01 यथा ब्रह्मचारिणो वृत्तम् ...{Loading}...
यथा ब्रह्मचारिणो वृत्तम् १
02 माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती ...{Loading}...
माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He may wear garlands, anoint his face (with sandal), oil his hair and moustaches, smear his eyelids (with collyrium), and (his body) with oil, wear a turban, a cloth round his loins, a coat, sandals, and wooden shoes.
हरदत्त-टीका
सूत्रम्
माल्यालिप्समुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी ॥२॥
टिप्पनी
माली मालावान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । 4मुखमग्रे ब्राह्मणोऽनुलिम्पेदि’त्याश्वलायनवचनात् । सुगन्धिभिरामल कादिभिर्द्रव्यैरुपलिप्तानि संस्कृतानि केशश्मश्रूणी यस्य सः उपलिप्तकेशश्मश्रुः । अक्त अञ्जनेनाऽक्ष्णोः। अभ्यक्तः तैलेन । वेष्टिता वेष्टितशिराः । कटिप्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सः उपवेष्टिती । कञ्चुकञ्चोपानच्च कञ्चुकोपानहम् । 5द्वन्द्वाच्चुदपहान्तादित्यच् समासान्तः । तदस्यास्तीति कञ्चुकोपानही। द्वन्द्वोपतामर्ह्यात्प्राणिस्थादिनिप्रत्ययः। प्रसिद्धे पाठे कञ्चुकमेव काञ्चुकं तद्वान् काञ्चुकी। उपानद्वानुपानही । ब्रीह्यादिस्वादिनिः। पादुके दारुमये पादरक्षणे तद्वान् पादुकी ॥२॥
03 उदाचारेषु चास्यैतानि न ...{Loading}...
उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Within the sight of his (teacher or teacher’s relations) he shall do none of those (actions, as putting on a garland), nor cause them to be done.
हरदत्त-टीका
सूत्रम्
उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ॥ ३ ॥
टिप्पनी
अस्याऽऽचार्यादेः पुत्रान्तस्य उदाचारेषु दृष्टिगोचरेषु देशेषु एतानि माल्यादीनि न कुर्यात्कारयेद्वा ॥ ३ ॥
04 स्वैरिकर्मसु च ...{Loading}...
स्वैरिकर्मसु च ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall he wear garlands &c. whilst performing) acts for his pleasure,
हरदत्त-टीका
सूत्रम्
स्वैरिकर्मसु च ॥ ४ ॥
टिप्पनी
एतानि न कुर्यात् कारयेद्वा॥४॥
05 यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ...{Loading}...
यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- As, for instance, cleaning his teeth, shampooing, combing the hair, and the like.
हरदत्त-टीका
सूत्रम्
यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ॥५॥
प्रस्तावः
तत्रोदाहरणम्
टिप्पनी
दन्तप्रक्षालनं दन्तधावनम् । उत्सादनमुद्वर्तनम् । अवलेखनं कङ्कतादिना केशानां विभागेनाऽवस्थापनम् । इतिशब्दः प्रदर्शनार्थः । तेन स्नानभोजनमूत्रोचारादिष्वपि प्रतिषेधः ॥ ५ ॥
06 तद्द्रव्याणाञ् च न ...{Loading}...
तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And the teacher shall not speak of the goods of the (pupil) with the intention to obtain them. 6
07 स्नातस्तु काले यथाविध्यभिहृतमाहूतो ...{Loading}...
स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- But some declare, that, if a pupil who has bathed (after completing his studies) is called by his teacher or has gone to see him, he shall not take off 7 that (garland or other ornaments) which he wears according to the law at the time (of that ceremony).
हरदत्त-टीका
सूत्रम्
स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा न प्रतिसंहरेदित्येके ॥ ७ ॥
टिप्पनी
4 वेदमधीत्य स्नास्य’न्नित्यनेन विधिना स्नातः तस्मिन्काले यथाविध्यभिहृतमाबद्धं स्रगादि आचार्येणाहूतः स्वयमेव वा तत्समीपमभ्येतो न प्रतिसंहरेत् न विमुञ्चेदित्येके मन्यते । स्वपक्षस्तु तदापि मुञ्चेदिति । ‘काले यथाविध्यभिहृत’मिति वचनादपरेद्युरारभ्य प्रतिसंहरेदेव ॥ ७ ॥
08 उच्चैस्तरान् नासीत ...{Loading}...
उच्चैस्तरां नासीत ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not sit on a seat higher (than that of his teacher),
हरदत्त-टीका
सूत्रम्
उच्चैस्तरां नाऽऽसीत ॥ ८॥
टिप्पनी
स्वार्थे तरप् । आचार्यासनादुच्चासने नाऽऽसीत ॥ ८॥
09 तथा बहुपादे ...{Loading}...
तथा बहुपादे ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor on a seat that has more legs (than that of his teacher),
हरदत्त-टीका
सूत्रम्
तथा बहुपादे ॥ ९ ॥
टिप्पनी
नीचेऽप्यासने बहुपादे नाऽऽसीत ॥९॥
10 सर्वतः प्रतिष्ठिते ...{Loading}...
सर्वतः प्रतिष्ठिते १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor on a seat that stands more firmly fixed (on the ground than that of his teacher), 8
हरदत्त-टीका
सूत्रम्
सर्वतः प्रतिष्ठिते ॥ १० ॥
टिप्पनी
आसने आसीत । आचार्य पीठादावुपवेश्य स्वयं वेत्रासनादावासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥
11 शय्यासने चाचरिते नाविशेत् ...{Loading}...
शय्यासने चाचरिते नाविशेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he sit or lie on a couch or seat which is used (by his teacher). 9
हरदत्त-टीका
सूत्रम्
शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥
टिप्पनी
आचार्येणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शयीत आसने नासीत । पित्रादिष्वपि गुरुषु समानमिदम् । तथा च मनुरविशेषेणाह-5शय्यासने चाध्युषिते श्रेयसा न समाचरेत्।’ इति ॥ ११ ॥
12 यानमुक्तोऽध्वन्यन्वारोहेत् ...{Loading}...
यानमुक्तोऽध्वन्यन्वारोहेत् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he is ordered (by his teacher), he shall on journey ascend a carriage after him. 10
हरदत्त-टीका
सूत्रम्
यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥
प्रस्तावः
गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः—
टिप्पनी
यानं शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत् । अध्वनि मार्गे ‘छत्रं यानमिति वर्जये’दिति पूर्वोक्तस्य प्रतिषेधस्यापवादः। यानं च गुर्वारूढमन्यद्वा ॥ १२ ॥
13 सभानिकषकटस्वस्तरांश्च ...{Loading}...
सभानिकषकटस्वस्तरांश्च १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (At his teacher’s command) he shall also enter an assembly, ascend a roller (which his teacher drags along), sit on a mat of fragrant grass or a couch of straw (together with his teacher). 11
हरदत्त-टीका
सूत्रम्
सभानिकषकटस्वस्तरांश्च ॥ १३ ॥
टिप्पनी
उक्तोऽध्वन्यन्वारोहेदित्येव । ‘सभासमाजाश्चे’त्यस्यापवादार्थं सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरणं, कृष्टं क्षेत्रं येन समीक्रियते, यच्च कस्मिंश्चिदारूढे2 केनचिदाकृष्यते । तत्र गुरुणा आकृष्यमाणेऽपि तेनोक्तस्सन्नाराहेत् । न त्वनौचित्यभयान्नारोहेदिति । कटो वीरणनिर्मिता शय्या। तत्र गुरुणोक्तस्सन् सहाऽऽसीत । उत्सवादावेष आचारः । स्वस्तरो नाम पलालशय्या3 नवस्वस्तरे संविशन्ती’ति दर्शनात् । तत्रापि गुरुणोक्तस्सन् सहासनादि कुर्यात् ॥ १३ ॥
14 नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ...{Loading}...
नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If not addressed by a Guru, he shall not speak to him, except (in order to announce) good news.
हरदत्त-टीका
सूत्रम्
नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥
टिप्पनी
गुरुणाऽनभिभाषितो गुरुं प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं तु ब्रूयात् यथा ते पुत्रोजात इति ॥ १४ ॥
15 व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् ...{Loading}...
व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid to touch a Guru (with his finger), to whisper (into his ear), to laugh (into his face), to call out to him, to pronounce his name or to give him orders and the like (acts) 12
हरदत्त-टीका
सूत्रम्
व्युपतोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण-प्रेषणानीति गुरोर्वर्जयेत् ॥ १५ ॥
टिप्पनी
व्युपतोदः 4 अङ्गुल्यादिघट्टनं यदाभिमुख्यार्थं क्रियते । व्युपजापः श्रोत्रयोर्मुहुर्मुहुर्जल्पनम् । वकारश्छान्दसोऽपपाठो वा । व्यभिहासः आभिमुख्येन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम् , यथा बधिरं प्रति । नामधेयग्रहणं दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भगवदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणादेवंप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनुः—
5 नोदाहरेत्तस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५॥
16 आपद्यर्थञ् ज्ञापयेत् ...{Loading}...
आपद्यर्थं ज्ञापयेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- In time of need he may attract attention (by any of these acts).
हरदत्त-टीका
सूत्रम्
आपद्यर्थ ज्ञापयेत् ॥ १६ ॥
टिप्पनी
आपदि व्युपतोदादिमिरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे 13वचनेनापि बोधयेत्, न साक्षात्प्रेषयेत् , यथा-शूलतोदो मे भवति, स चाऽग्निना शाम्यति, न चात्र कश्चित्सन्निहितः, किं करोमि मन्दभाग्य इति ॥ १६ ॥
17 सह वसन्सायम् प्रातरनाहूतो ...{Loading}...
सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (a pupil) resides (in the same village) with (his teacher after the completion of his studies), he shall go to see him every morning and evening, without being called. 14
हरदत्त-टीका
सूत्रम्
सहवसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थों गच्छेत् ॥१७॥
प्रस्तावः
उत्तरे सूत्रे समावृत्तविषये—
टिप्पनी
सह एकस्मिन् ग्रामे वसन् सायं प्रातरनाहूतोऽपि गुरुंं दर्शनार्थो नान्यप्रयोजनो गच्छेत् ॥ १७॥
18 विप्रोष्य च तदहरेव ...{Loading}...
विप्रोष्य च तदहरेव पश्येत् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if he returns from a journey, he shall (go to) see him on the same day.
हरदत्त-टीका
सूत्रम्
विप्रोष्य च तदहरेव पश्येत् ॥ १८ ॥
टिप्पनी
यदा ग्राामान्तरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्यं पश्येत् ॥१८॥
19 आचार्यप्राचार्यसन्निपाते प्राचार्यायओपसङ्गृह्योपसञ्जिघृक्षेदाचार्यम् ...{Loading}...
आचार्यप्राचार्यसन्निपाते प्राचार्यायओपसङ्गृह्योपसञ्जिघृक्षेदाचार्यम् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- If his teacher and his teacher’s teacher meet, he shall embrace the feet of his teacher’s teacher, and then show his desire to do the same to his teacher.
हरदत्त-टीका
सूत्रम्
आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसञ्जिघृक्षेदाचार्यम् ॥ १९ ॥
टिप्पनी
आचार्यस्याऽऽचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचार्यस्य च कार्यवशात् सन्निपातो मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे चतुर्थी । प्राचार्यं पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्गृहीतुमिच्छेत् । न केवलं मनसा किन्तु यथाऽचार्यों जानाति मामयमुपसञ्जिघृक्षतीति तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्टं स्यात् ॥ १९॥
20 प्रतिषेधेदितरः ...{Loading}...
प्रतिषेधेदितरः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- The other (the teacher) shall (then) forbid it.
हरदत्त-टीका
सूत्रम्
प्रतिषेधेदितरः ॥ २० ॥
टिप्पनी
इतर आचार्यः प्रतिषेधेत् ‘वत्स मा मोपसङ्ग्रहीरिति ॥ २०॥
21 लुप्यते पूजा चास्य ...{Loading}...
लुप्यते पूजा चास्य सकाशे २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (other marks of) respect (due to the teacher) are omitted in the presence of the (teacher’s teacher).
हरदत्त-टीका
सूत्रम्
लुप्यते पूजा चाऽस्य सकाशे ॥ २१ ॥
टिप्पनी
अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न केवलमुपसङ्ग्रहणमेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥
22 मुहूंश्चाचार्यकुलन् दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि ...{Loading}...
मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (if he does not live in the same village), he shall go frequently to his teacher’s residence, in order to see him, and bring him some (present) with his own hand, be it even only a stick for cleaning the teeth. Thus (the duties of a student have been explained).
हरदत्त-टीका
सूत्रम्
मुहूंश्चाऽऽचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥
टिप्पनी
मुहूँश्चेत्यनुस्वारदीर्घौ छान्दसौ। वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहुरिति विवक्षितम् । ग्रामान्तरे वसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छेत् । यथाशक्ति गोरसापूपादि अधिहस्त्यं हस्ते भवमादाय स्वयमेव गृहीत्वेत्यर्थः । अपिशब्दोऽभावे विधिं द्योतयति-गोरसाद्यभावे दन्तकाष्ठान्यपीति । इतिशब्दः अन्तवासिधर्माणां समाप्तिद्योतनार्थः ॥ २२ ॥
23 मातरम् पितरमाचर्यमग्नींश्च गृहाणि ...{Loading}...
मातरं पितरम् आचर्यम् अग्नींश् च गृहाणि च रिक्त-पाणिर् नोपगछ्हेद्, राजानं चेन् न श्रुतम् इति २३
सर्वाष् टीकाः ...{Loading}...
Bühler
[MISSING]
हरदत्त-टीका
सूत्रम्
2मातरं पितरमाचार्यमग्नींश्च गृहाणि च रिक्तपाणिर्नोपगच्छेद्राजानं चेन्न श्रुतमिति ॥ २३ ॥
टिप्पनी
24 तस्मिन्गुरोर्वृत्तिः ...{Loading}...
तस्मिन्गुरोर्वृत्तिः २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Now) the conduct of a teacher towards his pupil (will be explained).
हरदत्त-टीका
सूत्रम्
तस्मिन्गुरोर्वृत्तिः ॥ २४ ॥
टिप्पनी
तस्मिन्न् अन्तेवासिनि गुरोर् वृत्तिः । वृत्तः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥
25 पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्याङ् ...{Loading}...
पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Loving him like his own son, and full of attention, he shall teach him the sacred science, without hiding anything in the whole law. 15
हरदत्त-टीका
सूत्रम्
पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥
टिप्पनी
एनं शिष्यं पुत्रमिव3 अस्याऽभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठ्ववहितः तत्परो भूत्वा विद्यां ग्राहयेत् ॥ २५ ॥
26 न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ...{Loading}...
न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall not use. him for his own purposes to the detriment of his studies except in times of distress.
हरदत्त-टीका
सूत्रम्
न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ॥ २६ ॥
टिप्पनी
न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरुन्यात् । 4उपरोधः अस्वतन्त्रीकरणम् । ‘अनापत्स्वि’तिवचनादापद्यध्ययनविघातेनाऽप्युपरोधे न दोषः ॥ २६ ॥
27 अन्तेवास्यनन्तेवासी भवति विनिहितात्मा ...{Loading}...
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- That pupil who, attending to two (teachers), accuses his (principal and first) teacher of ignorance, remains no (longer) a pupil.
हरदत्त-टीका
सूत्रम्
अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः ॥ २७ ॥
टिप्पनी
‘आपद्यमान’ इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोः5विविधं निहितात्मा गुरावनैपुणमापादयति-नाऽनेनाऽयं प्रदेशः सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः13।
अपर आह- योऽन्तेवासी वाङ्मनःकर्मभिरनैपुणमापद्यमानो गुरौ विसदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति ॥ २७ ॥
28 आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः ...{Loading}...
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- A teacher also, who neglects the instruction (of his pupil), does no (longer) remain a teacher. 16
हरदत्त-टीका
सूत्रम्
आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः ॥ २८ ॥
टिप्पनी
आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमाणः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८॥
29 अपराधेषु चैनं सततमुपालभेत ...{Loading}...
अपराधेषु चैनं सततमुपालभेत २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the (pupil) commits faults, (the teacher) shall always reprove him.
हरदत्त-टीका
सूत्रम्
अपराधेषु चैनं सततमुपालभेत ॥ २९ ॥
टिप्पनी
अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥ २९ ॥
30 अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति ...{Loading}...
अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Frightening, fasting, bathing in (cold) water, and banishment from the teacher’s presence are the punishments (which are to be employed), according to the greatness (of the fault), until (the pupil) leaves off (sinning). 17
हरदत्त-टीका
सूत्रम्
अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमानिवृत्तेः ॥ ३० ॥
टिप्पनी
अभित्रासो 2भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन स्नापनम् । अदर्शनं यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः। सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यावत्यपराधमात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्तेः यावदसौ न ततोऽपराधान्निवर्तते तावदेते दण्डाः ॥ ३० ॥
31 निवृत्तञ् चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो ...{Loading}...
निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall dismiss (the pupil), after he has performed the ceremony of the Samāvartana and has finished his studentship, with these words, ‘Apply thyself henceforth to other duties.’
हरदत्त-टीका
सूत्रम्
निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ३१ ॥
टिप्पनी
एवं चरितब्रह्मचर्यं निवृत्तं गुरुकुलात् कृतसमावर्तनमित्यर्थः। एवंभूतमन्येभ्यो धर्मेभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्वमन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमुत्सृजेत् ॥ ३१ ॥
इत्यापस्तम्बसूत्रवृत्तावुज्वलायामष्टमी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥
इति द्वितीयः पटलः
-
- Haradatta does not connect this Sūtra with the preceding one. He explains it by itself: ‘(We will now declare) how a student (who has left his teacher, but is not married) ought to behave.’
-
पा० सू० ५.४, १०६. चवर्गान्तात् वहान्ताच्च द्वन्द्वाट्टच् स्यात् समाहारे इति ↩︎ ↩︎ ↩︎ ↩︎
-
‘If the teacher comes to the house of his (former) pupil (who has become a householder), he shall, for instance, not say, “Oh, what a beautiful dish!” in such a manner, that his desire to obtain it becomes apparent.’–Haradatta. ↩︎
-
This opinion is contrary to Āpastamba’s view given in Sūtras 2 and 3 above. ↩︎
-
‘When he gives to his teacher a wooden seat (with legs), he shall not sit on a cane-seat (without legs), for the latter touches the ground on all sides.’–Haradatta. ↩︎
-
Manu II, 119. ↩︎
-
This rule is an exception to I, 2, 7, 5. Manu II, 204. ↩︎
-
‘The roller is an implement used by husbandmen, with which the ploughed land is made even. If one person ascends it and another drags it along, the ground becomes even. If that is dragged by the teacher, the pupil shall ascend it at his command. He shall not disobey from fear of the unseemliness of the action.’–Haradatta. ↩︎
-
Manu II, 199; regarding the term Guru, see above, I, 2, 6, 29. ↩︎
-
This and the following Sūtras refer to a person who has finished his studentship, while the preceding ones, from Sūtra 8, apply to the time of studentship also. ↩︎
-
Weber, Ind. Stud. X, 126. ↩︎
-
‘Another commentator says, “That pupil who offends his teacher in word, thought, or deed, and directs his mind improperly, i.e. does not properly obey, does not (any longer) remain a pupil.”’–Haradatta. ↩︎
-
But see also Manu. VIII, 299, where corporal punishment is permitted. ↩︎