01 अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः ...{Loading}...
अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now, therefore, we will declare the acts productive of merit which form part of the customs of daily life, as they have been settled by the agreement (of those who know the law). 1
हरदत्त-टीका
2प्रणिपत्य महादेव हरदत्तेन धीमता।
धर्माख्यप्रश्नयोरेषा क्रियते वृत्तिरुज्ज्वला ॥१॥
सूत्रम्
अथातस्सामयाचारिकान् धर्मान् व्याख्यास्यामः ॥ १॥
टिप्पनी
अथशब्द आनन्तर्ये । अतश्शब्दो हेतौ । उक्तानि श्रौतानि गार्ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धर्मानपेक्षन्ते । कथम् ? आ चान्तेन कर्म कर्तव्यं, शुचिना कर्तव्यमिति वचनादाचमनशौचादीनपेक्षन्ते ।
3 ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु’। इति वचनात् सन्ध्यावन्दनम् । एवं ‘अशुचिकरनिर्वेषः, 4 ‘द्विजातिकर्मभ्यो हानिः पतनम्’ इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च । एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिकान् धर्मान् व्याख्यास्यामः । पौरुषेयी व्यवस्था समयः । स च त्रिविधः-विधिर्नियमः प्रतिषेधश्चेति ।
तत्र प्रवृत्तिप्रयोजनो विधिः-5 सन्ध्याेश्च बहिर्ग्रामादासनं वाग्यतश्चेत्यादिः । निवृत्तिप्रयोजनावितरौ।
6 ‘प्राङ् मुखोऽन्नानि भुञ्जीते’ति नियमविधिः । क्षुदुपघातार्था भोजने प्रवृत्तिः । शक्यं च 7यत्किञ्चिद्दिङ्मुखेनापि भुञ्जानेन क्षुदुपहन्तुम् । तत्र नियमः क्रियते-प्राङ्मुख एव भुञ्जीत, न दक्षिणादिमुख इति । 8परिसङ्ख्या तु नियमस्यैव कियानपि भेदः । एवं द्रव्यार्जने रागात्प्रवृत्तं प्रति नियमः क्रियते- याजनाध्यापनप्रतिग्रहैरेव ब्राह्मणो द्रव्यमार्जयेत्, न कृषिवाणिज्यादिने’ति । 9 ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जये’दित्यादिः प्रतिषेधः । समयमूला आचारास्समयाचाराः तेषु भवाः सामयाचारिकाः । एवम्भूतान् धर्मानिति । 10कर्मजन्योऽभ्युदयनिःश्रेयसहेतुरपूर्वाख्य आत्मगुणो धर्मः । तद्धेतुभूत कर्मव्याख्यानमेव तद्व्याख्यानम् । तत्र विधिषु तावद्विषयानुष्ठानाद्धर्म इति नास्ति विप्रतिपत्तिः। नियमेष्वषि 11नियमानुष्ठानाद्धर्मः, प्रतिषेधेष्वपि12नञर्थानुष्ठानाद्धर्म इति केचित् । अतएव धर्मानित्यविशेषेणाह ।
अन्ये तु-विधिष्वेव धर्मः, इतरयोस्तु विपरीतानुष्ठानादधर्मः केवलम्, न तु विषयानुष्ठानात् कश्चिद्धर्मः । न ह्यप्रतिगृह्णन्नपिबन्वा सुरां धार्मिक इति लोके प्रसिद्धः । सूत्रे तु धर्मग्रहणमधर्मस्याप्युपलक्षणमिति स्थितिः-इति ॥ १॥
कि भोः समयोऽपि प्रमाणम्, ? 13यदि स्यादिदमपि प्रमाणं भवितुमर्हति-‘चैत्यं वन्देत स्वर्गकामः । प्रगे भुञ्जीत । केशानुल्लुँञ्छेत् ।
02 धर्मज्ञसमयः प्रमाणम् ...{Loading}...
धर्मज्ञ-समयः प्रमाणम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- The authority (for these duties) is the agreement of those who know the law, 14
हरदत्त-टीका
सूत्रम्
धर्मज्ञसमयः प्रमाणम् ॥ २ ॥
प्रस्तावः
तिष्ठन् भुञ्जीत । न स्नायादिति । तमाह—
टिप्पनी
न हि ब्रूमः समयमात्रं प्रमाणामिति । कि तर्हि ? धर्मज्ञाः ये मन्वादयस्तेषां समयः प्रमाणं धर्माधर्मयोः ॥२॥
कथं पुनरिद2मवगतं मन्वादयो धर्मज्ञा न बुद्धादय इति ? यद्युच्यते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञानं न सम्भवतीति, तन्मन्वादिष्वपि समानम् । अथ तेषां धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञानं सम्भवतीति, तत् बुद्धादिष्वपि समानम् ।
यथाऽऽहुः —
3 सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा।
तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः ॥ इति ।
03 वेदाश्च ...{Loading}...
वेदाश् च ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (the authorities for the latter are) the Vedas alone.
हरदत्त-टीका
सूत्रम्
वेदाश्च ॥ ३॥
प्रस्तावः
वक्तव्यो वा विशेष , तमाह—
टिप्पनी
चोऽवधारणे । वेदा एव मूलप्रमाणं धर्माधर्मयोः । 4न च नित्यनिर्दोषेषु वेदेषूक्तोपालम्भसम्भवः । 5स्वतःप्रमाणस्य हि शब्दस्य न वक्तृदोषनिबन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः प्रमाणम्, धर्मज्ञानां तु वेदाः प्रमाणम् ।
मनुरप्याह—
15वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
गौतमोऽपि-16
‘वेदो धर्ममूलं, तद्विदां च स्मृतिशीले ।’ इति ।
यद्यप्यप्रत्यक्षो वेदो मूलभूतोऽस्मदादिभिर्नोपलभ्यते । तथापि 17मन्वादय उपलब्धवन्तः इत्यनुमीयते ।
वक्ष्यति-
18तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते’ इति ॥३॥
04 चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः ...{Loading}...
चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (There are) four castes–Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras.
हरदत्त-टीका
सूत्रम्
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः॥ ४ ॥
टिप्पनी
ब्राह्मणाद्याश्चत्वारो वर्णसंज्ञिकाः । ते च सामयाचारिकैर् धर्मा अधिक्रियन्ते । 2चतुर्णामेवोपदेशेऽपि पुनश्चतुर्ग्रहणं 3यथाकथञ्चित् चतुर्धन्तर्भूतानामपि ग्रहणार्थम् । ततश् च4 ‘ब्राह्मणः क्षत्रियो वैश्य’ इति बौधायनादिभिरुक्तानामनुलोमादीनामप्यत्र ग्रहणं मतम् । तथा च गौतमः प्रतिलोमानामेव धर्मेऽनधिकारमाह-5 “प्रतिलोमास्तु धर्महीना” इति ॥४॥
05 तेषाम् पूर्वस्पूर्वो जन्मतः ...{Loading}...
तेषां पूर्वस्-पूर्वो जन्मतः श्रेयान् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Amongst these, each preceding (caste) is superior by birth to the one following.
हरदत्त-टीका
सूत्रम्
तेषां पूर्वः पूर्वो जन्मतश्श्रेयान् ॥५॥
टिप्पनी
जन्मत इति वचनात् सद्वृत्तादपि शूद्राद्वैश्यब्रुवोऽपि श्रेयान् । एव वैश्यात् क्षत्रियः, क्षत्रियात् ब्राह्मणः ॥५॥
06 अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयम् फलवन्ति ...{Loading}...
अशूद्राणाम् अदुष्टकर्मणाम् उपायनं वेदाध्ययनम् अग्न्याधेयं फलवन्ति च कर्माणि ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (For all these), excepting Śūdras and those who have committed bad actions, (are ordained) the initiation, the study of the Veda, and the kindling of 19 the sacred fire; and (their) works are productive of rewards (in this world and the next).
हरदत्त-टीका
सूत्रम्
अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि ॥ ६ ॥
टिप्पनी
शूद्रवर्जितानां त्रयाणां वर्णानाम् अदुष्टकर्मणाम् उपायनादयो धर्माः । उपायनम् उपनयनम् ।
नात्र त्रैवर्णिकानाम् उपनयादि विधीयते, प्राप्तत्वात् ।
नापि शूद्राणां प्रतिषिध्यते, प्राप्त्यभावात् ।
तथा हि-उपनयन तावद् गृह्ये 15
‘गर्भाष्टमेषु ब्राह्मणमुपनयीते’त्यादिना त्रैवर्णिकानामेव विहितम् ।
इहापि तथैव विधास्यते ।
अध्ययनमपि 16‘उपेतस्याचार्यकुले ब्रह्मचारिवास’ इत्यारभ्य विधानात्
अनुपनीतस्य शूद्रस्याप्राप्तमेव ।
किं च 17 ‘श्मशानवच्छूद्रपतिता’विति 18अध्ययननिषेधो वक्ष्यते ।
20यस्य समीपे नाध्येयं स कथं स्वयमध्येतुमर्हति ।
अग्न्याधेयम् अपि21‘वसन्ता ब्राह्मण’ इत्यादि त्रैवर्णिकानामेव विहितम्।
फलवन्ति चाग्निहोत्रादीनि कर्माणि 22
‘स त्रयाणां वर्णाना’मित्युक्तत्वात् त्रैवर्णिकानामेव नियतानि ।
विद्याग्न्यभावाच् च शूद्राणाम् अप्रसक्तानि ।
उक्तो विद्याग्न्यभावः।
तस्माद् दुष्ट-कर्म-प्रतिषेधार्थं सूत्रम् । यथा शास्त्रान्तरे-23
‘द्विजातिकर्मभ्यो हानिः पतनम्’
इति ।
अप्रतिषेधे तु दुष्ट-कर्मणाम् अप्य् अधिकारो भवत्य् एव ।+++(5)+++
‘फलवन्ति च कर्माणी’त्य् अभिधानात्,
क्रियते इति कर्मेति निर्वचनात् । 2
‘प्रागुपनयनात् कामचारवादभक्ष’ इति गौतमस्मरणं
ब्रह्महत्यादि-महापातक-व्यतिरिक्त-विषयम् इत्य्
अनुपेतस्यापि दुष्टकर्मत्व-सम्भवात्
अदुष्टकर्मणा3मित्युक्तम् । शूद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥
सत्यशर्मा
Between 1200-1400 CE, a different version of Āpastambadharmasūtra 1.1.6 ‘अशूद्राणामदुष्टकर्मणामुपायनं..’ emerged with the omission of ‘अ’ of ‘अशूद्राणाम्’.
Screenshots from Smṛtikaumudī and Harihara’s comm. on Pāraskaragṛhyasūtra. Both take ‘शूद्राणाम्’ to denote Rathakāra.
07 शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ...{Loading}...
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् +++(फलवत् कर्म)+++७
सर्वाष् टीकाः ...{Loading}...
Bühler
- To serve the other (three) castes (is ordained) for the Śūdra. 24
हरदत्त-टीका
सूत्रम्
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥ ७ ॥
प्रस्तावः
यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माऽऽह—
टिप्पनी
इतरेषां ब्राह्मणादीनां वर्णानां या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥
08 पूर्वस्मिन्पूर्वस्मिन्वर्णे निःश्रेयसम्भूयः ...{Loading}...
+++(शूद्र-कृत-सेवा)+++ पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसम् भूयः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- The higher the caste (which he serves) the greater is the merit.
हरदत्त-टीका
सूत्रम्
पूर्वस्मिन्पूर्वस्मिन्वर्णे निश्श्रेयसं भूयः ॥ ८ ॥
प्रस्तावः
4तत्र विशेषमाह—
टिप्पनी
सर्वप्रकारं कृताया अपि वैश्यशुश्रूषायाः’ मात्रयापि कूता क्षत्रियशुश्रूषा बहुतरं फलं साधयति । एवं क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा ॥८॥
09 उपनयनं विद्यार्थस्य श्रुतितः ...{Loading}...
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- The initiation is the consecration in accordance with the texts of the Veda, of a male who is desirous of (and can make use of) sacred knowledge. 25
हरदत्त-टीका
सूत्रम्
उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः ॥ ९ ॥
प्रस्तावः
उपायनं वेदाध्ययनमित्यादि यदुक्तं अस्मिन् क्रमे उपनयने विशेषमाह—
टिप्पनी
विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्संस्कारः उपनयनं नाम । ‘विद्यार्थस्ये’ति वचनात् मूकादेर्न भवति । तथा च शङ्खलिखितौ 5 ‘नोन्मत्तमूकान् संस्कुर्यात्’ इति । 15लिङ्गस्य विवक्षितत्वात् स्त्रिया अपि न भवति यद्यपि तस्याः 16 ‘अग्ने गृहपते’ इत्यादिकया विद्यया अर्थः । ‘श्रुतित’ इति वचनं तदतिक्रमे श्रौतातिक्रमप्रायश्चित्तप्राप्त्यर्थम् ॥ ९ ॥
10 "सर्वेभ्यो वेदेभ्यः सावित्र्य् ...{Loading}...
“सर्वेभ्यो वेदेभ्यः सावित्र्य् अनूच्यत” इति हि ब्राह्मणम् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa declares that the Gāyatrī is learnt for the sake of all the (three) Vedas. 26
हरदत्त-टीका
सूत्रम्
सर्वेभ्यो वै वेदेभ्यस्सावित्र्यनूच्यत इति हि ब्राह्मणम् ॥१०॥
प्रस्तावः
अनेकवेदाध्यायिनां वेदव्रतवदुपनयनमपि प्रतिवेदं भेदेन कर्तव्यमिति प्राप्ते उच्यते—
टिप्पनी
17‘त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्यास्सावित्र्याः परमेष्ठी प्रजापतिः॥’ इति 18मनुः ।
ततश्चोपनयने यत्सावित्र्या अनुवचनं तन्मुखेन सर्वे वेदा अनृक्ता भवन्तीत्यगृह्यमाणविशेषत्वादेकमेवोपनयन सर्वार्थमिति । अस्मिन्नर्थे ब्राह्मणमपि भवति 2ब्राह्मणमेव वा पठितम् । आथर्वणस्य वेदस्य पृथगुपनयनं कर्तव्यम् । तथा च तत्रैव श्रुतम्—3नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयते’ति ॥ १०॥
11 तमसो वा एष ...{Loading}...
तमसो वा एष +++(आगत्य)+++ तमः प्रविशति - यम् अविद्वान् उपनयते, यश् चाविद्वान् - इति हि ब्राह्मणम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Coming) out of darkness, he indeed enters darkness, whom a man unlearned in the Vedas, initiates, and (so does he) who, without being learned in the Vedas, (performs the rite of initiation.) That has been declared in a Brāhmaṇa.
हरदत्त-टीका
सूत्रम्
तमसो वा एष तमः प्रविशति यमविद्धानुपनयते यश्चाऽविद्वानिति हि ब्राह्मणम् ॥ ११ ॥
प्रस्तावः
विद्वानेवोपनेताऽभिगम्यत इति विधातुमविदुषो निन्दामाह—
टिप्पनी
यथा कश्चित् तमसस्सकाशात्तम एव प्रविष्टो न किञ्चिज्जानाति एवमेवैषः य माणवकमविद्वानुपनयते, तथा यश्चाविद्वान् । उपनीयते इत्यपेक्ष्यते । यश्च स्वयमविद्वान् सन्नुपनीयते सोऽपि तमस एव तम प्रविशति । अस्मिन्नर्थे ब्राह्मणमपि भवतीति ।॥ ११ ॥
12 तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् ...{Loading}...
तस्मिन्न् अभिजन-विद्यासमुदेतं समाहितं संस्कर्तारम् ईप्सेत् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- As performer of this rite of initiation he shall seek to obtain a man in whose family sacred learning is hereditary, who himself possesses it, and who is devout (in following the law).
हरदत्त-टीका
सूत्रम्
तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कारमीप्सेत् ॥ १२ ॥
प्रस्तावः
कीदृशस्तर्ह्युपनेताऽभिगम्यः ? तमाह—
टिप्पनी
अविच्छिन्न4वेदवेदिसम्बन्धे कुले जन्म अभिजन । षड्भिरङ्गैस्सहैव यथावदर्थज्ञानपर्यन्तमधीतो वेदो विद्या । सर्वासम्भवे वेद एव वा । तस्मिन्नुपनयने कर्तव्ये ताभ्यां अभिजनविद्याभ्यां समुदेतं सम्पन्नम्, समाहितविहितप्रतिषिद्धेष्ववहितमनसम्, संस्कर्तारमाचार्यमीप्सेत् । इच्छया करणं लक्ष्यते । आप्नुयादभिगच्छेदिति ॥ १२ ॥
13 तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः ...{Loading}...
तस्मिंश् चैव विद्या-कर्म +आन्तम् अविप्रतिपन्ने धर्मेभ्यः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And under him the sacred science must be 27 studied until the end, provided (the teacher) does not fall off from the ordinances of the law.
हरदत्त-टीका
सूत्रम्
तस्मिंश्चैव विद्याकर्माऽऽन्तमविप्रतिपन्ने धर्मेभ्यः ॥१३॥
टिप्पनी
तस्मिन्नेव चोपनेतरि विद्याकर्म विद्याग्रहणं कर्तव्यम् । आन्तमासमाप्तेः, अविप्रतिपन्ने धर्मेम्यः यद्यसावाचार्यो धर्मभ्यो न प्रच्युतो भवति । प्रच्युते तु तस्मिन्नसम्पर्कार्हे अन्यतोऽपि विद्याकर्म भवत्येव ।
- येषां चाचार्यकरणविधिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यते । कथम् ? उपनीयाध्यापनेनाचार्यकं भावयेदिति । सकृदुपनीतस्य माणवकस्य न पुनरुपनयनसंस्कारः सम्भवति । तं कथमन्योऽध्यापयेत् ? एतेन मध्ये आचार्यमरणे माणवकस्य तदध्ययनं नाचार्यान्तरात् सम्भवतीति द्रष्टव्यम् *॥ १३॥
*. एतचिह्नान्तर्गतो भागः प्रक्षिप्त इति Mysore पुस्तके । परन्तु क ग पुस्तकयोरुपलभ्यते पाठः । एतच्च गुरुमतानुसारेण । गुरवो हि “अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’ इति विधिनाऽऽचार्यत्वसिध्यर्थमध्यापन विदधताऽध्ययनमपि प्रयुज्यते, अतो ऽध्यापनान्यथानुपपत्यैव सिध्यदध्ययनं न स्वविधिना “स्वाध्यायोऽध्येतव्य” इत्यनेन विधीयते इति ब्रुवते । अतस्तन्मतखण्डनमिदम् ।
14 यस्माद्धर्मानाचिनोति स आचार्यः ...{Loading}...
यस्माद् धर्मान् आचिनोति स आचार्यः १४+++(5)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- He from whom (the pupil) gathers (ācinoti) (the knowledge of) his religious duties (dharmān) (is called) the Ācārya (teacher). 28
हरदत्त-टीका
सूत्रम्
यस्माद्धर्मानाचिनोति स आचार्यः ॥ १४॥.
प्रस्तावः
2आचार्यशब्दं निराह—
टिप्पनी
यस्मात्पुरुषादयं माणवकः धर्मानाचिनोति आत्मनः प्रचिनोति शिक्षते स आचार्यः । 3 ‘अप्यक्षरसाम्यान्निर्ब्रूयादि’ति चकारमात्रेणेदं निर्वचनम् । अनेन प्रकारेण माणवकमाचार्यः शौचाचारांश्च शिक्षयेदित्युक्तं भवति ॥१४॥
15 तस्मै न द्रुह्येत्कदाचन ...{Loading}...
तस्मै न द्रुह्येत् कदाचन १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Him he should never offend. 29
हरदत्त-टीका
सूत्रम्
तस्मै न द्रुह्येत्कदाचन ॥ १५ ॥
टिप्पनी
तस्मै एवंभूताचार्याय कदाचन कदाचिदपि न द्रुह्येत् तद्विषयमपकारं न कुर्यात् ॥ १५॥
16 स हि विद्यातस्तञ् ...{Loading}...
स हि विद्यातस् तं जनयति १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- For he causes him (the pupil) to be born (a second time) by (imparting to him) sacred learning. 30
हरदत्त-टीका
सूत्रम्
स हि विद्यातस्तं जनयति ॥ १६ ॥
प्रस्तावः
कस्मादित्यत आह—
टिप्पनी
स ह्याचार्यः माणवकं विद्यातो जनयति, यथा पिता मातृतः।
4अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ इति शास्त्रान्तरम् ॥ १६ ॥
17 तच्छ्रेष्ठञ् जन्म ...{Loading}...
तच् +छ्रेष्ठं जन्म १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- This (second) birth is the best. 31
हरदत्त-टीका
सूत्रम्
तच्छ्रेष्ठं जन्म ॥१७॥
टिप्पनी
तद्विद्यातो जन्म श्रेष्ठं प्रशस्ततमम्, अभ्युदयनिःश्रेयसहेतुत्वात् ॥१७॥
18 शरीरमेव मातापितरौ जनयतः ...{Loading}...
शरीरम् एव माता-पितरौ जनयतः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- The father and the mother produce the body only. 32
हरदत्त-टीका
सूत्रम्
शरीरमेव मातापितरौ जनयतः ॥ १८ ॥
प्रस्तावः
मातापितृभ्यामाचार्यः श्रेष्ठ इत्याह—
टिप्पनी
मातापितरौ शरीरमात्रमेव काष्ठकुड्यादिसमं जनयतः । आचार्यस्तु सर्वपुरुषार्थक्षमरूपं जनयति । 5“आचार्यः श्रेष्ठो गुरूणा"मिति गौतमः ॥ १८॥
19 वसन्ते ब्राह्मणम् उपनयीत, ...{Loading}...
वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यं शरदि वैश्यं,
गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भ-द्वादशेषु वैश्यम् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him initiate a Brāhmaṇa in spring, a Kṣatriya in summer, a Vaiśya in autumn, a Brāhmaṇa in the eighth year after conception, a Kṣatriya in the eleventh year after conception, (and) a Vaiśya in the twelfth after conception. 33
हरदत्त-टीका
सूत्रम्
वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यं, गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भद्वादशेषु वैश्यम् ॥ १९ ॥
टिप्पनी
2वसन्ते ब्राह्मणमित्यादि गृह्ये गतम् ॥ १९ ॥
20 अथ काम्यानि ...{Loading}...
अथ +++(उपनयन-विषये)+++ काम्यानि २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now (follows the enumeration of the years to be chosen) for the fulfilment of some (particular) wish,
हरदत्त-टीका
सूत्रम्
अथ काम्यानि ॥ २० ॥
टिप्पनी
कामनिमित्तान्युपनयनानि वक्ष्यन्ते ॥ २० ॥
21 सप्तमे ब्रह्मवर्चसकामम् ...{Loading}...
सप्तमे ब्रह्म-वर्चस-कामम् २१
22 अष्टम आयुष्कामम् ...{Loading}...
अष्टम आयुष्-कामम् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person desirous of long life in his eighth year, 35
हरदत्त-टीका
सूत्रम्
अष्टम आयुष्कामम् ॥ २२ ॥
23 नवमे तेजस्कामम् ...{Loading}...
नवमे तेजस्-कामम् २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person desirous of manly vigour in his ninth year,
हरदत्त-टीका
सूत्रम्
नवमे तेजस्कामम् ॥ २३ ॥
24 दशमेऽन्नाद्यकामम् ...{Loading}...
दशमे ऽन्नाद्य-कामम् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person desirous of food in his tenth year,
हरदत्त-टीका
सूत्रम्
दशमेऽन्नाद्यकामम् ॥ २४॥
25 एकादश इन्द्रियकामम् ...{Loading}...
एकादश इन्द्रिय-कामम् २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person desirous of strength in his eleventh year,
हरदत्त-टीका
सूत्रम्
एकादश इन्द्रियकामम् ॥ २५ ॥
26 द्वादशे पशुकामम् ...{Loading}...
द्वादशे पशु-कामम् २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- A person desirous of cattle in his twelfth year.
हरदत्त-टीका
सूत्रम्
द्वादशे पशुकामम् ॥ २६ ॥
27 आ षोडशाद् ब्राह्मणस्यानात्यय, ...{Loading}...
आ षोडशाद् ब्राह्मणस्यानात्यय, आ द्वाविंशात् क्षत्रियस्य+ आ चतुर्विंशाद् वैश्यस्य - यथा व्रतेषु समर्थः स्याद् यानि वक्ष्यामः २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- There is no dereliction (of duty, if the initiation takes place), in the case of a Brāhmaṇa before the completion of the sixteenth year, in the case of a Kṣatriya before the completion of the twenty-second year, in the case of a Vaiśya before the completion of the twenty-fourth year. (Let him be initiated at such an age) that he may be able to perform the duties, which we shall declare below. 36
हरदत्त-टीका
सूत्रम्
आषोडशाद्ब्राह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याऽऽचतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः॥ २७ ॥
प्रस्तावः
4 ‘आचार्याधीनस्स्या’दित्यादीनि यानि ब्रह्मचारिणो व्रतानि वक्ष्यन्ते तेष्वसमर्थानां कुमाराणां वर्णक्रमेणानुकल्पमाह—
टिप्पनी
आकारोऽभिविधौ । अत्ययोऽतिक्रमः । स एवाऽऽत्ययः तदभावोऽनात्ययः । यादृच्छिको दीर्घः, आङो वा प्रश्लेषः । प्रकरणादुपनयनकालस्येति गम्यते । यथा व्रतेषु समर्थः स्यात् तथैतावान् कालः प्रतीक्ष्यः । पूर्वमेव तु सामर्थ्ये सत्यष्टमवर्षाद्यतिक्रमे वक्ष्यमाण प्रायश्चित्तमेव भवति । एवं षोडशादिभ्य ऊर्ध्वं कियन्तञ्चित्कालमसमर्थानां पश्चात्सामर्थ्ये सति प्रायश्चित्तं भवत्येव ॥ २७ ॥
28 अतिक्रान्ते सावित्र्याः काल ...{Loading}...
अतिक्रान्ते सावित्र्याः काल+++(य्)+++, ऋतुं +++(यावत्)+++ त्रैविद्यकं ब्रह्मचर्यं +++(अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य)+++ चरेत् २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the proper time for the initiation has passed, he shall observe for the space of two months 37 the duties of a student, as observed by those who are studying the three Vedas.
हरदत्त-टीका
सूत्रम्
अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् ॥ २८ ॥
प्रस्तावः
तदानीं प्रायश्चित्तमाह—
टिप्पनी
यस्य यः सावित्र्याः काल उक्तः तद्-अतिक्रमे
त्रैविद्यकं - त्र्य्-अवयवा विद्या ताम् अधीयते ये ते त्रैविद्याः, तेषामिदं त्रैविद्यकम् । 2 ‘गोत्रचरणाद् वुञ् । ‘चरणाद्धर्माम्नाययोरि’ति वुञ् ।
एवंभूतं ब्रह्मचर्यं, अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य, सकल ब्रह्मचारि-धर्मं चरेत् ।
कियन्तं कालम् ? ऋतुं, ‘कालाध्वनो’रिति द्वितीया। ऋतुम् इति वचनाद् ऋत्वारम्भे प्रायश्चित्तारम्भम् इच्छन्ति ॥ २८ ॥
29 अथोपनयनम् ...{Loading}...
अथोपनयनम् २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that he may be initiated.
हरदत्त-टीका
सूत्रम्
अथोपनयनम् ॥ २१ ॥
टिप्पनी
एवं चरितव्रत उपनेतव्यः ॥ २९ ॥
30 ततः संवत्सरम् उदकोपस्पर्शनम् ...{Loading}...
ततः संवत्सरम् उदकोपस्पर्शनम् ३०
31 अथाध्याप्यः ...{Loading}...
अथाध्याप्यः ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- After that he may be instructed.
हरदत्त-टीका
सूत्रम्
अथाऽध्याप्यः॥ ३१ ॥
टिप्पनी
एवं चरितव्रतः पश्चादध्याप्यः ॥३१॥
32 अथ यस्य पिता ...{Loading}...
अथ यस्य पिता पितामह इति अनुपेतौ स्यातां - ते ब्रह्म-ह-संस्तुताः ३२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He, whose father and grandfather have not been initiated, (and his two ancestors) are called ‘slayers of the Brahman.’ 39
हरदत्त-टीका
सूत्रम्
अथ यस्य पिता पितामह इत्पनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ॥ ३२ ॥
टिप्पनी
यस्य माणवकस्य पिता पितामहश्चानुपेतौ स्यातां स्वयं च, ते तथाविधास्स माणवका ब्रह्महसस्तुताः ब्रह्महण इत्येव कीर्तिताः ब्रह्मवादिभिः। अतस्मिन् तच्छब्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च 4 ‘श्मशानवच्छूद्रपतिता’वित्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्मा यथा ब्रह्महसमीपे नाध्येयमेवमेषामपीति ॥ ३२ ॥
33 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् ३३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Intercourse, eating, and intermarriage with them should be avoided. 40
हरदत्त-टीका
सूत्रम्
तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ॥३३॥
टिप्पनी
तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीररक्षणार्थमपि वर्जयेत् । यद्यपि भिक्षा सर्वतः प्रतिग्राह्येति वक्ष्यते भोजनमुद्यतमपि वर्जयेत् 5 ‘अपि दुष्कृतकारिण’ इति सत्यपि वचने । विवाहं च वर्जयेत् यद्यपि 15 ‘स्त्रीरत्नं दुष्कुलादपी’ति मानवस्मरणम् ॥ ३३ ॥
34 तेषाम् इच्छताम् प्रायश्चित्तम् ...{Loading}...
तेषाम् इच्छतां प्रायश्चित्तम् ३४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If they wish it (they may perform the following) expiation;
हरदत्त-टीका
सूत्रम्
तेषामिच्छतां प्रायश्चित्तम् ॥ ३४ ॥
टिप्पनी
इच्छतामिति वचनान्न बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४ ॥
35 यथा प्रथमे ऽतिक्रम ...{Loading}...
यथा प्रथमे ऽतिक्रम ऋतुर् एवं संवत्सरः ३५
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the same manner as for the first neglect (of the initiation, a penance of) two months (was) prescribed, so (they shall do penance for) one year. 41
हरदत्त-टीका
सूत्रम्
यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ॥ ३५ ॥
टिप्पनी
यथा प्रथमेऽतिक्रमे ब्रह्मचर्यस्य ऋतुः कालः एषमन्यस्मिन्नतिक्रमे संवत्सरः कालः ॥ ३५॥
36 अथोपनयनं, तत उदकोपस्पर्शनम् ...{Loading}...
अथोपनयनं, तत उदकोपस्पर्शनम् ३६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Afterwards they may be initiated, and then they must bathe (daily),
हरदत्त-टीका
सूत्रम्
अथोपनयनम् ॥३६॥
तत उदकोपस्पर्शनम् ॥ ३७ ॥
टिप्पनी
गते ॥ ३६॥ ३७॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने प्रथमा 2कण्डिका।
-
- Samaya, ‘agreement, decision,’ is threefold. It includes injunction, restriction, and prohibition.
-
मातामहमहाशैलम् महस्तदपितामहम् । कारणं जगतो वन्दे कण्ठादुपरि वारणम् ॥१॥ इत्यधिक पाठ• क० पु० । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
दक्षस्मृ० अ० २ श्लो २९ ‘यदन्यत् कुरुते कर्म न तस्य फलभाक्भवेत् । इति तस्योत्तरार्धम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
गौ० ध० २१. ४.“अशुचेर्द्विजाती"ति. घ. पु ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
आप० ध० १. ३१. १. ↩︎
-
यत्किञ्चनदिड्मुखेन इति क० पु० । ↩︎
-
प्रतिषेध परिसंख्येत्यनर्थान्तरम् । परिसङ्ख्या वर्जनबुद्धिः । तद्विषयको विधिः परिसंख्याविधिः । स परिसंख्यापदेनाऽप्यभिधीयते इति मीमांसकाना मतम् । अत एव
विधिरत्यन्तमप्राप्ते नियम पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥इत्येव वार्तिककारैरुक्तम् । ग्रन्थकारस्त्वयं परिसंख्या नियमविधावेवान्तर्भावयति ॥ ↩︎
-
आप० ध० १ ३१. ६. ↩︎
-
इदं च तर्किकादिमतमनुसृत्य प्रभाकरमतञ्च । भाट्टमते तत्तत्कर्मणामेव यागदानहोमादिरूपाणां चोदनालक्षणानां धर्मत्वाङ्गीकारात् । उक्तं हि भट्टपादैः-
श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः ।
चोदनालक्षणैस्साध्या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १२. १९१. -
पक्षेऽप्राप्तांशस्य पूरणकरणादित्यर्थः । ↩︎
-
तत्तन्निषेध्यक्रियाप्रागभावपरिपालनादिति यावत् । ↩︎
-
यदि प्रमाणमिदमपि प्रमाणम् इति क० पु० ॥ ↩︎
-
Manu II, 6, 12 Yājñ. I, 7; Gautama I, 1. ↩︎
-
Manu II, 35. ↩︎
-
यस्य यस्य, स सः इति द्विरुक्ति. क० पु० । ↩︎
-
तै० ब्रा० १. १ २. ↩︎
-
आप० परि० १.२ ↩︎
-
गौ० ध० २१. ४. ↩︎
-
Manu 1, 91, VIII, 410; and IX, 334; Yājñ. I, 120. ↩︎
-
The use of the masculine in the text excludes women. For though women may have occasion to use such texts as ‘O fire, of the dwelling’ &c. at the Agnihotra, still it is specially ordained that they shall be taught this and similar verses only just before the rite is to be performed. ↩︎
-
The object of the Sūtra is to remove a doubt whether the ceremony of initiation ought to be repeated for each Veda, in case a man desires to study more than one Veda. This repetition is declared to be unnecessary, except, as the commentator adds, in the case of the Atharva-veda, for which, according to a passage of a Brāhmaṇa, a fresh initiation is necessary. The latter rule is given in the Vaitāna-sūtra I, 1, 5. ↩︎
-
Haradatta: ‘But this (latter rule regarding the taking of p. 3 another teacher) does not hold good for those who have begun to study, solemnly, binding themselves, to their teacher. How so? As he (the pupil) shall consider a person who initiates and instructs him his Ācarya, and a pupil who has been once initiated cannot be initiated again, how can another man instruct him? For this reason it must be understood that the study begun with one teacher may not be completed with another, if the first die.’ Compare also Haradatta on I, 2, 7, 26, and the rule given I, 1, 4, 26. In our times also pupils, who have bound themselves to a teacher by paying their respects to him and presenting a cocoa-nut, in order to learn from him a particular branch of science, must not study the same branch of science under any other teacher. ↩︎
-
Manu II, 69; Yājñ. I, 15. ↩︎
-
Manu II, 144. ↩︎
-
Manu II, 146-148. ↩︎
-
‘Because it procures heavenly bliss and final liberation.’–Haradatta. ↩︎
-
Manu II, 147. ↩︎
-
Yājñ. I, 14; Manu II, 36; Āśvakāyana Gṛ. Sū. I, 19, 1, 4: Weber, Ind. Stud. X, 20 seq. ↩︎
-
Manu II, 37. ↩︎
-
-26. Āśv. Gṛ. Sū. I, 19, 5, 7; Weber, Ind. Stud. X, 21. ↩︎
-
The meaning of the Sūtra is, that the initiation shall be performed as soon as the child is able to begin the study of the Veda. If it is so far developed at eight years, the ceremony must then be performed; and if it be then neglected, or, if it be neglected at any time when the capacity for learning exists, expiation prescribed in the following Sūtras must be performed. The age of sixteen in the case of Brāhmaṇas is the latest term up to which the ceremony may be deferred, in case of incapacity for study only. After the lapse of the sixteenth year, the expiation becomes also necessary. Manu II, 38; Yājñ. I, 37. ↩︎
-
The meaning is, he shall keep all the restrictions imposed upon a student, as chastity, &c, but that he shall not perform the fire-worship or service to a teacher, nor study. Manu II, 39; XI. 192, Yājñ. I, 38; Weber, Ind. Stud. X, 101. ↩︎
-
‘If he is strong, he shall bathe three times a day–morning, midday, and evening.’–Haradatta. ↩︎
-
Brahman, apparently, here means ‘Veda,’ and those who neglect its study may be called metaphorically ‘slayers of the Veda.’ ↩︎
-
Manu II, 40; Āśv. Gṛ. Sū. I, 19, 8, 9; Weber, Ind. Stud. X, 21. ↩︎
-
Compare above, I, 1, 1, 28. ↩︎