01 प्रतिपूरुषं सङ्ख्याय संवत्सरान् ...{Loading}...
प्रति-पूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- For as many years as there are uninitiated persons, reckoning (one year) for each ancestor (and the person to be initiated himself),
हरदत्त-टीका
सूत्रम्
प्रतिपूरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः ॥ १ ॥
टिप्पनी
यदि पितैवानुपेतः ततस्संवत्सरमेकम् । अथ पितामहोऽपि, ततो द्वौ । अथ स्वयमपि यथाकालमनुपेतः, ततः संवत्सरानिति ॥१॥
02 सप्तभिः पावमानीभिर् यदन्ति ...{Loading}...
सप्तभिः पावमानीभिर् “यदन्ति यच् च दूरक” इति एताभिर्, यजुष्-पवित्रेण, साम-पवित्रेणाङ्गिरसेणेति+++(→ वामदेव्यम्)+++ २
पावमान्यः
२१ यदन्ति यच्च ...{Loading}...
यदन्ति॒ यच् च॑ दूर॒के
भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज् ज॑हि ॥
०६७ २२-२७ ...{Loading}...
२२ पवमानः सो ...{Loading}...
पव॑मानः॒ सो अ॒द्य नः॑
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता, स पु॑नातु नः ॥
२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...
यत् ते॑ प॒वित्र॑म् अ॒र्चिष्य्
अग्ने॒ वित॑तम् अ॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥
२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...
यत् ते॑ प॒वित्र॑म् अर्चि॒वद्+++(=अर्चिष्मत्)+++
अग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒-स॒वैः पु॑नीहि नः ॥
२५ उभाभ्यां देव ...{Loading}...
उ॒भाभ्यां॑ देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥
२६ त्रिभिष्ट्वं देव ...{Loading}...
त्रि॒भिष् - ट्वं दे॑व सवित॒र्
वर्षि॑ष्ठैः, सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ - पुनीहि नः ॥
२७ पुनन्तु मां ...{Loading}...
पु॒नन्तु॒ मां दे॑व-ज॒नाः
पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒
जात॑वेदः पुनी॒हि मा॑ ॥
यजुष्-पवित्रम्
‘आपो अस्मान्मातरः शुन्धन्त्वि’त्यनेन Taitt. Saṃh. I, 2, 1, 1 +++(पूरणीयम्??)+++
साम-पवित्रम्
वामदेव्यम् ...{Loading}...
ऋक्
12-1_0682 कया नश्चित्र ...{Loading}...
क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १
12-2_0683 कस्त्वा सत्यो ...{Loading}...
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
कस्त्वा॑ स॒त्यो मदा॑नां॒
मंहि॑ष्ठो +++(=पूज्यः)+++ मत्स॒द् +++(=मादयेद्)+++ अन्ध॑सः+++(= भोज्यः ([सोमः])+++) ।
दृ॒ऴा +++(=ढम्)+++ चि॑दा॒रुजे॒ +++(=सम्भङ्क्तुम्)+++ वसु॑ २
12-3_0684 अभी षु ...{Loading}...
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भी षु णः॒ सखी॑नाम्
अवि॒ता ज॑रितॄ॒णाम् +++(=स्तोतॄणाम्)+++।
श॒तं भ॑वास्यू॒तिभिः॑ +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++
साम - वामदेव्यम्।
- पारम्परिक-गान-मूलम् अत्र।
वामदेव्यम् ।
का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।
का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥
आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
[ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।
सर्वाष् टीकाः ...{Loading}...
Bühler
- (They should bathe daily reciting) the seven 1 Pāvamānīs, beginning with ‘If near or far,’ the Yajuṣpavitra, (‘May the waters, the mothers purify us,’ &c.) the Sāmapavitra, (‘With what help assists,’ &c.), and the Āṅgirasapavitra (‘A swan, dwelling in purity’),
हरदत्त-टीका
सूत्रम्
सप्तभिः पावमानीभि"र्यदन्ति यच्च दूरक" इत्येताभिर् यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनेति ॥ २॥
प्रस्तावः
अथोदकोपस्पर्शने मन्त्राः —
टिप्पनी
पवमानः सोमो देवता यासां ताः 2पावमान्यः ।
यजुष्यवित्रेण3 ‘आपो अस्मान्मातरः शुन्धन्त्वि’त्यनेन, सामपवित्रेण ‘कया नश्चित्र आभुवदि’त्यादिगीतेन वामदेव्येन साम्ना, आङ्गिरसेन4 ‘हंसाशुचिषदि’त्यनेन एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् ॥ २ ॥
03 अपि वा व्याहृतीभिर् ...{Loading}...
अपि वा व्याहृतीभिर् एव ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or also reciting the Vyāhṛtis (om, bhūḥ, bhuvaḥ, suvaḥ).
हरदत्त-टीका
अपि वा व्याहृतीभिर् एव ३
04 अथाध्याप्यः ...{Loading}...
अथाध्याप्यः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that (such a person) may be taught (the Veda).
हरदत्त-टीका
अथाध्याप्यः ४
05 अथ यस्य प्रपितामहादि ...{Loading}...
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं - ते श्मशान-संस्तुताः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But those whose great-grandfather’s (grandfather’s and father’s) initiation is not remembered, are called ‘burial-grounds.’
हरदत्त-टीका
सूत्रम्
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तुताः ॥ ५ ॥
टिप्पनी
प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं च यथाकालमिति । ते तथाविधा माणवकाः श्मशानसंस्तुताः । एतेन 2 ‘श्मशाने सर्वतः शम्याप्रासा’ दित्यध्ययननिषेध एषामपि सन्निधौ भवति ॥ ५॥
06 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तं - द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Intercourse, dining, and intermarriage with them should be avoided. For them, if they like, the (following) penance (is prescribed). (Such a man) shall keep for twelve years the rules prescribed for a student who is studying the three Vedas. Afterwards he may be initiated. Then he shall bathe, reciting the Pāvamānīs and the other (texts mentioned above, I, 1, 2, 2).
हरदत्त-टीका
सूत्रम्
तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं3तत उदकोपस्पर्शनं पावमान्यादिभिः ॥ ६ ॥
टिप्पनी
गतम् । पावमान्यादिभिरित्यनेनैव प्रतिपूरुषं सङ्ख्याय सम्बत्सरानित्येतदपि द्रष्टव्यम् ॥ ६ ॥
07 अथ गृहमेधोपदेशनम् ...{Loading}...
अथ गृहमेधोपदेशनम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Then he may be instructed in the duties of a householder.
हरदत्त-टीका
सूत्रम्
अथ गृहमेधोपदेशनम् ॥ ७ ॥
टिप्पनी
गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७॥
08 नाध्यापनम् ...{Loading}...
नाध्यापनम् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not be taught (the whole Veda), but only the sacred formulas required for the domestic ceremonies.
हरदत्त-टीका
सूत्रम्
नाध्यापनम् ॥ ८॥
टिप्पनी
नाध्यापनं कृत्स्नस्य वेदस्य । किं तु गृह्यमन्त्राणामेवेति ॥ ८॥
09 ततो यो निर्वर्तते ...{Loading}...
ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he has finished this (study of the Gṛhya-mantras), he may be initiated (after having performed the penance prescribed) for the first neglect (I, 1, 1, 28).
हरदत्त-टीका
सूत्रम्
ततो यो निवर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥
टिप्पनी
ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताद्यो निवर्तते उत्पद्यते तस्योपनयनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं त्रैविद्यकं ब्रह्मचर्यं चारयित्वेत्यर्थः ॥९॥
10 तत ऊर्ध्वम् प्रकृतिवत् ...{Loading}...
तत ऊर्ध्वं प्रकृतिवत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Afterwards (everything is performed) as in the case of a regular initiation. 5
हरदत्त-टीका
सूत्रम्
तत ऊर्ध्वं प्रकृतिवत् ॥ १० ॥
टिप्पनी
ततः यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यमिति । यस्य तु प्रपितामहस्थ पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तम्, धर्मज्ञैरूहितव्यम् ॥ १०॥
11 उपेतस्याचार्यकुले ब्रह्मचारिवासः ...{Loading}...
उपेतस्याचार्यकुले ब्रह्मचारिवासः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
सूत्रम्
उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥
प्रस्तावः
एवं ततः पूर्वेष्वपि निरूपितमुपनयनम् , अथाऽध्ययनविधिः—
टिप्पनी
एवं यथाविध्युपेतस्य ब्रह्मचारिणस्सत आचार्यकुले वासो भवति । ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी। अध्ययनाङ्गानि व्रतानि चरता आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥
हरदत्त-टीका
He who has been initiated shall dwell as a religious student in the house of his teacher, 6
12 अष्टाचत्वारिंशद्वर्षाणि ...{Loading}...
अष्टाचत्वारिंशद्वर्षाणि १२
13 पादूनम् ...{Loading}...
पादूनम् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Or) a quarter less (i.e. for thirty-six years),
हरदत्त-टीका
सूत्रम्
पादूनम् ॥ १३ ॥
टिप्पनी
स एव कालः पादून वा प्रत्येतव्यः । पादेनोनं पादूनम् । पररूपं 2कतन्तवत् । षट्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥
14 अर्धेन ...{Loading}...
अर्धेन १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Or) less by half (i.e. for twenty-four years),
हरदत्त-टीका
सूत्रम्
अर्धेन ॥ १४॥
टिप्पनी
ऊनमिति3 समस्तमप्यपेक्षते। चतुर्विंशतिर्वर्षाणि। प्रतिवेदं षट् ॥१४॥
15 त्रिभिर्वा ...{Loading}...
त्रिभिर्वा १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Or) three quarters less (i.e. for twelve years),
हरदत्त-टीका
सूत्रम्
त्रिभिर्वा ॥ १५॥
टिप्पनी
पादैरूनमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि प्रतिवेदं त्रीणि ॥१५॥
16 द्वादशावरार्ध्यम् ...{Loading}...
द्वादशावरार्ध्यम् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Twelve years (should be) the shortest time (for his residence with his teacher). 8
हरदत्त-टीका
सूत्रम्
द्वादशावरार्ध्यम् ॥ १६ ॥
टिप्पनी
अवरार्ध्यशब्दोऽवरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवरमात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम् । पूर्वेणैव सिद्धे यो ब्रह्मचार्यतिमेधावितया चतुरोऽपि वदानितोऽल्पीयसा कालेन गृह्णाति तेनाप्येतावन्तं कालं गुरुकुले वस्तव्यम् । 4 ‘विद्यया स्नाती’त्येतस्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारभ्यते । एतेन एकस्य वेदस्य त्रीणि वर्षाणि ब्रह्मचर्यमवश्यं2 भावीत्यर्थात्सिद्धम् ।
मनुरप्याह—
3षट्त्रिंशदाब्दिक चर्थ गुरौ विद्यकं व्रतम् ।
तदाधिक पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥
त्रयाणां वेदानां षट् त्रिंशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टादश; एकैकस्य षट् । पादिकं वा त्रयाणां नव, एकैकस्य त्रीणि । ग्रहणान्तिकमेव वेति एकैकस्य त्रिभ्य ऊर्ध्वमनियमः, न प्रागित्यर्थो द्रष्टव्यः॥१६॥
17 न ब्रह्मचारिणो विद्यार्थस्य ...{Loading}...
न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- A student who studies the sacred science shall not dwell with anybody else (than his teacher). 9
हरदत्त-टीका
सूत्रम्
न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ।। १७ ।।
टिप्पनी
ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो भवति न तेन दिवसमात्रमपि परस्य समीपे वस्तव्यम्। आचार्यस्य समीप एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिदन्यत्र 10वासेऽपि न दोषः । यद्वा भोजननिवृत्तिरेवोपवासः । परलोकार्थ उपवासः परोपवासः स विद्यार्थस्य न भवति। नैष्ठिकस्य तु11 दोषः। अत्र पक्षे 12 आहिताग्निरनड्वानि’ति विद्यार्थब्रह्मचारिविषयम् ॥१७॥
18 अथ ब्रह्मचर्यविधिः ...{Loading}...
अथ ब्रह्मचर्यविधिः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now (follow) the rules for the studentship.
हरदत्त-टीका
सूत्रम्
अथ ब्रह्मचर्यविधिः ॥ १८ ॥
टिप्पनी
ब्रह्म वेदस्तदर्थं यद्व्रत चरितव्यं तद्ब्रह्मचर्यं तदधिक्रियते ॥ १८ ॥
19 आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः ...{Loading}...
आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall obey his teacher, except (when ordered to commit) crimes which cause loss of caste. 13
हरदत्त-टीका
सूत्रम्
आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥
टिप्पनी
“आचार्याधीनो भवे"त्युपनयनान्ते यत् संशासनं तत्सिद्धैवाचार्याधीनताऽनूद्यते ‘अन्यत्र पतनीयेभ्य’ इति विशेषं वक्ष्यामीति।4पतनीय इति करणे कृत्प्रत्ययः । 2अमुमरातिं ब्राह्मणमित्थं व्यापादयेत्याचार्येण चोदितोऽप्येवमादि न कुर्यादिति ॥ १९ ॥
20 हितकारी गुरोरप्रतिलोमयन्वाचा ...{Loading}...
हितकारी गुरोरप्रतिलोमयन्वाचा २०
21 अधासनशायी ...{Loading}...
अधासनशायी २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall always occupy a couch or seat lower (than that of his teacher). 15
हरदत्त-टीका
सूत्रम्
अधासनशायी ॥ २१ ॥
टिप्पनी
शयनं शायः । 10 ‘कृत्यल्युटो बहुल’मिति बहुलवचनात् घञ् । अधः आसनशायो यस्य सः अधासनशायी । गुरुसन्निधावध आसीत अधश्शयीतेत्युक्तं भवति । अधश्शदस्य सवर्णदीर्घश्छान्दसः, अपपाठो वा। तृणेषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्धे ॥ २१ ॥
22 नानुदेश्यम् भुञ्जीत ...{Loading}...
नानुदेश्यं भुञ्जीत २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not eat food offered (at a sacrifice to the gods or the Manes),
हरदत्त-टीका
सूत्रम्
नानुदेश्यं भुञ्जीत ।। २२॥
टिप्पनी
अनुदेश्यं श्राद्धार्थं देवतार्थं वा उद्दिष्टं न भुञ्जीत ॥ २२ ॥
23 तथा क्षारलवणमधुमांसानि ...{Loading}...
तथा क्षार-लवण-मधु-मांसानि +++(गृह्यसूत्र उपनयनप्रकरणे क्षार-लवणयोर् त्र्यहं नियमनात् मध्वादेरेव त्र्यहादूर्ध्वं नित्यो निषेधः। )+++ २३
24 अदिवास्वापी ...{Loading}...
अदिवास्वापी २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not sleep in the day-time.
हरदत्त-टीका
सूत्रम्
अदिवास्वापी ॥ २४ ॥
टिप्पनी
न दिवा स्वप्यात् ॥ २४ ॥
25 अगन्धसेवी ...{Loading}...
अगन्धसेवी २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not use perfumes. 17
हरदत्त-टीका
सूत्रम्
अगन्धसेवी ॥ २५ ॥
टिप्पनी
चन्दनादीनि गन्धद्रव्याणि न सेवेत ॥ २५ ॥
26 मैथुनन् न चरेत् ...{Loading}...
मैथुनं न चरेत् २६
27 उत्सन्नश्लाघः ...{Loading}...
उत्सन्न-श्लाघः २७
28 अङ्गानि न प्रक्षालयीत ...{Loading}...
अङ्गानि न प्रक्षालयीत २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not wash his body (with hot water for pleasure).
हरदत्त-टीका
सूत्रम्
अङ्गानि न प्रक्षालयीत ॥ २८ ॥
टिप्पनी
2विना शिरसा सुखार्थमुष्णोदकादिना शरीरं न प्रक्षालयेत् ॥२८॥
29 प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् ...{Loading}...
प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् असन्दर्शे २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- But, if it is soiled by unclean things, he shall clean it (with earth or water), in a place where he is not seen by a Guru. 20
30 नाप्सु श्लाघमानः स्नायाद् ...{Loading}...
नाप्सु श्लाघमानः स्नायाद् - यदि स्नायाद् दण्डवत् ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not sport in the water whilst bathing; let him swim (motionless) like a stick. 21
हरदत्त-टीका
सूत्रम्
12 नाप्सु श्लाघमानः स्नायाद्यदि स्नायाद्दण्डवत्प्लवेत् ॥ ३० ॥
टिप्पनी
स्नाने प्राप्त न श्लाघमानः स्नायात् । किं तु दण्डवत्प्लवेदित्युक्तम् । स्नानीयैर्मलापकर्षणं श्लाघा; क्रीडा वा जले । अपरं आह-‘अङ्गानि न प्रक्षालयीते’(सू.२८)त्यासमावर्तनान्नित्यस्नानस्य प्रतिषेधः । ‘प्रक्षालयीत त्वशुचिलिप्तानी’(सू.२९)ति नैमित्तिकस्य विधिः। ‘नाप्सु श्लाघमानः स्नाया’(सू. ३०)दिति तत्रैव श्लाघाप्रतिषेध इति ॥३०॥
31 जटिलः ...{Loading}...
जटिलः ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall wear all his hair tied in one braid. 22
हरदत्त-टीका
सूत्रम्
जटिलः ॥ ३१॥
टिप्पनी
सर्वानेव केशान् जटां कृत्वा बिभृयात् ॥ ३१ ॥
32 शिखाजटो वा वापयेद् ...{Loading}...
शिखाजटो वा वापयेद् इतरान् ३२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or let him make a braid of the lock on the crown of the head, and shave the rest of the hair.
हरदत्त-टीका
सूत्रम्
शिखाजटो वा वापयेदितरान् ॥ ३२ ॥
टिप्पनी
अथवा शिखामेव जटां कृत्वा इतरान्केशान् वापयेत् नापितेन ॥ ३२ ॥
33 मौञ्जी मेखला त्रिवृद् ...{Loading}...
- मौञ्जी मेखला त्रिवृद् ब्राह्मणस्य, शक्तिविषये दक्षिणावृत्तानाम् ३३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The girdle of a Brāhmaṇa shall be made of Muñja grass, and consist of three strings; if possible, (the strings) should be twisted to the right. 23
हरदत्त-टीका
सूत्रम्
मौञ्जी मेखला त्रिवृद्ब्राह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ॥ ३३ ॥
टिप्पनी
मुञ्जानां विकारो मौली । त्रिवृत् त्रिगुणा । एवम्भूता ब्राह्मणस्य मेखला भवति । सा च शक्तिविषये शक्तौ सत्यां दक्षिणावृत्तानां प्रदक्षिणावृत्तानां कर्तव्या । तद्धितार्थे गुणभूतानामपि मुञ्जानामेवैतद्विशेषणम् ॥ ३३ ॥
34 ज्या राजन्यस्य ...{Loading}...
ज्या राजन्यस्य ३४
सर्वाष् टीकाः ...{Loading}...
Bühler
- A bowstring (should be the girdle) of a Kṣatriya,
हरदत्त-टीका
सूत्रम्
ज्या राजन्यस्य ॥ ३४॥
टिप्पनी
स्पष्टम् ॥३४॥
35 मौञ्जी वायोमिश्रा ...{Loading}...
मौञ्जी वायोमिश्रा ३५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or a string of Muñja grass in which pieces of iron have been tied.
हरदत्त-टीका
सूत्रम्
मौञ्जी वाऽयोमिश्रा ॥ ३५ ॥
टिप्पनी
अथवा अयोमिश्रा क्वचितु कालायसेन बद्धा मौञ्जी मेखला भवति राजन्यस्य ।। ३५॥
36 आवीसूत्रं वैश्यस्य ...{Loading}...
आवीसूत्रं वैश्यस्य ३६
सर्वाष् टीकाः ...{Loading}...
Bühler
- A wool thread (shall be the girdle) of a Vaiśya,
हरदत्त-टीका
सूत्रम्
आवीसूत्रं वैश्यस्य ॥ ३६ ॥
टिप्पनी
अविरुर्णायुः कम्बलप्रकृतिः तत्सम्बन्धिनी ऊर्णा आवी तत्कृतं सूत्रं आवीसूत्रम् । सा मेखला वैश्यस्य भवति ॥ ६६ ॥
37 सैरी तामली वेत्येके ...{Loading}...
सैरी तामली वेत्येके ३७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or a rope used for yoking the oxen to the plough, or a stringy made of Tamala-bark.
हरदत्त-टीका
सूत्रम्
सैरी तामली वेत्येके ॥ ३७ ॥
टिप्पनी
सैरी सीरा बाहयोक्त्ररज्जुः। 4तामलो मूलोदसंज्ञको वृक्षः तस्य त्वचा ग्रथिता तामली ॥ ३७ ॥
38 पालाशो दण्डो ब्राह्मणस्य, ...{Loading}...
पालाशो दण्डो ब्राह्मणस्य,
नैय्यग्रोध-स्कन्धजो ऽवाङ्ग्रो राजन्यस्य,
बादर औदुम्बरो वा वैश्यस्य।
+++(यज्ञियो)+++ वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति ३८
सर्वाष् टीकाः ...{Loading}...
Bühler
- The staff worn by a Brāhmaṇa should be made of Palāśa wood, that of a Kṣatriya of a branch of the Banian tree, which grows downwards, that of a Vaiśya of Bādara or Udumbara wood. Some declare, without any reference to caste, that the staff of a student should be made of the wood of a tree (that is fit to be used at the sacrifice). 24
39 वासः ...{Loading}...
- वासः ३९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall wear) a cloth (to cover his nakedness). 25
हरदत्त-टीका
सूत्रम्
वासः ॥ ३९ ॥
टिप्पनी
वस्यते कौपीनमाच्छाद्यते येन तद्वासः । तद्वक्ष्यते ॥ ३९ ॥
40 शाणीक्षौमाऽजिनानि ...{Loading}...
शाणी+++(=hemp)+++-क्षौमा+++(=linen/ flax)+++ऽजिनानि +++(ब्राह्मण-क्षत्रिय-वैश्यानाम्)+++४०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (It shall be made) of hemp for a Brāhmaṇa, of flax (for a Kṣatriya), of the skin of a (clean) animal (for a Vaiśya). 26
हरदत्त-टीका
सूत्रम्
शाणीक्षौमाजिनानि ।। ४०॥
टिप्पनी
शणस्य विकारः शाणी पटी ।
क्षुमा अतसी तस्या विकारः क्षौमम्। श्वेत-पट्टाख्य-वासो-विशेष इत्यन्ये ।
अजिन यस्य कस्यचिन्मेध्यस्य पशोः।
त्रीण्येतानि वर्णानुपूर्व्येण वासांसि ॥ ४ ॥
41 कषायञ् चैके वस्त्रम् ...{Loading}...
कषायं+++(=red Lodh/ kaavi)+++ चैके +++(कार्पासं)+++ वस्त्रम् उपदिशन्ति ४१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare that the (upper)+++(sic)+++ garment (of a Brāhmaṇa) should be dyed with red Lodh, 27
हरदत्त-टीका
सूत्रम्
काषायं चैके वस्त्रमुपदिशन्ति ॥ ४१ ॥
टिप्पनी
एके आचार्या वस्त्रं त्व् अधो-धार्यम् उपदिशन्ति ।
वस्त्रं कार्पासम् । तच्च काषायं कषायेण रक्तम् । ब्राह्मणस्येत्यर्थाद्गम्यते । इतरयोर्वक्ष्यमाणत्वात् ॥ ४१ ॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने द्वितीया कण्डिका ॥२॥
-
- The seven Pāvamānīs are seven verses which occur Rig veda IX, 67, 21-27. Yajuṣpavitra = Taitt. Saṃh. I, 2, 1, 1. The Sāmapavitra is found Sāma-veda I, 2, 2, 3, 5. Āṅgirasapavitra = Ṛj-veda IV, 40, 5.
-
यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वितज्जहि ॥१॥
पवमानस्सोऽअद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥२॥
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥ ३॥
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सवै पुनीहि नः ॥ ४ ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः॥ ५॥
त्रिभिष्ट्वं देव सवितर्वर्षिष्ठः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥६॥
पुनन्तु मां देवजनाः पुनन्तु वसवी धिया। विश्वे देवाः पुनीतन मा जातवेदः पुनीहि मा ॥७॥ (ऋ०सं० ७.२, १७, १८.) इति सप्त पावमान्यः ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रम्" (तै०सं० १.२.१.) इति यजुःपवित्रम् । ‘कया नश्चित्र मा भुवदूती सदावृधस्सखा । कया शचिष्ठया वृता’ इत्यस्यामृचि गीयमानं वामदेव्याख्यं साम सामपवित्रम् ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
हँसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतियिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋत बृहत्" (तै० सं० ४ २ १ ४.) इत्याङ्गिरस ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
The commentator observes that for those whose great-great-grandfather or remoter ancestors were not initiated, no penance is prescribed, and that it must be fixed by those who know the law. ↩︎
-
Manu II, 164. ↩︎
-
Manu III, 1, and Yājñ. I, 36; Weber, Ind. Stud. X, 125. ↩︎
-
The commentator declares that in Manu III, 1, the expression until he has learnt it,’ must be understood in this sense, that the pupil may leave his teacher, if he has learnt the Veda, after twelve years’ study, never before. But compare also Āśv. Gṛ. Sū. I, 22, 3. ↩︎
-
The commentator states that this rule refers only to a temporary, not to a professed student (naiṣṭhika). He also gives an entirely different explanation to the Sūtra, which, according to some, means, ‘A student who learns the sacred science shall not fast in order to obtain heaven.’ This rendering also is admissible, as the word para may mean either a ‘stranger’ or ‘heaven’ and upavāsa, ‘dwelling’ or ‘fasting.’ ↩︎
-
Regarding the crimes which cause loss of caste (patanīya), see below, I, 7, 21, 7. ↩︎
-
Manu II, 108, and Yājñ. I, 27. ↩︎
-
Manu II, 108, 198; Weber, Ind. Stud. X, 123 and 124. ↩︎
-
Regarding the meaning of kṣāra, ‘pungent condiments,’ see Haradatta on II, 6, 15, 15. Other commentators explain the term differently.–Manu II, 177; Yājñ. I, 33; and Weber, Ind. Stud. X, 123. Āśv. Gṛ. Sū. I, 22, 2. ↩︎
-
Manu II, 177; Yājñ. I, 33. ↩︎
-
Manu II, 180. ↩︎
-
Manu II, 178; Yājñ. I, 33. ↩︎
-
‘Here, in the section on the teacher, the word guru designates the father and the rest also.’–Haradatta. ↩︎
-
Another version of the first portion of this Sūtra, proposed by Haradatta, is, ‘Let him not, whilst bathing, clean himself (with bathing powder or the like).’ Another commentator takes Sūtra 28 as a prohibition of the daily bath or washing generally ordained for Brāhmaṇas, and refers Sūtra 29. to the naimittika snāna or ‘bathing on certain occasions,’ and takes Sūtra 30 as a restriction of the latter. ↩︎
-
Manu II, 2 19. ↩︎
-
Manu II, 42-44; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 12; Weber, Ind. Stud. X, 23. ↩︎
-
Manu II, 45; Yājñ. I, 29; Āśv. Gṛ. Sū. I, 19, 13; 20, 1; Weber, Ind. Stud. X, 23. ↩︎
-
The word forms a Sūtra by itself, in order to show that every one must wear this cloth. ↩︎
-
Manu II, 41. ‘Clean’ means here and everywhere else, if applied to animals or things,’ fit to be used at the sacrifice.’ ↩︎
-
Āśv. Gṛ. Sū. I, 19, 11; Weber, Ind. Stud X, 22. ↩︎