01 तपः स्वाध्याय इति ...{Loading}...
तपः स्वाध्याय इति ब्राह्मणम् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa declares, ‘The daily recitation (of the Veda) is austerity.’ 1
हरदत्त-टीका
सूत्रम्
तपः स्वाध्याय इति ब्राह्मणम् ॥१॥
टिप्पनी
योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छ्रचान्द्रायणादिलक्षणं तपो यावत्फलं साधयति तावत्साधयतीत्यर्थः ॥ १॥
02 तत्र श्रूयते स ...{Loading}...
तत्र श्रूयते । स यदि तिष्ठन्न् आसीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति २
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the same (sacred text) it is also declared, Whether he recites the daily portion of the Veda standing, or sitting, or lying down, he performs austerity thereby; for the daily recitation is austerity.’ 2
हरदत्त-टीका
सूत्रम्
तत्र श्रूयते3स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥२॥
टिप्पनी
तत्रैव ब्राह्मणे “स यदि तिष्ठन्नासीन’ इत्यापत्कल्पः श्रूयते । तत्र 4 ‘दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय’मित्यादिर्मुख्यः कल्पो5 ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदासनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः। मनुरप्याह—
6आहैव स नखाग्रेभ्यः परमं तप्यते तपः।
यस्स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥’ इति ।
स्रग्वीति स्वैरं दर्शयति ॥२॥
03 अथापि वाजसनेयिब्राह्मणम् ब्रह्मयज्ञो ...{Loading}...
अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात्स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now the Vājasaneyi-brāhmaṇa declares also, ‘The daily recitation is a sacrifice at which the Veda is offered. When it thunders, when lightning flashes or thunderbolts fall, and when the wind blows violently, these sounds take the place of the exclamations Vaṣaṭ (Vauṣaṭ and Svāhā). Therefore he shall recite the Veda whilst it thunders, whilst lightning flashes and thunderbolts fall, and whilst the wind blows violently, lest the Vaṣaṭ (should be heard) in vain. 7
हरदत्त-टीका
सूत्रम्
अथापि वाजसनेयिब्राह्मणम्8ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात् स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ॥ ३॥
प्रस्तावः
एवं कर्तुर्नियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह—
टिप्पनी
अथापि अपि च स्वाध्यायो नाम य एष ब्रह्मयज्ञ ब्रह्मवेदः तत्साधनो यागः। यथा दर्शपूर्णमासादयः पुरोडाशादिसाधनाः। हवैशब्दौ प्रसिद्धिं द्योतयतः। तस्य यज्ञस्यैते वक्ष्यमाणाः स्तनयित्न्वादयो वषट्काराः वषटकारस्थानीयाः । बहुवचनर्निर्देशात्3 वषट्कारानुवषट्कारस्वाहाकारास्सर्वे प्रदानार्था गृह्यन्ते । 4स्तनितं मेघशब्दः। विद्योतनं विद्युद्व्यापारः। अवस्फूर्जनम् शनिपातः । तत्र अवस्फूर्जथुर्लिङ्गमिति दर्शनात् । ‘वायती’ति ओवै शोषण’ इत्यस्य रूपम् । यथा आर्द्रप्रदेशश्शुष्को भवति तथा5 वातीत्यर्थः । यस्मादेते वषट्काराः तस्मात् स्तननादिष्वनध्यायनिमित्तेषु सत्स्वप्यधीयीतैव । न पुनरनध्याय इति नाधीयीत । किमर्थम् ? वषट्काराणामेतेषामच्छम्बट्काराय अव्यर्थत्वाय । अन्यथा एते वषटकारा व्यर्थास्स्युः । ततश्च6 यथा होत्रा वषट्कृते अध्वर्युर्न जुहुयात् तादृगेव तत्स्यात् ॥३॥
04 तस्य शाखान्तरे वाक्यसमाप्तिः ...{Loading}...
तस्य शाखान्तरे वाक्यसमाप्तिः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The conclusion of the passage from that (Vājasaneyi-brāhmaṇa is found) in another Śākhā (of the Veda).
हरदत्त-टीका
सूत्रम्
तस्य शाखान्तरे वाक्यसमाप्तिः॥ ४ ॥
टिप्पनी
तस्य वाजसनेयिब्राह्मणस्य । शाखान्तरे वाक्यसमाप्तिर्भवति, न 8तावति पर्यवसानम् ॥ ४॥
05 अथ यदि वातो ...{Loading}...
अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतेत वावस्फूर्जेद् वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो हैवास्यैतदहः स्वाध्याय उपात्तो भवति ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- ‘Now, if the wind blows, or if it thunders, or if lightning flashes, or thunderbolts fall, then he shall recite one Ṛk-verse (in case he studies the Rig-Veda), or one Yajus (in case he studies the Yajur-veda), or one Sāman (in case he studies the Sāma-veda), or (without having a regard to his particular Veda, the following Yajus), “Bhūḥ Bhuvaḥ, Suvaḥ, in faith I offer true devotion.” Then, indeed, his daily recitation is accomplished thereby for that day.’ 9
हरदत्त-टीका
सूत्रम्
अथ यदि वा वातो वायात्स्तनयेद्वा विद्योतेत वाऽवस्फूर्जेद्वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनोहैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ६ ॥
प्रस्तावः
तदेव 3शाखान्तरं पठति—
टिप्पनी
अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकामृचमधीयीत । प्राप्ते प्रदेशे। यजु4र्वेदाध्ययन एकं यजुः । साम5वेदाध्ययन एकं साम । सर्वेषु वा वेदेषु ‘भूर्भुवः सुव’रित्यादिकं यजुरभिव्याहरेत् , न पुनर्यथापूर्वं प्रश्नमात्रम् । तेनैव तावतैवास्याऽध्येतुः तदहः तस्मिन्नहनि स्वाध्याय उपात्तो भवति6 अधीतो भवतीति यावत् । केचितु ‘भूर्भुवः सुव’रित्यादिकं ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥५॥
06 एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ...{Loading}...
एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- If that is done, (if the passage of the Vājasaneyi-brāhmaṇa is combined with that quoted in Sūtra 5, the former stands) not in contradiction with the decision of the Āryas. 10
हरदत्त-टीका
सूत्रम्
एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥
प्रस्तावः
कस्मात् पुनर्वाजसनेयिब्राह्मणस्योदाहृते शाखान्तरे वाक्यसमाप्तिराश्रीयते न पुनर्यथाश्रुतमात्रं गृह्यते ? तत्राह—
टिप्पनी
एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्धं भवति । इतरथा विप्रतिषिद्धं स्यात् ॥ ६ ॥
07 अध्यायानध्यायं ह्युपदिशन्ति तदनर्थकं ...{Loading}...
अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- For they (who know the law) teach both the continuance and the interruption (of the daily recitation of the Veda). That would be meaningless, if one paid attention to the (passage of the) Vājasaneyi-brāhmaṇa (alone).
हरदत्त-टीका
सूत्रम्
अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥
प्रस्तावः
कथम्?
टिप्पनी
आर्या हि अध्यायमनध्यायं चोपदिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥७॥
08 आर्यसमयो ह्यगृह्यमानकारणः ...{Loading}...
आर्यसमयो ह्यगृह्यमानकारणः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- For no (worldly) motive for the decision of those Āryas is perceptible; (and hence it must have a religious motive and be founded on a passage of the Veda). 11
हरदत्त-टीका
सूत्रम्
आर्यसमयो ह्यगृह्यमानकारणः ॥ ८॥
प्रस्तावः
ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह—
टिप्पनी
योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किञ्चित्कारणं गृह्यते । यथा8 वैसर्जनहीमोयं वासोऽध्वर्यवे ददाती’त्यत्रागृह्यमाणकारणश्चार्यसमयः श्रुत्यनुमानद्वारेण प्रमाणम् । अतो वाक्यपरिसमाप्तिरेव युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्यायोपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्वमिति । सूत्रे ‘अगृह्यमान कारण’ इति णत्वाभावश्छान्दसः ॥ ८ ॥
09 विद्याम् प्रत्यनध्यायः श्रूयते ...{Loading}...
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The proper interpretation therefore is, that) the prohibition to study (given above and by the
Āryas generally) refers only to the repetition of the sacred texts in order to learn them, not to their application at sacrifices.
हरदत्त-टीका
सूत्रम्
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥
प्रस्तावः
का पुनरसौ स्मृतिः ? या ब्रह्मयज्ञेऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्रूयते—
3 ‘नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।’ इति ।
सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः। तस्मात्तादृशी स्मृतिर्मृग्या । एवं तर्ह्यग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह—
टिप्पनी
विद्या वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनर्मन्त्राणां कर्मयोगे । हेतुः परिभाषायामुक्तो4र्थान्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् 5न पुनर्ग्रहणाध्ययनम् । पारायणाध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एवं श्रीरुद्रादिजपेऽपि ॥९॥
10 ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः ...{Loading}...
ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (But if you ask, why the decision of the Āryas presupposes the existence of a Vedic passage, then I answer): All precepts were (originally) taught in the Brāhmaṇas, (but) these texts have been lost. Their (former existence) may, however, be inferred from usage. 12
हरदत्त-टीका
सूत्रम्
ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते ॥ १० ॥
प्रस्तावः
कथं पुनरार्यसमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञानं सम्भवति । तत्राह—
टिप्पनी
विधीयन्त इति विधयः कर्माणि । ते सर्वे स्मार्ता अपि ब्राह्मणेष्वेवोक्ताः। नन्विदानीं ब्राह्मणानि नोपलभ्यन्ते। सत्यम्; तेषामुत्सन्नाः पाठाः, अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादतुमीयन्ते । प्रयोगः स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्ब्राह्मणान्यनुमीयन्ते मन्वादिभिरुपलब्धानीति । 3 कथमन्यथा स्मरेयुरनुतिष्ठेयुर्वा । सम्भवति च तेषां वेदसंयोगः ॥१०॥
11 यत्र तु प्रीत्युपलब्धितः ...{Loading}...
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- But it is not (permissible to infer the former existence of) a (Vedic) passage in cases where pleasure is obtained (by following a rule of the Smṛti or a custom). 13
हरदत्त-टीका
सूत्रम्
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ॥११॥
प्रस्तावः
अथ प्रसङ्गादपस्मृतिरुच्यते—
टिप्पनी
यत्र4पितृष्वसृसुतामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिर्न तत्रोत्सन्नपाठं शास्त्रमनुमीयते, प्रीतेरेव प्रवृत्तिहेतोः सम्भवात् ॥ ११ ॥
12 तदनुवर्तमानो नरकाय राध्यति ...{Loading}...
तदनुवर्तमानो नरकाय राध्यति १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who follows such (usages) becomes fit for hell.
हरदत्त-टीका
सूत्रम्
तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥
प्रस्तावः
ततश्च—
टिप्पनी
तद्विधानमनुतिष्ठन्नरकायैव राध्यति कल्पते ॥ १२ ॥
13 अथ ब्राह्मणोक्ता विधयः ...{Loading}...
अथ ब्राह्मणोक्ता विधयः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now follow (some rites and) rules that have been declared in the Brāhmaṇas. 14
हरदत्त-टीका
सूत्रम्
अथ ब्राह्मणोक्ता विधयः ॥ १३ ॥
टिप्पनी
एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम्। 5 अथ प्रत्यक्षब्राह्मणोक्ता एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मार्तेष्वनुप्रवेशार्थम् । तेन तदा तिक्रमे स्मार्तातिक्रमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३॥
14 तेषाम् महायज्ञा महासत्त्राणीति ...{Loading}...
तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- By way of laudation they are called ‘great sacrifices ’ or ‘great sacrificial sessions.’ 15
हरदत्त-टीका
सूत्रम्
तेषां 6महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥
टिप्पनी
तेषां वक्ष्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मणे । महासत्राणीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्रमिदं न नामधेयं8 धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोमयागेषु ये धर्माः ‘न ज्येष्ठं भ्रातरमतीत्य सोमेन यष्टव्य’मित्यादयः, ये च महासत्रस्य गवामयनस्य धर्मा3 इष्टप्रथमयज्ञानामधिकार’ इत्यादयः उभयेऽपि ते वक्ष्यमाणेषु पञ्चमहायज्ञेषु न भवन्ति ॥ १४ ॥
15 अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ...{Loading}...
अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (These rites include): The daily Bali-offering to the (seven classes of) beings; the (daily) gift of (food) to men according to one’s power;
हरदत्त-टीका
सूत्रम्
4अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ॥ १५ ॥
प्रस्तावः
के पुनस्ते? तानाह—
टिप्पनी
वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहर्भूतबलिर्देयः, एष भूतयज्ञः । मनुष्येभ्यश्च यथाशक्ति दानं कर्तव्यम् । एष मनुष्ययशः ॥ १५ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वादशी कण्डिका ॥
-
- ‘It procures as much reward as penance.’–Haradatta. Manu II, 166; Weber, Ind. Stud. X, 113. The phrase occurs frequently in the Brāhmaṇas, e.g. Taitt. Ār. II, 14, 3.
-
Regarding the proper position at the ‘Veda-offering,’ or daily recitation, see above, I, 3, 11, 2 3, and Taitt. Ār. II, 11, 3. Passages similar to the first part of the sentence quoted in this Sūtra occur Taitt. Ār II, 12, 3, and 15, 3. It ought to be observed that the Taitt. Ār. in both places has the word ‘vrajan,’ which is also read in the P. and P. U. MSS. The second part is taken apparently from the same work, II, 14, 2. ↩︎
-
तै० आ० २.१२.अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपलभ्यते । किन्तु एवमनुमीयते-तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं “उत तिष्ठन्नुत व्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्” इत्यंशं ‘तप एव तत् तप्यते तपो हि स्वाध्यायः’ इति तत्रैव त्रयोदशानुवाकगतमंशं चाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
मनु० २. १६७. “ यदि ह वा अप्यस्यक्तोऽलंकृतस्सुहितस्सुखे शयने शयानः स्वाध्यायमधीत आहेव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमधीते, तस्मात् स्वाध्यायोऽध्येतव्य." ( मा शत० ब्रा० ११. ५. ३.) इति माध्यन्दिनशतपथब्राह्मणवाक्यमूलेयं मानवी स्मृतिरिति भाति। ↩︎ ↩︎ ↩︎ ↩︎
-
See Śatapatha-brāhmaṇa XI, 5, 6, 8, where a passage very similar to that quoted by Āpastamba occurs. Vaṣaṭ and the other exclamations, which are pronounced by the Hotṛ-priest, serve as signals for the Adhvaryu to throw the oblations into the fire. ↩︎
-
इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मण-पङ्क्तिस्त्वियम्- “तस्य वा एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तनयति यदवस्फूर्जति तस्मादेवविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय” इति । ↩︎ ↩︎ ↩︎ ↩︎
-
‘Some suppose that the words Bhūḥ Bhuvaḥ and Suvaḥ &c. (are to be used only) if one studies the Brāhmaṇa portion of the Veda, not every where.’– Haradatta. ↩︎
-
Haradatta explains Āryas by viśiṣṭāḥ, ’excellent ones,’ i.e. persons who know the law, and he gives Manu as an instance. ↩︎
-
See above, I, 1, 4, 9 and 10. and notes. ↩︎
-
How then is their existence known? ‘They are inferred from usage.’ ‘“Usage” means the teaching of the law-books and the practice. From that it is inferred that Manu and other (authors of law-books) knew such texts of the Brāhmaṇas. For how could otherwise (Ṛṣis like Manu) teach in their works or practise (such customs) for which no authority is now found? And certainly they were intimately connected with the revealed texts (i.e. saw them).’– Haradatta. ↩︎
-
Compare above, I, 1, 4, 8-10. ↩︎
-
The consequence of the introduction of these rules into a Smṛti work is, that their omission must be expiated by a Smārta penance and not by a Śrauta one. ↩︎
-
The commentator observes, that, as these rites are called ‘great sacrifices,’ by way of laudation only, the particular laws binding on performers of real Soma-sacrifices cannot be transferred to the performers of these ceremonies. Regarding the p. 48 term ‘great sacrifices,’ see also Taitt. Ār. II, 11, 10, 1 seq., and Śatapatha-brāhmaṇa XI, 59 6, 1. ↩︎