६७

अथ सप्तषष्टितमोऽनुवाकः।


इतः परं वैश्वदेवकर्मणि विनियुक्ताः षड्ढोममन्त्रा व्याख्यायन्ते - अ॒ग्नये॒ स्वाहा॑। विश्वेभ्यो दे॒वेभ्यः॒ स्वाहा॑। ध्रु॒वाय॑ भू॒माय॒ स्वाहा॑। ध्रु॒व॒क्षित॑ये॒ स्वाहा॑। अ॒च्यु॒त॒- क्षित॑ये॒ स्वाहा॑। अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहा॑, इति। अग्निविश्वे(श्व)देवध्रुवाः प्रसिद्धाः। ध्रुवा क्षितिरवस्थितिर्यस्य सोऽयं ध्रुवक्षितिः। अच्युतक्षितिरपि तादृशः। एतौ देवविशेषौ। कदाचित्प्रमादालस्यादिना दुरिष्टमपि कर्म स्विष्टं करोतीति स्विष्टकृत्। एतद्विशेषणोऽप्यग्निः प्रसिद्धः। एताभ्यो देवताभ्यः प्रकृतमन्नादि हविः स्वाहा सुहुतमस्तु। इतः परं बलिहरणकर्मणि विनियुक्ता मन्त्रा व्याख्यायन्ते - धर्मा॑य॒ स्वाहा॑। अध॑र्माय॒ स्वाहा॑। अ॒द्भ्यः स्वाहा॑। ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॑। र॒क्षो॒दे॒व॒ज॒ने॒भ्यः॒ स्वाहा॑। गृह्मा॑भ्यः॒ स्वाहा॑। अ॒व॒साने॑भ्यः॒ स्वाहा॑। अ॒व॒सान॑प- तिभ्यः॒ स्वाहा॑। स॒र्व॒भू॒तेभ्यः॒ स्वाहा॑। कामा॑य॒ स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा॑। पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑। सूर्या॑य॒ स्वाहा॑। च॒न्द्रम॑से॒ स्वाहा॑। नक्ष॑त्रेभ्यः॒ स्वाहा॑। इन्द्रा॑य॒ स्वाहा॑। बृह॒स्पत॑ये॒ स्वाहा॑। प्र॒जाप॑तये॒ स्वाहा॑। ब्रह्म॑णे॒ स्वाहा॑। स्व॒धा पि॒तृभ्यः॒ स्वाहा॑। नमो॑ रु॒द्रायं पशु॒पत॑ये॒ स्वाहा॑। दे॒वेभ्यः॒ स्वाहा॑। पि॒तृभ्यः॑ स्व॒धाऽस्तु॑। भू॒तेभ्यो॒ नमः॑। म॒नु॒ष्ये॑भ्यो॒ हन्ता॑। प्र॒जाप॑तये॒ स्वाहा॑। प॒र॒मे॒ष्ठिने॒ स्वाहा॑, इति। धर्माधर्मावोषधिवनस्पतिदेवताः प्रसिद्धाः। रक्षांसि [प्रसिद्धानि।] देवजना देवानां भृत्यवर्गाः। रक्षांसि च देवजनाश्च रक्षोदेवजनाः। गृहे विद्यमाना गृह्याः कुलदेवताः। गृहप्रान्तदेशवर्तमाना देवता अवसानशब्देनोच्यन्ते*। सर्वभूतशब्देन पञ्च


  • अवसानपतिशब्दस्य व्याख्यानं स्पष्टत्वादुपेक्षितम्। अवसानपतिशब्देन गृहप्रान्तदेशवर्तमाना देवतास्वामिनो ग्राह्याः।

[[882]]

परिशिष्टत्वेन संगृहीतः- [अनु ॰ ६७]

भूतानि भूतविशेषा वो(षाश्चो)च्यन्ते। कामः प्रसिद्धस्त्रिलोकीव्यामोहको रतिपतिः। अन्तरिक्षशब्देनान्तरिक्षलोकस्थवायुर्लक्ष्यते। द्वितीयान्तरिक्षशब्देन मध्यमलोकाधिष्ठानदेवता कथ्यते। वैदिकशब्दराशिवाचकेन नामशब्देन तद्वेद्यः परमात्मा लक्ष्यते। तथा चायमर्थः। जगति ब्रह्माण्डे यद्वृक्षादिरूपमेजति वाय्वादिनिमित्तेन कम्पते यच्च मनुष्यादि चेष्टति गमनागमनादिचेष्टां करोति। औपलक्षण्येन पर्वतादिकमपि गृह्यते। अयं सर्वोऽपि पदार्थसमूहो नाम्नः परमात्मनो भागो भक्षणीर्योऽशः, प्रलयकाले सर्वस्य जगतस्तेनोपसंदह्रियमाणत्वात्। सिद्धान्ते चैकस्यैव परमात्मनो निखिलजगदुत्पत्तिस्थितिलयकर्तृत्वाङ्गीकारात्। तथाच तस्मै नाम्ने जगत्संहर्त्रे परमात्मने स्वाहा। बलिहरणरूपमिदं हविर्भूमौ दत्तमस्तु। द्यावापृथिव्यौ प्रसिद्धे। सूर्यचन्द्रनक्षत्रेन्द्रबृहस्पतयः प्रसिद्धाः। प्रजापतिब्रह्माणौ विराड्ढिरण्यगर्भौ। अग्निष्वात्तादिभ्यः पितृभ्यः स्वधा, स्वाहा च इदमन्नं बलिहरणकर्मार्हं दत्तमस्तु। [रुद्राय नमः] स्वाहा चेदमन्नं दत्तमस्तु। कथंभूताय, पशुपतये ब्रह्मादिस्थावरान्ताधिपतये। इन्द्रादिभ्यो देवेभ्यः स्वाहा ।पितृभ्यः स्वधाऽस्तु । भागान्तरद्योतनार्थं मन्त्रान्तरम्। भूतेभ्यो देवविशेषेभ्यो नमः । स्वाहाशब्दोऽप्यनुषञ्जनीयोऽन्नदानसिद्धये। यद्वा नमःशब्द एव भूतानामन्नदानवाचको द्रष्टव्यः। मनुष्येभ्यो हन्ता, इदमन्नं दत्तमस्तु। स्वाहास्वधानमोहन्तकारैश्चतुर्भिर्निपातैर्देवपितृभूतमनुष्याणाम(ष्येभ्योऽ)न्नं दातव्यम्। एतच्छब्दोच्चारणपूर्वकं हि तेषामन्नदाने भूयसी तृप्तिः प्रियोक्तिपूर्वकमिव ब्राह्मणभोजनेन ब्राह्मणानाम्। प्रजापतये स्वाहा। भागान्तरद्योतनार्थं मन्त्रान्तरम्। परमेष्ठी चतुर्मुखो ब्रह्मा। यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो अक्षि॑तः। ए॒वा मे॑ अस्तु धा॒न्य ँ स॒हस्र॑धार॒मक्षि॑तम्॥ धन॑धान्यै॒ स्वाहा॑॥

यथेति। यथा येन प्रकारेण कूप उदकाधारविशेषः शतधारः सहस्रधारोऽनेकोदकधारोपेतो बहुधोदकग्रहणेऽप्यक्षितोऽक्षय्यश्च भवति, एवैवं मह्यं परमात्मनः प्रसादाद्धान्यमक्षितमक्षय्यमस्तु। सहस्रधारमनेककुसूलादिपूर्ण(र्णं) प्रस्थादिपरम्परायुक्तं च भूयात्। तदर्थमिदं हविः स्वाहा सुहुतमस्तु। कस्मै। धनानि दधाति पोषयति भक्तानामिति धनधानी काचिद्देवता तस्यै। ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑। तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा॑॥

[[883]]

[अनु॰ ६८] सभाष्यो दशमप्रपाठकः। ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ * स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॒ नमो॑ रु॒द्रायं पशु॒पत॑ये॒ स्वाहा॑ वितुद॑स्य॒ प्रेष्या॒ एकं॑ च॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रंपांठके नारायणोपनिषदि सप्तषष्टितमोऽनुवाकः॥६७॥ य इति। तेभ्यो बलिं हरामि भूमौ निक्षिपामि। पुष्टिकामः सन्नहम्। अत एव पुष्टिपतिर्धनधान्यादिपोषणाधिपतिर्भगवान्मयि पुष्टिं धनधान्यादिपोषं दधातु स्थापयतु। तदर्थमिदमन्नं स्वाहा भूमौ निक्षिप्तमस्तु। तेभ्यः केभ्यः। ये भूता ग्रहविशेषा बलिमाहारमिच्छन्तः सन्तो दिवानक्तं प्रचरन्ति। भूताः कथंविधाः। प्रेष्याः प्रेषणीया भृत्या इति यावत्। कस्य, विशेषेण तुदति पापिनः प्राणिनः पीडयतीति वितुदः श्मशानवासी भगवान्कालाग्निरुद्रस्तस्य वितुदस्य। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तषष्टितमोऽनुवाकः॥६७॥