KASHI SANSKRIT SERIES
(HARIDAS SANSKRIT GRANTHAMĀLĀ)
NO. 93. (Kurmakânda Section No 7.)
APASTAMBA DHARMASŪTRA
WITH THE COMMENTARY UJJWALA
By S’RI HARADATTA MIS’RA
Edited with Notes, Introduction Word Index, Etc,
by VĒDAVISÄRADA, MĪMĀMSĀKESARĪ,
Professor, Benares Hindu University
and
MĪMĀMSĀSIROMANI Pandit. A. Ramanatha S’astri Mimāmsādhyāpaka Sanskrit College, Tirupati.
हरिदाससंस्कृतग्रन्थमालासमास्य
६३ कर्मकाण्डविभागे (७) सप्तमं पुष्पम् ।
आपस्तम्बधर्मसूत्रम्॥
उज्ज्वलाख्यया वृत्त्या संवलितम् ।
श्रीकाशीहिन्दूविश्वविद्यालयप्रधानमीमांमाध्यापकेन
वेदविशारदेन, मीमांसा केसरिणा, पण्डितप्रवरेण श्रीचिन्नस्वामिशास्त्रिणा
श्रीपरपुरीविराजमानश्रीवेङ्कटेश संस्कृतमहाविद्यालये पूर्वमीमांसाध्यापकन, मीमांमागिरोमणिना पं. रामनाथशास्त्रिणा च
पिण्यादिभिस्संयोज्य संशोधितम् ।
श्रीगणेशाय नमः ॥
भूमिका ।।
इदमिदानीं श्रीमदापस्तम्बमहर्षिप्रणीतं धर्मसूत्रं श्रीमिश्रहरदत्तप्रणी तया उज्वलाख्यया वृत्त्या समुज्वलितं मुद्रयित्वा प्रकाशं प्रापय्य प्रेक्षावतां चक्षुर्गोचरतामापाद्यते । ग्रन्थोऽयं बहुत्र बहुधा मुद्रितोऽपि एतर्हि दौर्लभ्य मेवाऽऽसाद्य एतदधीतिबोधाचरणप्रचारकाणा छात्राणामध्यापयितृणां च कामपि कष्टामेव दशामापादयन्नवर्तत । तदिदं दुःखं दूरीकर्तुकामेन चौखम्बासंस्कृतपुस्तकालयाधिपतिना सुरभारतीसवैनकफलमात्मजीवितमापा दयता श्रेष्ठिवर्येण श्रीजयकृष्णदासगुप्तमहोदयेन ग्रन्थस्याऽस्य पुनस्संस्क रणे कृतमतीभूय एतत्संशोधनार्थमावामभ्यर्थितौ । आवाभ्यामपि तच्चिन्तितं साधु मन्वानाभ्यां कार्यमेतत्स्वीकृत्य, अध्ययनाध्यापनाद्यवशिष्टेऽल्पी यसि काले यथामति परिशोध्य प्रकाशं नीतोऽयं ग्रन्थः ।
एतद्वन्थसंशोधनार्थ अधोङ्कितान्यादर्शपुस्तकानि समुपयोजितानि–
- ( १ ) कुम्भघोणे नागराक्षरेषु मुद्रितं मदीयं पुस्तकमेकम् ।
- (२) मुम्बय्यां Dr बूलर् महाशयेन मुद्रित विश्वविद्यालयीयं पुस्तकं द्वितीयम् ।
- ( ३ ) अस्मन्मातुलगृहादानीतं ग्रन्थाक्षरैस्तालपत्रेषु लिखितं तृतीयम् ।
- ( ४ ) पण्डितप्रवरश्रीविद्याधरशर्ममहोदयानां हस्तलिखितं पुस्तकं चतुर्थम् ।
- (५) मैसूरपुरे देवनागराक्षरेषु मुद्रितं सरस्वतीभवनाल्लब्धं पुस्तकं पञ्चमम् ।
- ( ६ ) महीशूरपुर एव तैलङ्गाक्षरेषु मुद्रितं षष्ठम् ।
- (७) दक्षिणदेशस्थसुन्दरगिरि समाख्यग्राम (नल्लूर) वास्तव्यानां श्रीमतां पं० कल्याणसुन्दरशास्त्रिणां ग्रन्थाक्षरैस्तालपत्रेषु लिखितं सप्तमम् ।
- (८) श्रीमतामाचार्यध्रुवमहोदयाना पुस्तकमांग्लभाषानुवादरूपमष्टमम् ।
एतत्पुस्तकाष्टकमवलम्ब्य संशोध्य मुद्रितमपीदं पुस्तकमन्ततः पुरुष स्वभावसुलभया कयाचिदशुद्धिसन्तत्याऽपरित्यक्तमेव वर्वर्तीति तदपनुत्त येऽशुद्धसंशोधनं ग्रन्थान्ते सन्नियोजितम् । प्रथमप्रश्नीयस्याऽष्टमपटला स्मकस्याऽध्यात्मपटलस्याऽपरा काचिद्याख्या श्रीमच्छङ्करभगवत्पादाचार्य प्राणीता अनन्तशयनग्रन्थमालायां पूर्व मुद्रिताऽपि अध्येतृसौकर्यार्थमत्रैवोज्व लया साकं पुनर्मुद्रिता । यद्यपि व्याख्याया अस्याः शङ्करभगवत्पादीयत्वेऽ त्रैव तथोल्लेखनमृते नाऽन्यत्किञ्चन प्रमाणमुपलभ्यते, नाऽपि तदीयव्या ख्याशैल्याऽन्यत्र स्थितया सहेयं संवदति, तथाऽपि यावत्तदनुरोधि विरोधि वा प्रमाणमुपलभामहे तावदस्मिन्विषये जोषंभावमेव शरणं समुचितं मन्वानौ तूष्णीमास्वहे ।
सूत्रप्रणेतुः श्रीमदापस्तम्बमहर्षेः श्रीमिश्रहरदत्ताचार्यस्य चेतिवृत्त विषये यदुक्तमस्माभिरापस्तम्बगृह्मसूत्रभूमिकायां, न ततोऽधिक विशेष वक्तुं पार्यतेऽस्मद्धस्तगतामैतिहासिकसामग्रीमवलम्ब्य, परन्तु-हरदत्ताचार्याः मद्र देशान्तर्गतचोलदेशनिवासिनः द्राविडभाषाभाषिणश्चत्यवगम्यते तदीयैरेव वचनैः । ते हि-‘यथावर्ष प्रजा दानं दूरदर्शनं मनोजवता’ ( आप. धर्म. २-२३–७ ) इति सूत्रव्याख्यानावसरे दूरदर्शनोदाहरणार्थ यस्य क स्यचिद्देशस्योपादाने प्रसक्ते, ‘चोलेष्क्वस्थितास्तदैव हिमवन्तं दिदृक्षेरन्’ इति चोलदेशमेवोपाददते । एवं ‘स्त्रीभ्यस्सर्ववर्णेभ्यः’ ( आप. धर्म. २ २९-१६) इति सूत्रे ‘द्राविडाः कन्याः मेषस्थे सवितर्यादित्य पूजामाचरन्तीति द्राविडाचारमेव प्रमाणयन्ति । एवमेव गौतमधर्म सूत्रव्याख्यायां मिताक्षरायामपि(१) ‘बालदेशान्तरितप्रबजितानामसपि ण्डानां सद्यश्शौचम्’ (गौ. ध. १४–४४) इत्याशौचप्रकरणस्थं सूत्रं व्याचक्षाणाः ‘अनुष्ठानमपि चोलदेशे प्रायेणैवम्’ (२) इति चो लदेशाचारमेव प्रमाणयन्ति । एवं तत्रैव ‘मौजी ज्या मौर्वी मेखला क्रमेणे’
- (१) इमे एव हरदत्ताचार्याः गौतमधर्मसूत्रव्याख्यातार इति निरूपितमापस्त म्बगृह्यसूत्रभूमिकायाम् । तत् ततोऽवगन्तव्यम् ।
- (२) गौतमधर्मसूत्रव्याख्यायां मिताक्षरायां मद्रपुरे तैलङ्गाक्षरमुद्रितायां ११९ पृष्ठे २३ पङ्क्तो द्रष्टव्यम् ।
( गौ. ध. १–१५)ति सूत्रे(१) ‘मूर्वा आरण्य ओषधिविशेषः, यस्याऽर लिप्रमाणानि पत्राणि यङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि द्धि’ रिति,(२) ‘कुण्डाशी’ (गौ. ध. (१५–१८ ) इति सूत्रे, ‘किलासः त्वग्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः’ इति च द्राविडीमेव प्रसिद्धिमु पाददाना इमे आत्मनो द्राविडदेशनिवासित्व द्राविडभाषाभापित्वञ्च स्पष्टमे वाऽवगमयन्ति । ___ उज्वलानाकुलयोः पौर्वापोलोचनायां प्रथममनाकुला तत उज्वलेल्य वगम्यते, यत उज्वलायां बहुत्र “तस्यापि प्रयोगो गृह्य एवोक्तः । ‘प्रपञ्चित मेतत् गृह्ये’ “वयं तु न तथेति गृह्य एवाऽवोचाम” ‘एतत् गृह्ये व्याख्यातम् , (आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभू तयोर्गृह्यधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्वलयोरपीति प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् ।
एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमर्णावावा तान् प्रति कार्तज्ञमतितरामाविष्कुर्वहे ।
एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुज्वहे ।
इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽवाभ्यामत्र य तितम् । तत्राऽऽवां प्राप्तसाफल्यौ न वेति निर्णये मनीषिमनीषैव निकषोपल:
इति सर्व शिवम् ॥ वाराणसी
सुधोजनवशंवदौ चैत्रकृष्णनवमी सं० १९८८ ३०-३-१९३२
अ. रामनाथशास्त्री च १. २. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रमं ४,१६, १२६ २३, पृष्ठे द्रष्टव्यम् ।