01 नियमेषु तपःशब्दः ...{Loading}...
नियमेषु तपःशब्दः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- The word ‘austerity’ (must be understood to apply) to (the observance of) the rules (of studentship). 1
हरदत्त-टीका
सूत्रम्
नियमेषु तपशब्दः ॥ १॥
टिप्पनी
‘आचार्याधीनः स्या’दित्यादयो ये नियमाः अस्मिन्ब्रह्मचारिप्रकरणे निर्दिष्टाः, तपश्शब्दस्तेषु द्रष्टव्यः, न तु कृच्छ्रादिषु ॥ १ ॥
02 तद्अतिक्रमे विद्याकर्म निःस्रवति ...{Loading}...
तद्-अतिक्रमे विद्या-कर्म निःस्रवति ब्रह्म सहापत्याद् एतस्मात् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- If they are transgressed, study drives out the knowledge of the Veda acquired already, from the (offender) and from his children. 2
हरदत्त-टीका
सूत्रम्
तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् ॥ २॥
टिप्पनी
तेषां नियमानामतिक्रमे विद्याकर्म विद्याग्रहणं ब्रह्म निःस्रवति गृहीतं वेदं निस्सारयति । कुतः, ? एतस्मात् नियमातिक्रमेणाध्येतुःपुरुषात् । न केवलमेतस्मात् । किं तर्हि ? सहापत्यात् । अपत्येन सह वर्तत इति सहापत्यः 3 ‘वोपसर्जनस्येति सभावाभावे रूपम् । अपत्यादपि ब्रह्म निःसारयति। यद्यप्यपत्यं नियमातिक्रमकारि न भवति, तथापि पितृदोषादेव ततोऽपि ब्रह्म निस्सारयति । नियमातिक्रमेण विद्याग्रहणं कुर्वतः पुरुषात् सहापत्यात् गृहीतं ब्रह्म निस्सरति, ब्रह्मयज्ञादिषूपयुज्यमानमप्यकिञ्चित्करं भवतीत्यर्थो विवक्षितः । स्रवतेश्च सकर्मकस्य प्रयोगो भाष्ये दृष्टः ‘स्रवत्युदकं कुण्डिके’ति ।
अपर आह-4तदतिक्रमे नियमातिक्रमे विद्याग्रहणं न कर्तव्यम् । कुतः? यतो निस्स्रवति ब्रह्म निस्सरतीत्यर्थः, शेषं समानमिति । विद्याकर्म निस्स्रवति ब्रह्म च निस्स्रवतीत्यन्ये । अन्ये च—कुर्वत इत्यध्याहार्यम् । तदतिक्रमेण विद्याकर्म कुर्वतो ब्रह्म निस्स्रवतीति ॥ २॥
03 कर्तपत्यम् अनायुष्यञ् च ...{Loading}...
कर्तपत्यम् अनायुष्यं च ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Besides he will go to hell, and his life will be shortened.
हरदत्त-टीका
सूत्रम्
कर्तपत्यमनायुष्यं च ॥ ३ ॥
प्रस्तावः
न केवलमकिञ्चित्करं नियमातिक्रमेण विद्याग्रहणम्, प्रत्युताऽनर्थकारीत्याह—
टिप्पनी
कर्तशब्देन श्वभ्राभिधायिना नरको लक्ष्यते । पतत्यनेनेति पत्यम् । एवंभूतं विद्याग्रहणं नरकपातहेतुर्भवति । अनायुष्यं च अनायुष्करं च ॥ ३ ॥
04 तस्माद् ऋषयो ऽवरेषु ...{Loading}...
तस्माद् ऋषयो ऽवरेषु न जायन्ते नियमाति-क्रमात् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- On account of that (transgression of the rules of studentship) no Ṛṣis are born amongst the men of later ages. 5
हरदत्त-टीका
सूत्रम्
तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ॥ ४ ॥
टिप्पनी
अत एवावरेषु अर्वाचीनेषु कलियुगवर्तिषु ऋषयो न जायन्ते मन्त्रदृशो न भवन्ति। नियमातिक्रमस्येदानीमवर्जनीयत्वात् ॥ ४ ॥
05 श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण ...{Loading}...
श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But some in their new birth, on account of a residue of the merit acquired by their actions (in former lives), become (similar to) Ṛṣis by their knowledge (of the Veda), 6
हरदत्त-टीका
सूत्रम्
श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनस्सम्भवे ॥ ५ ॥
प्रस्तावः
कथं तर्ह्यद्यतना अतिक्रामन्तोऽपि नियमानल्पेनैव यत्नेन चतुरो वेदान गृह्णन्ति? युगान्तरे सम्यगनुष्ठितस्य नियमकर्मणः फलशेषेणेत्याह—
टिप्पनी
पुनस्सम्भवः पुनर्जन्म ॥ ५ ॥
06 यथा श्वेतकेतुः ...{Loading}...
यथा श्वेतकेतुः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Like Śvetaketu. 7
हरदत्त-टीका
सूत्रम्
यथा श्वेतकेतुः ॥ ६ ॥
प्रस्तावः
अत्रोदाहरणम्—
टिप्पनी
श्वेतकेतुर्ह्यल्पेनैव कालेन चतुरो वेदाञ्जग्राह। तथा च छान्दोग्यम्— 3“श्वेतकेतुर्हारुणेय आस । तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं, न वै सोम्यास्मत्कुलीलोऽननूच्य ब्रह्मबन्धूरिव भवतीति। स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षस्सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाये"ति ॥ ६ ॥
07 यत्किञ् च समाहितो ...{Loading}...
यत्किं च समाहितो ऽब्रह्माप्य् आचार्याद् उपयुङ्क्ते ब्रह्मवद् एव तस्मिन् फलं भवति ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And whatever else besides the Veda, (a student) who obeys the rules learns from his teacher, that brings the same reward as the Veda. 8
हरदत्त-टीका
सूत्रम्
यत्किञ्च समाहितोऽब्रह्मप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन् फलं भवति ॥ ७ ॥
प्रस्तावः
एवं नियमातिक्रमे देषमुक्त्वा तदनुष्ठाने सिद्धिमाह —
टिप्पनी
अब्रह्मपि अब्रह्मापि । पररूपम्, कतन्तवत् । अपेर्वाऽकारलोपः, पिहितपिनद्धादिवत् । वेदव्यतिरिक्तमपि यत्किञ्चित् विप्रमन्त्रादि समाहितो नियमवान् भूत्वा आचार्यादुपयुङ्क्ते गृह्णाति तस्मिन् वेदव्यतिरिक्ते ब्रह्मवदेव फलं भवति ॥ ७ ॥
08 अथो यत्किञ् च ...{Loading}...
अथो यत्किञ् च मनसा वाचा चक्षुषा वा सङ्कल्पन् ध्यायत्य् आहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Also, if desirous to accomplish something (be it good or evil), he thinks it in his mind, or pronounces it in words, or looks upon it with his eye, even so it will be; thus teach (those who know the law).
हरदत्त-टीका
सूत्रम्
अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पयन् ध्यायत्याहाऽभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ॥ ८ ॥
प्रस्तावः
निग्रहानुग्रहशक्तिरप्यस्य भवतीत्याह—
टिप्पनी
अथो अपि च यत्किञ्च निग्रहात्मकं अनुग्रहात्मकम् वा सङ्कल्पयन् चिकीर्षन्मनसा निर्दयेन शिवेन वा ध्यायति— इत्थमिदमस्याऽस्त्विति, तथैव तद्भवति। तथा यत्किञ्च सङ्कल्पयन्वाचा 3क्रूरया मधुरया वा आह— इत्थमिदमस्यास्त्विति तथैव तद्भवति। एवं यत्किञ्च सङ्कल्पयन् चक्षुषा घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मज्ञाः ॥ ८ ॥
09 गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ...{Loading}...
गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The duties of a student consist in) acts to please the spiritual teacher, the observance (of rules) conducive to his own welfare, and industry in studying. 9
हरदत्त-टीका
सूत्रम्
गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्ति4रिति ॥ ९॥
######प्रस्तावः
अवश्यं धर्मयुक्तेनाध्येतव्यमित्युक्तम् । इदानीं ते धर्मा लक्षणतस्त्रिविधा इत्याह—
टिप्पनी
यैरनुष्ठितैः गुरु प्रसीदति तानि गुरुप्रसादनीयानि पादप्रक्षालनादीनि कर्माणि । स्वस्तीत्यविनाशिनाम । तत्प्राप्तिसाधन स्वस्त्ययनम् । तच्च त्रिविधं दृष्टार्थमदृष्टार्थमुभयार्थं चेति । दृष्टार्थं बाहुनदीतरणादिनिषेधः । अदृष्टार्थं क्षारादिनिषेधः । उभयार्थं भिक्षाचरणादि । अध्ययनसम्वृत्तिरधीतस्य वेदस्याऽभ्यासः ॥ ९ ॥
10 अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः ...{Loading}...
अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Acts other than these need not be performed by a student. 10
हरदत्त-टीका
सूत्रम्
अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि ॥ १० ॥
टिप्पनी
एतेभ्यः अन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणो, न कर्तव्यानीत्यर्थः ॥ १० ॥
11 स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ...{Loading}...
स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- A religious student who retains what he has learned, who finds pleasure in the fulfilment of the law, who keeps the rules of studentship, who is upright and forgiving, attains perfection. 11
हरदत्त-टीका
सूत्रम्
स्वाध्यायधृग्धर्मरुचिस्तपस्व्यृजुर्मृदुस्सिद्ध्यति ब्रह्मचारी ॥ ११ ॥
टिप्पनी
स्वाध्यायधृक् अधीतस्य12वेदस्य धारयिता अविस्मर्ता । धर्मे रुचि यस्य स धर्मरुचिः । तपस्वी नियमेषु तपशब्दः तद्वान् । ऋजुः अमायावी। मृदु । क्षमावान् । एवंभूतो ब्रह्मचारी सिद्ध्यति सिद्धिं प्राप्नोति । उक्ता सिद्धिः 13 ‘अथो यत्किञ्च मनसे’ति । तत्रोक्तानां पुनर्वचनमादरार्थम् । तदनुष्ठाने फलभूमा, अतिक्रमे च दोषभूमेति तात्पर्यम् ॥ ११ ॥
12 सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहम् ...{Loading}...
सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहं भो इति १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Every day he shall rise in the last watch of the night, and standing near his teacher, salute him with (this) salutation: I, N. N., ho! (salute thee.) 14
हरदत्त-टीका
सूत्रम्
सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादनमभिवादयीताऽसावहं भो, इति ॥ १२ ॥
टिप्पनी
सदा प्रतिदिनं महान्तमपररात्रं रात्रे पश्चिमे याम उत्तिष्ठेत् । उत्थाय च समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत-‘असावहं भो’ इति न । असावित्यत्राऽऽत्मनो नामनिर्देशः, यथा-‘अभिवादये यज्ञशर्माऽहं भो’ इति ॥ १२ ॥
13 समानग्रामे च वसतामन्येषामपि ...{Loading}...
समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (he shall salute) before the morning meal also other very aged (learned Brāhmaṇas) who may live in the same village.
हरदत्त-टीका
सूत्रम्
समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक्प्रातराशात् ॥ १३ ॥
टिप्पनी
अन्येषामप्याचार्यव्यतिरिक्तानाम् प्राक्प्रातराशात् प्रातर्भोजनात्माक् प्रातरभिवादनमभिवादयीत, ते चेत् समानग्रामे वसन्ति ॥ १३ ॥
14 प्रोष्य च समागमे ...{Loading}...
प्रोष्य च समागमे १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has been on a journey, (he shall salute 15 the persons mentioned) when he meets them on his, return.
हरदत्त-टीका
सूत्रम्
प्रोष्य च समागमे ॥ १४ ॥
टिप्पनी
यदा स्वयं प्रोष्य समागतो भवति, आचार्यादयो वा तदाऽप्यभिवादयीत । इदं नैमित्तिकम् । पूर्व नित्यम् ॥ १४ ॥
15 स्वर्गमायुश्चेप्सन् ...{Loading}...
स्वर्गमायुश्चेप्सन् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He may also salute the persons mentioned at other times), if he is desirous of heaven and long life.
हरदत्त-टीका
सूत्रम्
स्वर्गमायुश्चेप्सन् ॥ १५ ॥
प्रस्तावः
अथ काम्यम् —
टिप्पनी
अभिवादयीतेत्येव ॥ १५ ॥
16 दक्षिणम्बाहुं श्रोत्रसमम् प्रसार्य ...{Loading}...
दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa. shall salute stretching forward his right arm on a level with his ear, a Kṣatriya holding it on a level with the breast, a Vaiśya holding it on a level with the waist, a Śūdra holding it low, (and) stretching forward the joined hands. 16
हरदत्त-टीका
सूत्रम्
दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरस्समं राजन्यो मध्यसमं वैश्यो 3नीचैश्शुद्रः प्राञ्जलि ॥ १६ ॥
प्रस्तावः
अभिवादनप्रकारं वर्णानुपूर्येणाऽऽह—
टिप्पनी
ब्राह्मणोऽभिवादयमानः आत्मनो दक्षिण बाहु श्रोत्रसम प्रसार्याभिवादयीत । उरस्समं राजन्यः । दक्षिणं प्रसार्याभिवायीतेत्यत्रानुवर्तते । एवमुत्तरयो रपि । मध्यसममुदरसमम् । ऊरुसममित्यन्ये । नीचैः पादसमं शूद्रोऽभिवादयीत । प्राञ्जलि यथा भवति तथा अभिवादयति । अञ्जलिं कृत्वेत्यर्थः । प्राञ्जलिरिति युक्तः पाठः ॥१६॥
17 प्लावनञ् च नाम्नोऽभिवादनप्रत्यभिवादने ...{Loading}...
प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And when returning the salute of (a man belonging) to the first (three) castes, the (last syllable of the) name (of the person addressed) is produced to the length of three moras. 17
हरदत्त-टीका
सूत्रम्
प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वणानाम् ॥ १७ ॥
टिप्पनी
अभिवादनस्य यत्प्रत्यभिवादनं तत्राभिवादयितुर्नाम्नः प्लावनं कर्तव्यम् प्लुतः कर्तव्य इत्यर्थः। पूर्वेषां वर्णानां शूद्रर्जितानामभिवादयमानानाम् ।
3प्रत्यभिवादेऽशूद्र’ इति पाणिनीयस्मृतिः। तत्र 4 वाक्यस्य टे’रित्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य टेः प्लुतः । ‘आयुष्मान् भव सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशानाम्नश्च पश्चादकारः। तथा च मनुः —
12आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति ।
‘आयुष्मान् भव सौम्य देवदत्त ३ अ’ इति प्रयोगः । शम्भुर्विष्णुः पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते ‘एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ’ इत्ययं विधिर्भवति । अन्ते अकारः । 13 ‘तयोर्य्वावचि संहितायाम्’ इति यकारवकारौ च भवतः शम्भा३व, विष्णा३व, पिनाकपाणा३य, चक्रपाणा३य, इति । अत्र सूत्रे ‘प्रत्यभिवादने चे’ति चकारस्यार्थं न पश्यामः।
अपर आह- ‘अभिवादने प्रत्यभिवादने च प्लावन’मिति । अस्मिन्नपि पक्षे द्वन्द्वेनाभिहितत्वाच्चशब्दोऽनर्थक एव । अभिवादने च शास्त्रान्तरे न क्वापि प्लुतो विहितः । तस्मादनर्थक एव चकारः। अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥
18 उदिते त्वादित्य आचार्येण ...{Loading}...
उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- But when he meets his teacher after sunrise (coming for his lesson), he shall embrace (his feet). 18
हरदत्त-टीका
सूत्रम्
उदिते त्वादित्य आचार्येण समेत्योपसंग्रहणम् ॥१८॥
टिप्पनी
उदिते त्वादित्ये आचार्येण अध्ययनार्थं समेत्य वक्ष्यमाणेन विधिनोपसंग्रहणं कुर्यात् ॥ १८ ॥
19 सदैवाभिवादनम् ...{Loading}...
सदैवाभिवादनम् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- On all other occasions he shall salute (him in the manner described above).
हरदत्त-टीका
सूत्रम्
सदैवाऽभिवादनम् ॥ १९ ॥
टिप्पनी
अन्यदा सर्वदा पूर्वोक्तप्रकारेणाभिवादनमेव । अयमनुवाद उत्तरविवक्षया ॥ १९ ॥
20 उपसङ्ग्राह्य आचार्य इत्येके ...{Loading}...
उपसंग्राह्य आचार्य इत्येके २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But some declare that he ought to embrace the (feet of his) teacher (at every occasion instead of saluting him).
हरदत्त-टीका
सूत्रम्
उपसंग्राह्य आचार्य इत्येके ॥२०॥
टिप्पनी
अभिवादनप्रसङ्गे सदैव उपसंग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥
21 दक्षिणेन पाणिना दक्षिणम् ...{Loading}...
दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Having stroked the teacher’s right foot with his right hand below and above, he takes hold of it and of the ankle.
हरदत्त-टीका
सूत्रम्
दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्टिकमुपसंगृह्णीयात् ॥ २१ ॥
प्रस्तावः
ननु किमिदमुपसंग्रहणम् ? तदाह—
टिप्पनी
आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य, अधिशब्द उपरिमाचे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिकं सगुल्फम् । साङ्गुष्ठमित्यन्ये । उपसंगृह्णीयात् । इदमुपसंग्रहणम् । एतत्कुर्यात् ॥ २१ ॥
22 उभाभ्यामेवोभावभिपीडयत उपसङ्ग्राह्याव् इत्येके ...{Loading}...
उभाभ्यामेवोभावभिपीडयत उपसंग्राह्याव् इत्येके २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some say, that he must press both feet, each with both hands, and embrace them. 19
हरदत्त-टीका
सूत्रम्
उमाभ्यामेवोभावभिपीडयत उपसंग्राह्यावित्येके ॥२२॥
टिप्पनी
उभाभ्यां पाणिभ्यां उभावेवाऽऽचार्यस्य पादौ अभिपीडयतो माणवकस्य उपसंग्राह्यावित्येके मन्यन्ते । अभिपीडयत इति 3कृत्यानां कतरि"इति कर्तरि षष्ठी । अत्र मनुः— 4 व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः। सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ इति ॥ २२ ॥
23 सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ...{Loading}...
सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall be very attentive the whole day 20 long, never allowing his mind to wander from the lesson during the (time devoted to) studying.
हरदत्त-टीका
सूत्रम्
सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २३ ॥
टिप्पनी
सर्वं च तदहश्च सर्वाह्णम् । 12 राजाहस्सखिभ्यष्टच् ।’ 13 ‘अह्नोऽह्न एतेभ्य’ इत्यहादेशः । 21 ‘अह्नोदन्ता’दिति णत्वम् । अत्यन्तसंयोगे द्वितीया।’ सर्वाह्ण सदा सुयुक्तः सुसमाहितः अनन्यचित्तः । अध्ययनादनन्तरः नान्तरयतीत्यनन्तरः । अध्ययनाद्यथा आत्मानं नान्तरयति यथा अध्ययनान्न विच्छिद्येत तथा स्यात् । अध्याये स्वाध्यायकाले। अध्याय इत्यनुवादः । 22 ‘मनसा चानध्याय’ इति विशेषविधानात् । ‘अध्याये’दिति प्रायेण पठन्ति । तत्र तकारोऽपपाठश्छान्दसो वा ॥ २३ ॥
24 तथा गुरुकर्मसु ...{Loading}...
तथा गुरुकर्मसु २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (at other times he shall be attentive) to the business of his teacher.
हरदत्त-टीका
सूत्रम्
तथा गुरुकर्मसु ॥ २४ ॥
टिप्पनी
गुरुकर्मसु च तथा स्यात् सुयुक्तोऽनन्तरश्च स्यात् ॥ २४॥
25 मनसा चानध्याये ...{Loading}...
मनसा चानध्याये २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And during the time for rest (he shall give) his mind (to doubtful passages of the lesson learnt).
हरदत्त-टीका
सूत्रम्
मनसा चाऽनध्याये ॥ २५ ॥
टिप्पनी
अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५ ॥
26 आहूताध्यायी च स्यात् ...{Loading}...
आहूताध्यायी च स्यात् २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall study after having been called by the teacher (and not request the teacher to begin the lesson). 23
हरदत्त-टीका
सूत्रम्
आहूताध्यायी च स्यात् ॥ २६ ॥
टिप्पनी
आचार्येणाहूतस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥
॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी कण्डिका ॥
-
- Manu II, 164.
-
The meaning of the phrase, ‘Study drives out the Veda, which has already been learnt from him who studies transgressing the rules prescribed for the student,’ is, ‘The Veda recited at the Brahmayajña (daily study), and other religious rites, produces no effect, i.e. gains no merit for the reciter.’ Manu II, 97. Haradatta p. 19 gives also the following three explanations of this Sūtra, adopted by other commentators:– ↩︎
-
पा०सू० ६ ३.८२. बहुवीयवयवस्य सहशब्दस्थ सभावस्स्यद्विकल्पेन इति सूत्रार्थः। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
तदतिक्रमे विद्याकर्म निस्त्रवतीति नियमातिक्रमेण विद्याग्रहणं न कर्तव्यम्, कुतः ? यतो निस्स्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎
-
‘Amongst the avaras means “amongst the men of modern times, those who live in the Kaliyuga.” No Ṛṣis are born means “there are none who see (receive the revelation of) Mantras, Vedic texts.”’–Haradatta. ↩︎
-
‘How is it then that men in our days, though they transgress the rules prescribed for students, learn the four Vedas with little trouble? (The answer is), By virtue of a residue of the reward (due) for the proper observance of those rules (of studentship) in a former Yuga. Therefore Āpastamba says, Sūtra 6 “But some,” &c. New existence means “new birth (life).”’–Haradatta. ↩︎
-
An example of this (follows, Sūtra 6): ‘Like Śvetaketu. For Śvetaketu learned the four Vedas in a short time; as we read in the Chāndogya Upaniṣad (Prapāṭhaka VI, 1).’–Haradatta. ↩︎
-
‘Whatever else besides the Veda, such as poison-charms and the like,’–Haradatta. ↩︎
-
‘Acts to please the teacher are–washing his feet and the like; observance (of rules) conducive to welfare are–obedience to the prohibition to cross a river swimming, to eat pungent condiments, and obedience to the injunction to beg.’–Haradatta. ↩︎
-
‘Acts other than these, such as pilgrimages and the like.’–Haradatta. ↩︎
-
‘What this “perfection” is has been declared in Sūtras 7, 8.’–Haradatta. ↩︎
-
Manu II, 122 and 124. ↩︎
-
This salutation is to be performed only when the occasion requires it. The formerly-mentioned salutation (Sūtras 12, 13) is to be performed daily. In the next Sūtra follows that by which the fulfilment of a wish may be obtained.–Haradatta. Manu II, 121; Yājñ. I, 26. ↩︎
-
‘A Vaiśya shall salute stretching forth his arm on a level with his middle, i.e. the stomach; others say, on a level with his thigh; the Śūdra stretching it forth low, i.e. on a level with his feet.’–Haradatta. ↩︎
-
See also Manu II, 225. ↩︎
-
Manu II, 71. ↩︎
-
Manu II, 72 ↩︎
-
Manu II, 191. ↩︎
-
९. ४. ७. अदन्तपूर्वपदस्थाद्रेफात परस्याह्नादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ↩︎
-
आप० ध० १. ५.२६॥ ↩︎
-
Yājñ. I, 27; Manu II, 191. ↩︎