01 चातुर्मासीषु च ...{Loading}...
चातुर्मासीषु च १
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he study) on the days of the full moons of those months in which the Kāturmasya-sacrifice may be performed (nor on the days preceding them). 1
हरदत्त-टीका
सूत्रम्
चातुर्मासीषु च ॥ १ ॥
टिप्पनी
चतुर्षु मासेषु भवाश्चातुर्मास्य । संज्ञैषा तिसृणां पौर्णमासीनां यासु चातुर्मास्यानि क्रियन्ते । काः पुनस्ताः? फाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो यशः। तत्र भव’इति वर्तमाने ‘संज्ञायामणि’त्यण्प्रत्ययः । तासु चातुर्मासीषु पूर्ववद्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह2 ‘कार्तिके फाल्गुन्याषाढी पौर्णमासी’ति । 3पौर्णमास्यनन्तरप्रतिपत्सु च शास्त्रान्तरवशादनध्यायः । यथा होशना:-‘पर्वणीतिहासर्जितानां विद्यानामनध्याय’ इति । ‘प्रतिपत्सु न चिन्तये’दिति च । एवं चतुर्दशीमात्रस्य वर्जने शास्त्रान्तरं4 मूलं मृग्यम् । तत्र याज्ञवल्क्यः —
5 ‘पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके।’ इति ॥१॥
02 वैरमणो गुरुष्वष्टाक्य औपाकरण ...{Loading}...
वैरमणे+++(=उत्सर्जने)+++ +++(मृतेषु)+++ गुरुष्व् अष्टाक्य औपाकरण इति त्र्यहाः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the time of the Vedotsarga, on the death of Gurus, at the Ashlakā-Śrāddha, and at the time of the Upākarma, (he shall not study) for three days; 6
हरदत्त-टीका
सूत्रम्
वैरमणे गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः ॥ २ ॥
टिप्पनी
विरमणमुत्सर्जनं तदेव वैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे सप्तम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेष्विति प्रकरणाद्गम्यते। अष्टकैवाऽष्टाक्यं स्वार्थिकः ष्यञ् । आदौ प्राप्ता वृद्धिर्मध्ये कृता । उपाकरणमेवौपाकरणम् । एतेषु निमित्तेषु त्र्यहा अध्ययनरहिताः । तत्र गुरुषु मरणदिनमारभ्य त्र्यहाः । इतरेषु पूर्वेद्युरपेद्युस्तस्मिंश्च दिने नाधीयीत। अत्र गौतमः-7तिस्रोऽष्टकास्त्रिरात्रमन्त्यामेकेऽभितो वार्षिक’मिति । उपाकरणादूर्ध्वं प्रागुत्सर्जनात् यदध्ययनं तद्वार्षिकम् । तदभितस्तस्यादावन्ते च यत्कर्म क्रियते तत्रापि त्रिरात्रमित्यर्थः। औशनसे च व्यक्तमुक्तम2 ‘उपाकर्मणि चोत्सर्गे त्र्यहमनध्याय’ इति । मानवे च व्यक्तम्3 उपाकर्मणि चोत्सर्गे त्रिरात्र क्षपणं स्मृतम् ।’ इति ॥२ ॥
03 तथा सम्बन्धेषु ज्ञातिषु ...{Loading}...
तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावदाशौचमनध्यायः)+++३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise if near relations have died. 8
हरदत्त-टीका
सूत्रम्
तथा सम्बन्धेषु ज्ञातिषु ॥ ३ ॥
टिप्पनी
ये सन्निकृष्टा ज्ञातयः भ्रातृतत्पुत्रपितृव्यादयः । तेष्वपि मृतेषु तथा त्र्यहमनध्यायः । ब्रह्मचारिणो विधिरयम् । आशौचवतां तु यावदाशौचमनध्यायः शास्त्रान्तरसिद्धः —
> ‘उभयत्र दशाऽहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥’
इति । 4उभयत्र जनने मरणे च ॥३॥
04 मातरि पितर्याचार्य इति ...{Loading}...
मातरि पितर्य् आचार्य इति द्वादशाहाः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall not study) for twelve days, if his mother, father, or teacher have died.
हरदत्त-टीका
सूत्रम्
मातरि पिताचार्य इति द्वादशाहाः ॥४॥
टिप्पनी
मात्रादिषु मृतेषु द्वादशाहमनध्यायः। अयं विधिर्गृहस्थानामपि । केचिदाशौचमपि तावन्तं कालमिच्छन्ति । नेति वयम्, अनध्यायप्रकरणात् ॥ ४॥
05 तेषु चोदकोपस्पर्शनन् तावन्तङ् ...{Loading}...
तेषु चोदकोपस्पर्शनं तावन्तं कालम् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If these (have died), he must (also) bathe for the same number of days.
हरदत्त-टीका
सूत्रम्
तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥५॥
टिप्पनी
मात्रादिष्व् अधिकं तावन्तं कालम् अहर् अहस् स्नानम् अपि कार्यम, न केवलम् अनध्यायः ॥५॥
06 अनुभाविनाञ् च परिवापनम् ...{Loading}...
अनु-भाविनां+++(=पश्चाज्-जातानां)+++ च परिवापनम् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Persons who are younger (than the relation deceased), must shave (their hair and beard), 9
हरदत्त-टीका
सूत्रम्
अनुभाविनां च परिवापनम् ॥ ६॥
टिप्पनी
अनु पश्चात् भूता जाता अनुभाविनः मृतापेक्षयाऽवरवयसः। तेषां परिवापनमपि भवति केशानाम् । 5 कृत्यच’ इति प्राप्तस्य णत्वस्य 10‘णे7र्विभाषे’ति विकल्प: । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवापनमिच्छन्ति। अपर आह- अनुभाविन उदकार्हाः । तेषां मरणे परिवापनमिति ॥६॥
“शिखामनु प्रवपन्त ऋध्यै” इति वचनम् ! तस्य बलीयस्त्वादित्याह"इति ख. पु.
07 न समावृत्ता वपेरन्न् ...{Loading}...
न समावृत्ता +++(केशान्)+++ वपेरन्न् अन्यत्र +++(याग-)+++विहाराद् इत्येके ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that students who have returned home on completion of their studentship, shall never shave, except if engaged in the initiation to a Śrauta-sacrifice. 11
हरदत्त-टीका
सूत्रम्
न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ॥ ७ ॥
टिप्पनी
विहारो यागदीक्षा । ततोऽन्यत्र न समावृत्ता वपेरनित्येके मन्यते । स्वमतं तु वपरन्नेवेति ॥ ७॥
08 अथापि ब्राह्मणं "रिक्तो ...{Loading}...
अथापि ब्राह्मणं - “रिक्तो वा एषोऽनपिहितो यन् मुण्डः। तस्यैतद् अपिधानं यच् छिखे"ति ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now a Brāhmaṇa also declares, ‘Verily, an empty, uncovered (pot) is he, whose hair is shaved off entirely; the top-lock is his covering.’ 12
हरदत्त-टीका
सूत्रम्
अथापि ब्राह्मणम्-रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपिधानं यच्छिखेति ॥८॥
प्रस्तावः
तत्र वपनस्याऽमङ्गलत्वं गुणविधिना परिहारं च वक्तुं ब्राह्मणमुदाहरति —
टिप्पनी
रिक्तः अन्तःशून्यो घटादिः। सोऽनपिहितः पिधानरहितो यादृशः तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन चैतद्दर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८॥
09 सत्रेषु तु वचनाद् ...{Loading}...
सत्रेषु तु वचनाद् वपनं शिखायाः ९
10 आचार्ये त्रीनहोरात्रानित्येके ...{Loading}...
आचार्ये त्रीन् अहोरात्रान् इत्य् एके १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that, upon the death of the teacher, (the reading should be interrupted) for three days and three nights. 14
हरदत्त-टीका
सूत्रम्
आचार्य त्रीनहोरात्रानित्येके ॥ १० ॥
टिप्पनी
आचार्ये संस्थिते त्रीनहोरात्रानध्ययनं वर्जयेदित्येके मन्यते । स्वपक्षस्तु द्वादशाहः पूर्वमुक्तः ॥ १० ॥
11 श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ...{Loading}...
श्रोत्रिय-संस्थायाम् अपरिसंवत्सरायाम् एकाम् +++(रात्रिम्)+++ ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (he hears of) the death of a learned Brāhmaṇa (Śrotriya) before a full year (since the death) has elapsed, (he shall interrupt his reading) for one night (and day). 15
13 सब्रह्मचारिणीत्येके १२ … ...{Loading}...
सब्रह्मचारिणीत्य् एके १२ …
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, (that the deceased Śrotriya must have been) a fellow-student.
हरदत्त-टीका
सूत्रम्
सब्रह्मचारिणीत्येके ॥ १२ ॥
टिप्पनी
एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्रोत्रियसामान्यमरणे ॥ १२॥
13 श्रोत्रियाभ्यागमेऽधिजिगांसमानो… ...{Loading}...
श्रोत्रियाभ्यागमे ऽधिजिगांसमानो ऽधीयानो वा ऽनुज्ञाप्याधीयीत १३
सर्वाष् टीकाः ...{Loading}...
Bühler
13-14. If a learned Brāhmaṇa (Śrotriya) has arrived and he is desirous of studying or is actually studying, (or if he is desirous of teaching or is teaching,) he may study or teach after having received permission (to do so from the Śrotriya).
हरदत्त-टीका
सूत्रम्
श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो वाऽनुज्ञाप्याधीयीत ॥ १३ ॥
टिप्पनी
श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याधीयीत ॥ १३ ॥
14 अध्यापयेद्वा ...{Loading}...
अध्यापयेद् वा १४
सर्वाष् टीकाः ...{Loading}...
Bühler
(See previous sUtra.)
हरदत्त-टीका
सूत्रम्
अध्यापयेद्वा ॥ १४ ॥
टिप्पनी
अध्यापयितुकामोऽध्यापयन्वेति प्रकरणाद्गम्यते । सोऽपि तमनुज्ञाप्याध्यापयेदिति ॥ १४॥
15 गुरुसन्निधौ चाधीहि भो ...{Loading}...
गुरुसंनिधौ चाधीहि भो इत्य् +++(आत्मगतम्)+++ उक्त्वाधीयीत १५
सर्वाष् टीकाः ...{Loading}...
Bühler
15-16. He may likewise study or teach in the presence of his teacher, if (the latter) has addressed him (saying), ‘Ho, study! (or, Ho, teach!)’ 16
हरदत्त-टीका
सूत्रम्
गुरुसन्निधौ “चाधीहि भो” इत्युक्त्वाऽधीयीत ॥ १५ ॥
टिप्पनी
धारणाध्ययनं पारायणाध्ययनं वा कुर्वन् गुरौ सन्निहिने सति ‘अधीहि भो’ इत्युक्त्वाऽधीयीत ॥ १५॥*
16 अध्यापयेद्वा ...{Loading}...
अध्यापयेद् वा १६
सर्वाष् टीकाः ...{Loading}...
Bühler
(See previous sUtra.)
हरदत्त-टीका
सूत्रम्
अध्यापयेद्वा ॥ १६ ॥
टिप्पनी
अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥*
17 उभयत उपसङ्ग्रहणमधिजिगांसमानस्याधीत्य च ...{Loading}...
उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- When a student desires to study or has finished his lesson, he shall at both occasions embrace the feet of his teacher. 17
हरदत्त-टीका
सूत्रम्
उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च ॥१७॥
टिप्पनी
उभयतः अध्ययनस्याऽऽदावन्ते च उपसंग्रहण कर्तव्यं यथाक्रम7मध्ये तु कामस्याऽऽदावधीत्यान्ते ॥ १७ ॥*
*मनौ. २. ७३ श्लोको द्रष्टव्यः ।
18 अधीयानेषु वा यत्रान्यो ...{Loading}...
अधीयानेषु वा यत्रान्यो व्यवेयाद् +++(=मध्ये गच्छेत्)+++, एतम् एव शब्दम् +++(=अधीहि भोः)+++ उत्सृज्याधीयीत १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or if, whilst they study, another person comes in, he shall continue his recitation, after those words, (‘Ho, study!’) have been pronounced (by the newcomer). 18
हरदत्त-टीका
सूत्रम्
अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव शब्दमुत्सृज्याऽधीयीत ॥ १८ ॥
टिप्पनी
बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेत्, तत्रा’प्यधीहि भो’ इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीयीत । प्रत्येकमुपदेशादेकवचनम् । अर्थायीरन् ॥ १८ ॥
19 श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे ...{Loading}...
+++(बहु-)+++श्व-गर्दभ-नादाः सलावृक्य्-एकसृक+++(=शृगाल)++++उलूक-शब्दाः
सर्वे वादित्र-शब्दा
रोदन-गीत-सामशब्दाश् च १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- The barking of (many) dogs, the braying of (many) asses, the cry of a wolf or of a solitary jackal or of an owl, all sounds of musical instruments, of weeping, and of the Sāman melodies (are reasons for discontinuing the study of the Veda). 19
हरदत्त-टीका
सूत्रम्
श्वगर्दभनादास्सलावृक्येकसृकोलूकशब्दास्सर्वे वादितशब्दा रोदनगीतसामशब्दाश्च ॥१९॥
टिप्पनी
शुनां गर्दभानां च बहूनां नादः । बहुवचननिर्देशात् ।
सलावृकी वृकजाताव् अवान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात् पुंसोऽपि ग्रहणम् । 7 ‘इन्द्रो यतीन् सालावृकेभ्य’ इत्यादौ दर्शनात् । सर्वत्रादिस्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः ।
एकसृकः एकचरः सृगालः । उलूको दिवाभीतः। एतेषां च शब्दाः । वादितानि वादित्राणि वीणावेणु मृदङ्गादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा 2अनध्यायस्य हेतवः ॥ १९ ॥
20 शाखान्तरे च साम्नामनध्यायः ...{Loading}...
शाखान्तरे +++(श्रूयमाणे)+++ च साम्नाम् अनध्यायः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If another branch of the Veda (is being recited in the neighbourhood), the Sāman melodies shall not be studied.
हरदत्त-टीका
सूत्रम्
शाखान्तरे च साम्नामनध्यायः ॥ २० ॥
टिप्पनी
वेदान्तरसकाशे3 साम्नामनध्ययनम् । गीतिषु सामाख्या, तद्योगाद्वेदवचन इत्यन्ये ॥२०॥
21 सर्वेषु च शब्दकर्मसु ...{Loading}...
सर्वेषु च शब्दकर्मसु +++(=आक्रोश-परिवादादिषु)+++ यत्र +++(+अध्ययन-शब्देन)+++ संसृज्येरन् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- And whilst other noises (are being heard, the recitation of the Veda shall be discontinued), if they mix (with the voice of the person studying). 20
हरदत्त-टीका
सूत्रम्
सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥
टिप्पनी
आक्रोश4परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः। यत्राध्ययनशब्देन ते ससृज्येरन् ॥ २१॥
22 छर्दयित्वा स्वप्नान्तम् ...{Loading}...
छर्दयित्वा +++(=वमित्वा)+++ स्वप्नान्तम् +++(नाधीयीत)+++। २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having vomited (he shall not study) until he has slept. 21
हरदत्त-टीका
सूत्रम्
छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥
टिप्पनी
छर्दनं वमनम् । तत्कृत्वा स्वप्नान्तं यावन्नाऽधीयीत ॥ २२ ॥
23 सर्पिर्वा प्राश्य ...{Loading}...
सर्पिर्वा प्राश्य +++(अधीयीत)+++। २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (he may study) having eaten clarified butter (after the attack of vomiting).
हरदत्त-टीका
सूत्रम्
सर्पिर्वा प्राश्य ॥ २३ ॥
टिप्पनी
अथ वा सर्पिः प्राश्याऽधीयीत ॥ २३ ॥
24 पूतीगन्धः ...{Loading}...
पूतीगन्धः २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- A foul smell (is a reason for the discontinuance of study). 22
हरदत्त-टीका
सूत्रम्
पूतिगन्धः ॥ २४ ॥
टिप्पनी
दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥
25 शुक्तञ् चात्मसंयुक्तम् ...{Loading}...
शुक्तं +++(=पक्वं कालपाकेनाम्लं जात)+++ चात्मसंयुक्तम् +++(=उदरस्थम्)+++ २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Food turned sour (by fermentation), which he has in his stomach, (is a reason for the discontinuance of the recitation, until the sour rising ceases). 23
हरदत्त-टीका
सूत्रम्
शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥
टिप्पनी
यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदरस्थमजीर्णं, यावत्तदनुगुण उद्गारस्तावदनध्यायहेतुः ॥ २५ ॥
26 प्रदोषे च भुक्त्वा ...{Loading}...
प्रदोषे च भुक्त्वा २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he study) after having eaten in the evening, 24
हरदत्त-टीका
सूत्रम्
प्रदोषे च भुक्त्वा नाऽधीयीत ॥ २६ ॥
टिप्पनी
तेनाऽधीत्यैव भुञ्जीत ॥ २६ ॥
27 प्रोदकयोश्च पाण्योः ...{Loading}...
प्रोदकयोश्च +++(= भुक्त्वार्द्रयोः)+++ पाण्योः २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor as long as his hands are wet. 25
हरदत्त-टीका
सूत्रम्
प्रोदकयोश्च पाण्योः ॥ २७ ॥
टिप्पनी
भुक्त्वेत्येव । भुक्त्वा यावत्प्रोदकौ पाणी आद्रौ तावन्नाऽधीयीत । केचित् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥
28 प्रेतसङ्कॢप्तञ् चान्नम् भुक्त्वा ...{Loading}...
प्रेतसंकॢप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- (And he shall discontinue studying) for, a day and an evening, after having eaten food prepared in honour of a dead person (for whom the Sapiṇḍī-karaṇa has not yet been performed), 26
हरदत्त-टीका
सूत्रम्
प्रेतसंकॢप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥ २८ ॥
टिप्पनी
यो मृतोऽसपिण्डीकृतस्स प्रेतः । तदुद्देशेन दत्तमन्नं भुक्त्वा सप्रदोषमहर्नाऽधीयीत । प्रदोषादूर्ध्वं न दोषः । अत्र मनुः —
7यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥’ इति ॥ २८ ॥
29 आ च विपाकात् ...{Loading}...
आ च विपाकात् २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or until the food (eaten on that occasion) is digested. 27
हरदत्त-टीका
सूत्रम्
आ च विपाकात् ॥ २९ ॥
टिप्पनी
यदि तावता कालेन तदन्नं पक्कं जीर्ण न भवति, तत आविपाकात् तस्य नाऽधीयीत ॥ २९ ॥
30 अश्राद्धेन तु पर्यवदध्यात् ...{Loading}...
अश्राद्धेन तु पर्यवदध्यात् ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But he shall (always) eat in addition (to the meal given in honour of a dead person), food which has not been given at a sacrifice to the Manes. 28
हरदत्त-टीका
सूत्रम्
अश्राद्धेन तु पर्यवदध्यात् ॥ ३० ॥
टिप्पनी
जीर्णे अजीर्णे च तस्मिन् अश्राद्धेनाऽन्नेन पर्यवदध्यात् तस्योपर्यश्राद्धमन्नं भुञ्जीतेत्युक्तं भवति । केचित् अत्र ‘अश्राद्धेने’ति वचनात् पूर्वत्रापि प्रेतान्नमिति श्राद्धमात्रं विवक्षितं मन्यन्ते ॥ ३० ॥
॥ इत्यापस्तम्बधर्मसूत्रे तद्वृत्तावुज्वलाया च दशमी कण्डिका ॥
-
- The three full-moon days are Phālgunī (February-March), Āṣādhī (June-July), Kārttikī (October-November).
-
मूलम्’ इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ↩︎ ↩︎ ↩︎ ↩︎
-
या० स्मृ० १.१४६. ऋतुसन्धिषु भुक्त्वा च श्राद्धिकं प्रतिगृह्य च इत्यधिक: पाठः ख. पुस्तके । ↩︎ ↩︎
-
The construction is very irregular, the first noun standing in the nominative and the rest in the locative. A similar irregularity occurs below, I, 3, 11, 3 1. The Vedotsarga is the ceremony. which is performed at the end of the Brahmanic term, in January. ‘In the case of the death of a Guru, the vacation begins with the day on which the death occurs. On the other occasions mentioned he shall not study on the day preceding (the ceremony), on the day (of the ceremony), nor on the day following it.’–Haradatta. Manu IV, 119; Yājñ. I, 144. ‘The Gurus’ intended here, are fathers-in-law, uncles, &c. ↩︎
-
‘This rule applies to a student only. It is known from another work that those who have been infected by impurity (on the death of a relation), must not study whilst the impurity lasts. ‘Haradatta. Yājñ. I, 144. ↩︎
-
The word anubhāvinah, interpreted by Haradatta as ‘persons who are younger than the deceased,’ is explained in different ways by others; firstly, as ’the mourners,’ and secondly, as ‘Samānodakas or gentiles beyond the sixth degree.’ In the latter case the Sūtra ought to be-translated thus: ‘On the death of gentiles beyond the sixth degree, (the head) ought to be shaved.’ ↩︎
-
पा० सू० ८. ४. २२. उपसर्गस्थान्निमित्ततः (रेफषकाराभ्यां ) परस्याऽच उत्तरस्य कृत्प्रत्ययगतस्य नकारस्य णत्वं स्यादिति सूत्रार्थः ॥ ↩︎
-
Regarding the Dikṣā initiation,’ see Aitareya-brāhmaṇa I, 1, and Max Müller’s History of Ancient Sanskrit Literature, p. 309 seq. ↩︎
-
Hence it follows that the top-lock should not be shaved off, except in the case mentioned in the following Sūtra. ↩︎
-
Sattras, ‘sacrificial sessions,’ are sacrifices which last longer than twelve days. ↩︎
-
‘But in his opinion it should be twelve days, as declared above, Sūtra 4.’–Haradatta. It appears, therefore, that this Sūtra is to be connected with Sūtra 4. ↩︎
-
‘Because the word “death “is used here, death only is the reason (for stopping, the reading), in the case of Gurus and the rest (i.e. the word “died” must be understood in Sūtra 2 and the following ones).’ –Haradatta. ↩︎
-
-16. Manu II, 73. ↩︎
-
Manu II, 73. ↩︎
-
Haradatta states rightly, that the plural (’they study’) is useless. According to him, the use of the verb in the singular may be excused thereby, that the advice is addressed to each of the persons engaged in study. Manu IV, 122. ↩︎
-
The ekasṛka, ‘solitary jackal,’ is now called Bālu or Pheough, and is considered to be the constant companion of a tiger or panther. Its unharmonious cry is, in the present day also, considered to be an evil omen. Yājñ. I, 148; Manu IV, 108, 115 and 123. ↩︎
-
Manu IV, 121. ↩︎
-
Manu IV, 121. ↩︎
-
Manu IV, 107; Yājñ. I, 150. ↩︎
-
Manu IV, 121. ↩︎
-
‘Therefore he shall sup, after having finished his study.’–Haradatta. ↩︎
-
Manu IV, 121; Yājñ. I, 149. ↩︎
-
Manu IV, 112; Yājñ. I, 146. ↩︎
-
If that food has not been digested by the end of that time (i.e. in the evening), he shall not study until it has been digested.’–Haradatta. ↩︎
-
‘Because in this Sūtra the expression “food not given at a Śrāddha” occurs, some think that the preceding Sūtra refers to “food eaten at a Śrāddha.”’–Haradatta. This explanation is not at all improbable. ↩︎