01 श्रावण्याम् पौर्णमास्यामध्यायमुपाकृत्य मासं ...{Loading}...
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं {अनूक्तम् अननूक्तञ्च} प्रदोषे नाधीयीत १
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having performed the Upākarma for studying the Veda on the full moon of the month’ Srāvaṇa (July-August), he shall for one month not study in the evening. 1
हरदत्त-टीका
सूत्रम्
श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषं नाऽधायीत ॥ १ ॥
प्रस्तावः
एवमध्येतुरध्यापयितुश्च धर्मा उक्ताः। अथ देशकालकृता अध्ययनधर्मा उच्यन्ते—
टिप्पनी
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते। चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः। तेषु या या पौर्णमासी सासाचच्यादिका स्मृता। कादाचित्कन योगेन नक्षत्रस्यति निर्णयः ।। तदेवं सिंहस्थे सवितरियाऽमावास्या तदन्ते चान्द्रमले मासे या मध्यवर्तिनी पौर्णमाली सा श्रावणी । श्रवणयोगस्तु भवतु वा मा वा । तस्यां श्रावण्या पौर्णमास्यामध्यायमुपाकृत्य गृह्योक्तेन विधिनोपाकर्म क. स्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेक प्रदोषे प्रथमे रात्रिभागे ना धीयीत ग्रहणाध्ययनं धारणाध्ययन च न कुर्यात् । प्रदोषग्रहणादात्रा वप्यूर्व न दोषः ॥ १॥
02 तैष्याम् पौर्णमास्यां रोहिण्यां ...{Loading}...
तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- On the full moon of the month of Pauṣa (December-January), or under the constellation Rohini, he shall leave off reading the Veda. 2
03 अर्धपञ्चमांश्चतुरो मासानित्येके ...{Loading}...
अर्धपञ्चमांश्चतुरो मासानित्येके ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, (that he shall study) for four months and a half. 5
हरदत्त-टीका
सूत्रम्
अर्धपञ्चमांश्चतुरो मासानित्येके ॥ ३ ॥
टिप्पनी
अर्धः पञ्चमो येषां ते अर्धपञ्चमाः । अधिकांश्चतुरो मासान् अधीयीतेत्यपेक्ष्यत 6इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्तरदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः। उत्सर्जने च कृते श्रावण्याः प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणाद्यङ्गाध्ययनम् । पुनः श्रावण्यामुपाकृत्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्रपञ्चितमेतत्7गृह्ये ॥ ३ ॥
04 निगमेष्वध्ययनं वर्जयेत् ...{Loading}...
निगमेष्वध्ययनं वर्जयेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid to Study the Veda on a high-road. 8
हरदत्त-टीका
सूत्रम्
निगमेश्वध्ययनं वर्जयेत् ॥ ४॥
टिप्पनी
निगमाश्चत्वराः । ग्रामनिर्गमनामर्गा वा नियमेन गम्यते तेष्विति । तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४॥
05 आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ...{Loading}...
आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may study it (on a high-road), after having smeared (a space) with cowdung.
हरदत्त-टीका
सूत्रम्
आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ॥५॥
टिप्पनी
अनडुत्सम्बन्धिना वा शकत्पिण्डेनोपलिप्य निगमेष्वप्यधीयीत ॥५॥
06 श्मशाने सर्वतः शम्याप्रासात् ...{Loading}...
श्मशाने सर्वतः शम्याप्रासात् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall never study in a burial-ground nor anywhere near it within the throw of a Samyā. 9
हरदत्त-टीका
सूत्रम्
श्मशाने सर्वतः शम्याप्रासात् ॥ ६ ॥
टिप्पनी
श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता यावति देशे पतति ततोऽर्वागिति पञ्चमीनिर्देशाद्गम्यते ॥ ६ ॥
07 ग्रामेणाध्यवसिते क्षेत्रेण वा ...{Loading}...
ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a village has been built over (a burial ground) or its surface has been cultivated as a field, the recitation of the Veda (in such a place) is not prohibited.
हरदत्त-टीका
सूत्रम्
ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥
टिप्पनी
यदा श्मशानं ग्रामतया क्षेत्रतया वा अध्यवसितं स्वीकृतं भवति तदा अध्येतव्यमेव ॥ ७ ॥
08 ज्ञायमाने तु तस्मिन्न् ...{Loading}...
ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if that place is known to have been a burial-ground he shall not study (there). 10
हरदत्त-टीका
सूत्रम्
ज्ञायमाने तु तस्मिन्नेव देशे नाऽधायीत ॥ ८॥
टिप्पनी
यदा तु तदध्यवसितमपि श्मशानं ज्ञायते-अयं स प्रदेश इति, तदा तावत्येव प्रदेशे नाऽधीयीत । न शम्याप्रासात् ॥ ८ ॥
09 श्मशानवच्छूद्र पतितौ ...{Loading}...
श्मशानवच्छूद्र पतितौ ९
10 समानागार इत्येके ...{Loading}...
समानागार इत्येके १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that (one ought to avoid only, to study) in the same house (where they dwell).
हरदत्त-टीका
सूत्रम्
समानागार इत्येके ॥ १० ॥
टिप्पनी
एके मन्यन्ते समानागारे शूद्रपतितौ वर्ज्यौ, न शम्याप्रासादिति ॥१०॥
11 शूद्रा यान् तु ...{Loading}...
शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if (a student and) a Śūdra woman merely look at each other, the recitation of the Veda must be interrupted,
हरदत्त-टीका
सूत्रम्
शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥ ११ ॥
टिप्पनी
शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे, नापि शम्याप्रासादिति ॥ ११ ॥
12 तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायाम् ...{Loading}...
तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise, if (a student and) a woman, who has had connexion with a man of a lower caste, (look at each other).
हरदत्त-टीका
सूत्रम्
तथाऽन्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१२॥
टिप्पनी
शूद्राव्यतिरिक्ताऽपि या स्त्री मैथुने वर्णव्यतिक्रान्ता नीचगामिनी तस्यामपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥
13 ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सम्भाषितुम् ब्राह्मणेन ...{Loading}...
ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he, who is about to study the Veda, wishes to talk to a woman during her courses, he shall first speak to a Brāhmaṇa and then to her, then again speak to a Brāhmaṇa, and afterwards study. Thereby the children (of that woman) will be blessed. 12
हरदत्त-टीका
सूत्रम्
ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन् सम्भाषितुं ब्राह्मणेन सम्भाध्य तथा सम्भाषेत । सम्भाष्य तुब्राह्मणेनैव सम्भाष्याऽधीयीत । एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥
टिप्पनी
यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह सम्भाषितुमिच्छति स पूर्वं ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च पुनरपि ब्राह्मणेनैव सम्भाष्याऽधीयीत । किमेवं सति भवति ? एवं तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो भवति । प्रजारूपं वा निःश्रेयसं तस्या भवति । ‘प्रजानिःश्रेयसमिति वचनात् विधवादिभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥
14 अन्तःशवम् ...{Loading}...
अन्तःशवम् १४
15 अन्तश्चाण्डालम् ...{Loading}...
अन्तश्चाण्डालम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor in such a one where Kāndālas live.
हरदत्त-टीका
सूत्रम्
अन्तश्चाण्डालम् ॥ १५ ॥
टिप्पनी
चण्डाल एव चाण्डालः । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो वा विभक्त्त्यर्थे द्रष्टव्यः ॥१५॥
16 अभिनिर्हृतानान् तु सीम्न्यनध्यायः ...{Loading}...
अभिनिर्हृतानां तु सीम्न्यनध्यायः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not study whilst corpses are being carried to the boundary of the village,
हरदत्त-टीका
सूत्रम्
4अभिनिस्सृतानां तु सीम्न्यनध्यायः ॥ १६ ॥
टिप्पनी
यदा शवाः सीम्नि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥
17 सन्दर्शने चारण्ये ...{Loading}...
संदर्शने चारण्ये १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor in a forest, if (a corpse or Cāṇḍāla) is within sight.
हरदत्त-टीका
सूत्रम्
सन्दर्शने चाऽरण्ये ॥ १७ ॥
टिप्पनी
अरण्ये च यावति प्रदेशे शवश्चण्डालो वा सन्दृश्यते तावत्यनध्यायः ॥ १७॥
18 तदहरागतेषु च ग्रामम् ...{Loading}...
तदहरागतेषु च ग्रामं बाह्येषु १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if outcasts have entered the village, he shall not study on that day, 14
हरदत्त-टीका
सूत्रम्
तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥
टिप्पनी
बाह्याः उपनिषादादयः परिपन्थिनः तेषु च ग्राममागतेषु तदहरनध्यायः तस्मिन्नहनि नाऽध्येतव्यम् ॥ १८॥
19 अपि सत्सु ...{Loading}...
अपि सत्सु १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor if good men (have come). 15
हरदत्त-टीका
सूत्रम्
अपि सत्सु ॥ १९ ॥
टिप्पनी
ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहरनध्यायः ॥ १९ ॥
20 सन्धावनुस्तनिते रात्रिम् ...{Loading}...
संधावनुस्तनिते रात्रिम् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- If it thunders in the evening, (he shall not study) during the night. 16
हरदत्त-टीका
सूत्रम्
सन्धावनुस्तनिते रात्रिम् ॥ २० ॥
टिप्पनी
सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते मेघगर्जिते सति रात्रिं 3सर्वां रात्रिं नाऽधीयीत। वर्षताविदम् । अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥
21 स्वप्नपर्यान्तं विद्युति ...{Loading}...
स्वप्नपर्यान्तं विद्युति २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- If lightning is seen (in the evening, he shall not study during that night), until he has slept.
हरदत्त-टीका
सूत्रम्
स्वप्नपर्यान्तं विद्युति ॥ २१ ॥
टिप्पनी
अन्त्यो दीर्घ उपान्त्यो ह्रस्वः । विपर्यासश्छान्दसोऽपपाठो वा । सन्धौ विद्युति सत्यां स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्वप्नपर्यन्ता रात्रिः प्रहरावशिष्टा ॥ २१ ॥
22 उपव्युषं यावता वा ...{Loading}...
उपव्युषं
यावता वा कृष्णां रोहिणीम् इति,
शम्या-प्रासाद् विजानीयाद्
- एतस्मिन् काले विद्योत-माने सप्रदोषम् अहरनध्यायः २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If lightning is seen about the break of dawn, or at the time when he may distinguish at the distance of a Samyā-throw, whether (a cow) is black or red, be shall not study during that day, nor in the following evening.
हरदत्त-टीका
सूत्रम्
उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २२ ॥
प्रस्तावः
एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह —
टिप्पनी
उपव्युषं उषस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरेद्युस्सप्रदोषमहरनध्यायः । प्रदोषादूर्ध्वं रात्रावध्ययनम् । यावता वा कालेन शम्याप्रासादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात् । एतस्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्दप्रयोगे द्विताया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्यः ॥ २२॥
23 दह्रेऽपररात्रे स्तनयित्नुना ...{Loading}...
दह्रे+++(=अपररात्रे तृतीयो भागः)+++ ऽपररात्रे+++(=रात्रेस् तृतीयो भागः)+++ स्तनयित्नुना २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If it thunders in the second part of the third watch of the night, (he shall not study during the following day or evening).
हरदत्त-टीका
सूत्रम्
दह्रेऽपररात्रे स्तनयित्नुना ॥ २३ ॥
टिप्पनी
रात्रेस् तृतीयो भागः सर्वो ऽपररात्रः। तस्य त्रेधा विभक्तस्याद्योंऽशो महारात्रः। अन्त्यो दह्रः । तस्मिन् दह्रेऽपररात्रे स्तनयित्नुना निमित्तेन सप्रदोषमहरनध्यायः ॥ २३ ॥
24 ऊर्ध्वमर्धरात्रादित्येके ...{Loading}...
ऊर्ध्वमर्धरात्रादित्येके २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some (declare, that this rule holds good, if it thunders), after the first half of the night has passed.
हरदत्त-टीका
सूत्रम्
ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥
टिप्पनी
अर्धरात्रादूर्ध्वमनन्तरोक्तो विधिरित्येके मन्यन्ते । स्वपक्षस्तु दह्र एवेति ॥ २४ ॥
25 गवाञ् चावरोधे ...{Loading}...
गवां चावरोधे २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he study) whilst the cows are prevented from leaving (the village on account of thieves and the like),
हरदत्त-टीका
सूत्रम्
गवां चाऽवरोधे ॥ २५॥
टिप्पनी
दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनध्यायः । अवरोधो ग्रामान्निर्गमनिरोधः ॥२५॥
26 वध्यानाञ् च यावता ...{Loading}...
वध्यानां च यावता हन्यन्ते २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (on the imprisonment of criminals) whilst they are being executed.
हरदत्त-टीका
सूत्रम्
वध्यानां च यावता हन्यन्ते ॥ २६ ॥
टिप्पनी
वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं कालमनध्यायः ॥ २६ ॥
27 पृष्ठारूढः पशूनान् नाधीयीत ...{Loading}...
पृष्ठारूढः पशूनां नाधीयीत २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not study whilst he rides on beasts (of burden). 17
हरदत्त-टीका
सूत्रम्
पृष्ठारूढः पशूनां नाऽधीयीत ॥ २७ ॥
टिप्पनी
हस्त्यश्वादीनां पशूनां पृष्ठाऽरूढः तत्राऽऽसीनस्सन्नाधीयीत ॥२७॥
28 अहोरात्रावमावास्यासु ...{Loading}...
अहोरात्राव् अमावास्यासु +++(पूर्वेद्युश् चतुर्दशीषु चेति हरदत्तः। मनुना पूर्णिमायाम् अपि निषिद्धम्।)+++ २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- At the new moon, (he shall not study) for two days and two nights. 18
हरदत्त-टीका
सूत्रम्
अहोरात्रावमावास्यासु ॥ २८ ॥
टिप्पनी
अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वेद्युश्चतुर्दशीषु च । तथा च मनुः3-‘अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ।’ इति ॥ २८॥
इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां नवमी कण्डिका ॥
-
- The Upākarma is the ceremony which is performed every year at the beginning of the course of study. It is in fact the solemn opening of the Brahmanic term. ‘Because Āpastamba uses the word evening (i.e. first part of the night) it is not sinful to study later in the night.’–Haradatta. Manu IV, 95; Yājñ. I, 142, 143; Weber, Ind. Stud. X. 130 and 134.
-
The term lasts therefore for five months; (i.e. latter half of, Srāvaṇa, Bhārapada, Āśvina, Kārttika, Mārgasīrṣa, and the first half of Pauṣa.) The Rohinī-day of Pauṣa is meant. ↩︎
-
आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जन-पटलव्याख्याने ऽनाकुलायामित्यर्थ । (आप. गृ. सू. पृ. १५४ ) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनाख्यः पटलः आपस्तम्बगृह्यान्तर्गतो व्याख्यात इत्यवगम्यते इति न्यरूपयाम गृह्यटिप्पण्याम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
‘According to this latter opinion the Upākarma should be performed on the full moon of Bhādrapada, as has been taught in another work (Manu IV, 95); the (time of the) Utsargana, (the solemn closing of the term) should be advanced; and after the Utsargana has been performed, one may study the Veda during the light nights of each month until the full moon of Srāvaṇa, in order to fix in one’s mind the part learned already; and in the dark fortnight of each month one may study the Vedāṅgas, i.e. grammar and the rest (Manu IV, 98). On the full moon of Srāvaṇa the Upākarma should be performed once more, and that part of the Veda should be studied which has not yet been learned.’–Haradatta. ↩︎
-
अत्र मनुः ४, ९५. द्रष्टव्यः । ↩︎
-
आप० गृ० ७.१. पृ. ११० । ↩︎
-
Nigarnāh, ‘high-roads,’ are squares and the like.–Haradatta. ↩︎
-
The Samyā is either the pin in the bullock’s yoke or the round stick, about a foot and a half in length, which is used for the preparation of the Vedi. Manu IV, 116; Yājñ. I, 148. ↩︎
-
‘Nor anywhere near it within the throw of a Samyi.’ This must be understood from. Sūtra 6. ↩︎
-
Yājñ. I, 148. ↩︎
-
The last part of the Sūtra may also be interpreted: ‘Thus she will be blessed with children.’–Haradatta. ↩︎
-
Manu IV, 108; Yājñ. I, 148. ↩︎
-
Haradatta explains Bāhya, ‘outcasts,’ by ‘robbers, such as Ugras and Niṣādas.’ But, I think, it means simply such outcasts as live in the forest or outside the village in the Vādī, like the Dhers, Mahārs, Māngs of the present day. Most of these tribes however, are or were given to thieving. See Kullūka on Manu X, 2 9, and the Petersburg Dict. s. v. ↩︎
-
Yājñ. I, 150. ↩︎
-
Manu IV, 106; Yājñ. I, 145. This rule refers to the rainy season. (For thunder) at other (seasons) he orders below a longer (cessation).’–Haradatta. ↩︎
-
Manu IV, 120; Yājñ. I, 151. ↩︎
-
‘“For two days,” i.e. on the day of the new moon and the preceding one, the fourteenth of the half month.’–Haradatta. Manu IV, 113; Yājñ. I, 146. ↩︎