01 माञ्जिष्ठं राजन्यस्य ...{Loading}...
माञ्जिष्ठं+++(=madder-red-dyed)+++ राजन्यस्य १
सर्वाष् टीकाः ...{Loading}...
Bühler
- And that of a Kṣatriya dyed with madder,
हरदत्त-टीका
सूत्रम्
माञ्जिष्ठं राजन्यस्य ॥ १ ॥
टिप्पनी
मञ्जिष्ठया रक्तं माञ्जिष्ठम् ॥ १ ॥
02 हारिद्रं वैश्यस्य ...{Loading}...
हारिद्रं वैश्यस्य। +++(तेन कार्पासे धृते वर्णविकल्पो नास्ति।)+++ २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And that of a Vaiśya dyed with turmeric.
हरदत्त-टीका
सूत्रम्
हारिद्रं वैश्यस्य ॥२॥
टिप्पनी
हरिद्रया रक्तं हारिद्रम् ॥ २ ॥
03 उत्तरीयम्, कम्बलः हारिणम्, ...{Loading}...
हारिणम्+++(=मृगजम्)+++, ऐणेयं+++(=मृगीजम्)+++ वा +++(blackbuck-जात्या, न वर्णेन)+++ कृष्णं ब्राह्मणस्य +++(अजिनम्, न श्वेतैणेयम्)+++ ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The skin),worn by a Brāhmaṇa shall be that of a common deer or of a black doe. 1
हरदत्त-टीका
सूत्रम्
हारिणमैणयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥
टिप्पनी
एनान्युत्तरीयाणि । ‘बस्ताजिन’मिति वक्ष्यमाणत्वात् इहाप्यजिनमिति गम्यते । 2अजिनमुत्तरमुत्तरये’त्युपनयने यदजिनमुक्तं धार्यं तद्धारिण ब्राह्मणस्य; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् । एणी मृगी तस्या विकार ऐणेयम् । 3एण्या ढञ् । द्विविधा एण्यः कृष्णाश्च गौराश्च । अतो विशेष्यते-कृष्णमैणेयमिति ॥३॥
04 कृष्णञ् चेद् अनुपस्तीर्णासनशायी ...{Loading}...
+++(ऐणेयं)+++ कृष्णं चेद् अनुपस्तीर्णासन-शायी स्यात् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he wears a black skin, let him not spread it (on the ground) to sit or lie upon it.
हरदत्त-टीका
सूत्रम्
कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ॥ ४ ॥
प्रस्तावः
अस्मिन् पक्षे विशेषमाह—
टिप्पनी
कृष्णं चेद्विभृयात् न हारिणं ततस्तस्मिन्नुपस्तीर्णे नासीत, न च शयीत । अयं तावदर्थः। शब्दनिर्वाह4 त्वधासनशायी’त्यत्र कृतः ॥४॥
05 रौरवं राजन्यस्य ...{Loading}...
रौरवं+++(→ रौतीति - barasingha? Chital?)+++ राजन्यस्य ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The skin worn) by a Kṣatriya shall be that of a spotted deer.
हरदत्त-टीका
सूत्रम्
रौरवं राजन्यस्य ॥ ५ ॥
टिप्पनी
रुरुर्बिन्दुमान्मृगः ॥५॥
06 बस्ताजिनम् ...{Loading}...
बस्ताजिनं वैश्यस्य ॥ ६ ॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The skin worn) by a Vaiśya shall be that of a he-goat.
हरदत्त-टीका
सूत्रम्
बस्ताजिनं वैश्यस्य ॥ ६ ॥
टिप्पनी
बस्तश्छागः ॥६॥
07 आविकं सार्ववर्णिकम् ...{Loading}...
आविकं सार्ववर्णिकम् ॥ ७ ॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- The skin of a sheep is fit to be worn by all castes,
हरदत्त-टीका
सूत्रम्
आविकं सार्ववर्णिकम् ॥ ७ ॥
टिप्पनी
अविरूर्णायुः । स एवाऽऽविकः । तस्य चर्माऽऽविक, तत्सर्वेषामेव वर्णानाम् । अस्य हारिणादिभिर्विकल्पः ॥७॥
08 कम्बलश्च ...{Loading}...
कम्बलश् च +++(आविकः)+++ ॥८॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- And a blanket made of wool.
हरदत्त-टीका
सूत्रम्
कम्बलश्च ॥८॥
टिप्पनी
अयमप्याविक एव । प्रावरणमेव सर्वेषाम् ॥ ८ ॥
09 ब्रह्मवृद्धिम् इच्छन् ...{Loading}...
ब्रह्मवृद्धिमिच्छन्न् अजिनान्य् एव वसीत,
क्षत्रवृद्धिम् इच्छन् वस्त्राण्य् एव,
उभय-वृद्धिम् इच्छन्न् उभयम् इति हि(१) ब्राह्मणम् ॥ ९॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who wishes the increase of Brāhmaṇa power shall wear skins only; he who wishes the increase of Kṣatriya power shall wear cloth only; he who wishes the increase of both shall wear both (skin and cloth). Thus says a Brāhmaṇa. 5
हरदत्त-टीका
सूत्रम्
ब्रह्मवृद्धिमिच्छन्नजिनान्येव वसीत, क्षत्रवृद्धिमिच्छन् वस्त्राण्येव, उभयवृद्धिमिच्छन्नुभयमिति हि2 ब्राह्मणम् ॥ ९॥
प्रस्तावः
‘काषायं चैके वस्त्रमुपदिशन्ती’ त्यारभ्य वासांस्यजिनानि च विहितानि । तत्र कामवशेन विशेषमाह—
टिप्पनी
ब्रह्मवृद्धिः ब्राह्मणवृद्धिः क्षत्रवृद्धिः क्षत्रियवृद्धिः ॥ ९॥
10 अजिनन् त्वेवोत्तरन् धारयेत् ...{Loading}...
अजिनं त्वेवोत्तरं +++(→उत्तरीयरूपेण)+++ धारयेत् +++(इत्य् आपस्तम्बपक्षः)+++ १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But (I, Āpastamba, say), let him wear a skin only as his upper garment. 6
हरदत्त-टीका
सूत्रम्
अजिनं त्वेवोत्तरं धारयेत् ॥ १० ॥
प्रस्तावः
अथ स्वपक्षमाह—
टिप्पनी
उत्तरमुत्तरीयम् । तदजिनमेव धारयेत् ॥ १० ॥
11 अनृत्तदर्शी ...{Loading}...
अ-नृत्त-दर्शी ११
12 सभाः समाजांश् चागन्ता ...{Loading}...
सभाः समाजांश् चागन्ता १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not go to assemblies (for gambling, &c.), nor to crowds (assembled at festivals). 8
हरदत्त-टीका
सूत्रम्
सभाः समाजांश्चाऽगन्ता ॥ १२ ॥
टिप्पनी
द्यूतादिस्थान सभा। उत्सवादिषु समवायः समाजः ! तास्सभास्समाजाश्च अगन्ता ताच्छील्येन न गच्छेत् । यदृच्छया गमने न दोषः ॥ २॥
13 अजनवादशीलः ...{Loading}...
अजन-वाद-शीलः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not be addicted to gossiping.
हरदत्त-टीका
सूत्रम्
अजनवादशीलः ॥ १३ ॥
टिप्पनी
जनवादः परिवादः लोकवार्ता वा, तच्छीलो न स्यात् ॥ १३ ॥
14 रहश्शीलः ...{Loading}...
रहश्-शीलः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him be discreet.
हरदत्त-टीका
सूत्रम्
रहश्शीलः ॥ १४ ॥
टिप्पनी
सति सम्भवे रहःशीलः स्यात् ॥ १४ ॥
15 गुरोर् उदाचारेष्व् अकर्ता ...{Loading}...
गुरोर् उदाचारेष्व् अकर्ता स्वैरि-कर्माणि १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not do anything for his own pleasure in places which his teacher frequents. 9
हरदत्त-टीका
सूत्रम्
गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि ॥ १५ ॥
टिप्पनी
येषु प्रदेशेषु गुरुरुदाचरति पौनःपुन्येन चरति तेषु स्वैरिकर्माणि मैत्रप्रसाधनादीनि न कुर्यात् ॥ १५ ॥
16 स्त्रीभिर् यावद्अर्थसम्भाषी ...{Loading}...
स्त्रीभिर् यावद्-अर्थ-संभाषी १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him talk with women so much (only) as his purpose requires.
17 मृदुः ...{Loading}...
मृदुः १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Let him be) forgiving.
हरदत्त-टीका
सूत्रम्
मृदुः ॥ १७ ॥
टिप्पनी
क्षमावान् । १७ ॥
18 शान्तः ...{Loading}...
शान्तः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him restrain his organs from seeking illicit objects.
हरदत्त-टीका
सूत्रम्
शान्तः ॥१८॥
टिप्पनी
इन्द्रियाणामसद्विषये प्रवृत्त्यभावः शमः तद्वान् शान्तः ॥ १८ ॥
19 दान्तः ...{Loading}...
दान्तः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him be untired in fulfilling his duties; 10
हरदत्त-टीका
सूत्रम्
दान्तः ॥ १९ ॥
टिप्पनी
विहितेषु कर्मस्वग्लानिर्दमः । तद्वान् दान्त ॥ ९ ॥
20 ह्रीमान् ...{Loading}...
ह्रीमान् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Modest;
हरदत्त-टीका
सूत्रम्
ह्रीमान् ॥ २०॥
टिप्पनी
ह्रीर्लज्जा तद्वान् ॥ २० ॥
21 दृढधृतिः ...{Loading}...
दृढधृतिः २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Possessed of self-command
हरदत्त-टीका
सूत्रम्
दृढधृतिः ॥ २१ ॥
टिप्पनी
लब्धे नष्टे मृते वा धृतावेवावस्थितः स्यातू न हृष्येत् न वाविषीदेत् ॥ २१ ॥
22 अग्लांस्नुः ...{Loading}...
अग्लांस्नुः २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Energetic;
हरदत्त-टीका
सूत्रम्
अग्लाँस्नुः ॥ २२ ॥
टिप्पनी
उत्साहसम्पन्नः । 4“ग्लाजिस्थश्च ग्स्नुः” । अत्रानुस्वारः छान्दसोऽपपाठो वा ॥ २२ ॥
23 अक्रोधनः ...{Loading}...
अक्रोधनः २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Free from anger; 11
हरदत्त-टीका
सूत्रम्
अक्रोधनः ॥ २३ ॥
टिप्पनी
न कस्मैचिदपि कुप्येत् ॥ २३ ॥
24 अनसूयुः ...{Loading}...
अनसूयुः २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (And) free from envy.
हरदत्त-टीका
सूत्रम्
अनसूयुः ॥ २४ ॥
टिप्पनी
पराभ्युदयानुसन्तापः असूया । तच्छीलो न स्यात् ॥ २४॥
25 सर्वं लाभमाहरन्गुरवे सायम् ...{Loading}...
सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Bringing all he obtains to his teacher, he shall go begging with a vessel in the morning and in the evening, (and he may) beg (from everybody) except low-caste people unfit for association (with Āryas) and Abhiśastas. 12
हरदत्त-टीका
सूत्रम्
सर्वं लाभमाहरन् गुरवे सायं प्रातरमत्रेण भिक्षाचर्यं चरेद्भिक्षमाणोऽन्यत्राऽपपात्रेभ्योऽभिशस्ताच्च ॥२५॥
टिप्पनी
अपपात्राः प्रतिलोमजा रजकादयः। अपगतानि हि तेषां पात्राणि पाकाद्यर्थानि चतुभिर्वर्णैसह । अभिशस्तान् वक्ष्यति ‘अथ पतनीयानी’त्यादिना । तानुभयान् वर्जयित्वा अन्यत्र भिक्षेत । तत्र भिक्षमाणस्सर्वं लाभं यञ्च यावञ्च लब्धं गोहिरण्यादि तत्सर्व2ममायया गुरवे आहरेत् । एवमहरहः कुर्वन् सायं प्रातरमत्रेण न हस्तादिना भिक्षाचर्यं भिक्षाचरणं चरेत् कुर्यात् । ‘सायं प्रात’रिति वचनान्न सायं गृहीतेन प्रातराशः, नापि प्रातर्गृहीतेन सायमाशः ॥ २५ ॥
26 स्त्रीणाम् प्रत्याचक्षाणानां समाहितो ...{Loading}...
स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१
तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२
सर्वाष् टीकाः ...{Loading}...
Bühler
A Brāhmaṇa declares: Since a devout student takes away from women, who refuse (to give him alms, the merit gained) by (Śrauta)-sacrifices, by gifts, (and) by burnt-offerings (offered in the domestic fire), as well as their offspring, their cattle, the sacred learning (of their families), therefore, indeed, (a woman) should not refuse (alms) to the crowd of students; for amongst those (who come to beg), there might be one of that (devout) kind, one who thus (conscientiously) keeps his vow.
हरदत्त-टीका
सूत्रम्
स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते । तस्मादु ह वै ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध एवंव्रतः स्थादिति हि3 ब्राह्मणम् ॥ २६ ॥
प्रस्तावः
अथ भिक्षाप्रत्याख्यानं निन्दितुं ब्राह्मणमाकृष्यते—
टिप्पनी
व्याख्यातः समाहितः। समाहितो ब्रह्मचारी याभिः स्त्रीभिः भिक्षमाणः प्रत्याख्यायते तासां प्रत्याचक्षाणानां स्त्रीणामिष्टं यागैरार्जितं धर्मं, दत्तं दानेनार्जितं हुतं दर्विहोमैश्च गार्ह्यैरार्जितं सर्वमेव धर्मं वृङ्क्ते आच्छिनत्ति; यस्मादेवं तस्मात् ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीत । उ ह वा इति निपाता वाक्यालङ्कारार्थाः । अपिहशब्दो कदाचिदित्येतमर्थं द्योतयतः । एषु सङ्घीभूतेषु ब्रह्मचारिषु कदाचिदेवंविध समाहित एवव्रतः अथ ब्रह्मचर्याविधि’रित्यारभ्य यान्युक्तानि तद्वान् ब्रह्मचारी स्यात् । 4सम्भावने लिङ् । सम्भवेत् । तस्मान्न प्रत्याचक्षीतेत्येवं ब्राह्मण भवतीति ॥२६॥
27 नानुमानेन भेक्षम् ...{Loading}...
नानुमानेन भेक्षम् उच्छिष्टं - दृष्टश्रुताभ्यां तु २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Alms (shall) not (be considered) leavings (and be rejected) by inference from their appearance), but on the strength of ocular or oral testimony (only). 13
हरदत्त-टीका
सूत्रम्
नानुमानेन भैक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु ॥ २७ ॥
टिप्पनी
भिक्षाणां समूहो भैक्षम् । न तल्लिङ्गाभासेनोच्छिष्टं मन्तव्यम् । किं तु दृष्टश्रुताभ्यामेव । दृष्टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः। ताभ्यामेव तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्राप्तानुवादोऽपूर्वमंशं विधातुम् । यथा2 नानुवषट्करोति, अपि वोपांश्वनुवषट्कुर्यात्’ इति ॥ २७ ॥
28 भवत्पूर्वया ब्राह्मणो भिक्षेत ...{Loading}...
भवत्पूर्वया ब्राह्मणो भिक्षेत २८
29 भवद्मध्यया राजन्यः ...{Loading}...
भवद्मध्यया राजन्यः २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Kṣatriya (inserting the word) ‘Lady’ in the middle (between the words ‘give alms’);
हरदत्त-टीका
सूत्रम्
भवन्मध्यया राजन्यः॥ २९॥
टिप्पनी
‘भिक्षां भवति देही’ति राजन्यो भिक्षेत ॥ २९ ॥
30 भवदन्त्यया वैश्यः ...{Loading}...
भवदन्त्यया वैश्यः ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Vaiśya, adding the word ‘Lady’ (at the end of the formula).
हरदत्त-टीका
सूत्रम्
भवदन्त्यया वैश्यः ॥ ३० ॥
टिप्पनी
‘भिक्षां देहि भवती’ति ॥३०॥
31 तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ...{Loading}...
तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The pupil) having taken those (alms) shall place them before his teacher and offer them to him. 15
हरदत्त-टीका
सूत्रम्
तत्समाहृत्योपनिधायाऽऽचार्याय प्रब्रूयात् ॥३१॥
प्रस्तावः
‘सर्वं लाभमाहरन् गुरव’ इत्युक्तम् । अथाऽऽहृतं किं कर्तव्यमित्यत आह—
टिप्पनी
तत् भैक्षं समाहृत्य समीपे निधायाचार्याय प्रब्रूयात्-इदमित्थमाहृतमिति॥३१॥
32 तेन प्रदिष्टम् भुञ्जीत ...{Loading}...
तेन प्रदिष्टं भुञ्जीत ३२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He may eat (the food) after having been ordered to do so by his teacher. 16
हरदत्त-टीका
सूत्रम्
तेन प्रदिष्टं भुञ्जीत ॥ ३२ ॥
टिप्पनी
तेन ह्याचार्येण प्रदिष्टं सौम्यं त्वमेव भुङ्क्ष्वेत्युक्तं भुञ्जीत ॥ ३२ ॥
33 विप्रवासे गुरोराचार्यकुलाय ...{Loading}...
विप्रवासे गुरोराचार्यकुलाय ३३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the teacher is absent, the pupil (shall offer the food) to (a member of) the teacher’s family.
हरदत्त-टीका
सूत्रम्
विप्रवासे गुरोराचार्यकुलाय ॥ ३३ ॥
टिप्पनी
यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽचार्यस्य यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥
34 तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ...{Loading}...
तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the (family of the teacher) is (also) absent, the pupil (may offer the food) to other learned Brāhmaṇas (Śrotriyas) also (and receive from them the permission to eat). 17
35 नात्मप्रयोजनश्चरेत् ...{Loading}...
नात्मप्रयोजनश्चरेत् ३५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not beg for his own sake (alone). 19
हरदत्त-टीका
सूत्रम्
नाऽऽत्मप्रयोजनश्चरेत् ॥ ३५ ॥
टिप्पनी
आत्मा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । एवंभूतो भिक्षां न चरेत् आत्मार्थं नचरेदित्यर्थः । अन्य प्रयोजनं यदा श्रोत्रिया अपि न लभ्यन्ते तदा2 प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीतेति वक्ष्यमाणमप्रोषितेऽपि यथा स्यादिति ॥ ३ ॥
36 भुक्त्वा स्वयम् अमत्रम् ...{Loading}...
भुक्त्वा स्वयम् अमत्रं प्रक्षालयीत ३६
सर्वाष् टीकाः ...{Loading}...
Bühler
- After he has eaten, he himself shall clean his dish. 20
हरदत्त-टीका
सूत्रम्
भुक्त्वा स्वयममन्त्रं प्रक्षालयीत ॥ ३६ ॥
टिप्पनी
अमत्रं भोजनपात्रम् , मुक्त्वेति सन्निधानात् । तत्स्वयमेव प्रक्षालयीत प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पात्रयोर्ग्रहणमित्यन्ये ॥ ३६॥
37 न चोच्छिष्टङ् कुर्यात् ...{Loading}...
न चोच्छिष्टं कुर्यात् ३७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall leave no residue (in his dish).
हरदत्त-टीका
सूत्रम्
न चोच्छिष्टं कुर्यात् ॥ ३७ ॥
टिप्पनी
यावच्छक्नोति भोक्तुं तावदेव भोजनपात्रे कृत्वा भुञ्जीत ॥ ३७॥
38 अशक्तौ भूमौ निखनेत् ...{Loading}...
अशक्तौ भूमौ निखनेत् ३८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he cannot (eat all that he has taken in his dish), he shall bury (the remainder) in the ground;
हरदत्त-टीका
सूत्रम्
अशक्तौ भूमौ निखनेत् ॥३८॥
टिप्पनी
भोजने प्रवृत्तो यदि तावद्भोक्तुं न शक्नुयात् तदा तदन्नं भूमौ निखनेत् ॥ ३८ ॥
39 अप्सु वा प्रवेशयेत् ...{Loading}...
अप्सु वा प्रवेशयेत् ३९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may throw it into the water;
हरदत्त-टीका
सूत्रम्
अप्सु वा प्रवेशयेत् ॥ ३९ ॥
टिप्पनी
अप्सु प्रक्षिपेत् ॥ ३९ ॥
40 आर्याय वा पर्यवदध्यात् ...{Loading}...
आर्याय वा पर्यवदध्यात् ४०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may place (all that remains in a pot), and put it down near an (uninitiated) Ārya; 21
हरदत्त-टीका
सूत्रम्
आर्याय वा पर्यवदध्यात् ॥ ४० ॥
टिप्पनी
आर्यस्त्रैवर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सर्वमेकस्मिन्पात्रेऽवधाय तत्समीपे भूमौ स्थापयेत् ॥ ४० ॥
41 अन्तर्धिने वा शूद्रा ...{Loading}...
अन्तर्धिने वा शूद्रा य ४१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (he may put it down) near a Śūdra slave (belonging to his teacher).
हरदत्त-टीका
सूत्रम्
अन्तर्धिने या शुद्राय ॥ ४१ ॥
टिप्पनी
अन्तर्धानमन्तर्धिः सोऽस्यास्तीति । ब्रीह्यादित्वादिभिः । अन्तर्धी दासः। अन्तर्हितं हि तस्य शूद्रत्वम् , आशौचेषु स्वामितुल्यत्वात् । प्रकरणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवदध्यात् ॥ ४१॥
42 प्रोषितो भैक्षाद् अग्नौ ...{Loading}...
प्रोषितो भैक्षाद् अग्नौ कृत्वा भुञ्जीत ४२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (the pupil) is on a journey, he shall throw 22 a part of the alms into the fire and eat (the remainder).
हरदत्त-टीका
सूत्रम्
प्रोषितो भैक्षादग्नौ कृत्वा भुज्जीत ॥ ४२ ॥
टिप्पनी
यदि शिष्य आचार्यार्थमात्मार्थं वा प्रोषितः स्यात् तदा भैक्षात् किञ्चिदादायाग्नौ कृत्वा प्रक्षिप्य शेषं भुञ्जीत श्रोत्रियाणां सद्भावे असद्भावे च । ‘अन्येभ्योऽपि श्रोत्रियेभ्य’3 इत्येतन्न भवति । यदि स्यात्तत्रैवायं ब्रूया’त्तदभावेऽग्नौ कृत्वा भुञ्जीते’ति । यद्यपि तत्राचार्यस्य प्रवासः प्रकृतः, तथापि न्यायसाम्याच्छिष्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥
43 भैक्षं हविषा संस्तुतन् ...{Loading}...
भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Alms are declared to be sacrificial food. In regard to them the teacher (holds the position which) a deity (holds in regard to food offered at a sacrifice).
हरदत्त-टीका
सूत्रम्
भैक्षं हविषा संस्तुतं तत्राऽऽचार्यों देवतार्थे ॥ ४३ ॥
प्रस्तावः
अथ ब्रह्मचारिणो यज्ञ विधातु हविरादीनि सम्पादयति—
टिप्पनी
भैक्षं हविध्येन सस्तुत कीर्तितम् । तत्र तस्मिन् हविषि आचार्यों देवतार्थे देवताकार्ये तत्प्रीत्यर्थत्वात्तस्यं ॥ ४३ ॥
44 आहवनीयार्थे च ...{Loading}...
आहवनीयार्थे च ४४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (the teacher holds also the place which) the Āhavanīya fire occupies (at a sacrifice, because a portion of the alms is offered in the fire of his stomach). 23
हरदत्त-टीका
सूत्रम्
आहवनीयार्थे च ॥ ४४ ॥
टिप्पनी
तस्य जाठराग्नौ हूयमानत्वात् ॥४४॥
45 तम् भोजयित्वा यदुच्छिष्टम् ...{Loading}...
तं भोजयित्वा यदुच्छिष्टम् ४५
सर्वाष् टीकाः ...{Loading}...
Bühler
- To him (the teacher) the (student) shall offer (a portion of the alms),
हरदत्त-टीका
सूत्रम्
तं भोजयित्वा ॥ ४५ ॥
इति प्रथमप्रश्ने तृतीया कण्डिका ।
-
- Manu II, 41; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 10.
-
See also Gopatha-brāhmaṇa I, 2, 4. ↩︎
-
According to I, 1, 2, 39-I, 1, 3, 10, the rule of dress for students is the following:–According to Āpastamba, a student shall wear a piece of cloth to cover his nakedness (langoṭī), and a skin as upper garment. Other teachers allow, besides, an upper dress of cloth, coloured differently for the different castes, with or without the addition of a deer-skin. ↩︎
-
Manu II, 178. ↩︎
-
-13. Manu III, 179; Yājñ. I, 33. ↩︎
-
‘Anything for his own pleasure,’ i.e. keeping conversations with friends, making his toilet, &c. ↩︎
-
The explanations of the last two terms, śānta (Sūtra 18) and dānta (Sūtra 19), are different from those given usually. Śama is usually explained as ’the exclusive direction of the mind towards God,’ and dama as ’the restraining of the senses.’ ↩︎
-
Manu II, 178. ↩︎
-
Regarding the explanation of the term Abhiśasta, see below, I, 7, 21, 17. Haradatta: ‘Apapātras are called those born from a high-caste mother and a low-caste father, such as washermen. For their cooking vessels &c. are unfit for the use of the four castes. . . . Since Āpastamba says, In the evening and in the morning, food obtained in the evening must not be used for the morning meal, nor food obtained in the morning for the evening meal."’ Manu II, 182, 183, 185; Āśv. Gṛ. Sū. I, 22, 4. See also Gopatha-brāhmaṇa I, 2, 6. ↩︎
-
To eat the residue of the meal of any person except that left by the teacher and other Gurus, is not permitted to a student; see also below, I, 1, 4, 1 seq.; Manu II, 56; Yājñ. I, 33. ↩︎
-
The formula to be used by a Brāhmaṇa is, ‘Lady, give alms;’ that to be used by a Kṣatriya, ‘Give, lady, alms;’ and that used by a Vaiśya, ‘Give alms, lady.’ Manu II, 49; Yājñ. I, 30; Āśv. Gṛ. Sū. I, 22, 8. ↩︎
-
The words with which be announces the alms are, Idam ittham āhṛtam, ’this much have I received.’ Manu II, 51; Yājñ. I, 2, 7; Āśv. Gṛ. Sū. I, 22, 10. ↩︎
-
The answer of the teacher is, Saumya tvameva bhuṅkṣva, ‘friend, eat thou.’ ↩︎
-
Regarding the term Śrotriya, see below, II, 3, 6. 4. ↩︎
-
गौ० ध० २. ४०. ↩︎
-
‘The meaning of this Sūtra is, that the rule given, Sūtra 42 (below), for a pupil who is on a journey, shall hold good also for a pupil who is at home, if (in the absence of his teacher) no Śrotriyas are to be found (from whom he can receive the permission to eat).’–Haradatta. ↩︎
-
‘He commits no sin, if he has the alms-pot cleaned by somebody else. Some say that the Sūtra refers to both vessels (the alms-pot and his own dish).’ ↩︎
-
An Ārya is a person belonging to one of the first three castes (see below). The Ārya must be a boy who is not initiated, because children are kāmabhakṣāḥ, i.e. allowed to eat what they like, even leavings. ↩︎
-
This rule holds good if no Śrotriyas are near. If Śrotriyas are to be found, Sūtra 34 applies. Agni, the god of fire, is considered to be of the Brahminical caste, and hence he takes the place of the teacher or of the Śrotriyas. See also Manu II, 247, p. 14 248, and the passages collected from the Brāhmaṇas, by Prof. Weber, Ind. Stud. IX, 39. ↩︎
-
Manu II, 231. ↩︎