Loading}...
ब्रह्म वर्धत इत्युपदिशन्ति १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- (For) the (wise) say, ‘The Veda-knowledge (of either of them) grows.’
हरदत्त-टीका
सूत्रम्
ब्रह्म वर्धत इत्युपदिशन्ति ॥ १८ ॥
प्रस्तावः
अत्र हेतुं स्वयमेवाह—
टिप्पनी
द्वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धि’ शुश्रूषेत्युपदिशन्त्याचार्याः ॥१८॥
19 निवेशे वृत्ते संवत्सरे ...{Loading}...
निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Śvetaketu declares, ‘He who desires to study more, after having settled (as a householder), shall dwell two months every year, with collected mind, in the house of his teacher,’
हरदत्त-टीका
सूत्रम्
निवेशे वृत्ते संवत्सरेसंवत्सरे द्वौद्वौ मासौ समाहित आचार्यकुले वसेद्भूयःश्रुतिमिच्छन्निति श्वेतकेतुः॥ १९॥
टिप्पनी
भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मणि वृत्तेऽपि प्रतिसंवत्सरं द्वौद्वौ मासौ समाहितो भूत्वाऽचार्यकुले वसेदिति श्वेतकेतुराचार्यो मन्यते ॥ १९ ॥
20 एतेन ह्यहं योगेन ...{Loading}...
एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (And he adds), ‘For by this means I studied a larger part of the Veda than before, (during my studentship.)’
हरदत्त-टीका
सूत्रम्
एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति ॥ २० ॥
प्रस्तावः
अत्र हेतुत्वेन श्वेतकेतोरेव शिष्यान्प्रति वचनम् —
टिप्पनी
एतेनानन्तरोक्तेन योगेनोपायेन अहं पूर्वस्मात् ब्रह्मचर्यकालात् भूयः 3बहुतरं श्रुतमकुर्वीति कृतवानस्मि । अतो यूयमपि तथा कुरुध्वमिति ॥
21 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...
तच्छास्त्रैर्विप्रतिषिद्धम् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- That is forbidden by the Śāstras.
हरदत्त-टीका
सूत्रम्
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ २१ ॥
टिप्पनी
तदिदं श्वेतकेतोर्वचनं श्रुत्यादिभिः शास्त्रैर्विरुद्धम् ॥ २१ ॥
22 निवेशे हि वृत्ते ...{Loading}...
निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- For after the student has settled as a householder, he is ordered by the Veda, to perform the daily rites,
हरदत्त-टीका
सूत्रम्
निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते ॥ २२ ॥
प्रस्तावः
कथमित्यत आह —
टिप्पनी
हिशब्दो हेतौ । यस्मात् निवेशे वृत्ते नैयमिकानि नियमेन कर्तव्यानि नित्यानि कर्माणि श्रूयन्ते ॥ २२ ॥
॥ इति त्रयोदशी कण्डिका ॥
-
- Taitt. Ār. II, 10, 2 and 3, and Śatapatha-br. loc. cit. 2. Haradatta observes, that some consider the Devayajña, mentioned in the Sūtra, to be different from the Vaiśvadeva, but that he holds it to be the same. Further he mentions, that some prescribe this Vaiśvadeva to be performed even if one has nothing to eat.
-
आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम्। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः, पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोक्तेनैव क्रमेणानुष्ठानम्। च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ↩︎ ↩︎ ↩︎ ↩︎
-
‘Namely, by allowing them to walk in front on the road and by giving them perfumed garlands and the like at festive occasions.’–Haradatta. ↩︎
-
वित्त बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ इति मनूक्तैर्विद्यादिभिर्वृद्धानामित्यर्थः ॥ ↩︎ ↩︎ ↩︎
-
म० स्मृ० २. १३७. दशमीं गतः नवत्यधिकां अवस्थां गत इत्यर्थः । वर्षाणां शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । ↩︎
-
Haradatta gives as an example the order to fetch water, and adds that a voluntary act on a former pupil’s part ought not to be forbidden. ↩︎
-
Compare also Taitt. Ār. I, 2, 4, and Manu II, 74. ↩︎
-
The example given in the Sūtra is that of the Puṇyāhavācana, which precedes every Gṛhya ceremony, and at which the sacrificer requests a number of invited Brāhmaṇas to wish him success. The complete sentences are, The sacrificer: Oṃ karmaṇaḥ puṇyāham bhavanto bruvantviti, ‘Om, wish that the day may be auspicious for the performance of the ceremony.’ The Brāhmaṇas: Om puṇyāhaṃ karmaṇa itī, ‘Om, may the day be auspicious for the ceremony.’ In the same manner the Brāhmaṇas afterwards wish ‘welfare,’ svasti, ‘prosperity,’ vṛddhi, to the sacrificer. ↩︎
-
Manu II, 112. ↩︎
-
The meaning of Hārita is, that the vow of obedience is required for the Triḥsrāvaṇa and Tr.ihsahavacana, which Āpastamba exempted in the preceding Sūtra. It follows from this rule that the Aṅgas or works explanatory of the Veda need not be studied under a vow of obedience. ↩︎
-
This rule is a Supplement to I, 2, 7, 29. ↩︎
-
‘“A worthy person,” i.e. on account of his learning, or character.’– Haradatta. ↩︎
-
‘According to some, this rule refers only to the time after instruction has been completed; according to others, to the time of studentship.’–Haradatta. But see Manu II, 151 seq. ↩︎