पाठ-भेदः

शाखासु दृश्यमाना वर्णव्यत्यासाः पौरुषेया इत्य् अन्यत्र द्रष्टव्यम्।

आन्तरिको भेदः

द्राविडपाठे हि व्यत्यासाः

There are DP guys who use sarvam instead of yasmin. Found among some of the DP traditions in Pandya desha (my own father was taught so). There are a few patha bhedas even in DP across samhita and brahmana as well. But they r disappearing now due to standardization of Kanchi style

आरण्यके -

  • क्वचिद् द्राविड-पाठे ऽपि सूक्ष्म-भेद उक्तः - “विज्ञा॑तम् अ॒ग्निः /अ॒ग्नीत्।” इत्यत्र भट्ट-भास्कर आह - “तथाऽन्येषां ‘अग्नीत्’ इत्येव पाठः”।

आन्ध्र-द्राविडयोः

  • आन्ध्र-द्राविड-पाठयोर् भेदो वर्तते।
    • भट्टभास्करो द्राविडपाठम् अवलम्बते। सायणमाधवादिभिर् आन्ध्रपाठो ऽवलम्बितः।
    • द्राविडपाठं श्रीवैष्णवा रक्षन्ति प्रायेण, न द्राविडा स्मार्ता माध्वा वा।
  • द्राविड-पाठानुसारिणः केचिद् आन्ध्रपाठम् अप्रामाणिकं मन्यन्ते। यथा मेधासूक्त आन्ध्रकपाठे व्याकरणादि-व्यत्ययो ऽधिको भाति।
  • आरण्यके भेदा दृश्यन्तेतमाम्।
    • तद्यथा १०मे काण्डे आन्ध्रेषु - ८० अनुवाकाः, कर्णाटेषु - ७४ अनुवाकाः, द्रविडेषु - ६४ अनुवाकाः, केरले ४८ अनुवाकाः।
    • उभयत्रापि वर्तमाने मन्त्रे दृश्यन्ते भेदाः। यथा - मेधासूक्ते, अघोरेभ्योऽथ … इत्यादौ।
    • एकाग्निकाण्डे
      • वाक्यादौ अभा॒गम॑ग्ने इत्यत्र अ॒भा॒गमग्ने इति स्यात् ।
  • संहितायाम्
    • २.६.१ दशा॑क्षरा वि॒राट् । (अन्नं॑ वि॒राट्। इति सायणपाठे।) वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे ।
    • उषा अरुणी सूर्य एतशः तैलङ्गपुस्तकेषु अरुणीस्सूर्य इति संहितायां पञ्चमकाण्डे।
    • सप्तमपञ्चमे अन्तिमपदं बन्धुः इति स्मार्तेषु न पठन्ति केचन ।
  • ब्राह्मणे एकत्र
    • पराङ्कुशाचार्योपदिष्ट-पाठः +अश्वमेध-प्रथमप्रश्ने एवम् एव “तत् स्तोमाः” इति एवम् “एतत्स्तोमाः” इत्यत्र ।
    • “हरीशेन कुत्रचिद्दर्शितभेदः झटिति न स्मरामि ।” इति रामानुजार्यः।

प्रामाणिकता

pāñcarātra śeṣa saṃhitā has explicit citations that match with āndhrapāṭha and not drāviḍa pāṭha.

नारायण-सूक्ते -

  • be it appayya or anandagiri, they seem to have used only DP version of the sukta. Like anandagiri using prabhum instead of padam.
  • The viṣṇu sahasranāma bhāṣya ascribed to AS does quote the version resembling āndhrapāṭham.

सायण-पाठः

अयम् आन्ध्रनिभः, किञ्च क्वचिद् भिन्नः। आरण्यके -

sāyaṇa’s commentary is not on the 80 anuvāka āndhrapāṭham (AP) that has (स ब्रह्मा स शिवस् स हरिस् सेन्द्रः). He commented on the pāṭha chosen by bhaṭṭa bhāskara (with minor differences)

एवं गुर्जर-पाठो ऽपि हरिशब्दो निविष्टो ऽत्रेति मानस-तरङ्गिणी-कृत्।

नम्बूतिरि-पाठः

In Kerala, Maha narayanam/Sree narayanam has presently 48 Anuvakas.
In some villages, the exact same pATha is counted as 50 anuvAkas because of different division.

  • शङ्करार्यः

the “sa hari before sa śiva” pāṭha of nambus (that appears to be cited in this prapañcahṛḍaya). sa hariḥ & sa śivaḥ are flipped in order compared to the AP. - अनिरुद्धः

प्रपञ्च-हृदये -

स ब्रह्मा स हरिस् स शिवस् सेन्द्रः

इति च्छन्दसो व्यभिचरतितराम्।

अन्ये

काशिकायाम् -

शची᳓प᳓तिः (तै०सं० ४.४.८ .१)। शचीशब्दः कृदिकारादक्ति नः (ग०सू० ४९) इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिषु पठन्ति, तेषामाद्युदात्तः।

तनू॒नपा॒त् (तै०सं० ४.१.८ .१) इत्यत्र

तनू᳓न᳓पात् (tanu being formed by ऊ Unadi I.80 has acute on the final, according to others it has acute on the first and napat = na pati or na palayati with क्विप् and has acute on the first).

शाखान्तरापेक्षया

व्यत्यास-सङ्ग्रह-सन्देश-धारा ऽत्र

तैत्तिरीयारण्यके

  • यो दे॒वेभ्य॒ आत॑पति +++(आ॒तप॑ति॒ माध्यन्दिने)+++ ।
  • यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् +++(अ॒स॒न् माध्यन्दिने)+++ वशे॑ । ५
  • स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
    (भव॑ इत्य् उदात्तो दोषाय। शाकले तन् नास्ति। )
  • भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः इति तैत्तिरीये। शाकले, काण्वे च - भ॒द्रं कर्णे॑भिः शृणुयाम इति यथालक्षणम्।
  • तेन॑ दे॒वाऽअ॑यजन्त सा॒ध्याऽऋष॑यश्च॒ ये ॥९ ॥ इति माध्यन्दिने, शाकले च। दे॒वा अय॑जन्त इति तु तैत्तिरीये।

एकाग्नि-काण्डे

“अमीवहा᳓ वास्तोष् पते” इति शाकले, किन्तु “अ॒मी॒व॒हा वास्तो॑ष्पते” इत्य् एकाग्निकाण्डे।