History

Eternity and evolution

The veda-s are said to be eternal in a certain sense.

Eternity

  • ब्रह्मसूत्रेषु शाङ्करभाष्यमप्यत्र रुचिकरम् - अत एव च नित्यत्वम् ॥ २९ ॥ भाष्यम्॥ स्वतन्त्रस्य कर्तुर् अस्मरणाद् इति स्थिते वेदस्य नित्यत्वे देवादिव्यक्ति-प्रभवाभ्युपगमेन तस्य विरोधम् आशङ्क्य ‘अतः प्रभवात्’ इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति — अत एव च नित्यत्वमिति । अत एव नियताकृतेर् देवादेर् जगतो वेद-शब्द-प्रभवत्वात् वेद-शब्द-नित्यत्वम् अपि प्रत्येतव्यम् । तथा च मन्त्रवर्णः — ‘यज्ञेन वाचः पदवीयम् आयन् तामन् वविन्दन्न् ऋषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचम् अनुविन्नां दर्शयति । वेदव्यासश् चैवम् एव स्मरति — ‘युगान्ते ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयंभुवा’ इति ॥ २९ ॥
  • “अनादिनिधना विद्या (‘ह्येषा’ इति पाठभेदात्) वाग् उत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतस् सर्वाः प्रसूतयः ॥” (महाभारते १२.२३२.२४ / १२.२३१.५६ – पाठक्रमभेदात्) Platonist Ideal plane इव।
  • Here is a beautiful explanation by shatAvadhAnI gaNesha on this regard.

Challenges to eternity

  • why eternal Vedas (existent versions) carry geographical information of the particular area of the earth (northwestern part of the subcontinent bordering Afghanistan) and river names therein? [BVP11]
  • how do they carry names of particular persons?
    • “तथा च सर्गादौ मन्त्रकृतो वृणीते विश्वामित्रस्य सूक्तं भवतीत्यादिवेदगतविश्वामित्रादिशब्दैस्तत्तदाकृतिशक्त्यादिकं पर्यालोच्य तत्तदाकारैस्तत्तत्छक्तिभिश्च तान्विनिर्माय तत्तन्मन्त्रादिप्रकाशने विनियुङ्क्ते ।” - विशिष्टाद्वैतमतावलम्बिभिर् औद्धवीयसम्प्रदायस्य भद्रेशस्वामिभी रचितमाधुनिकं भाष्यमिति।

It is not anyone’s position that all the veda-s were “seen” by the sages simultaneously. They appeared to the sages at varying points in time. If so, this variance in time is what the modern scholars refer to in their attempt to arrange the veda-s in historical timeline. I don’t see a contradiction on that account between them and the traditionalists. [Eg. gaNesha here]

Evolution and corruption in veda-mantra-s is clearly acknowledged in the purANa-s. In early stages, there was clear inter-shAkhA rivalry.

Evolution and some corruption

In fact, with regards to the multiplicity of shAkhA-s and samhita-s, an evolution and corruption is clearly acknowledged. These accounts also situate this “proliferation of the vaidika canon” (massive growth of brāhmaṇa/kalpasūtra corpus) alongside the splitting of a single purāṇa into many as well as the proliferation of various smṛtis

पुनः शाखासु दृश्यमाना वर्णव्यत्यासाः पौरुषेया इति -

लिङ्गपुराणे एको वेदश् चतुष्पादस् त्रेतास्व् इह विधीयते । संक्षयाद् आयुषश् चैव व्यस्यते द्वापरेषु सः ॥ १,३९.५७ ॥
ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः । मन्त्र-ब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ १,३९.५८ ॥
संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः । सामान्या वैकृताश्चैव द्रष्टृभिस् तैः पृथक्पृथक् ॥ १,३९.५९ ॥

वायुपुराणे -
संरोधाद् आयुषश् चैव दृश्यते द्वापरेषु च । वेदव्यासैश् चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५८.११ ॥
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः। मन्त्रब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ ५८.१२ ॥
संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः। सामान्याद्वैकृताच् चैव दृष्टिभिन्नैः क्वचित्क्वचित् ॥ ५८.१३ ॥
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च। अन्ये तु प्रहितास् तीर्थैः केचित् तान् प्रत्यवस्थिताः ॥ ५८.१४ ॥

मत्स्य-पुराणे - संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥ १४४.१० ॥ वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु ।
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ॥ १४४.११ ॥
ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः । संहृता ऋग्यजुःसाम्नां संहितास् तैर् महर्षिभिः ॥ १४४.१२ ॥
सामान्याद् वैकृताच् चैव दृष्टिभिन्नैः क्वचित् क्वचित् । ब्राह्मणं कल्पसूत्राणि भाष्य-विद्यास् तथैव च ॥ १४४.१३ ॥
अन्ये तु प्रस्थितास् तान् वै केचित्तान् प्रत्यवस्थिताः । द्वापरेषु प्रवर्तन्ते भिन्नार्थैस् तैः स्वदर्शनैः ॥ १४४.१४ ॥
एकम् आध्वर्यवं पूर्वम् आसीद् द्वैधं तु तत् पुनः । सामान्य-विपरीतार्थैः कृतं शास्त्राकुलं त्व् इदम् ॥ १४४.१५ ॥
आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम् । तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥ १४४.१६ ॥ व्याकुलो द्वापरेष्व् अर्थः क्रियते भिन्न-दर्शनैः । द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ ॥ १४४.१७ ॥

समान-शाखायाम् अपि भेदा दृश्यन्ते।
तैत्तिरीयशाखायां द्राविडान्ध्रपाठयोर् दृश्यत एव भेदः।
स हि भट्टभास्करेणापि व्याख्यातः।

  • See RV shakala saMhitA history notes elsewhere.