ब्राह्मणम्

[[शाङ्खायनब्राह्मणम् Source: EB]]

[

[TABLE]

ॐ तत्सद्ब्रह्मणे नमः।

<MISSING_FIG href="../books_images/U-IMG-1732367478Screenshot2024-11-23184037.png"/>

अथ ऋग्वेदे शाङ्खायनब्राह्मणम्।

॥हरिः ॐ॥

अस्मिन्वै लोक उभये देवमनुष्या आसुस्ते देवाः स्वर्गं लोकं यन्तोऽग्निमूचुस्त्वं नो अस्य लोकस्याध्यक्ष एधीति तानग्निरुवाचाथ यद्वोऽहं घोरसंस्पर्शतमोऽस्म्यनपचायितारो मनुष्याः कथं वस्तद्भविष्यति यन्मनुष्येष्विति ते देवा ऊचुस्तस्य वै ते वयं घोरास्तनूर्विनिधास्यामोऽथ यैव ते शिवा शग्म्या यज्ञिया तनूस्तयेह मनुष्येभ्योभविष्यसीति तस्याप्सु पवमानामदधुर्वायौ पावकामादित्ये शुचिमथ यैवाऽस्य शिवा शग्म्यायज्ञिया तनूरासीत्तयेह मनुष्येम्योऽतपदेता या अग्नेस्तन्वस्तद्यदेता देवता यजत्यत्राग्निः साङ्गः सतनूः प्रीतो भवति ता वै तिस्रो भवन्ति त्रयो वा इमे लोका इमानेव तं लोका(?)नाप्नोति पौर्णमासं प्रथमायै तन्त्रं भवत्यामावास्यं द्वितीयायै तेन हास्य दर्शपूर्णमासावन्वारब्धौ भवत ईलितवत्यौहव्यवाड्वत्यौप्रथमायै संयाज्ये तत्संयाज्यारूपं द्व्यग्नी द्वितीयायै द्वौ ह्यग्नीयजति सप्तदशसामिधेनीका तृतीया सप्तदशसामिधेनीका वा इष्टिपशुबन्धास्तदिष्टिपशुबन्धानाप्नोति सद्वन्तावाज्यभागौ भवतोऽसानीति वाऽग्नीनाधत्ते स्यामिति कामयते स यदि ह वा अपि स्वैषा वीर इव सन्नग्नीनाधत्ते क्षिप्रएव संभवति क्षिप्रे भोग्यतामश्नुते यः सद्वन्तौ कुरुते विराजौ संयाज्ये श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै ता वै गायत्र्यो भवन्ति गायत्रो वा अग्निर्गायत्रच्छन्दाः स्वेनैव तच्छन्दसाऽग्नीनाधत्ते ता वा उपांशु भवन्ति रेतःसिक्तिर्वाअग्न्याधेयमुपांशु वै रेतः सिच्यतेऽभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृढ्ध्यैद्वादश दद्याद्द्वादश वैमासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अश्वं त्रयोदशं ददाति यस्त्रयोदशो मासस्तस्याप्त्यै॥१॥

देवासुरा वा एषु लोकेषु संयत्ता आसुस्तेभ्योऽग्निरपाक्रामत्सऋतून्प्रविशत्ते देवा हत्वाऽसुरान्विजित्याग्निमन्वैछंस्तं यमश्च वरुणश्चान्वपश्यत्तां तमुपामन्त्रयन्त तमज्ञपयंस्तस्मै वरमददुः सहैतं वरं वव्रेप्रयाजान्मे अनुयाजाँश्च केवलान्घृतंचापां पुरुषं चौषधीनामिति

तस्मादाहुराग्नेयाः प्रयाजानुयाजा आग्नेयमाज्यमिति ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्वेष्योय एवं वेद॥२॥

तदाहुःकस्मिन्नृतौ पुनरादधीतेति वर्षास्विति हैक आहुर्वर्षासु वै सर्वे कामाः सर्वेषामेव कामानामाप्त्यै मध्यावर्षे पुनर्वसू नक्षत्रमुदीक्ष्य पुनरादधीत पुनर्मा वसु वित्तमुपनमत्वित्यथो पुनः कामस्योपाप्त्यै तद्वैन तस्मिन्काले पूर्वपक्षे पुनर्वसुभ्यां संपद्यते ये वैषाऽऽषाढ्याउपरिष्टादमावास्या भवति तस्यां पुनरादधीत सा पुनर्वसुभ्यां संपद्यत उपाप्तोऽमावास्यायां कामो भवत्युपाप्तो वर्षासूपाप्तः पुनर्वस्वोस्तस्मात्तस्यां पुनरादधीत पञ्चकपालः पुरोडाशो भवति पञ्चपदा पङ्क्तिःपाङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्यै॥३॥

विभक्तिभिः प्रयाजानुयाजान्यजत्यतवो वै प्रयाजानुयाजा ऋतुभ्य एनं तत्समाहरत्यग्न आयाहि वीतयेऽग्निं दूतं वृणीमहेऽग्निनाऽग्निः समिध्यतेऽग्निर्वृत्राणि जङ्घनदग्नेःस्तोमं मनामहेऽग्नायो मर्त्यो दुव इत्येतासामृचांप्रतीकानि विभक्तयस्ता वै षड् भवन्ति षड्वाऋतव ऋतुभ्य एवैनं तत्पुनः समाहरतीति यथायथमुत्तमौ प्रयाजानुयाजोतथा हास्य प्रयाजानुपगजेभ्योऽनितं भवति वार्त्रघ्नः पूर्व आज्यभागः पाप्मन एव वधायाथोहास्य पौर्णमासात्तन्त्रानितं भवत्यग्निंस्तोमेन बोधयेत्यग्नये बुद्धिमते पूर्वकुर्यादिति हैक आहुः स्वपितीव वा एतस्याग्निर्योऽग्निमुद्वासयते तदेवैनं तत्पुनः प्रबोधयतीति वार्त्रघ्नस्त्वेव स्थितोऽग्न आयूंपि पवस इत्युत्तरस्य पुरोनुवाक्या पवस इति तत्सौम्यं रूपं केवलाग्नेयो हि यज्ञक्रतुस्तद्यत्पवमानस्य कीर्तयति तथा हास्य सौम्यादाज्यभागादनितं भवति पदपङ्क्तयो याज्यापुरोनुवाक्याः पञ्चपदा पङ्क्तिःपाङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्यै॥४॥

व्यतिषक्ता भवन्ति व्यतिषक्ता इव वा इमे प्राणा आत्मानं भुञ्जन्तीति सा सर्वैव ससामिधेनीकोपांशु भवत्या पूर्वाभ्यामनुयाजाभ्यामाज्यतो विभक्तवोऽनुप्रोता भवन्त्यथो सर्वे वै कामा विभक्तिषु तस्मादुपांशु भवन्ति सर्वेषामेव कामानामात्या उच्चैस्त्वेवोत्तमेनानुयाजेन यजत्युच्चैःसूक्तवाकशंयोर्वाकावाह तद्यथाऽविदमित्याविर्नष्टं कुर्यादेवं तदाविष्का मान्करोत्यापमिति त्रयमु हैक उपांशु कुर्वन्ति विभक्तीरुत्तरमाज्यभागं हविरित्येतावध्यागन्तु(?) भवतीति सा वा उपांशु निरुक्ता भवति द्वयं

वा अग्ने रूपं निरुक्तं चानिरुक्तं च तदेवास्य तेनाऽऽप्नोति सर्वाग्नेयं हैके कुर्वन्ति न तथा कुर्यात्तस्यै पुनरुत्स्यूतो जरत्संव्यायः पुनः संस्कृतःकद्रथोऽनड्वान्हिरण्यं वा दक्षिणा पुनः कर्म ह्येतदादित्या द्वितीया प्रतिष्ठा वा अदितिः प्रतिष्ठित्या एव प्रतिष्ठित्या एव॥५॥

इति शाङ्खायनब्राह्मणे प्रथमोऽध्यायः॥१॥

  •      *
    

॥हरिः ॐ॥

घर्मो वा एष प्रवृज्यते यदग्निहोत्रं तदसौ वैघर्मो यौऽसौ तपत्येतमेव तत्प्रीणाति स वै सायं च प्रातश्चजुहोत्यग्नये सायं सूर्याय प्रातः सौर्यं वा अहराग्नेयी रात्रिर्मुखत एव तदहारात्रेप्रीणाति पयसा जुहुयादेष ह वै सर्वासामोषधीनां रसो यत्पयः सर्वैरेव तद्रसरग्नीन्प्रीणातितदु वा आहुर्यदर्शनस्यैव जुहुयात्सर्वं वा इदमग्नेरन्नं स्वेन वैतदन्नेनाग्नीन्प्रीणातीति गार्हपत्येऽधिश्रित्याऽऽहवनीये जुहुयाछ्रपणो वै गार्हपत्य आहवनीयस्तरमाद्गार्हपत्येऽधिश्रित्याऽऽहवनीये जुहुयाद्व्यन्तानङ्गारान्करोतीमावेव तं लौकौवितारयति तस्माद्धीमौ लोकौसहसन्तौ नानेवाथ यदधिश्रित्यावज्योतयति श्रपयत्येवैनं तदथ यदपःप्रत्यानयत्यापः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति हविष एवकृत्स्नताया यथयत्पुनर्वज्योतयत्यपएव तच्छ्रपयति त्रिरुपसादमुदग्घोमीयमुद्वासयति त्रैविध्याय त्रिवृद्धि देवकर्माच्छिन्नं निवहरेत्तथा ह यजमानोऽप्रच्यावुको भवत्ययोपवेषेण दक्षिणतोऽङ्गारानुपस्पृशति नमो देवेभ्य इति न हि नमस्कारमतिदेवाः सुप्रत्यूह्लानङ्गारान्प्रत्यूहेत्तथा हास्य नान्तमचारिणी च न नश्यति चतुरुन्नयेच्चतुष्टयं वा इदं सर्वमस्यैवसर्वस्याऽऽप्त्यै पञ्चकृत्व उन्नयेत्पाङ्क्तो वै यज्ञो यज्ञस्यैवाऽऽप्त्यै॥१॥

उपसदोऽग्निहोत्रे वेदितव्या उन्नीयोत्तरेण गार्हपत्यमुपसादयति तदिमं लोकमानोत्याहवनीये होष्यंद्वितीयं तदन्तरिक्षलोकमाप्नोति हुत्वा तृतीयं तदमुं लोकमाप्नोति पालाशीं समिधमभ्यादधाति सोमो वै पलाशः सा प्रथमा सोमाहुतिः प्रादेशमात्री भवति प्रादेशमात्रं हीम आत्मनोऽभिप्राणाद्द्व्यङ्गुलं समिधोऽतिरित्यानुदृभंनिवाभिजुहोति द्व्यङ्गुले वा इदं मुखस्यान्नं धीयते धूमायन्त्यां ग्रामकामस्य जुहुयाज्ज्वलन्त्यां ब्रह्मवर्चसकामस्याङ्गारेषु पशुकामस्याभ्याधायेति त्वेवस्थितमत्र ह्येवैते सर्वे कामा उपायन्तइत्युभे आहुती हुत्वा जपति या

यज्ञस्य समृद्धस्याऽऽशीः सा मे समृध्यतामिति या वै यज्ञस्य समृद्धस्याऽऽशीः सा यजमानस्य भवत्युत्तरावतीराहुतीर्जुहुयादुत्तरोत्तरेण एव तत्स्वर्गाँल्लोकानाप्नोति स्रुचो बुध्नेनाङ्गारानुपस्पृशति स्वर्ग एव तं लोके यजमानं दधाति द्विरुदीचीं स्रुचमुद्यच्छति रुद्रमेव तत्स्वायां दिशि प्रीत्वाऽवसृजति तस्माद्धूयमानस्योत्तरतो न तिष्ठेन्नेदेतस्याबलस्य देवस्य परिप्रार्धेऽसानीति तामुत्तरतः सायमुपमार्ष्टिप्रतीचीमादित्यं तदस्तं नयति दक्षिणत ऊर्ध्वांप्रातरादित्यं तदुन्नयति यत्पूर्वमुपमार्ष्टितत्कूर्चेनिलिम्पत्योषधींस्तेन प्रीणाति यद्द्वितीयं तद्दक्षिणेन कूर्चमुत्तानं पाणिं निदधाति पितॄंस्तेन प्रीणात्यथ यद्द्विःप्रदेशिन्या प्राश्नाति गर्भान्पूर्वेण प्रीणाति तस्मादनश्नन्तो गर्भाः प्राणन्ति वयांस्युत्तरेण तस्माद्वयांसि बहु किंच किंचिदिव मक्षयन्ति श्वेतमिव प्रस्रावयन्त्यथ यत्स्रुचा भक्षयति भूतं च तेन भव्यं च प्रीणात्यथ यत्स्रुचं निर्लेढि सर्पदेवजनांस्तेन प्रीणात्यथ यत्स्रुचं मार्जयते रक्षोदेवजनांस्तेन प्रीणात्यथ यत्प्रागुदीचीरप उत्सिञ्चति गन्धर्वाप्सरसस्तेन प्रीणात्यथ यत्प्रागुदीचीं स्रुचमुद्दिशति रुद्रमेव तत्स्वायां दिशि दधात्येवमग्निहोत्रेण सर्वाणि भूतानि प्रीणाति॥२॥

आहवनीय एव जुहुयादिति हैक आहुः सर्वेषु त्वेव जुहुयाद्धोमाय ह्येत आधीयन्ते चतस्रो गार्हपत्ये चतस्रोऽन्वाहार्यपचने द्वे आहवनीये ता दश संपद्यन्ते दशदशिनी विराट्छ्रीर्विरालम्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै स य एवं विराट्संपन्नमग्निहोत्रं जुहोति सर्वान्कामानाप्नोति॥३॥

अथ यद्धुत्वाऽग्नीनुपतिष्ठते प्रीत्वैव तद्देवेष्वन्ततोऽर्थं वदते यद्वेव वत्संस्पृशति तस्माद्वात्सप्रंतथा ह यजमानात्पशवोऽनुत्क्रामुका भवत्यथ यदप आचम्य व्रतं विसृजतेऽप्स्वेव तद्व्रतं दधाति ता अस्य व्रतं गोपायन्त्या पुनर्होमात्॥४‌॥

अथ यत्प्रवत्स्यंश्च प्रोषिवांश्चाग्नीनुपतिष्ठतेऽभिवादो हैषदेवतायै यदुत्काशं भवत्यथोऽग्निभ्य एवैतदात्मानं परिदधाति ये चैनमन्वञ्चो भवन्ति॥५॥

अथ यदरण्योरग्नीन्समारोहयते देवरथो वा अरणी देवरथएवैनं तत्समारोहयते स एतेन देवरथेन स्वस्ति स्वर्गलोकं समश्नुते यद्वेव पुनः पुनर्निर्मन्थते तेनोहैवास्य पुनराधेयमुपाप्तं भवति॥६॥

यैवैके चाऽऽनन्दा अन्ने पाने मिथुने रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते तेषां रात्रिः कारोतरो य उ वैके चाऽऽनन्दा अन्नादेव ते सर्वे जायन्ते ते देवा अब्रुवन्कथन्विमान्वयमानन्दा तस्मादृशस्यैव प्रतिगृह्णीयामेति तेऽषामृर्ध्वं रसमुदौहं‌स्ता ओषधयश्च वनस्पतयश्च समभवन्नोषधीनां च वनस्पतीनां चोर्ध्वं रसमुदौहंस्तत्फलमभवत्फलस्योर्ध्वं रसमुदौहंस्तद्रेतोऽभवद्रेतस ऊर्ध्वं रसमुदौहं स पुरुषोऽभवत्सोऽयं पुरुषो यः प्राणिति वाऽपानिति वा न तत्प्राणेन नापानेनाऽऽहेति प्राणिषं वाऽपानिषं वेति वाचैव तदाह तत्प्राणापानौ वाचमपीतो वाङ्मयौ भवतोऽथ यच्चक्षुषा पश्यति न तच्चक्षुषाऽऽहेत्यद्राक्षमिति वाचैव तदाह तच्चक्षुर्वाचमप्यति वाङ्मयं भवत्यथ यच्छ्रोत्रेण शृणोति न तच्छ्रोत्रेणाऽऽहेत्यश्रौषमिति वाचैव तदाह तच्छ्रोत्रं वाचमप्येति वाङ्मयं भवत्यथ यन्मनसा संकल्पयते न(त)न्मनसाऽऽहेति समचीक्लृपमिति वाचैव तदाह तन्मनो वाचमप्येति वाङ्मयं भवत्यथ यदङ्गैः सुशीमं वा दुःशीमं वा स्पृशति न तदङ्गैराहेति सुशीमं वा दुःशीमं वाऽस्प्राक्षमिति वाचैव तदाह तत्सर्व आत्मा वाचमप्येति वाङ्मयो भवति तदेतदृचाऽभ्युदितं नेन्द्रादृते पवते धाम किंचनेति वाग्वा इन्द्रो न ह्यृते वाचः पवते धाम किंचन स वै सायं जुहोति॥७॥

अग्निर्ज्योतिर्ज्योतिरग्निरिति तं ज्योतिः सन्तं ज्योतिरित्याह स सत्यं वदति तस्यायं वाङ्मय आत्मा सत्यमयो भवति सत्यमया उ देवा अथ स्वाहेति जुहोति तस्यैतां देवाः सत्यह्नुतस्याऽऽह्नुतिं प्रतिगृह्णन्ति रात्र्या‌ उ शीर्षं सत्यं वदति स यदि ह वा अपि तत ऊर्ध्वं मृषा वदति सत्य हैवास्योदितं भवति रात्र्या उ हि शीर्षं सत्यं वदत्यथ प्रातर्जुहोति सूर्योज्योतिर्ज्योतिः सूर्य इति तं ज्योतिः सन्तं ज्योतिरित्याह स सत्यं वदति तस्यायं वाङ्मय आत्मा सत्यमयो भवति सत्यमया उ देवा अथ स्वाहेति जुहोति तस्यैतां देवाः सत्यहुतस्याऽऽह्नुतिं प्रतिगृह्णन्त्यह्न उ शीर्षं सत्यं वदति स यदि ह वा अपि तत ऊर्ध्वं मृषा वदति सत्यं हैवास्योदितं भवत्यह्न उ हि शीर्षं सत्यं वदति स वा एषोऽग्निरुद्यत्यादित्य आत्मानं जुहोत्यथास्तं यं सायेऽग्नावात्मानं जुहोति रात्रिरेवाहं जुहोत्यहोरात्र्यां प्राण एवापाने जुहोत्यपानः प्राणे तानि वा एतानि षड्रजुह्वत्यन्योन्य आत्मानं यो ह वा एतानि षड् जुह्वति वेदाजुह्वत एवास्य हुतं भवति जुह्वत एवास्य द्विर्हुतं भवति य एवं वेद स यदि ह वा अपिसुरिशानेने-

वं विद्वानग्निहोत्रं जुहोति प्रति हैवास्यैते आहुती देवा गृह्णन्ति यस्पो ह वा अपि देवाः सकृदश्नन्ति तत एव सोऽमृतः सत्यमयो ह वा अमृतमयःसंभवति य एवं वेद तद्यथा ह वै श्रद्धा देवस्य सत्यवादिनस्तपस्विनोहुतं भवत्येवं हैवास्य हुतं भवति य एवं विद्वानग्निहोत्रं जुहोति तस्मादेवंविदग्निहोत्रं जुहुयादिति॥८॥

उदिते होतव्याश्मनुदित इति मीमांसन्ते स य उदिते जुहोति प्रवसत एवैतन्महते देवायाऽऽतिथ्यं करोत्यथ योऽनुदिते जुहोति संनिहितायैवैतन्महते देवायाऽऽतिथ्यं करोति तस्मादनुदिते होतव्यं तद्धापि वृषशुष्मो वा तावतः पूर्वेषामेको जीर्णः शयानो रात्र्यामेवोभे आहुती हूयमान दृष्टोवाच रात्र्यामेवोभे आहुती जुह्वतीति रात्र्यां हीति स होवाच वक्तास्मोन्वे वयममुं लोकं परेत्य पितृभ्योऽथो एनं नः श्रद्धातारो यद्वेवैतदुभयेद्युरग्निहोत्रमहूयतान्येद्द्युर्वा तदेनार्हिहूयते रात्र्यामेवेत्येतदेव कुमारीगन्धर्वगृहीतोवाच रात्र्यामेवोभे आहुती जुह्वतीति रात्र्यां हीति सा होवाच संधौ जुहुयात्समुद्रो ह वा एषसर्वंहरो यदहोरात्रे तस्य हैतेऽगाधे तीर्थे यत्संध्ये तद्यथाऽगाधाभ्यां तीर्थाभ्यां समुद्रमतीयात्तादृक्तद्यत्संधौ जुहोत्यथो देवसेना ह वा एषाऽध्वगा हनिष्यन्ति यदहोरात्रे तस्या हैते पक्षसी यत्संध्ये तद्यथापक्षाम्यां क्षिप्रमध्वानमन्वियात्तादृक्तद्यत्संधौ जुहोत्यथो मृत्योर्ह वा एतौ व्राजबाहू यदहोरात्रे तद्यथा व्राजबाहुभ्यां परिजिग्रहीष्यन्नन्तरेणातिमुच्येत तादृकद्यत्संधौ जुहोति तदु ह स्माऽऽह कौषीतकिः सायमस्तमिते पुरा तमसस्तस्मिन्काले जुहुयात्स देवयानः केतुस्तमेवाऽऽरभ्य स्वस्ति स्वर्गं लोकं समश्नुते प्रातः पुरोदयादपहते तमासितस्मिन्काले जुहुयात्स देवयानः केतुस्तमेवाऽऽरभ्य स्वस्ति स्वर्गं लौकं समश्नुतेऽथ योऽतोऽन्यथाऽग्निहोत्रं जुहोति श्यामशबलौ हास्याग्निहोत्रं विषीदतोऽहर्वै शबलो रात्रिः श्यामः स यो महारात्रे जुहोति श्यामो हास्याग्निहोत्रं विषीदत्यथ यो महाह्ने जुहोति शबलो हास्याग्निहोत्रं विषीदति तद्वै खलु यदैव कदाचन जुहुयाद्धुतसमृद्धिमेवोपासीतेति हुतसमृद्धिमेवोपासीतेति॥९॥

इति शाङ्खायनब्राह्मणे द्वितीयोऽध्यायः॥२॥

  •       *
    

॥हरिः ॐ॥

यद्दर्शपूर्णमासयोरुपवसति न ह वा अव्रतस्य देवा हविरश्नन्ति

तस्मादुपवसत्यत मे देवा हविरश्नीयुरिति पूर्वां पौर्णमासीमुपवसेदितिपैङ्ग्यमुत्तरामिति कौषीतकं यां पर्यस्तमयमुत्सर्पेदिति सा स्थितिरुत्तरां पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्रमसं यदुपवसति तेन पूर्वां प्रीणाति यद्यजते तेनोत्तरामुत्तरामुपवसेदुत्तरामु ह वै समुद्रो विजते सोममनुदैवतमेतद्वै देवसत्यं यच्चन्द्रमास्तस्मादुत्तरामुपवसेत्॥१॥

अथ यत्पुरस्तात्सामिधेनीनां जपति स्वस्त्ययनमेव तत्कुरुते हिंकृत्य सामिधेनीरन्वाह वज्रो वै हिंकारो वज्रेणैव तद्यजमानस्य पाप्मानं हन्ति त्रिर्हिकरोति त्रिवृद्वै वज्रो वज्रमेव तदभिसंपादयत्येतेन वै देवास्त्रिवृता वज्रेणेभ्यो लोकेभ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैवस्त्रि(?) वृता वज्रेणेभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदत एकादश सामिधेनीरन्वाहैकादशाक्षरा वै त्रित्ष्टुप्त्रैष्टुभ इन्द्रस्तदुभाविन्द्राग्नी आप्नोति त्रिः प्रथमया विरुत्तमया पञ्चदश संपद्यन्ते पञ्चदश वै पूर्वपक्षापरपक्षयोरहानि तत्सामिधेनीभिः पूर्वपक्षापरपक्षावाप्नोत्यथो वज्रो वै सामिधेन्यः पञ्चदशो वै वज्रो वज्रेणैव तद्यजमानस्य पाप्मानं हन्ति यद्वेव त्रिः प्रथमां त्रिरुत्तमां यज्ञस्यैव तद्बर्हिरसौनह्यति स्थेम्ने विस्रंसाय तासां वै त्रीणि षष्ठिशतान्यक्षराणां भवन्ति, त्रीणि वै षष्ठिशतानि संवत्सरस्याह्नां तत्सामिधेनीभिः संवत्सरस्याहान्याप्नोति ता वै गायत्र्यो भवन्ति गायत्रो वा अग्निर्गायत्रच्छन्दाः स्वेनैव तच्छन्दसाऽग्निं स्तौत्यभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्या उत्तमायै तृतीये वचने प्रणवेन निगदमुपसंधात्यग्ने महाँ असि ब्राह्मणभारतेत्यग्निर्वै भरतः स वै देवेभ्यो हव्यं भरत्यथ यद्यजमानस्याऽऽर्षेयमाह न ह वा अनार्षेयस्य देवा हविरश्नन्ति तस्मादस्याऽऽर्षेयमाहाऽथैतं पञ्चदशपदं निगदमुपसंदधात्येष ह वै सामिधेनीनां निवित्तस्मात्पञ्चदशपदो भवति पञ्चदश हि सामिधेन्यः स वा च्छन्दस्कृतो भवति द्वयं वा इदं सर्वं छन्दस्कृतं चाच्छन्दस्कृतं च तेन सर्वेणग्निं स्तवानीति तस्य सप्त पदानि समस्यावस्येत्सप्त वै च्छन्दांसि सर्वेषामेव च्छन्दसामाप्त्या अथ चत्वार्यथ चत्वारि चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै॥२॥

अथ यद्व्यवग्राहं देवता आवाहयति नाना ह्याभ्यो हवींषि गृहीतानि मवन्त्यथ यदग्निमग्निमावाहयत्येषा ह वा अग्नेर्यज्ञिया तनूर्याऽस्य हव्य-

वाट्सा वा असौ यददोऽमुष्यादित्यस्योपरिष्टाद्व्यवभाति ज्योतिरिव तस्मात्पुरुषं पुरुषं प्रत्यादित्यस्ताद्यादाहाऽग्निमग्न आवहेति तामावहेत्येव तदाहाऽथ यद्देवाँ आज्ययाँ आवाहयति प्रयाजानुयाजांस्तदावाहयत्यथ यदग्निं होत्रायाऽऽवाहयति स्विष्टकृतं तदावाह [य]त्यथ यत्स्वं महिमानमावाहयति वायुं तदावाहयति वायुर्वा अग्नेः स्वो महिमा तेन हि संपाद्य महिमानं गच्छति यद्वेव वाचाऽन्वाह वाचा यजति तेनोहैवास्य स्वो महिमेष्टो भवत्या च वह जातवेदः सुयजा च यजेत्याहाऽऽवह च जातवेदो देवाँ सुयजा च देवता यजेत्येवैनं तदाहाथ यत्पुरस्तात्सामिधेनीनां जयति वज्रो वै सामिधेन्यस्तमेवैतच्छायति पुरस्तच्चोपरिष्टाच्चाथ यत्स्रुगादापनेन स्रुचा वा दापयति देवरथमेव तद्युनक्ति देवेभ्यो हविः प्रदास्यन्सएतेन देवरथेन स्वस्ति स्वर्गं लोकं समश्नुते॥३॥

प्रयाजान्यजन्यृतवो वै प्रयाजा ऋतूनेव तत्प्रीणाति ते वै पञ्च भवन्ति तैर्यत्किंच पञ्चविधमधिदैवतमध्यात्मं तत्सर्वमाप्नोति समिधो यजति वसन्तमेव वसन्ते वा इदं सर्वं समिध्यते तनूनपातं यजति ग्रीष्ममेव ग्रीष्मो हि तन्वं तपतीलोयजति वर्षा एव वर्षाभिर्हीलितमन्नाद्यमुत्तिष्ठति बर्हिर्यजति शरदमेव शरदि हि बर्हिष्ठा ओषधयो भवन्ति स्वाहाकृतिमन्तं यजन्ति हेमन्तमेव हेमन्ते वा इदं सर्वं स्वाहाकृतं तदाहुर्यत्पञ्चप्रयाजाः षलृऋतवः क्वैतं षष्ठमृतुं यजतीति यदेव चतुर्थे प्रयाजे समानयति तदेनमितरेष्वनुविभजत्यथ यदुत्तमे प्रयाजे देवताःसमावपति प्रयाजभाज एवैनास्तत्करोति तद्यथाऽग्निः सर्वेषु हविःषु भागी भवत्येवं तदग्नेर्भागे देवता भागिनीःकरोति नात्राग्निं होत्रादित्याह पशवो वै प्रयाजा रुद्रः स्विष्टकृन्नेदुद्रेण यजमानस्य पशून्मवृहाजानीति स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति हैक आहुर्न तथा कुर्यादर्धं ह वै यज्ञस्याऽऽज्यमर्थं हविः स यद्वाऽन्यतरद्ब्रूयादर्धं ह वै यज्ञस्य समिष्टं स्यादर्धमसमिष्टं तस्मात्स्वाहादेवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्वित्येव ब्रूयात्॥४॥

अथ यत्पौर्णमास्यां वार्त्रघ्नावाज्यभागौ भवतः पौर्णमासेन वा इन्द्रो वृत्रमहन्नथ यदमावास्यायां वृधन्वन्तौ क्षपं वा अत्र चन्द्रो गच्छति तमेवैतदाप्याययति तं वर्धयति तौ वै जुषाणयाज्यौ भवतः समानहविषो हि प्रयाजैर्भवतोऽथो ब्रह्म वै जुषाणो ब्रह्मणैव तद्देवेभ्यो हविः प्रयच्छति तौ वै त्रिवृतौ भवतो ये यजामहो निगदो वषट्कारश्चक्षुर्वा

आज्यभागौ त्रिवृद्वै चक्षुः शुक्लं कृष्णं लोहितमिति तौ न पशौ न सोमे करोति पशुना वै चक्षुष्मानध्वरो नेच्चतुरक्षं बीभत्समध्वरं करवाणीत्यथ यदावत्यो हूतवत्यः पुरोनुवाक्या भवन्ति प्रवत्यः प्रत्तवत्यो याज्या हूत्वैव तद्देवेभ्यो हविः प्रयच्छति ता वै गायत्री त्रिष्टुभो भवन्ति ब्रह्म वैगायत्री क्षत्त्रं त्रिष्टुब्बह्मक्षत्त्राभ्यामेव तद्देद्वेभ्यो हविः प्रयच्छत्यथो एतावान्वै छन्दसो विकारः सर्वेणैव तच्छन्दसो विकारेण देवेभ्यो हविः प्रयच्छत्यृगन्ते वषट् करोति तथा हास्य सर्वा याज्या रूपवत्यो भवन्ति षलिति वषट्करोति षड्वा ऋतव ऋतूनेव तत्प्रीणाति बार्हतराथंतरं वषट् कुर्यात्पुरस्ताद्दीर्घमुपरिष्टाद्ध्रस्वं यद्ध्रस्वं तद्रथंतरं यद्दीर्घं तद्ब्रहदथोइयं वै रथंतरमसौ बृहदनयोरेव तत्प्रतितिष्ठत्यथो एतावान्वै वाचो विकारः सर्वेणैव तद्वाचो विकारेण देवेभ्यो हविः प्रयच्छति भूर्भुव इति पुरस्ताद्येयजामहस्य जपत्योजःसहस्सहओजः स्वरित्युपरिष्टाद्वषट्कारस्य वज्रो वै वषट्कारस्तमेवैतच्छमयति पुरस्ताच्चोपरिष्टाच्चाथोएते एव वषट्कास्य प्रियतमे तनूर्यदोजश्चसहश्च ताभ्यामेवैनं तच्छमयति॥५॥

अथ यदग्निंप्रथमं देवतानां यजत्यग्निर्वै देवानां मुखं मुखत एव तद्देवान्प्रीणात्यथ यत्पौर्णमास्यामग्नीषोमौयजत्यग्नीषोमौवा अन्तर्वृत्र आस्तां ताविन्द्रों नाशक्नोदभिवज्रं प्रहर्तुं ताभ्यामेतं भागमकल्पयत्पौर्णमासं तौ वा उपांशु निरुक्तौभवतोऽजामितायै यदुपांशु यजति तेन सोमं प्रीणाति यन्निरुक्तं तेनाग्निमथ यदमावास्यायामिन्द्राग्नी यजति प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एवाथ यत्सन्नयन्नमावास्यायामिन्द्रं यजत्येतज्ज्योतिर्वा अमावास्या न ह्यत्र चन्द्रो दृश्यतेऽथ यदसन्नयत्पुरोलाशान्तरेणोपांश्वायजत्यजामिताया अथ यत्संनयन्सांनाय्यस्यान्तरेणोपांश्वाज्यस्य यजति तस्योक्तं ब्राह्मणमथ यदग्निं स्विष्टकृतमन्ततो यजत्येष ह वै देवेभ्यो हविः प्रयच्छति यो वा अन्नं विभजत्यन्ततः स भजतेऽथो रुद्रो वै स्विष्टकृदन्तभाग्वा वा एष तस्मादेनमन्ततो यजति तस्य सच्छन्दसौ याज्यापुरोनुवाक्ये निगदो व्यवैति तेनाजामि भवति वषट्कृत्याप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञेक्रियते॥६॥

अथ यत्प्रदेशिन्याभिलायाः पूर्वमञ्जनभधरौष्ठे निलिम्पत्युत्तरमुत्तरौष्ठेऽयं वै लोकोऽधरौष्ठोऽसौ लोक उत्तरौष्ठोऽथ यदोष्ठावन्तरेण तदिदमन्त-

रिक्षं तद्यत्प्राश्नातमानेव तं लोकाननुसंतन्वन्प्रीणात्यथ यदिलामुपह्वयते सर्वेष्वेव तद्भूतेषूपवमिच्छतेऽथो अन्नं वा इलाऽन्नमेव तदात्मन्धत्तेऽथो पशवो वा इला पशूनामेवाऽऽप्त्यै तस्यां चतुरवानीति चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्याअथ यदिलामुपहूयावघ्राति पशवो वा इला पशूनेव तदात्मन्धत्तेऽथ यदध्वर्युर्बर्हिषदं पुरोलाशं करोति पितॄनेव तत्प्रीणात्यथ यज्जपेनोत्तरेलां प्राश्नाति ब्रह्म वै जपो ब्रह्मणैवैनां तच्छमयत्यथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यदन्वाहार्यमाहरन्त्येतद्दक्षिणौवैदर्शपूर्णमासौ तस्मादन्वाहार्यमाहरन्त्यथ यत्समिधमनुमन्त्रयत इध्मस्य वा एषैकाऽतिशिष्टा भवति तस्मादेनामनुस्ताति॥७॥

अथ यत्त्रीननुयाजान्यजति त्रयो वा इमे लोका इमानेव तं लोकानाप्नोत्यथ यत्सर्वमुत्तममाह प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठित्या एवाथ यत्सूक्तवाकमाह प्रतिष्ठा वै सूक्तवाकः प्रतिष्ठित्या एवाथ यद्यावापृथिव्योः कीर्तयति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एवाग्निरिदं हविरजुषतेति हैक आहुर्न तथा कुर्यादभ्यावर्तते हास्य देवता पुनर्यज्ञ इति मन्वाना पुनर्मेहविः प्रदास्यतीति सा यजमानस्याऽऽशिपो निवर्तयति तस्माद्धविरजुषत हविरजुषतेत्येव ब्रूयादथो या एवैतत्पुरस्ताद्देवता यजति ताभिरेवैतदन्ततः प्रतितिष्ठत्यथ यत्सूक्तवाके यजमानस्य नाम गृह्णात्येष ह वै दैव आत्मा यजमानस्य यमृत्विजः संस्कुर्वन्ति तस्मादस्य नाम गृह्णात्यत्र हि जायत उच्चैर्गृह्णीयाद्यद्यथाऽऽचार्यः स्यात्तथा ह यजमानोऽप्रच्यावुको भवत्यथ पञ्चाऽऽशिषो वदतीलायां तिस्रस्ता अष्टावेताभिर्वै देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमान एताभिरेव सर्वा अष्टीरश्नुतेऽथ बर्हिषि प्राञ्चमञ्जलिं निधाय जपति नम उपेति न हि नमस्कारमतिदेवा अथ यच्छंयोर्वाकमाह प्रतिष्ठा वै शंयोर्वाकः प्रतिष्ठित्या एवाथो शंयुर्ह वै बार्हस्पत्यः सर्वान्यज्ञाञ्छमयांचकार तस्माच्छंयोर्वाकमाहाथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा मेषजमन्ततो यज्ञे क्रियते॥८॥

अथ यद्गार्हपत्ये पत्नीसंयाजैश्चरन्ति गार्हपत्यभाजो वै पत्न्य आहवनीयभाग्यजमानस्तस्माद्गार्हपत्ये पत्नीसंयाजैश्चरन्ति ते वै चत्वारो

भवन्त्या चतुरं वै द्वंद्वं मिथुनं प्रजननं प्रजात्यै ते वा उपांशु भवन्ति रेतःसिक्तिर्वै पत्नीसंयाजा उपांशु वै रेतः सिच्यतेऽभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्येव समृद्ध्या अथ सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति यजत्येता ह वे देवता मिथुनानामीशते ता अत्र प्रीणन्ति ता अत्र प्रीता मिथुनानि दधति सोमं प्रथमं यजति रेतस्तत्सिञ्चति त्वष्टारं द्वितीयं त्वष्टा वै रेतःसिक्तं विकरोति ततः पत्न्यः पत्नीसंयाजा ह्येतेऽथ यदग्निं गृहपतिमन्ततो यजत्येतत्स्विष्टकृतोवै पत्न्यस्तस्मादेनमन्ततो यजत्यथ यदृचं जपति स्वस्त्ययनमेव तत्कुरुतेऽथ यदिलामुपह्वयते यन्मार्जयते यच्छंयोर्वाकमाह तस्योक्तं ब्राह्मणमथ यद्वेदे पत्नीं वाचयति वृषा वै वेदो योपा पत्नी मिथुनमेव तत्पत्नीषु दधाति तस्मात्पत्नी वेदतृणान्यन्तरोरू कुरुतेऽथ यद्वेदं स्तृणाति तेन हास्य दर्शपूर्णमासौसंततौभवतोऽथो एतेनैवास्याग्निहोत्रं स्तीर्णं बर्हिर्भवत्यथ यद्वेदातिशेषमुपतिष्ठत आशिषमेव तद्वदतेऽथ यदाहवनीयमुपतिष्ठते प्रीत्वैव तद्देवेष्वन्ततोऽर्थं वदतेऽथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते क्रियते॥९॥

**इति शाङ्खायनब्राह्मणे तृतीयोऽध्यायः॥३॥


हरिः ॐ॥ अनुनिर्वाप्यया वै देवा असुरानपाघ्नत तथो एवैतद्यजमानोऽनुनिर्वाप्ययैव द्विषतो भ्रातृव्यानपहते स वा इन्द्राय विमृध एकादशकपालं पुरोलाशं निर्वपतीन्द्रो वै मृधां विहन्ता स एवास्य मृधो विहन्त्यथो आमावास्यमेवैतत्प्रत्याहरति यत्पौर्णमास्यामिन्द्रं यजत्यत्र संस्थितदर्शपूर्णमासौयजमानो यद्यपरपक्षे भङ्गं नीयान्नास्य यज्ञविकर्षःस्यादथ यदमावास्यायामदितिं यजति यज्ञस्यैव स भारतायै सा संयाज्याऽतो विमृद्वती भवति॥१॥

अथातोऽभ्युदिताया एति ह वा एष यज्ञपथाद्यस्योपवसथे पुरस्ताच्चन्द्रो दृश्यते सोऽग्नये दात्रेऽष्टाकपालं पुरोलाशं निर्वपत्यग्निर्वै दाता स एवास्मै यज्ञं ददातीन्द्राय प्रदात्रेसायं दोहितं दधीन्द्रो वै प्रदाता स एवास्मै यज्ञं प्रयच्छति विष्णवे शिपिविष्टाय प्रातर्दोहिते पयसि चरुं यज्ञोवै विष्णुः स एवास्मै यज्ञं ददाति तद्यदेता देवता यजति नेद्यज्ञपथादयानीति तिसृधन्वं दक्षिणा तत्स्वस्त्ययनस्य रूपम्॥२॥

अथातोऽभ्युद्रष्टाया एति ह वा एष यज्ञपथाद्यस्योपवसथे पश्चाच्चन्द्रो दृश्यते सोऽग्नये पथिकृतेऽष्टाकपालं पुरोलाशं निर्वपत्यग्निर्वै पथिकृत्स एवैनं पुनर्यज्ञपथमपि पाथयतीन्द्राय वृत्रघ्न एकादशकपालमिन्द्रो वै वृत्रहा स एवैनं पुनर्यज्ञपथमपि पाथयति वैश्वानरीयं द्वादशकपालमसौ वै वैश्वानरो योऽसौ तपत्येष एवैनं पुनर्यज्ञपथमपि पाथयति तद्यदेता देवता यजति नेद्यज्ञपथा दयानीति दण्डोपानहं दक्षिणा तद्भयस्य रूपम्॥३॥

अथातो दाक्षायणयज्ञस्य दाक्षायणयज्ञेनैष्यन्फाल्गुन्यां पौर्णमास्यां प्रयुङ्क्ते मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी तस्मात्तस्यामदीक्षितायनानि

प्रयुज्यन्तेऽथो दक्षो ह वै पार्वतिरेतेन यज्ञेनेष्ट्वा सर्वान्कामानापतद्यद्दाक्षायणयज्ञेन यजते सर्वेषामेव कामानामाप्त्यै नाशने काममापयति सोमं राजानं चन्द्रमसं मक्षयामीति प्रनसा ध्यायन्नश्रीयात्तदसौ वै सोमो राजा विचक्षणश्चन्द्रमास्तमेतमपरपक्षं देवा अभिषुण्वन्ति तद्यदपरपक्षं दाक्षायणयज्ञस्य व्रतानि चरति देवानामपि सोम पीथोऽसानीत्यथ यदुपवसथेऽग्नीषोमीयमेकादशकपालं पुरोलाशं निर्वपति य एवासौ सोमस्योपवसथेऽग्नीषोमीयस्तमेव तेनाऽऽमोत्यथ यत्प्रातरामावास्येन यजत ऐन्द्रं वै सुत्यमहस्तत्सुत्यमहराप्नोत्यथ यदमावास्यायामुपवसथ ऐन्द्राग्नं द्वादशकपालं पुरोलाशं निर्वपत्यैन्द्राग्नं वै सामतस्तृतीयसवनं तत्तृतीयसवनमाप्नोत्यथ

यन्मैत्रावरुणी पयस्या मैत्रावरुणी वा अनुबन्ध्या तदनूबन्ध्यामाप्नोति स एष सोमो हविर्यज्ञाननुप्रविष्टस्तस्माददीक्षितो दीक्षितव्रतो भवति॥४॥

अथात इलाधस्येलाधेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्तेतस्या उक्तं ब्राह्मणं स एष पशुकामस्यान्नाद्यकामस्य यज्ञस्तेन पशुकामोऽन्नाद्यकामो यजेत तत्र तथैव व्रतानि चरति दाक्षायणयज्ञस्य हि स मासः॥५॥

अथातः सार्वसेनियज्ञस्य सार्वसेनियज्ञेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष प्रजातिकामस्य यज्ञस्तेन प्रजातिकामो यजेत तद्यदध्वर्युर्हवींषि प्रजनयति तत्प्रजात्यै रूपम्॥६॥

अथातः शौनकयज्ञस्य शौनकयज्ञेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष तुस्तूर्षमाणस्य यज्ञस्तेन तुस्तूर्षमाणो यजेत स य इच्छेद्द्विषन्तं भ्रातृव्यं स्तृण्वीयेत सोऽनेन यजेत स्तृणुते ह॥७॥

अथातो वसिष्ठयज्ञस्य वसिष्ठयज्ञेनैष्यन्फाल्गुन्याममावास्यायां प्रयुङ्क्तेब्रह्म वै पौर्णमासी क्षत्त्रममावास्या क्षत्त्रमिवैष यज्ञः क्षत्त्रेण शत्रून्सहा ३ इति वसिष्ठोऽकामयत हतपुत्रः प्रजायेय प्रजया पशुभिरभिसौदासान्भवेयमिति स एतं यज्ञक्रतुमपश्यद्वसिष्ठयज्ञं तमाहरत्तेनायजत तेनेष्ट्वाप्राजायत प्रजया पशुभिरभिसौदासानभवत्तथो एवैतद्यजमानो यद्वसिष्ठयज्ञेन यजते प्रजायते प्रजया पशुभिरभिद्विषतो भ्रातृव्यान्भवति॥८॥

अथातः साकंप्रस्थाय्यस्यसाकंप्रस्थाय्येनैष्यन्नेतस्यामेवामावास्यायां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष श्रैष्ठ्यकामस्य पौरुषकामस्य यज्ञस्तेन श्रैष्ठ्यकामःपौरुषकामो यजेत तद्यत्साकं संप्रतिष्ठन्ते साकं संप्रयजन्ते साकं भक्षयन्ते तस्मात्साकंप्रस्थाय्यः॥९॥

अथातो मुन्ययनस्य मुन्ययनेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष सर्वकामस्य यज्ञस्तेन सर्वकामो यजेत॥१०॥

अथातस्तुरायणस्य तुरायणयज्ञेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष स्वर्गकामस्य यज्ञस्तेन स्वर्गकामो यजेताथ यत्कृष्णाजिनं प्रतिमुञ्चते ब्रह्म वै कृष्णाजिनं ब्रह्मणैव तद्यज्ञं समर्धयति तानि वै त्रीणि हवींषि भवन्ति त्रयो वा इमे लोका इमानेव तं लोकानाप्नोति॥११॥

अथात आग्रयणस्याऽऽग्रयणेनान्नाद्यकामो यजेत वर्षास्वागते श्यामाकसस्ये श्यामाकानुद्धर्तवा आह सा या तस्मिन्कालेऽमावास्योपसंपद्येत तयेष्ट्वाऽथैतयेष्ट्यायजेत यदि पौर्णमास्येतयेष्ट्वाऽथ पौर्णमासेन यजेत यद्युनक्षत्रमुपेप्सेत्पूर्वपक्षे नक्षत्रमुदीक्ष्य यस्मिन्नक्षत्रे कामयेत तस्मिन्यजेत तस्यै सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणं सौम्यश्चरुः सोमो वै राजौषधीनां तदेनं स्वया विशा प्रीणात्यथ यन्मधुपर्कं ददात्येष ह्यारण्यानां रसः॥१२॥

अथ वसन्त आगते पक्वेषु वेणुयवेषु वेणुयवानुद्धर्तवा आह तस्या एतदेव पर्वैतत्तन्त्रमेषा देवतैषा दक्षिणैतद्ब्राह्मणं तां हैक आग्नेयीं वा वारुणीं वा प्राजापत्यां वा कुर्वन्त्येतत्तन्त्रमेवैतद्ब्राह्मणम्॥१३॥

अथ व्रीहिसस्ये वा यवसस्येवाऽऽगत आग्रयणीयानुद्धर्तवा आह तस्या एतदेव पर्वैतत्तन्त्रमथ यदैन्द्राग्नो द्वादशकपाल इन्द्राग्नीवै देवानां मुखं मुखत एव तद्देवान्प्रीणात्यथ यद्वैश्वदेवश्चरुरेते वै सर्वे देवा यद्विश्वे

देवाः सर्वेषामेव देवानां प्रीत्या अथ यद्यावापृथिवी य एककपालो द्यावापृथिवी वै सस्यस्य साधयित्र्यौ प्रतिष्ठा पृथिव्योद्मनासामनुवेद तद्यदेता देवता यजत्येताभिर्देवताभिः शान्तमन्नमत्स्यामीत्यथ यत्प्रथमजं गां ददाति प्रथमकर्म ह्येतद्यद्येतस्यैलायात्पौर्णमासं वाऽऽमावास्यं वा हविः कुर्वीत नवानामुभयस्याऽऽप्त्या अपि वा पौर्णमासे वाऽऽमावास्ये वा हवींष्यनुवर्तयेद्देवतानामपरिहाणायापि वा यवाग्वैव सायं प्रातरग्निहोत्रं जुहुयान्नवानामुभयस्याऽऽप्त्याअपि वा स्थालीपाकमेव गार्हपत्ये श्रपयित्वा नवानामेताभ्य आग्रयणदेवताभ्य आहवनीये जुहुयात्स्विष्टकृच्चतुर्थीभ्योऽमुष्यै स्वाहाऽमुष्यै स्वाहेति देवतानामपरिहाणायापि वाऽग्निहोत्रीमेव नवानादयित्वा तस्यै दुग्धेन सायं प्रातरग्निहोत्रं जुहुयादुभयस्याऽऽप्त्या एत एतावन्तः पातास्तेषां येन कामयेत तेन यजेत त्रिहविस्तु स्थितास्त्रयो वा इमे लोका इमानेव तं लोकानाप्नोतीमानेव तं लोकानाप्नोति॥१४॥

इति शाङ्खायनब्राह्मणे चतुर्थोऽध्यायः॥४॥

  •    *
    

ॐ अथातश्चातुर्मास्यानां चातुर्मास्यानि प्रयुञ्जानःफागुल्न्यांपौर्णमास्यां प्रयुङ्क्ते मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुखमुत्तरे फल्गू पुच्छं पूर्वे तद्यथा प्रवृत्तस्यान्तौ समेतौ स्यातामेवमेवैतौ संवत्सरस्यान्तौ समेतौ तद्यत्फाल्गुन्यां पौर्णमास्यां वैश्वदेवेन यजते मुखत एव तत्संवत्सरं प्रीणात्यथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यामि तस्मादृतुसंधिषु प्रयुज्यन्त ऋतुसंधिषु हि व्याधिर्जायते तानि वा अष्टौ हवींषि भवन्त्यष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति चतसृणां वै पौर्णमासीनां वैश्वदेवं स मासोऽथ यदग्निर्मथ्यते प्रजातिर्वै वैश्वदेवं तस्मादेतं दैवं गर्भं प्रजनयत्यथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रियां विराजमाप्नोति॥१॥

अथ यदग्नीषोमौप्रथमौदेवतानां यजति दार्शपौर्णमासिके वा एते देवते तस्मादेतौ प्रथमौ यजत्यथ यत्सवितारं यजति सविता वै प्रसवानामीशे सवितृप्रसूतताया अथ यत्सरस्वतीं यजति वाग्वै सरस्वती वाचमेव तत्प्रीणात्यथ यत्पूषणं यजत्यसौ वै पूषा योऽसौ तपत्येतमेव तत्प्री-

णात्यथ यन्मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसो भैषज्यमेव तत्कुरुतेऽथ यद्वैश्वदेवी पयस्यैते वै सर्वे देवा यद्विश्वे देवाः सर्वेषामेव देवानां प्रीत्या अथ य[द्]द्यावापृथिवी य एककपालः प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एवाथ यत्प्रथमजं गां ददाति प्रथमकर्म ह्येतदथ यत्पुरस्ताद्वोपरिष्टाद्वा शंयोर्वाकस्यानावाहितान्वाजिनो यजति देवा अश्वा वै वाजिनस्तानेव तत्प्रीणात्यत्र देवाः साश्वाः प्रीता भवन्त्यथो ऋतवो वै वाजिन ऋतूनेव तत्प्रीणात्यथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति॥२॥

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ताः सृष्टा अप्रसूता वरुणस्य यवां चक्षुस्ता वरुणो वरुणपाशैः प्रत्यमुञ्चत्ताः प्रजाः प्रजापतिं पितरमेत्योपाधावन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्येमहीति तत एतं प्रजापतिर्यज्ञक्रतुमपश्यद्वरुणप्रघासं तमाहरत्तेनायजत तेनेष्ट्वा वरुणमप्रीणात्स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच्च पाप्मनःप्रजाःप्रामुञ्चत्प्रह वा अस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्ते य एवं विद्वान्वरुणप्रघासैर्यजतेऽथ यदग्निंप्रणयन्ति पमेवामुंवैश्वदेवे मन्थन्ति तमेव तत्प्रणयन्त्यथ यदग्निर्मथ्यते तस्योक्तं ब्राह्मणमथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि तन्नक्षत्रियां विराजमानोति समानानि पञ्चसञ्चराणि हवींषि पौष्णान्तानि तेषामुक्तं ब्राह्मणम्॥३॥

अथ यदैन्द्राग्नो द्वादशकपालः प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एवाथोमध्यस्थो वा इन्द्रस्तस्मादेनं मध्यतो यजत्यथ यद्वारुणी पयस्येन्द्र उ वै वरुणः स उ वै पयोभाजनस्तस्माद्वारुणी पयस्याऽथ यन्मारुती पयस्याऽप्सु वै मरुतः शितास्तस्मादेनान्पयसा यजत्यापो हि पयोऽथो इन्द्रस्य वै मरुत ऐन्द्रं पयस्तस्मान्मारुती पयस्याऽथ यत्काय एककपालः प्रजापतिर्वै कस्तमेव तत्प्रीणात्यथो सुखस्यैवैतन्नामधेयं कमिति सुखमेव तदात्मन्धत्तेऽथ यन्मिथुनौ गावौ ददाति तत्प्रजात्यै रूपमथ यद्वाजिनो यजति तेषामुक्तं ब्राह्मणमथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणात्यथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं भवति॥४॥

ऐन्द्रो वा एषयज्ञक्रतुर्यत्साकमेधास्तद्यथा महाराजः पुरस्तात्सैनानीकानि प्रत्युह्याभयं पन्थानमन्वियादेवमेवैतत्पुरस्ताद्देवता यजति तद्यथाऽदः सोमस्य महाव्रतमेवमेतदिष्टिमहाव्रतमथ यदग्निमनीकवन्तं प्रथमं देवतानां यजत्यग्निर्वै देवानां मुखं मुखत एव तद्देवान्प्रीणात्यथ यन्मध्यंदिने मरुतः सांतपनान्यजति मध्यंदिने वै संतपति तस्मान्मध्यंदिने मरुतः सांतपनान्यजत्यथो इन्द्रस्य वै मरुत ऐन्द्रो मध्यंदिनस्तस्मान्मध्यंदिने मरुतः सांतपनान्यजत्यथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वा एतद्यद्गृहमेधीयःसायंपोषस्तस्मात्पोषवन्तावाज्यभागौ यजति यजमानमेव तत्पोषयत्यथ यत्प्रातः पूर्णदर्षेण चरन्ति पूर्वेद्युः कर्मणवेतत्प्रातः कर्मोपसंतनोत्यथ यन्मरुतः क्रीलिनो यजतीन्द्रस्य वै मरुतः क्रीलिनस्तस्मादेनानिन्द्रेणोपसंहितान्यजत्यथ यदग्निं प्रणयन्ति यन्मथ्यते तस्योक्तं ब्राह्मणमथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि स्विष्टकृन्नवमस्तन्नक्षत्रियां विराजमाप्नोति समानानि षट् संचराणि हवींष्यैन्द्राग्नान्तानि तेषामुक्तं ब्राह्मणमथ यन्महेन्द्रमन्ततो यजत्यन्तं वै श्रेष्ठी भजते तस्मादेनमन्ततो यजत्यथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपत्येतमेव तत्प्रीणात्यथ यदृषभं ददात्यैन्द्रो हि यज्ञक्रतुः॥५॥

अथ यदपराह्णे पितृयज्ञेन चरन्त्यपक्षयभाजो वैपितरस्तस्मादपराह्णेपितृयज्ञेन चरन्ति तदाहुर्यदपरपक्षभाजः पितरोऽथ कस्मादेनान्पूर्वपक्षे यजन्तीति दैवा वा एते पितरस्तस्मादेनान्पूर्वपक्षे यजन्त्यथ यदेकां सामिधेनीमन्वाह सकृदिव वै पितरस्तस्मादेकां सामिधेनीमन्वाह सा वा अनुष्टुब्भवति वागनुष्टुप्पराञ्च उ वै पितरस्तानेवैतद्वाचाऽनुष्टुब्भागमयत्यथ यद्यजमानस्यार्षेयं नाहनेद्यजमानं प्रवृणजानीत्यथैतं निगदमन्वाह तस्योक्तं ब्राह्मणमथ यत्सोमं पितृमन्तं पितॄन्वा सोमवतः पितॄन्बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति दैवा वा एते पितरस्तस्मादेनानावाहयत्यथ यदग्निं कव्यवाहनमावाहयत्येतत्स्विष्टकृतो वै पितरस्तस्मादेनमावाहयति न हैके स्वं महिमानमावाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति त्वेव स्थितमग्नेर्ह्येवैष महिमा॥६॥

अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्ता उत्सृजति प्रजा वैबर्हिर्नेत्प्रजांप्रवृणजानीति ते वै षड् भवन्ति षड्वाऋतव ऋतवः पितरः पितॄनेव तत्प्रीणात्यथ यज्जीवनवन्तावाज्यभागौ यजति यजमानमेव तज्जीवयत्यथ

यत्तिस्रस्तिस्र एकैकस्य हविषो भवन्ति त्रीणि वै हवींषि भवन्ति तेषां समवद्यति तस्मात्तिस्रस्तिस्र एकैकस्य हविषो भवन्त्यथो देवकर्मणैवैतत्पितृकर्म व्यावर्तयत्यथो परामु वै परावतं पितरो गता आह्वयत्यैवैनां प्रथमया द्वितीयया गमयति प्रैव तृतीयया यच्छत्यथ यदग्निं कव्यवाहनमन्ततो यजत्येतत्स्विष्ट[कृ] तो वै पितरस्तस्मादेनमन्ततो यजत्यथ यदिलामुपहूयावघ्राय न प्राश्नन्ति पशवो वा इला नेद्यजमानस्य पशून्प्रवृणजामेत्यथ यदध्वर्युः पितृभ्यो ददाति पितॄनेव तत्प्रीणात्यथ यत्पवित्रमतिमार्जयन्ते शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यदृचं जपन्ति

स्वस्त्ययनमेव तत्कुर्वतेऽथ यदुदञ्चःपरेत्य गार्हपत्याहवनीया उपतिष्ठन्ते प्रीत्यैव तद्देवेष्वन्ततोऽर्थं वदन्तेऽथो दक्षिणासंस्थो वै पितृयज्ञस्तमेवैतदुदक्संस्थं कुर्वन्त्यथ यत्प्राञ्च उपनिष्क्रम्याऽऽदित्यमुपतिष्ठन्ते देवलोको वा आदित्यः पितृलोकः पितरो देवलोकमेव तत्पितृलोकादभ्युत्क्रामन्त्यथ यत्सूक्तवाके यजमानस्य नाम न गृह्णाति नेद्यजमानं प्रवृणजानीत्यथ यत्पत्नीसंयाजैर्न चरन्ति नेत्पत्न्यः प्रवृणजामेत्यथ यदुदञ्चः परेत्य त्र्यम्बकैश्चरन्ति रुद्रमेव तत्स्वायां दिशि प्रीणन्त्यथो दक्षिणासंस्थो वै पितृयज्ञस्तमेवैतदुदक्संस्थं कुर्वन्त्यथ यदन्तत इष्ट्वेष्ट्यायजत एतत्संस्था वै साकमेधास्तस्मादन्तत इष्ट्वेष्ट्या यजतेऽथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति॥७॥

त्रयोदशं वा एतं मासमाप्नोति यच्छुनासीर्येण यजत एतावान्वैसंवत्सरो यदेष त्रयोदशो मासस्तत्रैव सर्वैः संवत्सर आप्तो भवत्यथ यदग्निर्मथ्यते यद्वैश्वदेवस्य तन्त्रं तत्तन्त्रं यद्युन मथ्यते पौर्णमासमेव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासं प्रतिष्ठित्या एवाथ यदग्निर्मथ्यते तस्योक्तं ब्राह्मणमथ यत्सप्तदश सामिधेन्यः सद्वान्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि स्विष्टकृन्नवमं तन्नक्षत्रियां विराजमानोति समानानि त्वेव पञ्च संचराणि हषींषि भवन्ति पौष्णान्तानि तेषामुक्तं ब्राह्मणमथ यच्छुनासीरौ यजति शान्तिर्वै भेषजं शुनासीरौ शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यद्वायुं यजति प्राणो वै वायुः प्राणमेव तत्प्रीणात्यथ यत्सौर्य

एककपालोऽसौ वै सूर्यो योऽसौ तपत्येवमेव तत्प्रीणात्यथ यच्छ्वेता दक्षिणैतमेव तत्प्रीणात्येतस्यैव तद्रूपं क्रियते॥८॥

अथ यत्प्रायश्चित्तप्रतिनिधीन्कुर्वन्ति यदाहुतीर्जुह्वति स्वस्त्ययनमेव तत्कुर्वते यज्ञस्यैव शान्त्यै यजमानस्य च भिषज्यायै॥९॥

अथ यत्स्वैरग्निभिर्यजमानं संस्थापयन्ति देवरथो वा अग्नयो देवरथ एवैनं तत्संस्थापयन्ति स एतेन देवरथेन स्वर्गं लोकमेति सुकृतां यत्र लोकः सुकृतां यत्र लोकः॥१०॥

**इति शाङ्खायनब्राह्मणे पञ्चमोऽध्यायः॥५॥


हरिः ॐ प्रजापतिः प्रजातिकामस्तपोऽतप्यत तस्मात्तप्तात्यञ्चाजायन्ताग्निर्वायुरादित्यश्चन्द्रमा उषाःपञ्चमीतानब्रवीद्यूयमपि तप्यध्वमिति तेऽदीक्षन्त तान्दीक्षितांस्तेपानानुषाः प्राजापत्याप्सरोरूपं कृत्वा पुरस्तात्प्रत्युदैत्तस्यामेषां मनः समपतत्ते रतोऽसिञ्चन्त ते प्रजापतिं पितरमेत्याब्रुवन्रेतोवा असिञ्चाम हा इदं नो मामुया भूदिति स प्रजापतिर्हिरण्मयं चमसमकरोदिषुमात्रमूर्ध्वमेवं तिर्यञ्चं तस्मिन्नेतत्समसिञ्चत्तत उदतिष्ठत्सहस्राक्षः सहस्रपात्सहस्रेण प्रतिहिताभिः॥१॥

स प्रजापतिं पितरमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति नाम मे कुर्वित्यब्रवीन्न वा इदमविहितेन नाम्नाऽन्नमत्स्यामीति स वै त्वमित्यब्रवीद्भव एवेति यद्भव आपस्तेन ह वा एनं न भवो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एवं पापीयान्भवति न स य एवं वेद तस्य ब्रतमार्द्रमेव वासःपरिधीतेति॥२॥

तं द्वितीयमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति द्वितीयं मे नाम कुर्वित्यब्रवीन्न वा इदमेकेन नाम्नाऽन्नमत्स्यामीति स वै त्वमित्यब्रवीच्छर्व एवेति यच्छर्वोऽग्निस्तेन न ह वा एनं शर्वो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं सर्वमेव नाश्नीयादिति॥३॥

तं तृतीयमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति तृतीयं मे नाम कुर्वित्यब्रवीन्नवा इदं द्वाभ्यां नामभ्यामन्नमत्स्यामीति स वै त्वमित्यब्र-

वीत्पशुपतिरेवेति यत्पशुपतिर्वायुस्तेन न ह वा एनं पशुपतिर्हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं ब्राह्मणमेव न परिवदेदिति॥४॥

तं चतुर्थमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति चतुर्थं मे नाम कुर्वित्यब्रवीन्न वा इदं त्रिभिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवीदुग्र एव देव इति यदुग्रो देव ओषधयो वनस्पतयस्तेन न ह वा एनमुग्रो देवो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं स्त्रिया एव विवरं नेक्षेतेति॥५॥

तं पञ्चममभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति पञ्चमं मे नाम कुर्वित्यब्रवीन्न वा इदं चतुर्भिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवीन्महानेव देव इति यन्महान्देव आदित्यस्तेन न ह वा एनं महान्देवो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतमुद्यन्तमेवैनं नेक्षेतास्तं यन्तं चेति॥६॥

तं षठमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति षष्ठं मे नाम कुर्वित्यब्रवीन्न वा इदं पञ्चभिर्न्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवीद्रुद्र एवेति यद्रुद्रश्चन्द्रमास्तेन न ह वा एनं रुद्रो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं विमूर्त्तमेव नाश्नीयान्मज्जानं चेति॥७॥

तं सप्तममभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति सप्तमं मे नाम कुर्वित्यब्रवीन्न वा इदं षड्भिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवीदीशान एवेति यदीशानोऽन्नं तेन न ह वा एनमीशानो हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतमन्नमेवेच्छमानं न प्रत्याचक्षीतेति॥८॥

तमष्टममभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीत्यष्टमं मे नाम कुर्वित्यब्रवीन्न वा इदं सप्तभिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवी-

दशनिरेवेति यदशनिरिन्द्रस्तेन न ह वा एनमशनिर्हिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं सत्यमेव वदेद्धिरण्यं च विभृयादिति स एषोऽष्टनामाऽष्टधाविहितो महान्देव आह वा अस्याष्टमात्पुरुषात्प्रजाऽन्नमत्ति वशीयान्वशीयान्हैवास्य प्रजायामाजायते य एवं वेद॥९॥

प्रजापतिस्तपोऽतप्यत स तपस्तप्त्वा प्राणादेवेमं लोकं प्राबृहदपानादन्तरिक्षलोकं व्यानादमुं लोकं स एतांस्त्रील्लोँकानभ्यतप्यत सोऽग्निमेवास्माल्लोकादसृजत वायुमन्तरिक्षलोकादादित्यं दिवः स एतानि त्रीणि ज्योतींष्यभ्यतप्यत सोऽग्नेरेवर्चोऽसृजत वायोर्यजूंष्यादित्यात्सामानि स एतां त्रयीं विद्यामभ्यतप्यत स यज्ञमतनुत स ऋचैवाशंसद्यजुपा प्रातरत्साम्नोदगायदथैतस्या एव त्रय्यै विद्यायै तेजोरसं प्राबृहदेतेषामेव वेदानां भिषज्यायै स भूरित्यृचां प्राबृहद्भुव इति यजुषां स्वरिति साम्नांतेन दक्षिणतो ब्रह्माऽऽसीत्तस्य दक्षिणतो वर्षीयानुदीचीनप्रवणो यज्ञः संतस्थे तस्य ह वै दक्षिणतो वर्षीयानुदीचीनैव प्रवणो यज्ञः सतिष्ठते यस्यैवं विद्वान्ब्रह्मा भवति॥१०॥

तदाहुर्यदृचा होता होता भवति यजुषाऽध्वर्युरध्वर्युः साम्नोद्गातोद्गाताकेन ब्रह्मा ब्रह्मा भवतीति यमेवामुं त्रय्यैविद्याय तेजोरसं प्राबृहत्तेन ब्रह्मा ब्रह्मा भवति तदाहुः किंविदं किंछन्दसं ब्रह्माणं वृणीतेत्यध्वर्युमित्येकेस परिक्रमाणां क्षेत्रज्ञो भवतीतिच्छन्दोगमित्येके तथा हास्य त्रिभिर्दैर्हविर्यज्ञाः संस्क्रियन्त इति बहूवृचमिति त्वेव स्थितमेतत्यरिचरणावितरौ वेदावत्र न भूयिष्ठा होत्रा आयत्ता भवन्तीत्यृग्भिर्ग्रहा गृह्यन्त ऋक्षु सामानि गीयन्ते तस्माद्ब्रह्वृचएवस्यात्तदाहुः कियद्ब्रह्मा यज्ञस्य संस्करोति कियदन्य ऋत्विज इत्यर्धमिति ब्रूयाद्द्वेवै यज्ञस्य वर्तनी वाचाऽन्या संस्क्रियते मनसाऽन्या सा या वाचा संस्क्रियते तामन्य ऋत्विजः संस्कुर्वन्त्यथ या मनसा तां ब्रह्मा तस्माद्यावदृचा यजुषा साम्नाकुर्युस्तूष्णीं तावद्ब्रह्माऽऽसीतार्धं हि तद्यज्ञस्य संस्करोति॥११॥

अथ यत्रैनं ब्रूयुर्ब्रह्मन्प्रणेष्यामो ब्रह्मन्प्रच तरिष्यामो ब्रह्मन्प्रस्थास्यामो ब्रह्मन्स्तोष्याम इत्यो३मित्येतावता प्रसूयादेतद्ध वा एकमक्षरं त्रयीं विद्यां प्रति प्रति तथा हास्य त्रय्या विद्यया प्रसूतं भवति ब्रह्मणिवै यज्ञः प्रतिष्ठितो यद्वै यज्ञस्य स्खलितं बोल्वणं वा भवति ब्रह्मण एव

तत्प्राहुस्तस्य त्रय्या विद्यया भिषज्यत्यथ यद्ध्यृच्युल्बणं स्याच्चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये प्रायश्चित्ताहुतिं जुहुयाद्भूः स्वाहेप्ति तदृचमृचि दधात्यृचर्चि प्रायश्चित्तिंकरोत्यथ यदि यजुष्युल्बणं स्याच्चतुर्गृहीतमाज्यं गृहीत्त्वाऽन्वाहार्यपचने प्रायश्चित्ताहुतिं जुहुयाद्धविर्यज्ञ आग्नीध्रीये सौम्येऽध्वरे भुवः स्वाहेति तद्यजुर्यजुषि दधाति यजुषा यजुषि प्रायश्चित्तिं करोत्यथ यदि साम्न्युल्बणं स्याच्चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये प्रायश्चित्ताहुतिं जुहुयात्स्वः स्वाहेति तत्साम साम्नि दधाति साम्ना साम्निप्रायश्चित्तिंकरोत्यथ यद्यविज्ञातमुल्बणं स्याच्चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीयेएव प्रायश्चित्ताहुतिं जुहुयाद्भूर्भुवः स्वः स्वाहेत्येष ह वै यज्ञस्य व्यृद्धं समर्धयति य एताभिर्व्याहृतिभिः प्रायश्चित्तिं कराति न ह बा उपसृतो ब्रूयान्नाहमेतद्वेदेत्येता व्याहृतीर्विद्वान्सर्वं ह वा उ स वेद य एता व्याहृतीर्वेद तद्यथा ह वै दारुणः श्लेष्मसंश्लेषणं स्यात्परिचर्मण्यं वैवमेवैता व्याहृतयस्त्रय्यैविद्यायै संश्लेषण्यः॥१२॥

अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तथोपविशतीदमह मर्वावसोः सदसि सीदामीत्यर्वावसुर्ह वै देवानां ब्रह्मा तमेवैतत्पूर्वे सादयत्यरिष्टं यज्ञं तनुतादित्यथोपविश्य जपति बृहस्पतिर्ब्रह्मेति बृहस्पतिर्हवैदेवानां ब्रह्मा तस्मिन्नेवैतदनुज्ञामिच्छते प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनादेतद्वै यज्ञस्य द्वारं तदेतदशन्यं करोतीष्टे च स्विष्टकृत्याऽनुयाजानां प्रसवादेतद्ध वै यज्ञस्य द्वितीयं द्वारं तदेवैतदशून्यं करोत्यथ यत्र ह तद्देवा यज्ञमतन्वत तत्सवित्रे प्राशित्रं परिजह्रुस्तस्य पाणी प्रतिच्छेद तस्मै हिरण्मयौप्रतिदधुस्तस्माद्धिरण्यपाणिरितिस्तुतस्तद्भगाय परिजहुस्तस्याक्षिणी निर्जघान तस्मादाहुरन्धो भग इति तत्पूष्णे परिजह्रुस्तस्य दन्तान्परोवाप तस्मादाहुरदन्तकः पूषा करम्भभाग इति ते देवा ऊचुः॥१३॥

इन्द्रो वै देवानामोजिष्ठो बलिष्ठस्तस्मा एनत्परिहरतेति तत्तस्मै परिजह्रुस्तस्य ब्रह्मणा शमयांचकार तस्मादाहेन्द्रो ब्रह्मेति तत्प्रतीक्षते मित्रस्य त्वाचक्षुषा प्रतीक्ष इति मित्रस्यैवैनं तच्चक्षुषा शमयत्यथैनत्प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताम्यां प्रतिगृह्णामीत्येताभिरेवैनं तद्देवताभिः शमयति तद्व्युह्य तृणाति प्राग्दण्डं

स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति पृथिवी वा अन्नानां शमयित्री शमयत्येवैनं तत्तत आदाय प्राश्नात्यग्नेष्ट्वाऽऽस्येन प्राश्नामीत्यग्निर्वा अन्नानां शमयिता शमयत्येवैनं तदथापोऽन्वाचामति शान्तिरसीति शान्तिर्वैभेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ प्राणान्संशन्ति तद्यदेवात्र प्राणानां क्रूरीकृतं यद्विलिष्ठं तदेवैतदाप्यापयति तद्भिषज्यतीन्द्रस्य त्वा जठरे सादयामीति नाभिमन्ततोऽभिमृशन्तीन्द्रो ह्येवैनं तच्छमयांचकाराथ यत्सावित्रेण जपेन प्रसौति सविता वै प्रसविता कर्मण एव प्रसवाय॥४॥

प्रजापतिर्ह यज्ञं ससृजे सोऽग्न्याधेयेनैव रेतोऽसृजत देवान्मनुष्यानसुरानित्यग्निहोत्रेण दर्शपूर्णमासाभ्यामिन्द्रमसृजत तेभ्य एतदन्नपानं ससृज एतान्हविर्यज्ञान्सौम्यमध्वरमित्यथो यं यं काममैच्छंस्तं तमेतैरयनैरापुरन्नाद्यमाग्रयणेन तदाहुः कस्मादयनानीति गमनान्येव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य चातुर्मास्यैराप्नुवन्त्स्वर्गाँल्लोकान्सर्वान्कामान्सर्वा इष्टीः सर्वममृतत्वं स एष प्रजापतिरेव संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि तस्य मुखमेव वैश्वदेवं दर्शपूर्णमासौपर्वाण्यहोत्राण्यस्थिमज्जानि बाहुवरुणप्रघासाः प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टय आत्मा महाहविर्या इमा अन्तर्देवतास्तदन्या इष्टीःप्रतिष्ठा शुनासीरीयं स एष प्रजापतिरेव संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि सर्वं वै प्रजापतिःसर्वं चातुर्मास्यानि तत्सर्वेण सर्वमाप्नोति य एवं वेदय एवं वेद॥१५॥

**इति शाङ्खायनब्राह्मणे षष्ठोऽध्यायः॥६॥


हरिः ॐ वाग्दीक्षा वाचा हि दीक्षते प्राणो दीक्षितो वाचा वै दीक्षया देवाः प्राणेन दीक्षितेन सर्वान्कामानुभयतः परिगृह्याऽऽत्मन्न दधत तथो एवैतद्यजमानो वाचैव दीक्षया प्राणेन दीक्षितेन सर्वान्कामानुभयतः परिगृह्याऽऽत्मन्धत्त आग्नावैष्णवमेकादशकपालं पुरोलाशं निर्वपत्यग्निर्वै देवानामवरार्ध्योविष्णुः परार्ध्यस्तद्यश्चैव देवानामवरार्ध्योयश्चपरार्ध्यस्ताभ्यामेवैतत्सर्वा देवताः परिगृह्य सलोकतामाप्नोति तस्मात्कामं पूर्वो दीक्षित्वा संसनुयात्पूर्वस्य ह्यस्य देवताः परिगृहीता भवन्ति शरीराभिः प्राणदीक्षाभिर्दीक्षते प्राणा वै प्रयाजा अपाना अनुयाजास्तद्यत्प्रयाजानुयाजैश्चरन्ति तत्प्राणापाना दीक्षन्ते यद्धविषा तच्छरीरं

सोऽयं शरीरेणैव दीक्षमाणेन सर्वान्कामानाप्नोति प्राणापानैर्दीक्षमाणैः सर्वासां देवतानां सलोकतां सायुज्यम्॥१॥

पञ्चदश सामिधेनीरन्वाह वज्रो वै सामिधेन्यः पञ्चदशो वै वज्रो वार्त्रघ्नावाज्यभागौ भवतो वज्रो वार्त्रघ्नावाज्यभागौ त्रिष्टुभौ हविषो याज्यापुरोनुवाक्ये वज्रस्त्रिष्टुबेतेन वै देवास्त्रिः समृद्धेन वज्रेणैभ्यो लोकेभ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैव त्रिः समृद्धेन वज्रेणैभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते वज्रो वार्त्रघ्नावाज्यभागौ ता उक्ताव थातो हविषो याज्यापुरोनुवाक्ये उप वां जिह्वा घृतमाचरण्यदित्यावती तत्पुरोनुवाक्यारूपं प्रति वां जिह्वाघृतमुच्चरण्यदित्युद्वती तद्याज्यारूपं त्रिष्टुभौ संयाज्ये बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधात्यागुर उदृचमितीलायां च सूक्तवाके चाऽऽह यदा वा आग्नावैष्णवः पुरोलाशो निरूप्यतेऽथैव दीक्षित इति ह स्माऽऽह तस्मादागुर उदृचमित्येव ब्रूयाद्यथैव दीक्षितस्य न सूक्तवाके यजमानस्य नाम गृह्णाति देवगर्भो वा एषयद्दीक्षितो न वा अजातस्य गर्भस्य नाम कुर्वन्ति तस्मादस्य नाम न गृह्णाति॥२॥

न वेदे पत्नीं वाचयति नैनं स्तृणात्यसंस्थित इव वा अत्र यज्ञो यत्सौम्योऽध्वरो नेत्पुरा कालात्सौम्यमध्वरं संस्थापयानीति तदाहुः कस्माद्दीक्षितस्यान्ये नाम न गृह्णन्तीत्यग्निं वा आत्मानं दीक्षमाणोऽभिदीक्षते तद्यदस्यान्ये नाम न गृह्णन्ति नेदग्निमासीदामेति यदु सोऽन्यस्य नाम न गृह्णाति नेदेनमग्निर्भूितः प्रदहानीति यमेव द्विष्यात्तस्य दीक्षितः सन्नाम ग्रसेतैव तदेवैनमग्निर्भूतः प्रदहत्यथ यमिच्छेद्विचक्षणवत्या वाचा तस्य नाम न गृह्णीयात्सोतत्र प्रायश्चितिश्चक्षुर्वै विचक्षणं चक्षुषा हि विपश्यत्येषा हत्वेव व्याहृतिदीर्क्षितवादः सत्यमेव स यःसत्यं वदति स दीक्षित इति ह स्माऽऽह तदाहुः कस्माद्दीक्षितस्याशनं नाश्नन्तीति हविरेषभवति यद्दीक्षते तद्यथा हविषोऽनवत्तस्याश्नीयादेवं तत्कामं प्रसूतऽश्नीयात्तद्यथा हविषोऽयातयामस्याश्नीयादेवमु तत्तदाहुःकस्माद्दीक्षितोऽग्निहोत्रं न जुहोतीत्यसुरा वा आत्मन्न जुहुवुरुद्वातेऽनग्नौ ते पराभवन्नग्नौ जुह्वतोऽथ देवा इममेव प्राणमग्निमन्तरा दूधत तद्यत्सायं प्रातर्व्रतं प्रदीयतेऽग्निहोत्रं हैवास्यैतस्मिन्प्राणेऽग्नौ सन्ततमव्यवच्छिन्नं हुतं भवत्येषाऽग्निहोत्रस्य संततिर्दीक्षासु प्रोपसत्सु चरन्ति का मीमांसा सुत्यायाम्॥३॥

अथातः कैशिनी दीक्षा केशी ह दाल्भ्यो दीक्षितो निषसाद तं ह हिरण्मयः शकुन आपत्यो वाचा दीक्षितो वा असि दीक्षामहं वेद तां ते ब्रवाणि सकृदयजेत्तस्य क्षयाद्बिभेमि सकृदिष्टस्याहो त्वमक्षितिं वेत्थ तां त्वं मह्यमिति स ह तथेत्योवाच तौ ह संप्रोचाते स ह स आसोलोवावार्ष्णिर्वृद्ध इटन्वा काव्यः शिखण्डी वा याज्ञसेनो यो वा स आस स स आस सहोवाच शरीराणि वा एतयेष्ट्या दीक्षन्ते या वा इमा पुरुषे देवता यस्यै ता दीक्षन्ते स दीक्षित इति ह स्माऽऽह स यत्राध्वर्युरौद्ग्रभणानि जुहोति तदुप यजमानः पञ्चाहुतीर्जुहुयान्मनो मे मनसा दीक्षितां स्वाहेति प्रथमां वाङ्मेवाचादीक्षितां स्वाहेति द्वितीयां प्राणो मे प्राणेन दीक्षितां स्वाहेति तृतीयां मध्ये प्राणमाह मध्ये ह्ययं प्राणश्चक्षुर्मे चक्षुषा दीक्षितां स्वाहेति चतुर्थीं श्रोत्रं मे श्रोत्रेण दीक्षितां स्वाहेति पञ्चमीं तदु ह स्माऽऽह कौषीतकिर्न होतव्या अतिरिक्ता आहुतयः स्युर्यद्भूयेरन्नध्वर्युमेव जुह्वतमन्वारभ्य प्रतीकैरनुमन्त्रयेत मनो मे मनसा दीक्षितामिति प्रथमां वाङ्मे वाचा दीक्षितामिति द्वितीयां प्राणो मेप्राणेन दीक्षितामिति तृतीयां मध्ये प्राणमाह मध्ये ह्ययं प्राणश्चक्षुर्मे चक्षुषा दीक्षितामिति चतुर्थीं श्रोत्रं मे श्रोत्रेण दीक्षितामिति पञ्चमीं दीक्षयत्यु हि वै ता याः पुरुषे देवता नो अतिरिक्ता आहुतयो हूयन्त इत्यथ खलु श्रद्धैव सकृदिष्टस्याक्षितिः स यः श्रद्दधानो यजते तस्येष्टं न क्षीयत आपोऽक्षितिर्या इमा एषु लोकेषु याश्चेमा अध्यात्मन्त्स यो मह्यक्षितिरिति विद्वान्यजते तस्येष्टं न क्षीयत एतामु हैव तत्केशी ह दाल्भ्यो हिरण्मयाय शकुनाय सकृदिष्टस्याक्षितिं प्रोवाचापराह्णे दीक्षतेऽपराह्णे ह वा एष सर्वाणि भूतानि संपृङ्क्तेऽपि ह वा एनं रजना अतियन्ति तस्माल्लोहितायन्निवास्तम्बेत्येतमेवाऽऽत्मानं दीक्षमाणोऽभिदीक्षते य एष तपति तस्मादपराह्णे दीक्षते सर्वेषामेव कामानामाप्त्यै॥४॥

प्रायणीयेन वै देवाः प्राणमाप्नुवन्नुदयनीयेनोदानं तथो एवैतद्यजमानः प्रायणीयेनैव प्राणमाप्नोत्युदयनीयेनोदानं तौ वा एतौ प्राणोदानावेव यत्प्रायणीयोदयनीये तस्माद्य एव प्रायणीयस्यर्त्विजस्त उदयनीयस्य स्युः समानौ हीमौ प्राणोदानौ॥५॥

प्रायणीयेन ह वै देवाः स्वर्गं लोकमभिप्रायाय दिशो न प्रजज्ञुस्तानग्निरुवाच मह्यमेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स प्राचीं दिशं प्राजानात्तस्मात्प्राञ्चमग्निं प्रणयन्ति प्राग्यज्ञस्ता-

यते प्राञ्च उ एवास्मिन्नासीना जुह्वत्येषा हि तस्य दिक्प्रज्ञाताऽथाब्रवीत्सोमो मह्यमेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स दक्षिणां दिशं प्राजानात्तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति दक्षिणा तिष्ठन्नभिष्टौति दक्षिणा तिष्ठन्परिदधाति दक्षिणा एवैनमासीना अभिषुण्वन्त्येषा हि तस्य दिक्प्रज्ञाताऽथाब्रवीत्सविता मह्यमेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स प्रतीचीं दिशं प्राजानात्तदसौ वै सविता योऽसौ तपति तस्मादेनं प्रत्यञ्चमेवाहरहर्यन्तं पश्यन्ति न प्राञ्चमेषा हि तस्य दिक्प्रज्ञाताऽथाब्रवीत्पथ्या स्वस्तिर्मह्यमेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्या अजुहवुः सोदीचीं दिशं प्राजानाद्वाग्वै पथ्या स्वस्तिस्तस्मादुदीच्यां दिशि प्रज्ञाततरा वागुद्यत उदव उ एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति ह स्माऽऽहैषा हि वाचो दिवप्रज्ञाताऽथाब्रवीददितिर्मह्यमेकामन्नस्याऽऽहुतिंजुहुताहमेकां दिशं प्रज्ञास्यामीति तस्या अजुहवुः सोर्ध्वांदिशं प्राजानादियं वा अदितिस्तस्मादस्यामूर्ध्वा ओषधय ऊर्ध्वा वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्त्यूर्ध्वोऽग्निर्दीप्यते यदस्यां किं चोर्ध्वमेव तदायत्तमेषा हि तस्यै दिक्प्रज्ञाता॥६॥

एवं वै देवाः प्रायणीयेन स्वर्गं लोकं प्राजानंस्तथो एवैतद्यजमानः प्रायणीयेनैव स्वर्गं लोकं प्रजानाति ते समे स्यातां प्रायणीयोदयनीये देवरथो वा एष यद्यज्ञस्तस्य हैते पक्षसी यत्प्रायणीयोदयनीये ते यःसमे कुरुते यथोभयतःपक्षसा रथेन धावयन्नध्वानं यत्राऽऽकूतं समश्नुवीतैवं स स्वस्ति स्वर्गं लोकं समश्नुतेऽथ यो विषमे कुरुते यथाऽन्यतरतःपक्षसा रथेन धावयन्नध्वानं यत्राऽऽकूतं न समश्नुवीतैवं स न स्वस्ति स्वर्गं लोकं समश्नुते तस्मात्समे एव स्यातां प्रायणीयोदयनीये शंय्वन्तं प्रायणीयं शंय्वन्तमुदयनीयम्॥७॥

पथ्यां स्वस्तिं प्रथमां प्रायणीये यजत्यथाग्निमथ सोममथ सवितारमथादितिं स्वर्गं लोकं प्रायणीयेनाभिप्रैति तद्यत्पुरस्तात्पथ्यां स्वस्तिं यजति स्वस्त्ययनमेव तत्कुरुते स्वर्गस्य लोकस्य समष्ट्या अग्निं प्रथममुदयनीये यजत्यथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिमिमं वै लोकमुदयनीयेन प्रत्येति तद्यत्परस्तात्यथ्यांस्वस्तिं यजति स्वस्त्ययनमेव तत्कुरुतेऽस्य लोकस्य समष्ट्यैता वै पञ्च देवता यजति ताभिर्यत्किंच पञ्चविधमधिदैवतमध्यात्मं तत्सर्वमाप्नोति तासां याज्यापुरोनुवाक्यास्ता

वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति मरुतो ह वै देवविशोऽन्तरिक्षभाजना ईश्वरा यजमानस्य स्वर्गं लोक यतो यज्ञवैशकं कर्तेस्तद्यत्स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति नैनं मरुतो देवविशो हिंसन्ति स्वस्ति स्वर्गं लोकं समश्नुते ता वै विपर्यस्यति याः प्रायणीयायां पुरोनुवाक्यास्ता उदयनीयायां याज्याः करोति या पाज्यास्ताः पुरोनुवाक्याः॥८॥

प्रेव वा एषोऽस्माल्लोकाच्च्यवते यः प्रायणीयेनाभिप्रैति तद्यद्विपर्यस्यति तदस्मिँल्लोके प्रतितिष्ठति प्रतिष्ठायामप्रच्युत्यामथो प्राणा वै छन्दांसि प्राणानेव तदात्मन्व्यतिषजत्यवबर्हाय तस्माद्धीमे प्राणा विष्वञ्चोऽवाञ्चोऽनुनिर्वाञ्चि त्वांचित्रश्रवस्तमं यद्वाहिष्ठं तदग्नय इत्यनुष्टुभौसंयाज्ये ततिर्वै यज्ञस्य प्रायणीयं वागुदयनीयं वागनुष्टुब्वाचा यज्ञस्तायते नैते विपर्यस्यति प्रतिष्ठे वै संयाज्ये नेत्प्रतिष्ठे व्यतिषजानीति शंय्वन्तं भवत्यभिक्रान्त्यै तद्रूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायांवसेदेवं तद्यद्द्वेव शंय्वन्तं भवति सर्वा ह वै देवताः प्रायणीये संगच्छन्ते सयोऽत्र पत्नीः संयाजयेद्यथा संगतांभूमानं देवानां पत्नीरभ्यवनयेदेवं तद्यस्तं तत्र ब्रूयात्संगतां वा अयं भूमान देवानां पत्नीरभ्यवानैषीत्सभमस्यपत्न्यभ्यव इष्यसीति तथा ह स्यात्तस्मादु शंय्वन्तं भवति देवतानामसमराय॥९॥

असुरा वा अस्यां दिशि देवान्त्समरुन्धन्नेयं प्राच्युदीची त एतस्यां दिशि सन्तः सोमं राज्यायाभ्यषिञ्चन्त ते सोमेन राज्ञैभ्यो लोकेभ्योऽसुराननुदन्ततथो एवैतद्यजमानः सामेनेव राज्ञैभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते तं वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया चतुरं वै द्वंद्वं मिथुनं प्रजननं प्रजात्यै तदसौ वै सोमो राजा विचक्षणश्चन्द्रमाः स इमं क्रीतमेव प्रबिशति तद्यत्सोमं राजानं क्रीणात्यसौ वै सोमो राजा विचक्षणश्चन्द्रमा अभिषुतोऽसदिति तस्मै क्रीताय नवाऽन्वाह नवेमे प्राणाः प्राणानेव तद्यजमाने दधाति सर्वायुत्वायास्मिल्लोँकेऽमृतत्वायामुष्मिन्भद्रादभि श्रेयः प्रेहीति प्रवतीं प्रवर्त्यमानायान्वाह बृहस्पतिः पुरएता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मयशसस्यावरुद्ध्या इमां धियं शिक्षमाणस्य देव वनेषु व्यन्तरिक्षं ततानेति त्रिष्टुभौ वारुण्यावन्वाह क्षत्रं वै त्रिष्टुप्क्षत्रं वै वरुणः क्षत्रयशसस्यावरुद्ध्यै सोम यास्ते मयोभुव इति चतस्रो गायत्रीःसौमीरन्वाह ब्रह्म वै गायत्री क्षत्रं सोमो ब्रह्म-

यशसस्य च क्षत्रयशसस्य चावरुद्ध्या उत्तमाया अर्धर्चमुक्त्वोपरमत्यमृतं वा ऋगमृतं तत्प्रविशत्यथा ब्रह्म वा ऋगुभयत एव तद्ब्रह्मार्धर्चोधर्म कुरुते तद्यत्र ऋचाऽर्धर्चेन वा पादेन वोपरमेदेतद्ब्राह्मणमेव तद्या ते धामानि हविषा यजन्तीति प्रवतीं प्रपाद्यमानायान्वाहागं देवऋतुभिर्वर्धतु क्षयमित्यागतवत्यर्तुमत्या परिदधाति संवत्सरो वै सोमो राजेति ह स्माऽऽह कौषीतकिः सोऽभ्यागच्छन्नृतुभिरेव सहाभ्येतीत्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता वै नवान्वाह तासामुक्तं ब्राह्मणं त्रिः प्रथमया त्रिरुत्तमया त्रयोदश संपद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अथ यत्त्रयोदशीमन्वाहास्ति त्रयोदशो मास उपचरो विज्ञात इव तस्याऽऽप्त्यै तस्याऽऽप्त्यै॥१०॥

**इति शाङ्खायनब्राह्मणे सप्तमोऽध्यायः॥७॥


हरिः ॐ। आतिथ्येन ह वै देवा द्विपदश्चचतुष्पदश्च पशूनापुस्तथो एवैतद्यजमान आतिथ्येनैव द्विपदश्च चतुष्पदश्व पशूनाप्नोत्यासन्ने हविष्यातिथ्येऽग्निं मन्थन्ति शिरो वा एतद्यज्ञस्य यदातिथ्यं प्राणोऽग्निः शीर्षस्तत्प्राणं दधाति द्वादशाग्निमन्थनीया [अ]न्वाह द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अभि त्वा देवसवितरिति सावित्रीं प्रथमामन्वाह सवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन ॠष्टिर्भवत्यरिष्ट्यैमही द्यौः पृथिवी चन इति द्यावापृथिवीयामन्वाह प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एव त्वामग्ने पुष्करादधीति मथितवन्तं तृचं मथ्यमानायान्वाहोत ब्रुवन्तु जन्तव इति जातवतीं जातायायं हस्तेन खादिनमिति हस्तवतीं हस्तेन धार्यमाणाय प्रदेवं देववीतय इति प्रवतीं प्रह्रियमाणायाऽऽजातं जातवेदसीत्यावतीमाहूयमानायाग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अग्निनेति समिद्धवत्यौ समिद्धमानाय तं मर्जयन्त सुक्रतुमिति परिदधाति स्वेषु क्षयेषु वाजिनमित्यन्तवत्याऽन्तो वै क्षयोऽन्तःपरिधानीयान्तेऽन्तं दधाति त्रिः प्रथमया त्रिरुत्तमया षोलश संपद्यन्ते षालशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै॥१॥

एतया न्वत्र च चातुर्मास्येषु चाथ यत्र पशुरालभ्यते तदेतां पराचीमनूष्य यज्ञेन यज्ञमयजन्त देवा इति त्रिष्टुभापरिदधाति त्रैष्टुभाः

पशवः पशूनामेवाऽऽप्त्यै त्रिः प्रथमया त्रिरुत्तमया सप्तदश संपद्यन्ते सप्तदशो वै प्रजापतिरेव तद्वा आर्धुकं कर्म यत्प्रजापतिसंमितं सप्तदश सामिधेनीरन्वाह सप्तदशो वै प्रजापतिरेतद्वा आर्धुकं कर्म यत्प्रजापतिसंमितं वार्त्रघ्नावाज्यभागौ भवतः पाप्मन एव वधायाथो हास्य पौर्णमासात्तन्त्रादनितं भवत्यतिथिमन्तौ हैके कुर्वन्ति वार्त्रघ्नौत्वेव स्थितावृग्याज्यौस्यातामिति हैक आहुर्ऋग्याज्या वा एता देवता उपसत्सु भवन्तीति वदन्तो जुषाण याज्यौ त्वेव स्थितौ सोमं सन्तं विष्णुमिति यजति तद्यदेवेदं क्रीतो विशतीय तदु हैवास्य वैष्णवं रूपं यद्वेव सोमं सन्तं विष्णुमिति यजत्यत्रैवैतेन नाम्ना यद्विष्णुरित्याद्योऽमुना यत्सोम इति तस्मात्सोम इति वदन्तो जुह्वत्येवं भक्षयन्ति त्रिष्टुभौ हविषो याज्यापुरोनुवाक्येबलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति होतारं चित्ररथमध्वरस्य यस्त्वा स्वश्वः सुहिरण्यो अग्न इति संयाज्ये अतिथिमत्यौ रथवत्यौ त्रिष्टुभावाग्नेय्यौ तद्यथा चतुःसमृद्धमेवं तदुपनामुक उ एवैनं रथो भवति य एते कुरुत इलान्तं भवत्यभिक्रान्त्यै तद्रूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायां वसेदेवं तदुपांशु हविषः एता इष्टयोभवन्ति दीक्षणीया प्रायणीयाऽऽतिथ्योपसदो रेतःसिक्तिर्वा एता इष्टय उपांशु वै रेतः सिच्यत उत्सृजन्तः कर्माणि यन्ति पत्नीसंयाजान्ता दक्षिणीया शंय्वन्ता प्रायणीयेलान्ताऽऽतिथ्या देवता उपसत्सु प्रतियजत्युत्सर्गं वै प्रजापतिरेतैः कर्मभिः स्वर्गं लोकमैत्तथो एवैतद्यजमान उत्सर्गमेवैतैः कर्मभिः स्वर्गं लोकमेति॥२॥

शिरो वा एतद्यज्ञस्य यन्महावीरस्तत्र प्रथमयज्ञे प्रवृञ्ज्यादुपनामुक उ एवैनमुत्तरो यज्ञो भवति यः प्रथमयज्ञेन प्रवृणक्ति कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यादात्मा वै स यज्ञस्याऽऽत्मनैव तद्यज्ञं समर्धयति तदसौ वै महावीरो योऽसौ तपत्येतमेव तत्प्रीणाति तमेकशतेनाभिष्टुयाच्छतयोजने ह वा एष इतस्तपति स शतेनैव तं शतयोजनमध्वानं समश्नुतेऽथ हैकशततमी स यजमानलोकस्तमेतमात्मानं यजमानोऽभिसंभवति यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म तदंत्रैव यजमानः सर्वासां देवतानां सलोकतां सायुज्यमाप्नोत्यनवानसभिष्टुयात्प्राणानां संतस्यै संतता इव हीमे प्राणा उच्चैर्निरुक्तमभिष्टुयात्प्राणावै स्तुभो निरुक्तो ह्येष वाग्देवत्यो ह्येष सावित्रीः प्रथमा-

मभिष्टौति सवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्ट्यै॥३॥

ब्रह्मजज्ञानं प्रथमं पुरस्तादित्यदो वै ब्रह्मजज्ञानं प्रथमं पुरस्ताद्यत्रासौ तपति तदेव तद्यजमानं दधात्यञ्जन्ति यं प्रथयन्तो न विप्राः संसीदस्व महाँ असीत्यक्तवती च संनवती चाभिरूपे अभिष्टौति भवा नो अग्ने सुमना उपेतौ तपोष्वग्ने अन्तराँ अमित्रान्यो नः सनुत्यो अभिदासदग्नइति तिस्रस्तपस्वतीरभिरूपा अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै कृणुष्व पाजः प्रसितिं न पृथ्वीमिति राक्षोघ्नीरभिष्टौति रक्षसामपहत्या[ अ]ग्निर्वै रक्षसामपहन्ता ता वै पञ्च भवन्ति दिशां रूपेण दिग्भ्य एवैतानितं निर्हन्त्यथो यानेवाध्वर्युः प्रादेशानभिमिमीते तानेवैताभिरनुवदति परि त्वागिर्वणो गिरोऽधिद्वयोरधा उक्थ्यं वच इत्यैन्द्र्यावभिरूपे अभिष्टात्यैन्द्रमेव स्वाहाकारमेताभ्यामनुवदत्यथो यानेवाध्वर्युः शकलान्परिचिनोति तान्पूर्वयाऽनुवदति यमुत्तममभिनिदधाति तमुत्तरया शुक्रं ते अन्यद्यजतं ते अन्यदर्हन्बिभर्षि सायकानि धन्वेति पौष्णीं च रौद्रीं चाभिरूपे अभिष्टौति पौष्णं चैव रौद्रं च स्वाहाकारावेताभ्यामनुवदत्यथो यावेवाध्वर्युः सुवर्णरजतौ हिरण्यशकलौ करोति तावेवैताभ्यामनुवदति पतङ्गमक्तमसुरस्य माययेति प्राणो वै पतङ्गो वायुर्वैप्राणो वायव्यमेव स्वाहाकारमेताभिरनुवदत्यपश्यं त्वा मनसा

चेकितानमित्येतदस्याऽऽयतने प्रजाकामस्याभिष्टुयादथो उभे असंपन्नकारी॥४॥

स्रक्वेद्रप्सस्य धमतः समस्वरन्निति सर्वं पवित्रं ते विततं ब्रह्मणस्पत इति द्वे वियत्पवित्रं धिषणा अतन्वतेत्येका ता द्वादश पावमान्यः सौम्यमेव स्वाहाकारमेताभिरनुवदत्ययं वेनश्चोदयत्पृश्निगर्भा इतीन्द्र उ वै वेन ऐन्द्रमेव स्वाहाकारमेताभिरनुवदति तस्यैकामुत्सृजति नाके सुपर्णमुप यत्पतन्तमिति सोऽयमात्मनोऽतीकाशस्तामुत्तरासु करोति तेनो साऽनन्तहिता भवत्युभयतो वेनं पापोक्तस्य पावमानीरभिष्टुयादात्मा वै वेनः पवित्रं वै पावमान्यः पुनात्येवैनं तद्गुणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्या अभिरूपामभिष्टौति शिरो वा एतद्ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मणैव तच्छिरः समर्धयति स यत्रोपाधिगच्छेद्बृहद्वदेम विदथे सुवीरा इति तद्वीरकामायै वीरं ध्यायाल्लभते ह वीरं काराधद्धोत्राश्विना वामिति न वा अकूध्रीच्यो गायत्रच्छन्दस इव वा अकूध्रीच्योगायत्र

उ वै प्राणः प्राणो वा अकूध्रीच्य आनो विश्वाभिरूतिभिरित्यानुष्टुभं तृचं सा वाग्विष्णुर्योनिं कल्पयत्वित्येतदस्याऽऽयतने प्रजाकामस्याभिष्टुयादथो उभे असंपन्नकारी॥५॥

प्रातर्यावाणा प्रथमा यजध्वमिति पूर्वाह्णे सूक्तमाभात्यग्निरुषसामनीकमित्यपराह्णे त्रैष्टुभे पञ्चर्चे तच्चक्षुरीले द्यावापृथिवी पूर्वचित्तय इतिजागतं पञ्चविंशं तच्छ्रोत्रं शिरो वा एतत्तद्वै शिरः समृद्धं यस्मिन्प्राणोवाक्चक्षुः श्रोत्रमिति तानेवास्मिंस्तद्दधाति रुचितो धर्म इत्युक्तेऽरुरुचदुषसः पृश्निरग्रिय इति रुचितवतीमभिरूपा अभिष्टौति द्याभरक्तभिःपरिपातमस्मानिति परिवत्या परिदधात्यभिरूपा अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता एकशतमृचो भवन्ति तासामुक्तंब्राह्मणमथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यदवकाशैरुपतिष्ठते प्राणा वा अवकाशाः प्राणानेव तदात्मन्धत्तऽथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरवषा भेषजमन्ततो यज्ञे क्रियते त्रयस्त्रिंशदुत्तरास्त्रयस्त्रिंशद्वै सर्वा देवतास्ताएवैतदुद्यन्तुमर्हन्ति ताभ्यो वै तत्समुन्नीतम्॥६॥

अभिरूपादो(?)हवनीया अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्येव समृद्ध्या आसुतेऽसिञ्चत श्रियमानूनामश्विनोर्ऋषिरित्यासिक्तवत्यावभिरूपे अभिष्टौत्युदुष्य देवः सविता हिरण्ययेत्युद्यम्यमान उद्यतवतीअभिरूपामभिष्टौति प्रतु ब्रह्मणस्पतिरिति वृजत्सु प्रवतींब्राह्मणस्पत्यामभिरूपामभिष्टौति नाके सुपर्णमुपयत्पतन्तमिति व्रजत्सु पतन्तमित्यभिरूपा अभिष्टौति द्वाभ्यां यजे द्वंद्वं वै वीर्यं सवीर्यतायै त्रिष्टुब्वतीभ्यांपूर्वाह्णे त्रैष्टुभो ह्येष त्रील्लोँकान्स्तब्ध्वा तिष्टति जगद्वतीभ्यामपराह्णे जागतो ह्येष एतमु ह विशन्तं जगद्नु सर्वं विशति विपर्यस्यति दाशतयीभ्यां वषट्कुर्यादिति हैक आहुर्यथाऽऽम्नातमिति त्वेव स्थितमथोत्तराअभिरूपा अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै हविर्हविष्मो महिसद्म दैव्यमिति पुराऽऽहुतेः प्रापणात्पुनर्हविषमवनं तदयातयामानं करोति सूयवसाद्भगवती हि भूया इत्याशीर्वत्या परिदधातिपशुभ्य एव तदाशिषं वदते तथा ह यजमानात्पशवोऽनुत्क्रामुका भवन्त्यथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततोयज्ञे क्रियतेऽथ वै सुते प्रवर्ग्य इत्याचक्षते स्तुते बहिष्पवमाने तदश्विनौदेवा उपाह्वयन्तैतस्मिन्काल आग्नीध्रीये प्रवृञ्ज्युस्तद्यथैवाद उपसत्स्वे-

वमेवाप्यत्र सुत्यायामनवानमेवोपचारस्तद्यथाकर्मा प्रवृज्यतेऽथ पशुकर्मतायते स एष महावीरो मध्यंदिनो[ने] सर्गस्तद्यदनेन मध्यंदिने प्रचरन्त्यसौ वै महावीरोयो ऽसौ तपत्येतमेव तत्प्रीणन्त्येतस्यैव तद्रूपं क्रियते॥७॥

उपसदोऽसुरा एषु लोकेषु पुरोऽकुर्वतायस्मयीमस्मिन्रजतामन्तरिक्षलोके हरिणीं हादो दिवि चक्रिरे ते देवाः परिश्रुतेष्वेषु लोकेष्वेतंपञ्चदशं वज्रमपश्यत्तिस्रःसामिधेन्यः समनूक्ता नव संपद्यन्ते षड्याज्यापुरोनुवाक्यास्ताः पञ्चदशैतेन वै देवाः पञ्चदशेन वज्रेणैभ्यो लोकेभ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैव पञ्चदशेन वज्रेणैभ्योलोकेभ्यो द्विषतो भ्रातृव्यान्नुदत उपसद्याय मीह्लुष इत्येतं तृचं पूर्वाह्णेऽनुब्रूयादुपसदो ह्येतास्तद्वै कर्म समृद्धं यत्प्रथमेनाभिव्याह्नियत उपसद्यमिव वा एतदहरमुनाऽऽदित्येन भवतीतीमां मे अग्ने समिधमित्यपराह्णेतद्रात्रेरूपं समिद्धमिव वा इममग्निं सायं पर्यासत इत्यथ द्वितीयेऽहनीमांमे अग्नेसमिधमिति पूर्वाह्णे तदह्नो रूपं समिद्धमिव वा एतदहरमुनाऽऽदित्येन भवतीत्युपसद्याय मीह्लुष इत्यपराह्णे तद्रात्रे रूपमुपसद्यमिव वाइममग्निं सायं पर्यासत इति ते वा एते उभे एव रूपे ज्ञायेते तस्मादहरहर्विपर्यासमनुब्रूयादुभे रूपे उभौ कामा उपाप्तावसत इत्यनवानमनुब्रूयात्प्राणानां संतत्ये संतता इव होमे प्राणास्त्रिस्त्रिरेकैकामनुब्रूयात्त्रयो वा इमे लोका इमानेव तं लोकानाप्नोति ताः समनूक्ता नव संपद्यन्तेषड्वा ऋतवस्त्रय इमे लोका एतदेव तदभिसंपद्यन्ते नैतं निगदं ब्रूयाद्य एषसामिधेनीषूत्सृज्यन्ते ह निगदा जामि ह स्याद्य एतं निगदं ब्रूयान्नाऽऽवाहयेच्च नेदिति हैक आहुः किमु देवतामनावाह्य यजेदित्यृच एवाऽऽवाहयेदग्निमावह सोममावह विष्णुमावहेति ता वै तिस्रो देवता यजति त्रयोवा इमे लोका इमानेव तं लोकाञ्ज्योतिष्मतः करोति॥८॥

गायत्र्यावाग्नेय्यौ गायत्रोऽयं लोकस्तदिमं लोकमाप्नोति त्रिष्टुभौसौम्यौ त्रैष्टभोऽन्तरिक्षलोकस्तदन्तरिक्षलोकमाप्नोति जगत्यो वैष्णव्यौ जागतोऽसौ लोकस्तदमुं लोकमाप्नोति ता वै विपर्यस्यति याः पूर्वाह्णेपुरोनुवाक्यास्ता अपराह्णे याज्याः करोति या याज्यास्ताः पुरोनुवाक्या अयातयामतायै वषट्कारेण ह वा ऋग्यातयामा भवति समानेऽहन्नयातयामाभिर्मे वषट्कृतमसदिति यद्वेव विपर्यस्यति ग्रीवाणां स्थेम्ने तस्माद्धाऽऽसां ग्रीवाणां व्यतिषक्तामीव पर्वाणि भवन्स्त्याज्यहविषो देवताः

पयोव्रतो यजमानस्तत्सलोमताः परोवरीयसीरभ्युपेयात्त्रीनग्नेःस्तनानथद्वावथैकं परस्पर एव तं लोकान्वरीयसः कुरुते नाभ्युन्नयेत स्वर्गं ह वा एते लोकमभिप्रयन्ति य उपसद उपयन्ति द्वादशो ह वा अन्तरुष्याः स्वर्गो लोकः स यः सकृदभ्युन्नयेति यथैकरात्रंसार्थान्प्रेषिताननुप्रेयादेवं तद्यो द्वितीयं यथा द्विरात्रमेव तं तद्धीयते तृतीयेन स्वर्गाल्लोँकान्नान्वश्नुतेऽप्यनुगच्छेदिति ह स्माऽऽह पैङ्ग्योन त्वेवाभ्युन्नयेतयत्रैव कामयेत तत्पूर्वोगत्वा स्वर्गस्य लोकस्यावस्येदिति समाप्तिः श्रेयसीति ह स्माऽऽह कौषीतकिः सम्राजोऽस्मै भक्षे दध्यानयेयुर्न व्रते सोमोवैदध्यनन्तर्हितो हास्य भक्षो भवति समाप्नोत्यु ते यदि संक्रीणीयुर्यामध्यमोपसत्तया द्व्यहमन्यतरे चरेयुरावपनं हि सेदमन्तरिक्षलोक आयतनेनाथासमरमभ्युदैत्यथासमरमभ्युदेति॥९॥

इति शाङ्खायनब्राह्मणेऽष्टमोऽध्यायः॥८॥

___________

हरिः ॐ। ब्रह्म वा अग्निस्तद्यदुपवसथेऽग्निं प्रणयन्ति ब्रह्मणैव तद्यजमानस्य पाप्मानमपघ्नन्ति पुरस्तादाहवनीयेन पश्चाद्गार्हपत्येनोत्तरतआग्नीध्रीयेण दक्षिणतो मार्जालीयेन येऽन्तःसदसं तैर्मध्यतस्तस्मादुपवसथे प्राञ्चमग्निं प्रणयन्ति विधिष्ण्यान्हरन्ति यजमानस्यैव पाप्मनोऽपहृत्यै देवा वै दीक्षिष्यमाणा वाचमुपासादयन्त बहुत्वमुच्चावचं निगच्छसि सत्यमया उ वयं दममया बुभूषाम इति सा दीक्षा यामाभक्तिमैच्छत तां देवास्तत्र नाभजन्त सा प्रायणीये तामु तत्र नो एव सा क्रये तामु तत्र नो एव साऽऽतिथ्ये तामुतत्र नो एव सो वा एतदुपसोना च नाऽऽगच्छन्निर्विद्येव तस्मादु तत्रोपांशु चरेयुर्यथैवैवमिथःसंशृण्वीरन्त्सो वा एतदुपवसथेऽग्नौ प्रणीयमान आगच्छत्तां देवास्तत्राभजन्त तस्मादु तत्र प्रथमत एवोच्चैरनुब्रूयाद्यथैनामागतामनुबुध्येरन्नाभक्तां जज्ञे॥१॥

प्रदेवं देव्या धियेति प्रवन्तं तृचं प्रह्री(ह्रि)यमाणायान्वाहैलायास्त्वापदे वयमितीयं वा इला अस्यां हीदं सर्वमीट्टे जातवेदो निधीमहीति निहतवताऽर्धर्चेन निधीयमानमनुस्तौत्यग्ने विश्वेभिः स्वनीकदेवैः सीद होतः स्व उ लोके चिकित्वान्निहोता होतृषदने विदान इति सन्नवतीभिः सन्नमनुस्तौति त्वं दूतस्त्यमु नः परस्पा इति दूतवत्या परिद-

धात्यभिरूपान्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यैता वाअष्टान्वाहाष्टाक्षरा गायत्री गायत्रो वा अग्निर्गायत्रच्छन्दांस्वेनैवतच्छन्दसाऽग्निं प्रणयन्ति त्रिः प्रथमया त्रिरुत्तमया द्वादश संपद्यन्तेद्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै ताः समनूक्ता अष्टादशगायत्र्यःसंपद्यन्त आग्नेयमेव च्छन्दोभिर्यस्य ह कस्य च षट् समानस्यच्छन्दसस्ता गायत्रीमभिसंपद्यन्ते यस्य सप्त ता उष्णिहं यस्याष्टौ ताअनुष्टुभं यस्य नव ता बृहतीं यस्य दश ताः पङ्क्तिंयस्यैकादश तास्त्रिष्टुभंयस्य द्वादश ता जगतीम्॥२॥

वाक्च वै मनश्च हविर्धाने वाचि च वै मनसि चेदं सर्वं हितं तद्यद्धविर्धाने प्रवर्तयन्ति सर्वेषामेव कामानामाप्त्यै द्वे हविर्धाने भवतश्छदिस्तृतीयमभिनिदधति तैर्यत्किंच त्रिविधमधिदैवतमध्यात्मं तत्सर्वमाप्नोति प्रेतांयज्ञस्य शंभुवेति प्रवतीं प्रवर्तमानाभ्यामन्वाह द्यावा नः पृथिवी इमं तयोरिद्घृतवत्पय इत्याशीर्वती पूर्वाऽथो द्विदेवत्या द्वयोर्हविधानयोर्यामध्वर्युर्वर्त्मन्याहुतिंजुहोति तान्पूर्वयाऽनुवदति यद्धविर्धाने प्रवर्तयन्तितदुत्तरपा यमे इव यतमाने यदैतमित्यभिरूपया हविर्धाने अनुस्तौतिप्रवां मरन्मानुषा देवयन्त इति बहवो ह्येने हरन्त्यधिद्वयोरधा उक्थ्यं वचोविश्वा रूपाणि प्रतिमुञ्चते कविरिति यच्छदिस्तृतीयमभिनिदधति तत्पूर्वयाऽनुवदति यद्धविर्धाने परिश्रयन्ति तदुत्तरया॥३॥

अथो रराट्यामेवोत्तरया ते यदामन्येतात्र नेङ्गयिष्यन्तीति यदैनेनभ्यस्थे कुर्युरथाऽऽवामुपस्थमद्रुहेति यदा वै क्षेमोऽथोपस्थः परित्वा गिर्वणो गिर इति परिवत्या परिदधात्यभिरूपान्वाह यद्यज्ञेऽभिरूपं तत्समृद्धंयज्ञस्यैव समृद्ध्यै ता वा अष्टौ भवन्त्येताभिर्वै देवाः सर्वा अष्टीराश्नुवततथो एवैतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते त्रिः प्रथमयात्रिरुत्तमया द्वादश संपद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै यद्वेव त्रिः प्रथमां त्रिरुत्तमां यज्ञस्यैव तद्बर्हिरसौ नह्यतिस्थेम्ने विस्रंसाय तदु होतारमभिभाषन्ते यथा होतरभयमसत्तथा कुर्वीतसंप्रेषितः पुरर्चप्रतिवदनाद्दक्षिणस्य पादस्य प्रपदेन प्रत्यञ्चंलोकमपास्यत्यपेतो जज्ञं भयमन्यजज्ञं च वृत्रहन्नपचक्राआवृत्सतेऽत्यत उदचक्राणामभ्याचारस्तत उ ह तस्मा अर्धायाभयं भवति स प्राच्यं दक्षिणस्य हविर्धानस्योत्तरं वर्त्मोपनिश्रयेतायं वै लोको दक्षिणं हविर्धानं प्रतिष्ठा वा अयं लोकः प्रतिष्ठायामनुच्छिन्नोऽसानीति यत्र तिष्ठन्प-

रिदध्यान्नं तत इति वेति वेयाद्यस्तत इति वेति वेयाद्यस्तं तत्र ब्रूयाच्चोष्यत इति तथा ह स्यात्परिधाय दक्षिणं बाहुमन्वावृत्य वाचंयमोयथैतं प्रत्येत्य यत्र तिष्ठन्प्रथमामन्यवोचत्तत्स्थित्वाऽत्र चाग्निः प्रहरणेचाथ पथावसथमभ्युपेयात्॥४॥

ब्रह्म वा अग्निः क्षत्त्रं सोमस्तद्यदुपवसथेऽग्नीषोमौ प्रणयन्ति ब्रह्मक्षत्राभ्यामेव तद्यजमानस्य पाप्मानमपघ्नन्ति तदु वा आहुरासीन एव होतैतांप्रथमामनुब्रूयात्सर्वाणि ह वै भूतानि सोमं राजानं प्रणीयमानमनुप्रच्यवन्ते तद्यदासीनो होतैतामृचमन्वाह तत्सर्वाणि भूतानि यथायथं नियच्छसीति सावीर्हि देव प्रथमाय पित्र इति सावित्रीं प्रथमामन्वाहसवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्ट्या उत्तिष्ठ ब्रह्मणस्पते इत्युत्थापयति प्रैतु ब्रह्मणस्पतिरिति प्रणयन्तिब्राह्मणस्पते अभिरूपे अन्वाह बह्म वै ब्रह्मणस्पतिर्ब्रह्मणैव तद्यज्ञंसमर्धयति होता देवो अमर्त्य उप त्वाऽग्नेदिवे दिव इति केवलाग्नेय्यौतृचावन्वाहाग्निं हि पूर्व्यंहरन्ति तौ वा इतवन्तौ भवतो ह्रीयमाणं ह्यग्निंस्तौति स यत्रोपाधिगच्छेद्भूतानां गर्भमादध इति तद्गर्भकामायै गर्भंध्यायाल्लभते ह गर्भमथाऽऽग्नीध्रीयेऽग्निं निदधति तद्यदध्वर्युराहुतिं जुहोतितां संप्रत्येतामनुब्रूयादग्नेजुषस्व प्रतिहर्य तद्वच इति तस्यां एवैषा याज्याजुषस्व प्रतिहर्येत्यभिरूपा॥५॥

अथ केवलं सोमं प्राञ्चं हरन्ति तस्मात्केवलीःसौमीरन्वाह सोमोजिगाति गातुविदितीतवत्तृचमनुब्रुवन्ननु समेत्यथाध्वर्युराहवनीये पुनराहुतिं जुहोति तां संप्रत्येतामनुब्रूयादुप प्रियं पनिप्रतमिति तस्या एवैषायाज्याहुतीवृधमित्यभिरूपाऽथ पूर्वया द्वारा राजानं प्रपादयन्ति तस्मिन्प्रपाद्यमाने तमस्य राजा वरुणस्तमश्विनेति व्रजं च विष्णुः सखिवांअपोर्णुत इत्यभिरूपां प्रपाद्यमानायान्वाहान्तश्च प्रागा अदितिर्भवासीति प्रवतीं प्रपन्नाय श्येनो न योनिं सदनं धिया कृतं गणानां त्वागणपतिं हवामहेऽस्तभ्नाद्यामसुरो विश्ववेदा इति सन्नवतीभिः सन्नमनुस्तौत्येवा वन्दस्व वरुणं बृहन्तमित्याशीर्वत्या परिदधात्यभिरूपाऽन्वाहयद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता विंशतिमन्वाह ता विराजमभिसंपद्यन्ते वैराजः सोमोऽन्नं विरालन्नं सोमोऽन्नेन तदन्नाद्यं समर्धयति त्रिः प्रथमया त्रिरुत्तमया चतुर्विंशतिः संपद्यन्ते चतुर्विशतिर्वैसंवत्सरस्यार्धमासाः संवत्सरस्यैवाऽऽप्त्या एवं नुयदि पूर्वया द्वारा राजानं

प्रपादयन्ति यद्यु वा अपरया तेनैव होताऽनुसमीयादात्मा वै यज्ञस्यहोता प्राणः सोमो नेत्प्राणादात्मानमपादधानीत्युत्तरतो दक्षिणा तिष्ठन्परिदधाति यश उ वै सोमो राजाऽन्नाद्यममुत एव तदर्वागात्मन्यशोधत्तेऽर्वागात्मन्यशो धते॥६॥

इति शाङ्खायनब्राह्मणे नवमोऽध्यायः॥९॥

_____________

हरिः ॐ। वज्रोवा एष यद्यूपस्तद्यदुपवसथे यूपमुच्छ्रयन्ति वज्रेणैवतद्यजमानस्य पाप्मानमपघ्नन्ति स नापनत एव स्यादशनायतो वा एतद्रूपमभिनत इवोदरेणाथाऽऽहवनीयं पुनरभ्यावृतस्तद्वै सुहितस्य रूपमनशनायुका हास्य भार्या भवति य एवं रूपं कुरुते पालाशं ब्रह्मवर्चसकामः कुर्वीत बैल्यमन्नाद्यकामः खादिरं स्वर्गकामस्त्र्यरत्नि[:]स्थाल्लोकानां रूपेण चतुररत्निः पशूनां रूपेण पञ्चारत्निःपङ्क्त्यैरूपेण षलरत्निर्ऋतूनां रूपेण सप्तारत्निश्छन्दसां रूपेणाष्टारत्निर्गायत्र्यै रूपेण नवारत्निर्बृहत्यै रूपेण दशारत्निर्विराजो रूपेणैकादशारत्निस्त्रिष्टुभो रूपेण द्वादशारत्निर्जगत्यै रूपेणैता मात्रा संपदो यूपस्य तासामेकां संपदमभिसंपाद्य यूपं कुर्वीत तदु वा आहुर्न मिभेद्यूपमपरिमित एव स्यान्मितंह वै मितेन जयत्यभितमभितेनापरिमित एव (वा)स्यावरुद्ध्यै यत्रैवमनसा वेलां मन्येत तद्यूपस्य च वेदेश्चेति ह स्माऽऽह प्रजापतिर्वै मनोयज्ञ उ वै प्रजापतिः स्वयं वै तद्यज्ञो यज्ञस्य जुषते यन्मनसो वाजपेययूप एवावधृतः सप्तदशारत्निः सोऽष्टाश्रिर्निष्ठितो भवति सर्वेषामेवकामानामष्ट्या अथैतं प्रणेनिजति तद्यदेवेदं परशुना क्रूरीकृत इव तष्टइव भवति तदेवास्यैतदाप्याययति तद्भिषज्यत्यथैनमभ्यञ्जति तद्या एवेमाः पुरुषा आपस्ता एवास्मिंस्तद्दधाति स्वभ्यक्तं स्वयमेव यजमानःकुर्वीत तथा ह यजमानो रूक्ष इव भवति॥१॥

अञ्जन्ति त्वामध्वरे देवयन्त इत्यक्तवतीमभिरूपाऽज्यमानायान्वाहोच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज्जातो जायते सुदिनत्वेअह्नामूर्ध्व ऊषुण ऊतय ऊर्ध्वो नः पाह्यंहसो निकेतुनेत्युच्छ्रितवतीश्चोद्वतीश्चोच्छ्रीयमाणायान्वाह युवा सुवासाः परिवीत आगादिति परिवीतवत्या परिदधात्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता वै सप्तान्वाह सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्यै त्रिः प्रथमया त्रिरुत्तमयैकादश संपद्यन्त एकादशाक्षरा त्रिष्टुप्त्रैष्टुभाः पशवः पशू-

नामेवाऽऽप्त्याइति न्वेकयूप एकपशू चाथ यद्येकयूप एकादशिनीमालभेरन्पशौ पशावेवाध्वर्युः संप्रेष्यति पशौ पशावेवयुवा सुवासाः परिवीतआगादिति सैव परिधानीया सा परिवीयमाणायेति न्वेकयूपेऽथ कथं यूपैकादशिन्यामित्येता एव सप्त सप्तदशभ्योऽनुब्रूयादथ यमुत्तमं सम्यन्वन्ति तस्मिन्यत्सूक्तस्य परिशिष्येत तदनुवर्तयेत्पुरस्तान्प्रगाथस्य तच्छृङ्गाणीवेच्छ्रङ्गिणां संददृश्रइति सर्वानेवानुवदति युवा सुवासाः परिवीत आगादिति सैव परिधानीया सा परिवीयमाणायतमाहुरनुप्रहरेद्यजमानोवा एष यद्यूपः स्वर्गोलोक आहवनीयस्तदेनं स्वर्गं लोकं गमयतितत्स्वर्ग्यमिति तदु वा आहुस्तिष्ठेदेव यदिदमास्थानं स्वरोस्तत ईश्वराययदि नासुररक्षांस्यन्ववपातोस्तस्मात्त्वेष उद्यतो वज्रो यज्ञवास्तौ तिष्ठेदेवासुररक्षांस्यपघ्नन्नपबाधमानो यज्ञं चैव यजमानं चाभिगोपायन्नित्यथयूप्य एको द्रव्य एको गर्त्य एकोयोऽवाचीनवकलः स गर्त्यस्तस्यासान्येयादथ य ऊर्ध्ववकलो द्रव्यः स मानुषः कामं तस्यापि कुर्वीताथयस्य प्रसव्या आदित्यस्यान्वावृत्तावकला स्वयूप्यस्य स्वर्ग्य एकस्थोभ्रातृव्यो यो वाऽनुवृत्तः पलाशैरामूला स्यात्सोऽनग्नः स पशव्यस्तं पशुकामः कुर्वीत॥२॥

अग्नीषोमयोर्वा एष आस्यमापद्यते यो दीक्षते तद्यदुपवसथेऽग्नीषोमीयंपशुमालभत आत्मनिष्क्रयणो हैवास्यैष तेनाऽऽत्मानं निष्क्रीयानृणोभूत्वाऽथ यजते तस्मादु तस्य नाश्नीयात्पुरुषो हि सप्रतिमया तदु वाआहुर्हविर्हविर्वा आत्मनिष्क्रयणं हविषोहविष एव स तर्हि नाश्रीयाद्यआत्मनिष्क्रयणमिति नाश्नीयात्तस्मादु काममेवासि(शि)तव्यमहोरात्रेवा अग्नीषोमौ तद्यद्दिवा वपया चरन्ति तेनाहः प्रीतमाग्नेयं रात्रिमनुसंतिष्ठते तेन रात्रिः सौमी प्रीता सैषाऽहोरात्रयोरतिमुक्तिरित्यहोरात्रे यज्ञेन मुच्यते नैनं ते आप्नुतो य एवं विद्वानेतं पशुमालभते तमाहुर्विरूपःस्याच्छुक्लं च कृष्णं चाहोरात्रयोरूपेण शुक्लं वाऽथ लोहितं वाऽग्नीषोमयोरूपेणेति तस्यैकादश प्रयाजा एकादशानुयाजा एकादशोपयाजास्तानि त्रयस्त्रिंशत्रयस्त्रिंशद्वै सर्वे देवाः सर्वेषामेव देवानां प्रीत्यै प्राणा वैप्रयाजा अपाना अनुयाजास्तस्मात्समा भवन्ति समाना हीमे प्राणापानास्तदाहुः कस्मादृचा प्रयाजेषु यजति प्रतीकैरयानुयाजेष्विति रेतःसिच्यं वै प्रयाजा रेतोधेयमनुयाजास्तस्मादृचा प्रयाजेषु यजति प्रतीकैरनुयाजेष्वित्यथा यत्सर्वमुत्तममाह स्वर्ग एव तं लोके यजमानं दधात्याप्रीभिराप्रीणाति सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञं संभरते

यो यजते तस्य रिरिचान इव वा एतस्य आत्मा भवति तमस्यैताभिराप्रीभिराप्रीणाति तद्यदा प्रीणाति तस्मादाप्रियो नाम पर्यग्नि पशुं करोतिरक्षसामपहत्या[अ]ग्निर्वै रक्षसामपहन्ता त्रिः प्रसविपर्यग्निं करोति तद्यथा तिस्रोऽग्निः पुरः कुर्यादेवं तत्तस्मात्पुनः परीहीत्यग्नीधं ब्रूयाद्यमिच्छेन्नप्रच्यवेतेति॥३॥

दैव्याः शमितार उत च मनुष्या आरभध्वमुपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधमिति तद्धैक आह्नुर्यजमानो वै मेधपतिरिति कोमनुष्य इति ब्रूयाद्देवतैव मेधपतिरिति षड्विंशतिरस्य वङ्क्रय इति परशव उ ह वै वङ्क्रयउभयतोऽसृक्यर्यवानित्यसॄग्भाजनानि ह वै रक्षांसिभवन्ति नेद्रक्षसां भागेन दैवं भागं प्रसृजानीति स एषोऽध्रिगुः संशासनमेवाङ्गानि वा परिकर्तीरिति यद्ध वा अदुष्टं तद्देवानां हविर्न वै ते दुष्टंहविरदन्ति नवकृत्वोऽध्रिगाववानीति नवेमे प्राणाः प्राणानेव तद्यजमानेदधाति सर्वायुत्वायास्मिल्लोँकेऽमृतत्वायामुष्मिंस्त्रिः परिधात्यपरत्वाय सकृत्पुरस्तादाह सकृदिव वै पितरः पितृदेवत्य इव वै पशुरालभ्यमानोभवत्यथ यत्त्रिरुपरिष्टादाह त्रिर्वै देवत्रा देवदेवत्यमेवैनं तदयातयामानंकरोति परिधायोपांशु जपत्युभावपापश्चेत्यपापो ह वै देवानां शमितातस्मा एवैनं तत्संप्रयच्छति स हि देवानमु वेद॥४॥

अथ स्तोकीयान्वाह स्तोकानेवैताभिरग्नये स्वदयत्येता ह वा उ तेषांपुरोनुवाक्या एता याज्यास्तस्मादभिरूपा भवन्ति स्वाहाकृतिभिश्चरित्वावपया चरन्ति प्रयाजानेव तत्पशुभाजः कुर्वन्ति न स्वाहाकृतीश्चवपां चात(न्त)रेण वाचं विसृजेत प्राणा वै स्वाहाकृतय आत्मावपा नेत्प्राणांश्चाऽऽत्मानं चान्येनान्तर्दधानीत्यथ यदनुष्टु1भोऽग्नीषोमीयस्यपशोः पुरोनुवाक्या भवन्ति गायत्री वै सा याऽनुष्टुब्गायत्रमग्नेश्छन्दोऽथयत्त्रिष्टुभोयाज्याः क्षत्त्रस्यैवैतच्छन्दो यत्त्रिष्टुप्क्षत्त्रं सोमस्तद्यथाछन्दसं देवते प्रीणात्यथ वै पशुमालभ्यमानं पुरोडाशो निरूप्यते मेधो वा एषपशूनां यत्पुरोडाशः समेधमेवैनं तद्यज्ञियं करोत्यथ यत्र पशुपुरोडाशोन निरूप्यते तत्पुरोडाशःस्विष्टकृदच्युतोऽग्निर्वै स्विष्टकृत्तस्मादच्युतोभवति वैश्वामित्रीं पुरोडाशःस्विष्टकृतः पुरोनुवाक्यामनूच्यवैश्वामित्र्या यजति ततिर्वै यज्ञस्य पुरोडाशो वाग्वै विश्वामित्रो वाचा यज्ञस्तायते॥५॥

अथ मनोतामन्वाह सर्वा ह वैदेवताःपशुमालभ्यमानमुपसंगच्छन्तेमम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति तासां सर्वासां पशावेव मनांस्योतानि भवन्ति ता अत्र प्रीणाति तथा हाऽऽसां सर्वासां पशावेव मनांस्योतानि भवन्ति ता अत्र प्रीणाति तथा हाऽऽसां सर्वासाममोघायैवोपसमेतं भवति तदाहुर्यन्नानादेवताः पशवआलभ्यन्तेऽथ कस्मादाग्नेयमेवान्वाहेति तिस्रो वै देवानां मनोता अग्निर्वै देवानां मनोता तस्मिन्ह्येषां मनांस्योतानि भवन्त्यथो गौर्वै देवानां मनोता तस्यां ह्येषांमनांस्योतानि भवन्त्यथो गौर्वै देवानां मनोता तस्यां ह्येषां मनांस्योतानि भवन्त्यग्निः सर्वा मनोता अग्नौमनौताः संगच्छन्ते तस्मादाग्नेयमेवान्वाहेति ता वै त्रयोदश भवन्ति त्रयोदश वै पशोरवदानानि तेषां समवद्यति त्रिः प्रथमया त्रिरुत्तमया सप्तदश संपद्यन्ते सप्तदशो वै प्रजापतिरेतद्वा आर्धुकं कर्म यत्प्रजापतिसंमितं सप्तदश सामिधेनीरन्याह सप्तदशोवै प्रजापतिरेतद्वा आर्धुकं कर्म यत्प्रजापतिसंमितमथ यत्र पशुरालभ्यतेतद्वनस्पतिरच्युतोऽग्निर्वै वनस्पतिः स वै देवेभ्यो हविः प्रयच्छति तस्मादच्युतो भवति स उ वै पयोभाजनोऽत्राग्निः सर्वेषु हविःषु भागी भवतितदाहुर्यद्धामभाजो देवा अथ कस्मात्पाथोभाग्यनस्पतिरिति धाम वैदेवा यज्ञस्याभजन्त पाथः पितरः पितृदेवत्य इव वै पशुः पितृदेवत्यंपयस्तस्मादिति ब्रूयात्तदाहुः कस्मात्सौम्य एवाध्वरे प्रवृत्ताहुती जुह्वति न हविर्यज्ञ इत्यकृत्स्नैव वा एषा देवयज्या यद्धविर्यज्ञोऽथैषैव कृत्स्नादेवयज्या यत्सौम्योऽध्वरस्तस्मात्सौम्य एवाध्वरे प्रवृत्ताहुती जुह्वति नहविर्यज्ञ इति जुष्टो वाचो भूयासं जुष्टो वाचस्पतेर्देवि वाग्यत्ते वाचोमधुमत्तमं तस्मिन्नो अद्यधात्स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेणजुहोति वाचं तदुत्सृजते तस्माद्वा गत ऊर्ध्वोत्सृष्टा यज्ञं वहति मनसोत्तरांमनसा हि मनः प्रीतं मनसा हि मनः प्रतिम्॥६॥

इति शाङ्खायनब्राह्मणे दशमोऽध्यायः॥१०॥

________

हरिः ॐ अथातः प्रातरनुवाको यदेवैनं प्रातरन्वाह तत्प्रातरनुवाकस्यप्रातरनुवाकत्वमथ यत्प्रपदो जपति यदाहुतीर्जुहोति स्वस्त्ययनमेव तत्कुरुते हिंकृत्य प्रातरनुवाकमन्वाह वज्रो वै हिंकारो वज्रेणैव तद्यजमानस्य पाप्मानं हन्त्युच्चैर्निरुक्तमनुब्रूयादेतद्ध वा एकं वाचो नन्ववसितं पाप्मनो यन्निरुक्तं तस्मान्निरुक्तमनुब्रूयाद्यजमानस्यैव पाप्मनोऽपहत्या

अर्धर्चशोऽनुब्रूयादृक्संमिता वा इमे लोका अयं लोकः पूर्वोऽर्धर्चोऽसौलोक उत्तरोऽथ यदर्धर्चावन्तरेण तदिदमन्तरिक्षं तद्यदर्धर्चशोऽन्वाहैभिरेव तं लोकैर्यजमानं समर्धयत्येष्वेव तं लोकेषु यजमानंदधाति॥१॥

अथ वै पङ्क्तेःपञ्च पदानि कथं सार्धऽर्चशोऽनूक्ता भवतीति प्रणवउत्तरयोस्तृतीयस्तथा साऽर्धर्चशोऽनूक्ता भवत्याग्नेयं क्रतुमन्वाह तदिमंलोकमाप्नोत्युषस्यमन्वाह तदन्तरिक्षलोकमाप्नोत्याश्विनमन्वाह तदमुं लोकमाप्नोति गायत्रीमन्वाह मुखमेव गायत्र्यनुष्टुभमन्वाह वागनुष्टुम्मुखेतद्वाचं दधाति मुखेन वै वाचं वदति त्रिष्टुभमन्वाह बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति बृहतीमन्वाह गोश्वमेव बृहत्पुष्णिहमन्वाहाजाविकमेवोष्णिग्जगतीमन्वाह बलं वै वीर्यं जगती बलं वीर्यंपुरस्तात्त्रिष्टुब्बलं वीर्यमुपरिष्टाज्जगती॥२॥

मध्ये बार्हताश्चैष्णिहाश्च पशवो बलेनैव तद्वीर्येणोभयतः पशून्परिगृह्ययजमाने दधाति तथा ह यजमानात्पशवोऽनुक्रामुका भवन्ति तद्यथा ह वा अस्मिल्लोँक मनुष्याः पशूनश्नन्ति यथैभिर्भुञ्जत एवमेवामुष्मिल्लोँके पशवो मनुष्यानश्नन्त्येवमेभिर्भुञ्जते स एनानि ह प्रातरनुवाकेनावरुन्धे तमिहावरुद्धा अमुष्मिल्लोँके नाश्नन्ति नैनेन प्रतिभुञ्जतेयथैवैनामस्मिल्लोँकेऽश्नाति यथैभिर्भुङ्क्त एवमेवैनानमुष्मिल्लोँकेऽश्नात्येवमेमिर्भुङ्क्तेपङ्क्तिमन्वाह प्रतिष्ठा वैपङ्क्तिः सर्वेष्वेव तद्भूतेषु यजमानं प्रतिष्ठापयति॥३॥

अथ सर्वा ह वै देवता होतारं प्रातरनुवाकमनुवक्ष्यन्तमाशंसमानाःप्रत्युपतिष्ठन्ते मया प्रतिपत्स्यते मया प्रतिपत्स्यत इति स यदेकां देवतामादिश्य प्रतिपद्येताथेतराम्यो देवताभ्यो वृश्चेतानिरुक्तया प्रतिपद्यतेतेनो न कस्यैचन देवताया आवृश्चत आपो रेवतीरिति प्रतिपद्यत आपोवैसर्वादेवताः सर्वाभिरेव तद्देवताभिः प्रतिपद्यत उप प्रयन्तो अध्वरमित्युपसंदधात्युपेति तदस्य लोकस्य रूपं प्रयन्त इति तदमुष्योपेति तदग्नेरूपं प्रयन्त इति तदमुष्याऽऽदित्यस्यैवमेव सर्वासु प्रतिपत्सु सर्वेषु क्रतुष्वाग्नेय उपस्याश्विने पूर्वा पूर्वैव व्याहृतिरग्ने रूपमुत्तराऽमुष्याऽऽदित्यस्याथैतद्वैनाना छन्दांस्यन्तरेण गर्ता इवाथैते बलिष्ठेअरिष्टे अनार्ते देवते ताभ्यांप्रतिपद्यते समानेन सूक्तेन समारोहेत्तदगर्त्यस्कन्द्यंरोहस्य रूपं स्वर्ग्यंयत्र वा समानस्याऽऽर्षेयः स्यात्तदनवानं संक्रामेदमृतं वै प्राणोऽमृतेन तन्मृत्युं

तरति तद्यथा वंशेन वा मर्त्येन वा गर्तं संक्रामेदेवं तत्प्रणवेन संक्रामति ब्रह्म वै प्रणवो ब्रह्मणैव तद्ब्रह्मोपसंतनोति॥४॥

शुद्धः प्रणवः स्यात्प्रजाकामानां मकारान्तः प्रतिष्ठाकामानां मकारान्तः प्रणवः स्यादिति हैक आहुः शुद्ध इति त्वेव स्थितो मीमांसितः। प्रणवोऽथात इह शुद्ध इह पूर्ण इति शुद्ध एव प्रणवः स्याच्छस्त्रानुवचनयोर्मध्य इति ह स्माऽऽह कौषीतकिस्तथा संहितं भवति मकारान्तोऽवसानार्थे प्रतिष्ठा वा अवसानं प्रतिष्ठित्या एवाथो उभयोः कामयोराप्त्या एत उ ह वै छन्दः प्रवहा अवरं छन्दः परं छन्दोऽतिप्रवहन्ति तस्याऽऽप्तिर्नास्ति च्छन्दसा छन्दोऽतिप्रोल्हस्याति यन्नेव यं द्विष्यात्तं मनसा प्रेव विध्येच्छन्दसां कृन्तत्रेषु द्रवति वासं या शीर्यत इति ह स्माऽऽह समानोदर्काण्युत्तमानि क्रतूनां पाङ्क्तान्यन्वाह रसो वा उदर्कःपशवश्छन्दांसि रसमेव तच्छन्दांस्यभ्युपनिवर्तन्त उपनिवर्तमिव वै पशवः सौयवसे रमन्ते सैकोना विराड्द्विरनूक्तया संपदि विराट्त्रिरनूक्तयैका विराजमत्येति॥५॥

त्रयो वै यज्ञे कामा यः संपन्ने यो न्यूने योऽतिरिक्ते यद्वै यज्ञस्य संपन्नंतत्स्वर्ग्यं यन्न्यूनं तदन्नाद्यं यदतिरिक्तं तत्प्रजात्यै तदत्रैव यजमानः सर्वान्कामानाप्नोत्यभूदुषा रुशत्यशुरित्याशीर्वत्या परिदधाति पशुभ्य एवतदाशिषं वदते तथा ह यजमानात्पशवोऽनुत्क्रामुका भवन्ति तस्यां वाचमुत्सृजति तदेनमजनीति देवेभ्यो निवेदयत्यत्र हि जायते या वाजंदेवहितं सनेमेति द्विपदामभ्यस्यति पशवो वा एतानि चतुरुत्तराणिच्छन्दांसि यजमानच्छन्दसं द्विपदा अधिष्ठायामेव तत्पशूनां यजमानंदधात्यधीव वै पशून्पुरुषस्तिष्ठति त्रिःसप्तानि क्रतूनां छन्दांस्यन्वाहतदेकविंशतिरेकविंशो वै चतुष्टोमः स्तोमानां परमस्तत्परमं स्तोममाप्नोति यद्वैवैकविंशतिर्द्वादश वै मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशस्तेनैव तत्सलोकतायां यजमानमध्यूहति॥६॥

तदाहुर्यदिमा हविर्यज्ञस्य वा पशोर्वा सामिधेन्योऽथ काः सौम्यस्याध्वरस्येति प्रातरनुवाक इति ब्रूयादक्षरैर्ह वा इतरासां संवत्सरमुपेप्सेत्यृग्भिर्हि शतमात्रमनुब्रूयाच्छतायुर्वै पुरुष आयुरेवास्मिंस्तद्दधाति विंशतिशतमनुब्रूयाद्विंशतिशतं वा ऋतोरहानि तदृतुमाप्नोत्यृतुना संवत्सरंये च संवत्सरे कामास्त्रीणि षष्टिशतान्यनुब्रूयात्त्रीणि वै षष्टिशतानिसंवत्सरस्याह्नां संवत्सरस्यैवाऽऽप्त्यै सप्तविंशतिशतान्यनुब्रूयात्सप्त वै

विंशतिशतानि संवत्सरस्याहोरात्राणां तत्संवत्सरस्याहोरात्राण्याप्नोतिसहस्रमनुब्रूयात्सर्वं वै तद्यत्सहस्रं सर्वं प्रातरनुवाकस्तत्सर्वेण सर्वमाप्नोति य एवं वेद तदु ह स्माऽऽह कौषीतकिः प्रजापतिर्वै प्रातरनुवाकोऽपरिमित उ वै प्रजापतिः कस्तं मातुमर्हेदित्येषा हैव स्थितिः॥७॥

तदाहुर्यत्सदस्युक्थानि शस्यन्तेऽथ कस्माद्धविर्धानयोः प्रातरनुवाकमन्वाहेति शिरो वा एतद्यज्ञस्य यद्धविर्धाने प्राणाच्छन्दांसि शीर्षस्तत्प्राणं दधाति सदस्युक्थानि शस्यन्त उदरं वै सदोऽन्नमुक्थान्युदरसा चेयमु वा अनाद्यं तद्यथा ह वा अन्न एनं यज्ञः प्रतिमया यथा धान्यमेवंप्रातरनुवाको यथा पात्राण्येवमुक्थानि स योऽल्पकमन्वाह यथाऽल्पधान्ये पात्राणि समृच्छेरन्नेवं तस्योक्थानि समृच्छन्त उक्थानामनुसमरमीश्वरो यजमानं भ्रेषोऽन्वेतोस्तस्माद्बह्व्य एवानुब्रूयादुक्थानि तत्परिबृंहति या यज्ञस्य समृद्धस्याऽऽशीः सा मे समृध्यतामिति या वै यज्ञस्यसमृद्धस्याऽऽशीः सा यजमानस्याथो त्रीणि वा एतानि सहस्राण्यधियज्ञं प्रातरनुवाक आश्विनं महदुक्थं महारात्रमुपाकुर्यात्पुरा वाचो विसर्गाद्यत्रैतत्पशवो मनुष्या वयांसीति वाचं व्यालभन्ते पुरा ततो वाचं ह वाएतद्भूतान्याप्याययन्ति यद्वाचंयमानि शेरत आपीनां वाचमभ्यासिक्तांप्रथमत ऋध्नवामेति न प्रातरनुयाकं चोपांश्वन्तर्यामौ चान्तरेण वाचं विसृजेत प्राणापानौ वा उपांश्वन्तर्यामौ वाक्प्रातरनुवाको नेत्प्राणापानौ च वाचं चान्येनान्तर्दधानीति तद्धैके छन्दसां योग इति जपित्वाऽथाऽऽपो रेवतीरिति प्रतिपद्यन्ते नाऽऽपो रेवत्यै पुरस्तात्किंच परिहरेदिति तदिह स्थितमनाव्रस्काय तदिह स्थितमनाव्रस्काय॥८॥

इति शाङ्खायनब्राह्मण एकादशोऽध्यायः॥११॥
——————

हरिः ॐ। यज्ञो वा आपस्तद्यदपोच्छ्रयन्ति यज्ञमेव तदुच्छ्रयन्त्यथोऊर्ग्व आपो रस ऊर्जेनैव तद्रसेन हविः संसृजन्त्यथो अमृतत्वं वाआपोऽमृतत्वमेव तदात्मं धत्ते तद्ध स्म वै पुरा यज्ञमुहो रक्षांसि तीर्थेष्वपो गोपायन्ति तद्येके चापोऽच्छजघ्नुस्तत एव तान्सर्वाञ्जघ्नुस्तत एतत्कवपः सूक्तमपश्यत्पञ्चदशर्च प्र देवत्रा ब्रह्मणे गातुरेत्विति तदन्वब्रवीत्तेन यज्ञमुहो रक्षांसि तीर्थेभ्योऽपाहंस्तत उ हैतदुर्वाक्स्वस्ति रिष्ट्याः पुनः प्रत्यायन्त्यथादोमुत्रास्वध्वर्युराह्नुतिं जुहोति तां संप्रत्येतामनुब्रू-

यार्द्धिनोता नो अध्वरं देवयज्ययेति तस्या एवैषा याज्या देवयज्येत्यभिरूपाऽऽवर्वृततीरधनु द्विधारा इत्यावृतासु प्रतियदापो अदृश्रमायतीरिति प्रतिख्यातासु समन्यायन्त्युपयन्त्यन्या इति समायतीषु यन्ति वा आप उपयन्त्यन्या आपो न देवीरूपयन्ति होत्रियमिति होतृचमसेऽवनीयमानास्वाधेनवः पयसा तूर्ण्यर्था इत्यापो वै धेनव आपो हीदं सर्वं हिन्वन्त्यथाध्वर्युर्होतारमभ्यावृत्य तिष्ठति तं होता पृच्छत्यध्वर्यवैषीरपाइ३त्येषीर्यज्ञमित्येवैनं तदाहोतेवनंनमुरिति प्रत्याहाविदाम तद्यदास्वप्स्वै शीर्ष्माणं सत तस्मा इत्येवैनं तदाह प्रत्युक्तो होतैतं निगदं प्रतिपद्यत ऊर्ग्वै रसो निगद ऊर्जमेव तद्रसं निगदेन हविषि दधाति॥१॥

अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयोऽपोहीयति स्तौत्येमा अग्मम्रेवतीर्जीवधन्या इत्यागतास्वाग्मन्नाप उशतीर्बर्हिरेदमित्यागतवत्या परिदधात्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्या अनूक्तःप्रातरनुवाक आसीदप्राप्ता उक्थान्यासंस्तानेतस्मिंसंनिधावसुरा उदायंस्ते देवाः प्रतिबुध्य बिभ्यत एतं त्रिः समृद्धं वज्रमपश्यन्नाप इति तत्प्रथमंवज्ररूपं सरस्वतीति तद्द्वितीयं वज्ररूपं पञ्चदशर्चं भवति तत्तृतीयं वज्ररूपमेतेन वै देवास्त्रिः समृद्धेन वजेणैभ्यो लोकेभ्योऽसुराननुदन्त तथोएवैतद्यजमान एतेनैव त्रिः समृद्धेन वज्रेणैभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते॥२॥

माध्यमाः सरस्वत्यां सत्रमासत तद्धापि कवषो मध्ये निषसाद तंहेम उपोदुर्दास्या वै स्वं पुत्रोऽसि न वयं त्वया सह भक्षयिष्याम इतिस ह क्रुद्धः प्रद्रवत्सरस्वतीमेतेन सूक्तेन तुष्टाव तं हेयमन्वियाय ततउ हेमे निरागा इव मेनिरे तं हान्वावृत्योचुर्ऋषे नमस्ते अस्तु मा नोहिंसीस्त्वं वै नः श्रेष्ठोऽसि यं त्वयमन्वेतीति तं ह ज्ञपयांचक्रुस्तस्य हक्रोधं विनिन्युः स एष कवषस्यैव महिमा सूक्तस्य चानुवेदिताऽथयत्सह पत्नीभिर्यन्ति गंधर्वा ह वा इन्द्रस्य सोममप्सु प्रत्यायिता गोपायन्ति त उह स्त्रीकामास्ते हाऽऽसु मनांसि कुर्वते तद्यथा प्रमत्तानां यज्ञमाहरेदेवं तदुपनामुक उ एवैनं यज्ञो भवति य एवं वेद ता वै विंशतिमन्वाह ता विराजमभिसंपद्यन्ते वैराजीर्वा आपोऽन्नं विरालन्नमापोऽन्नेने तदन्नाद्यं समर्धयति त्रिः प्रथमया त्रिरुत्तमया चतुर्विंशतिः संपद्यन्ते चतुर्विंशत्यक्षरा गायत्री गायत्री प्रातः सवनं वहति तदु ह प्रातःसवनरूपा न्वाप इतीति न्वा आपोनप्त्रियस्य॥३॥

अथवा उपांशु प्राण एवं तं हूयमानमनुप्राण्यात्प्राणं मे पाहि प्राणंमे जिन्व स्वाहा त्वा सुभव सूर्यायेति स एव तस्य वषट्कारस्य स्वाहाकारो न ह वै ता आहुतयो देवान्गच्छन्ति या आ वषट्कृता वा स्वाहाकृता वा भवत्यन्तर्यामोऽपान एवं तं हूयमानमन्ववान्यादपानं मे पाह्यपानं मे जिन्व स्वाहा त्वासुभव सूर्यायेति स एव तस्य वषट्कारस्यस्वाहाकारोन ह वै ता आहुतयो देवान्गच्छन्ति या वषट्कृता वास्वाहाकृता वा भवन्ति तौ वा एतौ प्राणापानावेव यदुपांश्वन्तर्यामौ तयोर्वा उदितेऽन्यमनुदितेऽन्यं जुह्वतीमावेव तत्प्राणापानौवितारयतितस्माद्धीमौप्राणापानौसह सन्तौ नानेव यद्वेवोदितेऽन्यमनुदितेऽन्यंजुह्वत्यहोरात्राभ्यामेव तदसुरानन्तरयन्त्युभयतो ह्यमुमादित्यमहोरात्रे पाप्मानं वा यजमान इति ह स्माऽऽहाथ यस्यैता उभा उदिते जुह्वत्युभौ वाऽनुदित उदकयाजी स न सोमयाजी यस्यैवैतौ यथायथं हूयेतेस सोमयाजीतीति न्वा उपंश्वन्तर्यामयोः॥४॥

अनूत्थेयः पवमानो ना३इति नानूत्थेय इत्याहुर्ऋच एतदायतनंयत्रैतद्धोतास्तेऽथातः साम्नो यत्रामी साम गायन्ति स योऽनूत्तिष्ठत्यृचं स स्वादायतनाच्च्यवयत्यृचं स साम्नोऽनुवर्त्मानं करोति तस्मादनानूत्तिष्ठेन्नेदृचं स्वादायतनाच्च्यवयानीति नेदृचं स साम्नोऽनुवर्तमानं करवाणीति यदि तु स्वयं होता स्यादनूत्तिष्ठेदौपगात्रं ह्यस्य भवति स्वर्गीवै लोकः स्वरसामः स्वर्गे लोके स्वरे सामन्यात्मानमतिसृजा इत्यथपवमाने ह वा उ प्रातः सर्वा देवताः संतृप्यन्ते कथं तत्रापरिभक्षितो भवतीति स स्तुते पवमान एतं जपं जपेदुपहूता देवा अस्य सोमस्यपवमानस्य विचक्षणस्य भक्ष उप मां देवा ह्वयन्तामस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे मनसा त्वा भक्षयामि वाचा त्वा भक्षयामिप्राणेन त्वा भक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामीतिस एष देवैः समुपहवस्तथा हास्यासौ सोमो राजा विचक्षणश्चन्द्रमाभक्षो भक्षितो भवति यममुं देवा भक्षं भक्षयन्ति॥५॥

अथ पशुसोम एवैष प्रत्यक्षं यत्पशुरुदकपेयमिव ह स्याद्यदेष आलभ्यते सवनान्येतेन तीव्री करोति तद्यद्वपया चरन्ति तेन प्रातःसवनं तीव्रीकृतं यच्छ्रपयन्ति यत्पशुपुरोलाशेन चरन्ति तेन माध्यंदिनं सवनं तीव्रीकृतमथ यदनेन तृतीयसवने प्रचरन्ति तेन तृतीयसवनं तीव्रीकृतंस एष सवनानामेव तीव्रीकारो याश्च सोमपा देवता याश्च पशुभाज-

नास्त्रयस्त्रिंशद्वै सोमपा देवता याःसोमाहुतीरन्वायत्ता अष्टौ वसवएकादश रुद्रा द्वादशाऽऽदित्याइन्द्रो द्वात्रिंशत्प्रजापतिस्त्रयस्त्रिंशत्त्रयस्त्रिंशत्पशुभाजनास्ता उभय्यः प्रीता भवन्ति यदेष आलभ्यते तमेतमैन्द्राग्नः स्यादिति हैक आहुरिन्द्राग्नी वैसर्वे देवास्तदनेन सर्वान्देवान्प्रीणातीति वदन्तस्तदु वा आहुराग्नेय एवैष स्यादैन्द्राः पुरोलाशास्तत्सममिन्द्राग्नी भजेते इत्यग्नेर्वै प्रातःसवनं प्रातःसवन एष आलभ्यतेऽग्नेर्वाएतं सन्तमन्यस्मै हरन्ति येऽम्यदेवत्यंकुर्वन्ति तद्यथाऽन्यस्य सन्तमन्यस्मै हरेदेवं तदपि केवलं संवत्सरं संवत्सरः सदामाग्नेय एवन च्यवेतेति तद्ध्यु हैक आहुः शिक्षायामेवावधृत आग्नेयः॥६॥

तस्य भुवो यज्ञस्य रजसश्च नेतेति भुवद्वतीवपायै याज्या प्र वः शुक्रायमानवे भरध्वमिति शुक्रवती पुरोलाशस्य प्रकारवो मननावच्यमानाइति हविष्मती हविष एकादशिनी त्वेषान्वायातयेयुरिति सा स्थितिर्यदि पृष्ठोपायं भवत्यथाऽऽवाहनआवह देवान्यजमानायाग्निमग्न आवह वनस्पतिमावहेन्द्रं वसुमन्तमावहेति तत्प्रातःसवनमावाहयतीन्द्रं रुद्रवन्तमावहेति तन्माध्यंदिनं सवनमावाहयतीन्द्रमादित्यवन्तमृभुमन्तंविभुमन्तं वाजवन्तं बृहस्पतिमन्तं विश्वदेष्यावन्तमावहेति तत्तृतीयसवनमावाहयति तत उ हैके वनस्पतिमावाहयन्त्यन्तत आवाह्यस्तृतीयसवनेह्येनं पजन्तीति वदन्तस्तदु वा आहुरात्मा वै पशुः प्राणो वनस्पतिर्यस्तंतत्र ब्रूयात्प्राणादात्मानमन्तराऽगान्न जीविष्यति तथा ह स्पात्तस्मात्पशुमेवोपसंधाय वनस्पतिरावाह्यो मीमांसितः पशुः॥७॥

प्रजापतिःप्रजाः सृष्ट्वा रिरिचान इवामन्यत स हैक्षत कथं नु तेनयज्ञक्रतुना यजेयं येनेष्ट्वोपकामानाप्नुयाम वान्नाद्यं रुन्धीयेति स एतामेकादशिनीमपश्यत्तामाहरत्तया यजत तयेष्ट्वोपकामानाप्नोदवान्नाद्यमरुन्धत्तथोएवैतद्यजमान एतयैवैकादशिन्येष्ट्वोपकामानाप्नोत्यवान्नाद्यं रुन्धे तस्यै वाएतस्था एकादशिन्यै याज्यापुरोनुवाक्याश्चैव नाना मनोतायै च हविषोऽथेतरत्समानमाग्नेयः प्रथमो ब्रह्म वा अग्निर्ब्रह्मयशसस्यावरुद्ध्यैसारस्वतो द्वितीयो वाग्वै सरस्वती वाचा वा इदं स्वदितमन्नमद्यतेऽन्नाद्यस्पोपाप्त्यै सौम्यस्तृतीयः क्षत्त्रंवै सोमः क्षत्त्रयशसस्यावरुद्ध्यैपौष्णश्चतुर्थोऽन्नं वै पूषाऽन्नाद्यस्योपाप्त्यै बार्हस्पत्यः पञ्चमो ब्रह्म वै बृहस्पतिर्ब्रह्मयशसस्यावरुद्ध्यैवैश्वदेवः षष्ठो विश्वरूपं वा इदमन्नमद्यतेऽन्नाद्यस्पोपाप्त्या ऐन्द्रः सप्तमः क्षत्त्रं वा इन्द्रः क्षत्त्रयशसस्यावरुद्ध्यै मारुतोऽष्टम

आपो वै मरुतोऽन्नमापोऽन्नाद्यस्योपाप्त्याऐन्द्राग्नोनवमो ब्रह्मक्षत्त्रे वाइन्द्राग्नीब्रह्मयशसस्य च क्षत्त्रयशसस्य चावरुद्ध्यैसावित्रो दशमः सविसृप्रसूतं वा इदमन्नमद्यतेऽन्नाद्यस्योपाप्त्यै वारुण एकादश क्षत्त्रं वै वरुणःक्षत्त्रयशसस्यावरुद्ध्याएवं वै प्रजापतिर्ब्रह्मणा च क्षत्त्रेण च क्षत्त्रेण चब्रह्मणा ब्रह्मणा चोभयतोऽन्नाद्यं परिगृह्णानोऽवरुन्धान ऐत्तथो एवैतद्यजमान एवमेव ब्रह्मणा च क्षत्त्रेण च क्षत्त्रेण च ब्रह्मणा चोभयतोऽन्नाद्यं परिगृह्णान्नोऽवरुन्धान ऐत्यवरुन्धान एति॥८॥

इति शाङ्खायनब्राह्मणे द्वादशोऽध्यायः॥१२॥

____________

हरिः ॐ। प्रजापतिर्वै यज्ञस्तस्मिन्सर्वे कामाःसर्वममृतत्वं तस्यैतेगोप्तारो यद्धिष्ण्यास्तात्सदः प्रसृप्स्यं नमस्यति नमो नम इति न हिनमस्कारं मतिदेवास्ते नमसिता होतारमतिसृजन्ते स एतं प्रजापतिं यज्ञं प्रपद्यते तदत्रैव यजमानः सर्वान्कामानाप्नोति॥१॥

अथ हविष्पङ्क्त्याचरन्ति पशवो वै हविष्पङ्क्तिःपशूनामेवाप्त्यैतानिवै पञ्च हवींषि भवन्ति दधिधानासक्तवः पुरोलाशः पयस्येति पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पाङ्क्तःपुरुषो यज्ञस्य च पशूनांचाऽऽप्त्यै सेयं निरूप्यते पशूनामेव परिग्रहायाथो सवनानामेव तीव्रीकारायाथ वे हविष्पङ्क्तिः प्राण एव तस्माद्येनैव मैत्रावरुणः प्रेष्यति तेनहोता यजति समानो ह्ययं प्राणस्तदाहुर्यया वै प्रातर्यजत्यृक्सा तदहर्यातयामा भवत्यथ कस्मादेषा सर्वेषु सवनेष्वयातयामेति यदेव सवनैर्वितारयन्नेति प्रातः प्रातःसावस्येति प्रातःसवने माध्यंदिनस्य सवनस्येति माध्यंदिने सवने तृतीयस्य सवनस्येति तृतीयसवने तेनायातयामातदाहुः कस्मात्प्रातरेव पयस्या न मध्यंदिने न तृतीयसवन इति यज्ञो वैमैत्रावरुण एतद्वै यज्ञो जायते यत्प्रातःसवने पयोभाजनो वैतरणः कुमारस्तद्यथा जातायस्तनमुपदध्यादेवं तद्वृद्धो वा उत्तरयोः सवनयोर्यदा वै वर्धतेऽतिस्तनो वै तदा तस्मात्प्रातरेव पयस्या न मध्यंदिनेन तृतीयसवन इति॥२॥

हविरग्नेवीहीत्यनुसवनं पुरोलाशः स्विष्टकृतो यजत्यवत्सारो ह प्राश्रवणो देवानां होता सतमेतस्मिन्द्युम्ने मृत्युः प्रत्यालिल्येऽग्निर्वै मृत्युः

स हविरग्ने वीहीति हविषाऽग्निं प्रीत्वाऽथातिमुमुचे तथो एवं विद्वान्होता हविरग्ने वीहीत्येव हविषाऽग्निं प्रीत्वाऽथातिमुच्यत एतैर्ह वाअन्तराकाशैर्देवाः स्वर्गं लोकं जग्मुस्तोनतस्मिन्द्युम्ने मृत्युः प्रत्यालिल्येऽग्निर्वैमृत्युस्ते हविरग्ने वीहीति हविषाऽग्निं प्रीत्वाऽथातिमुमुचिरे तथोएवैवं विद्वान्होता हविरग्नेवीहीत्येव हविषाऽग्निं प्रीत्वाऽथातिमुच्यतेतानि वा एतानि षलक्षराणि हविरग्ने वीहीति षलङ्गोऽयमात्मा षड्विधस्तदात्मनैवाऽऽत्मानं निष्क्रीयानृणो भूत्वाऽथ यजते स एषोऽवत्सारस्य प्राश्रवणस्य मन्त्रः स न मन्येत केन वा उ केन वा यजा इत्यृषिकृतेन मन्त्रेणर्चायजानीत्येव विद्यात्॥३॥

अथ सोम इति वै पशुमवोचामैवं पुरोलाशान्दशान्वा एते सोमांशवः प्रत्नोंऽशुर्यमेतमभिषुण्वन्ति तृप्तोंऽशुरापो रसोंऽशुर्व्रीहि वृषोंऽशुर्यधः शुक्रोंऽशुः पयो जीवोंऽशुः पशुरमृतोंऽशुर्हिरण्यमृगंशुर्यजुरंशुःसामांशुरित्येते वा उ दश सोमांशवो यदा वा एते सर्वे संगच्छन्तेऽथ सोमोऽथ सुतः॥४॥

पुरोलाशैश्चरित्वा द्विदेवत्यैश्चरन्त्यात्मा वै यजमानस्य पुरोलाशाः प्राणा द्विदेवत्यास्तद्यत्पुरोलाशैश्चरित्वाद्विदेवत्यैश्चरन्ति प्राणानेव तद्यजमाने दधाति सर्वायुत्वायास्मिल्लोँकेऽमृतत्वायामुष्मिंस्तथा ह यजमानःसर्वमायुरस्मिल्लोँक एत्याप्नोत्यमृतत्वमक्षितिं स्वर्गे लोक ऐन्द्रवायवः प्रथमो वाग्वा इन्द्रः प्राणो वायुश्चक्षुर्मैत्रावरुणः श्रोत्रमाश्विनस्ते वा एतेप्राणा एव यद्विदेवत्यास्तस्मादनवानं यजति प्राणानां संतत्यै संतता इव हीमे प्राणा नानुवषट्करोति प्राणा वै द्विदेवत्याः संस्थाऽनुवषट्कारोनेत्पुरा कालात्प्राणं संस्थापयानीति युक्ता इव हीमे प्राणा ऐन्द्रवायवं पूर्वार्द्ध्यं सादयति पूर्वार्द्ध्योह्येष एषां प्राणानामभिधानतर इवाभितइतरौपश्चादुपनिधात्यमित इव हीदं चक्षुश्चश्रोत्रं च तानवगृह्यास्तेनेत्प्रवर्तन्ता इति नापिदधाति प्राणा वै द्विदेवत्या नेत्प्राणानपिधामीति॥५॥

इदं ते सोम्यं मध्विति प्रस्थितानां याज्या मधुश्चुतां मधुमत्यनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ होत्राःसंयजन्ति यजमानमेव तदृणतायै संप्रमुञ्चन्ति द्विदेवत्यानां प्रथमो भक्षोऽथेलाऽथ होतृचमस आत्मा वै यजमानस्य पुरोलाशाः प्राणा द्विदेवत्या अन्नं पशव इलाऽन्नेन वै प्राणाश्चाऽऽत्मा च संहितस्तस्माद्विदे-

वत्यानां प्रथमो भक्षोऽथेलाऽथ होतृचमसस्तानध्वर्यवे प्रयच्छति नानुसृजति प्राणा वै द्विदेवत्या नेत्प्राणामनुसृजानीति द्विरैन्द्रवायवस्य भक्षयति द्विर्हितस्य वषट्करोति सकृन्मैत्रावरुणस्य सकृदाश्विनस्य सर्वतःपरिहारमाश्विनस्य भक्षयति सर्वतो ह्यनेन श्रोत्रेण शृणोति संस्रवान्होतृचमसेऽवनयतीलाभाज एवैनांस्तत्करोति॥६॥

अथेलामुपह्वयते दक्षिणेनोत्तरेलां धारयत्सव्येन होतृचमसं च पात्रीं च संयच्छत्यसंस्पर्शयन्वज्रो वा आज्यं रेतः सोमो नेद्वज्रेण रेतो हिनसानीति तस्यां न सुन्वदाहानाशिषो निराहोपहूयेलामवघ्रायावस्यति प्राश्नात्युत्तरेलामथाप आचम्य होतृचमसं भक्षयत्येतद्वै परममन्नाद्यंयत्सोमः परममेवैतदन्नाद्यं सर्वे समुपहूय भक्षयन्ति॥७॥

अथ वै प्रत्युपहवोऽच्छावाकस्य प्रत्येता वामा सूक्ता यं सुन्वन्यजमानो अग्रभीदुत प्रतिष्ठोतोपवक्तउत नो गावउपहूता इति यदि नोपजुहूषत्युतोपहूत इत्यभ्यस्यति यद्युपजुहूषते प्रत्युपहूतोऽच्छावाको निवर्तध्वं माऽनुगातेत्येतस्य सूक्तस्य यावतीःपर्याप्नुयात्तावतीरनुद्रवेद्धोतावा प्रतिकामिनमच्छावाकं सा तत्र प्रायश्चित्तिः॥८॥

प्राणा वा ऋतुयाजास्तद्यदृतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधतिस वा अयं त्रेधा विहितः प्राणः प्राणोऽपानो व्यान इति षल्ऋतुनेतियजन्ति प्राणमेव तद्यजमाने दुधति चत्वार ऋतुभिरित्यपानमेव तद्यजमाने दधति द्विर्ऋतुनेत्युपरिष्टाद्व्यानमेव तद्यजमाने दधाति सर्वायुत्वायास्मिल्लोँकेऽमृतत्वायामुष्मिंस्तथा ह यजमानः सर्वमायुरस्मिल्लोँक एत्याप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ते वा एते प्राणा एव यदृतुयाजास्तस्मादनवानं यजन्ति प्राणानां संतत्यै संतता इव हीमे प्राणा नानुवषट् कुर्वन्ति प्राणा वा ऋतुयाजाः संस्थाऽनुवषट्रकारो नेत्पुरा कालात्प्राणान्संस्थापयानीति युक्ता इव हीमे प्राणास्तदाहुः कस्माद्धोतायक्षद्धोता यक्षदित्येव सर्वेभ्यः प्रेष्यतीति वाग्वै होता वाग्यक्षद्वाग्यक्षदित्येव तदाहाथो सर्वे वा एते सप्त होतारोऽपि व ऋचाभ्युदितं सप्तहोतार ऋतुशो यजन्तीत्यथ यद्विरुपरिष्टाद्द्वादश त्यजामि ता यैते वैद्वादश भवन्ति द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽवाप्स्यै सयोऽत्र भक्षयेद्यस्तं तत्र ब्रूयाद्दशान्तो भक्षो ननु वषट्कृतः प्राणानस्य व्यगान्न जीविष्यति तथा ह स्याद्य उ वै न भक्षयेद्यस्तं तत्र ब्रूयात्प्राणो

भक्षः प्राणादात्मानमन्तरगान्न जीविष्यतीति तथा हैव स्याल्लिम्पेदिवैवावेव जिघ्रेदत्र च द्विदेवत्येषु चेति तदु तत्र शासनं वेदयन्तेऽथ पदमूव्यतिचरतो नान्योन्यमनुप्रपद्येते अध्वर्यू तस्मादृतुर्ऋतुंनानुप्रपद्यते तस्मादृतुर्ऋतुं नानुप्रपद्यते॥९॥

इति शाङ्खायनब्राह्मणे त्रयोदशोऽध्यायः॥१३॥

______________

** **हरिः ॐ। अथात आज्यमाज्येन वै देवाः सर्वान्कामानाजयन्त सर्वममृतत्वं तथो एवैतद्यजमान आज्येनैव सर्वान्कामानाजयति सर्वममृतत्वंतद्वा इदं षड्विधमाज्यंतूष्णीं जपस्तूणीं शंसः पुरोरुक्सूक्तमुक्थवीर्यं याज्येति षल्ऋतुः संवत्सरः षड्विध एतेन वै देवाः षड्विधेनाऽऽज्येन षल्ऋतुं संवत्सरमाप्नुवन्षड्विधं संवत्सरेण सर्वान्कामान्सर्वममृतत्वं तथोएवैतद्यजमान एतेनैव षड्विधेनाऽऽज्येन षल्ऋतुं संवत्सरमाप्नोति षड्विधं संवत्सरेण सर्वान्कामान्सर्वममृतत्वमथ यत्पुरस्तात्तूष्णीं जपं जपति स्वर्गोवै लोको यज्ञस्तद्यत्पुरस्तात्तूष्णीं जपं जपति स्वस्त्ययनमेव तत्कुरुते स्वर्गस्यलोकस्य समष्ट्या अथैतं तूष्णीं शंसमुपांशु शंसति सर्वेषामेव कामानामाप्त्या अग्निर्ज्योतिर्ज्योतिरग्निरिति तदिमं लोकं लोकानामाप्नोतिप्रातःसवनं यज्ञस्येन्द्रो ज्योतिर्ज्योतिरिन्द्र इति तदन्तरिक्षलोकं लोकानामाप्नोति माध्यंदिनं सवनं यज्ञस्य सूर्यो ज्योतिर्ज्योतिः सूर्य इति तदमुं लोकं लोकानामाप्नोति तृतीयसवनं यज्ञस्याथ वै निविदसावेव योऽसौतपत्येष हीदं सर्वं निवेदयन्नेति सा पुरस्तात्सूक्तस्य प्रातः सवनेऽधीयतेपुरस्ताद्ध्येष तदा भवति मध्ये सूक्तस्य माध्यंदिने सवने मध्ये ह्येष तदा भवत्युत्तमाः परिशिष्य तृतीयसवने पश्चाद्ध्येषतर्हि परिक्रान्तोभवति तदेतस्यैव रूपेण निविदं दधतेति तदु वा आहुरञ्जयो वै प्रातःसवनं वहति शितिपृष्ठा माध्यंदिनं सवनं श्वेतानूकाशास्तृतीयसवनमित्यादित्येनैवं द्वादशपदां पुरोरुचमुपसंशंसति द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्यै॥१॥

अथ सप्तर्चमाज्यं शंसति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्यै तद्वा आनुष्टुभं भवति वागनुष्टुप्तद्यत्किंच वाचाऽनुष्टुभाऽभ्यनूक्तं तत्सर्वमाप्नोति पदेविगृह्णाति तत्मजात्यै रूपं वीववैस्त्रियै पुमान्गृह्णातियद्वेव विगृह्णाति प्रतिष्ठयोस्तद्रूपमथो एतद्ध वै मृत्योरास्यं यदेते पदे अन्तरेण स योत्रावानन्तं ब्रूयान्मृत्योरास्यमापाति न जीविष्यति तथा

ह स्यात्तस्मात्तदनवानं संक्रामेदमृतं वै प्राणोऽमृतेन तन्मृत्युं तरति समस्तेनोत्तरेणार्धर्चेन प्रणौति वज्रमेव तत्पाप्मने भ्रातृव्याय प्रहरतिता दश गायत्र्यः संपद्यन्तेऽष्टाक्षरं हि दशमं पदं गायत्री वै सा याऽनुष्टुब्गायत्रमग्नेश्छन्दो दश प्रातःसवनेऽध्वर्युर्ग्रहान्गृह्णाति नवसु बहिष्पवमानेन स्तुवते हिंकारो दशमो दशेमास्ते नाना कुर्वन्तो विराजमभिसंपादयन्त्येतद्वैकृत्स्नमन्नाद्यं यद्वैराट्तदेतत्संपाद्यं यजमाने प्रतिदधति त्रिः प्रथमया त्रिरुत्तमयैकादश संपद्यन्ते याज्या द्वादशी द्वादश वैमासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यैताः संशस्ताः षोलश गायत्र्यःसंपद्यन्ते तद्गायत्रीमाज्यमभिसंपद्यत आग्नेन्द्यायजतीन्द्रमेव तदर्धभाजंसवनस्य करोति याज्यायां देवता अन्वाभजतेति ह स्माऽऽह कौषीतकिस्त्रयस्त्रिंशदक्षरा वै विराट्त्रयस्त्रिंशद्देवता अक्षरभाजो देवताः करोत्यग्न इन्द्रश्च दाशुषो दुरोण इति पदं परिशिष्य विराजोऽर्धर्चे वाऽनितिश्रीर्विरालन्नाद्यं श्रियां तद्विराज्यन्नाद्ये प्रतितिष्ठत्युत्तरेण विराजोऽर्धर्चेनवषट् करोति स्वर्ग एव तं लोके यजमानं दधात्यनु वषट् करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै॥२॥

शोंसावो ३ इति प्रातःसवन आह्वयते यच्छुद्धं प्रणवं कुर्वन्तितदस्य लोकस्य रूपं यन्मकारान्तं तदमुष्य तद्यच्छुद्धं प्रणवं कुर्वन्तिपराङ्वा असौ लोको नेत्पराञ्चो गामेत्यथो प्रजापतिर्वा अयं लोकः प्रजात्या एवाथो प्रतिष्ठा वा अयं लोकः प्रतिष्ठित्या एव शोंसामो दैवेत्यध्वर्युस्तान्यष्टावक्षराण्युक्थमवाचीति प्रातःसवन उपांशु होता ब्रूयादुक्थशा इत्यध्वर्युस्तान्यष्टौ गायत्र्या सवनं प्रतिपद्य गायत्र्यां प्रत्यष्ठातामध्वर्यो शोंसावो३ इति माध्यंदिने सवन आह्वयते शोंसामो दैवेत्यध्वर्युस्तान्येकादशाक्षराण्युक्थमवाचीन्द्रायेति माध्यंदिने सवन उपांशुहोता ब्रूयादुक्थशा इत्यध्वर्युस्तान्येकादश त्रिष्टुभा सवनं प्रतिपद्यत्रिष्टुब्भिः प्रत्यष्ठातामध्वर्यो शोशोंसावो३ इति तृतीयसवनेऽभ्यासमाह्वयते शोशोंसामो देवेत्यध्वर्युस्तानि द्वादशाक्षराणि रोमशेन त्रयोदशवाचीन्द्रायोक्थं देवेभ्य इति तृतीयसवन उपांशु होता ब्रूयादुक्थशाइत्यध्वर्युस्तानि द्वादश संपदि जगत्या सवनं प्रतिपद्य जगत्यां प्रत्यष्ठातामेतद्वै तद्यन्मध्य ओप्यते स यदिह वा अपि व्यूह्

लच्छन्दा भवति क्लृप्तान्येवैवं विदुषश्छन्दांसि यज्ञं वहन्त्यथो एतदेष ऋगभ्यनूक्तेति ह स्माऽऽहयद्गयत्रेअधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जग-

ज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्यथो यदिमा देवताएषु लोकेष्वध्यूह्ला गायत्रे अस्मिमल्लोँके गायत्रोऽयमग्निरध्यूह्लस्त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूह्लो जागतेऽमुष्मिल्लोँके जागतोऽसावादित्योऽध्यूह्लः॥३॥

आज्यं शस्त्वाप्रउगं शंसत्यात्मा वै यजमानस्याऽऽज्यं प्राणाप्रउगं तद्यदाज्यं शस्त्वा प्रउगं शंसति प्राणानेव तद्यजमानेदधातिसर्वायुत्वायास्मिल्लोँकेऽमृतत्वायामुष्मिंस्तथा ह यजमानः सर्वमायुरस्मिल्लोँक एत्याप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके पवमाने स्तुत आज्यं शंसत्याज्ये स्तुते प्रउगं तदेतत्पवमानोक्थमेव तत्प्रउगमाज्यस्योक्थंते एतद्विहरति यथा रथस्यान्तरौ रश्मीन्व्यतिषजेदेवं तद्ग्रहाननुशंसतीति ह स्माऽऽह कौषीतकिर्योऽसौ वायोरिन्द्रवाय्वोर्ग्रहस्तं वायव्येनचैन्द्रवायवेन च मैत्रावरुणं मैत्रावरुणेनाऽऽश्विनमाश्विनेन यत्प्रस्थितानांयजति तदैन्द्रेण यद्धोत्राः संयजन्ति तद्वैश्वदेवेन वागेव सरस्वती सर्वेषुसवनेष्वथ वै पुरोरुगसावेव योऽसौतपत्येष हि पुरस्ताद्रोचतेऽथ वै पुरोरुक्प्राण एवाऽऽत्मा सूक्तमथ वै पुरोरुगात्मैव प्रजा पशवः सूक्तं तस्मान्नपुरोरुचं च सूक्तं चान्तरेण व्याह्वयते शंसस्य पुरोरुचा सूक्तं पुरोरुचेपुरोरुच एवाऽऽह्वयते वायुरग्रेगास्तत्प्राणरूपं वायवा तदपानस्य रूपं गायत्रं प्रउगं शंसति तेन प्रातःसवनमाप्तमैन्द्रं शंसति तेन माध्यंदिनंसवनमाप्तं वैश्वदेवं शंसति तेन तृतीयसवनमाप्तम्॥४॥

अथ वैश्वदेवीं पुरोरुचं शंसति सा षट्पदा भवति तां त्वामृतवइत्याहुः षलृतवस्तस्यै द्वे द्वे पदे अवग्राहं शंसति तस्माद्द्वंद्वं समस्ताऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इत्यत्र हैके सारस्वतीं पुरोरुचंशंसति न तथा कुर्यादतिरिक्तं तद्रुचिता वै वाक्स्वयं पुरोरुग्वै वाग्वायवायाहि दर्शताश्विना यज्वरीरिष इत्येते उभे तत्प्रउगं नवर्चं च द्वादशर्चंच तदेकविंशतिरेकविंशो वै चतुष्टोमः स्तोमानां परमस्तत्परमंस्तोममाप्नोति यद्वे वैकविंशतिर्द्वादश वै मासाः पञ्चर्तवस्त्रय इमे लोकाअसावादित्य एकविंशस्तेनैव तत्सलोकतायां यजमानमध्यूहति तानि वैसप्त तृचानि भवन्ति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्या अथोएतैर्वै देवा असुराणां सप्तसाप्तान्यवृञ्जत तथो एवैतद्यजमान एतैरेव द्विषतो भ्रातृव्यस्य सप्तसाप्तान्यवृङ्क्तेऽग्नेरग्रे प्रातः सवनमासीदिन्द्रस्यमाध्यंदिनं सवनं विश्वेषां देवानां तृतीयसवनं सोऽग्निरकामयत तस्यां मे

माध्यंदिने सवनेऽथो तृतीयसवन इतीन्द्रोऽकामयत तस्यां मे प्रातःसवनेऽथोतृतीयसवन इति विश्वे देवा अकामयन्त तस्यां नो माध्यंदिने सवनेऽथो प्रातःसवन इति ता अमुतोऽर्वाच्यो देवतास्तृतीयसवनात्प्रातःसवनमभिप्रायुञ्जत तद्यदभिप्रायुञ्जत तत्प्रउगस्य प्रउगत्वं तस्माद्बह्व्यो देवताः प्रउगे शस्यन्ते तस्मात्सर्वाणि सवनानि सर्वदेवत्यानि भवन्तिविश्वेभिः सोम्यं मध्वित्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवं ह्येतदुक्थंगायत्र्या गायत्रं प्रातःसवनमन्विदु वषट्करवन्विदु वषट्करवत्।

इति शाङ्खायनब्राह्मणे चतुर्दशोऽध्यायः॥१४॥

__________

** **हरिः ॐ। देवा वा अर्बुदेन च पावमानीभिश्च ग्राव्णोऽभिष्टुत्याऽऽप्नुवन्नमृतत्वमाप्नुवन्सत्यं संकल्पं तथो एवैतद्यजमानो यदर्बुदेन च पावमानीभिश्च ग्राव्णोऽभिष्टौत्याप्नोत्यमृतत्वमाप्नोति सत्यं संकल्पमथ स्तुतेपवमाने दधिघर्मेण चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसतायाअथ हविष्पङ्क्त्याचरन्ति तस्या उक्तं ब्राह्मणं भारद्वाज्या मध्यंदिनेप्रस्थितानां यजति भरद्वाजो ह मध्यंदिन इन्द्राय सोमं प्रददौ सा वाऐन्द्री त्रिष्टुब्भवत्यैद्रं हि त्रैष्टुभं माध्यंदिनं सवनमनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ होत्राः संयजन्ति तासामुक्तं ब्राह्मणमथेलाऽथ होतृचमसस्तस्योक्तं ब्राह्मणं हुतेषु दाक्षिणेषु दक्षिणा नीयन्तेऽत्रापवर्गो ह्यभिषवो भवत्यथो आत्मानमेवैतन्निष्क्रीणाति यद्दक्षिणा नीयन्तेऽथो दक्षिणाभिर्वै यज्ञं दक्षयति तद्यद्दक्षिणाभिर्यज्ञं दक्षयति तस्माद्दक्षिणानामात्मदक्षिणं वै सत्रं तस्मादहरहर्जपेयुरिक्ष्महं मांकल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणान्नायानीत्यात्मानमेवैतत्कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणां नयन्ति वैश्वामित्रीं मरुत्वतीयग्रहस्य पुरोनुवाक्यामनूच्य वैश्वामित्र्या यजति सवनततिर्वै मरुत्वतीयग्रहो वाग्वै विश्वामित्रो वाचा यज्ञस्तायते ते वाऐन्द्र्यौत्रैष्टुभौ भवत ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनमनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै॥१॥

अथ षड्विधं मरुत्वतीयं शंसति षड्वाऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अनुष्टुभं गायत्रीं बृहतीमुष्णिहं त्रिष्टुभं जगतीमिति षट्छन्दांसिशंसति तस्मात्षड्विधं भवत्यात्वा रथं यथोतय इत्यनुष्टुभा मरुत्वतीयंप्रतिपद्यते पवमानोक्थं वा एतद्यन्मरुत्वतीयमनुष्टुप्सोमस्य च्छन्द उक्थं

पदविग्रहणस्य ब्राह्मणं गायत्रीः शंसति प्राणो वै गायत्र्यः प्राणमेवतदात्मन्धत्त इदं वसो सुतमन्ध इत्यनुचरः सुतवान्पीतवान्पवमानोक्थंह्येतदिन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगायो नेदीय उपनिष्क्रामेति हैनं मरुत ऊचुः प्रहर्षयन्तः सोऽब्रवीद्धत्वा वृत्रं विजित्य युष्माभिर्मेऽयं सह सोमपीथ इति तैरेवास्यैष सह सोमपीथः प्रनूनं ब्रह्मणस्पतिरिति प्रवान्ब्राह्मणस्पत्यः प्रहरेति हैनं ब्रह्मोवाच प्रहर्षयन्सोऽब्रवीद्धत्वा वृत्रंविजित्य त्वया मेऽयं सह सोमपीथ इति स एष ब्रह्मण एव सोमपीथस्तस्मिन्देवता अन्वाभजतेति ह स्माऽऽह कौषीतकिर्यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इत्यत्र देवता अन्वाभक्तास्तदाहुर्यन्नैव स्तोत्रियो नानुरूप इन्द्रनिहवश्चब्राह्मणस्पत्यश्च प्रगाथावथ कस्मात्पुनरादायं ककुष्कारं शस्येते ३ इति पुनरादायं वैसामगाः पवमाने स्तुवते तस्यैवैतद्रूपं क्रियतेऽग्निर्नेता भग इव क्षितीनां त्वं सोम क्रतुभिः सुक्रतुर्भूरित्यग्नीषोमीयेऽग्नीषोमौवा अन्तर्वृत्र आस्तांताविन्द्रो नाशक्नोदभिवज्रं प्रहर्तुं तावेतं भागमुपनिराक्रामतां यश्चैनयोरसौ पौर्णमासे तदेतद्वार्त्रघ्नमेवोक्थं यन्मरुत्वतीयमेतेन हेन्द्रो वृत्रमहन्॥२॥

पिन्वन्त्यपो मरुतः सुदानव इति पिन्वन्त्यपीयापो वै पिन्वन्त्यपीयातद्यदेव वृत्रं हतमापो व्यायन्यत्प्रापिन्वस्तस्मात्पिन्वन्त्यपीया सा वैजगती तया सर्वाणि सवनानि जगद्वन्ति भवन्ति जनिष्ठा उग्रः सहसेतुरायेति जातवन्मरुत्वतीयमेतद्वा इन्द्रो जायते यद्वृत्रमहन्नेतदु वा एषजायते यो यजते तस्य प्रथमायामध्वर्युः सकृन्मद्वत्प्रत्यागृणात्यत्र हेन्द्रः प्रथममाद्यत्तदेतत्पृतनाजिदेवसूक्तं यन्मरुत्वतीयमेतेन हेन्द्रः पृतना अजयत्तस्य मध्ये निविदं दधाति मध्ये वा इदमात्मनोऽन्नं धीयतेऽथ निविदःशंसति प्राणा वै निविदः प्राणानेव तदात्मन्धत्ते तासामेकैकं पदमवग्राहं शंसत्येकैकमेव तत्प्राणमात्मन्धत्त उत्तमेन प्रणौतीममेव तत्प्राणमुत्सृजते तस्माद्धीमं प्राणं सर्वे प्राणा अनुप्राणन्त्यथोऽन्नं निविद इत्याहुस्तस्मादेना आरतं शंसेदत्वरमाण इव हि प्रतिकामिनमन्नाद्यमत्ति येत्वा हि हत्ये मघवन्नवर्धन्नित्युक्थं शस्त्वा यजति ये शाम्बरे हरिवो येगविष्टावित्येतैर्वा एष एतानि सह वीर्याण्यकरोत्तैरेवास्यैष सह सोमपीथःसा वा ऐन्द्री त्रिष्टुब्भवत्यैन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनमनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै वागेवासौ प्रथमाऽनुष्ठुप्तां

पञ्च गायत्र्योऽनुवर्तन्ते मन इन्द्रनिहवः श्रोत्रं ब्राह्मणस्पत्यःप्राणोऽपानोव्यान इति तिस्र एकपातिन्य आत्मा सूक्तं यदन्तरात्मस्तं निवित्प्रतिष्ठापरिधानीयाऽन्नं याज्या॥३॥

निष्केवल्यं बह्व्योदेवताः प्राच्यः शस्यन्ते बह्व्यऊर्ध्वा अथैतदिन्द्रस्यैव निष्केवल्यं तन्निष्केवल्यस्य निष्केवल्यत्वमथ यद्बृहत्या प्रतिपद्यतेबार्हतो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति द्वे तिस्रः करोति पुनरादाय तत्प्रजात्यै रूपं द्वाविवा अग्रे भवतस्तत उपप्रजायेतेस्तोत्रियं शस्त्वाऽनुरूपं शंसत्यात्मा वै स्तोत्रियः प्रजानुरूपस्तस्मात्प्रतिरूपमनुरूपं कुर्वीत प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपोधाय्यां शंसति प्राणो वै धाय्या प्राणमेव तदात्मन्धत्ते प्रगाथं शंसतिपशवो वै प्रगाथः पशूनामेवाऽऽप्त्या अथो प्राणापानौ वै बार्हतःप्रगाथः प्राणापानावेव तदात्मन्धत्त इन्द्रस्य तु वीर्याणि प्रवोचमितिपञ्चदशर्चं निष्केवल्यं पञ्चदशो वै वज्रो वज्रेणैव तद्यजमानस्य पाप्मानंहन्ति तस्य मध्ये निविदं दधाति मध्ये वा इदमात्मनोऽन्नं धीयतेऽथ निविदः शंसति प्राणा वै निविदः प्राणानेव तदात्मन्धत्ते तासामेकैकंपदमवग्राहं शंसत्येकैकमेव तत्प्राणमात्मन्धत्त उत्तमेन प्रणौतीममेवतत्प्राणमुत्सृजते तस्माद्धीमं प्राणं सर्वे प्राणा अनुप्राणन्त्यथोऽन्नं निविद इत्याहुस्तस्मादेना आरतं शंसेदत्वरमाण इव हि प्रतिकामिनमन्नाद्यमत्तिनितरां परिधानीयां शंसेत्तथा ह पत्न्यः प्रच्यावुका भवत्यनुदायिततरां तथा ह पत्न्यनुद्धतमना इव भवत्यथ यदश्वं ददातीन्द्रो वा अश्व ऐन्द्रंह्येतदुक्थमिन्द्रमेव तत्प्रीणात्यात्मा वै स्तोत्रियः प्रजानुरूपो महिषीधाय्या प्रगाथः पशव आत्मा सूक्तं यदन्तरात्मस्तं निवित्प्रतिष्ठा परिधानीयाऽन्नं याज्या॥४॥

पवमाने स्तूयमाने होतारं मृत्युः प्रत्यालीयत तमाज्येन न्यकरोदन्यत्र स्तोत्रियादाज्ये सामाज्ये प्रत्यालीयत तं प्रउगेन न्यकरोदन्यत्र स्तोत्रयात्तं माध्यंदिने पवमाने प्रत्यालीयत तं मरुत्वतीयेन न्यकरोदन्यत्रैवस्तोत्रियादथ वै निष्केवल्ये स्तोत्रियेणैव प्रतिपद्यते तद्यथा भयेऽतिमुच्य मृत्युं यथाऽतिमुमुचान एव तदाहुर्निष्केवल्यमेवेदं निष्केवल्यमदो महाव्रते शस्यन्ते वा अमुत्र चतुरुत्तराणि कथमिहोपाप्यन्त इति तानि वाइहोपाप्ततराणि भवन्ति स्तोत्रियानुरूपौ शंसस्तौ सप्तचतुरुत्तराणि संपद्यन्ते चतुरक्षरं च पदमुदैति ते पशवस्तान्पशून्यजमाने दधाति विराड्वा

अग्निष्टोमो नवतिशतं स्तोत्रियाः संपद्यन्ते प्रत्यक्षमेवैतदग्निष्टोमस्य रूपमुपैति यद्विराजा यजति पिबा सोममिन्द्रमन्दतु त्वेति पदं परिशिष्यविराजोऽर्धर्चे वाऽनिति श्रीर्विशलन्नाद्यं श्रियां तद्विराज्यन्नाद्ये प्रतितिष्ठत्युत्तरेण विराजोऽर्धर्चेन वषट् करोति स्वर्ग एव तं लोके यजमानंदधात्यनु वषट् करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिष्ठित्यै॥५॥

इति शाङ्खायनब्राह्मणे पञ्चदशोऽध्यायः॥१५॥

___________

पूर्वार्धः समाप्तः॥

________

हरिः ॐ। वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानांतृतीयसवनं तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तद्देवतयाप्रतिपद्यतेऽथोऽधीतरसं वा एतत्सवनं यत्तृतीयसवनमथैष सरसो ग्रहो यदादित्यग्रहस्तेनैव तत्तृतीयसवनं सरसं करोति त्रिष्टुभमादित्यग्रहस्य पुरोनुवाक्यामनूच्य त्रिष्टुभा यजति बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यंयजमाने दधाति तस्य नानु वषट् करोति सवनततिर्वा आदित्यग्रहः संस्थाऽनु वषट्कारो नेत्पुरा कालात्सवनं संस्थापयानीति मद्वती याज्यामद्वद्धि तृतीयसवनमथ स्तुते पवमाने पशुना चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हविष्पङ्क्त्याचरन्ति तस्या उक्तंब्राह्मणमैन्द्रार्भव्यस्तृतीयसवन उन्नीयमानेभ्योऽन्वाह यत्र ह तदृभवः प्रजापतेः प्रेमाणं प्रापुस्तदेनानिन्द्रः सोमपीथेऽन्वाभेजे तस्मान्नाऽऽर्भवीषुस्तुवतेऽथाऽऽर्भवः पवमान इत्याचक्षत ऐन्द्रार्भव्या तृतीयसवने प्रस्थितानांयजतीन्द्रमेव तदर्धभाजं सवनस्य करोति जगत्या जागतं हि तृतीयसवनंमद्वत्या मद्वद्धि तृतीयसवनमनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ होत्राःसंयजन्ति तासामुक्तं ब्राह्मणमथेलाऽथहोतृचमसस्तस्योक्तं ब्राह्मणमौपासनं तृतीयसवन उपास्यन्ति पितृृनेव तत्प्रीणन्ति॥१॥

अथ सावित्रग्रहेण चरन्ति प्रातःसवने तमग्रेऽयजंस्ताःप्रजनः प्राजायन्त तं माध्यंदिने सवने ता उ तत्र नो एव तमत्र तृतीयसवनेऽयजंस्ततः प्रजाः प्राजायन्त तस्मात्तृतीयसवनेऽवधृतः सविताऽथो आदित्यानां वा एकः सविताऽऽदित्यानां तृतीयसवनं तस्मात्तृतीयसवने सवितारं यजतित्रिष्टुभं सावित्रग्रहस्य पुरोनुवाक्यामनूच्य जगत्या यजति बलं वै वीर्यंत्रिष्टुप्पशवो जगती बल एव तद्वीर्येऽन्ततः पशुषु च प्रतितिष्ठति तस्यनानु वषट्करोति प्राणो वै सावित्रग्रहः संस्थानु वषट्कारो नेत्पुराकालात्प्राणं संस्थापयानीति युक्त इव ह्ययं प्राणो मद्वती याज्यामद्वद्धितृतीयसवनम्॥२॥

सवित्रा वैश्वदेवं प्रतिपद्यते सवितृप्रसूता वै देवास्तृतीयसवनं समभरंस्तस्मात्प्रतिपदनुचरौ सूक्तमिति सावित्राणि भवन्ति तत्सवितुर्वृणीमह इत्यनुष्टुभा वैश्वदेवं प्रतिपद्यते पवमानोक्थं वा एतद्यद्वैश्वदेवमनुष्टुप्सोमस्य च्छन्द उक्थं पदविग्रहणस्य ब्राह्मणं गायत्रीः शंसति

प्राणो वै गायत्र्यः प्राणमेव तदात्मन्धत्ते सावित्रं शंसति सावित्री हिग्रहो गृहीतो भवति तमेवैतेनानुशंसति वायव्यां शंसति प्राणो वै वायव्याः प्राणमेव तदात्मन्धत्ते तस्यै शस्त्रे द्विदेवत्यान्विमुञ्चन्ति वायौ प्राणे प्राणान्द्यावापृथिवीयं शंसति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्याएव तस्मिन्नध्वर्युर्मद्वत्प्रत्यागृणाति मद्वद्धि तृतीयसवनं सुरूपकृत्नुंशंसत्यत्नुं वै सुरूपमन्नमेव तदात्मन्धत्तेऽथो रूपाणामेवैष सोमपीथो रूपमेव तदात्मन्धत्त आर्भवं शंसत्यत्रह्येभ्यः प्रजापतिरेवाकल्पयत्तस्मादत्राऽऽर्भवं शस्यतेऽथ वै नामाऽऽदित्यां बार्हस्पत्यामिति शंसति शुक्रामन्थिनावाग्रयणमित्येवैताभिरनुशंसत्यथो वैश्वदेवं वै शस्त्रं देवतानामपरिहाणाय वैश्वदेवं शंसति वैश्वदेवो हि ग्रहो गृहीतो भवति तमेवैतेनानुशंसति तस्य द्विः पच्छः परिधानीयां शंसत्यर्धर्चशस्तृतीयं सा विराजमभिसंपद्यते श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै चत्वारिसूक्तानि वैश्वदेवे शंसति पशवो वै वैश्वदेवं चतुष्टया वै पशवोऽथोचतुष्पादाः पशूनामेवाऽऽप्त्यै तस्मादेनदारतं शंसेद्रमन्ते हास्मिन्पशवः॥३॥

षोलशाहावं वैश्वदेवं शंसति षोलशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै तत्सप्तदशविधं भवत्येकादश देवताश्चतस्रो निविद उक्थवीर्यं याज्येति सप्तदशो वै प्रजापतिरेतद्वा आर्धुकं कर्म यत्प्रजापतिसंमितंविश्वे देवाः शुणुतेमं हवं म इत्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवंह्येतदुक्थं मद्वत्या मद्वद्धितृतीयसवनं त्रिष्टुभा बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधात्यनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनांप्रतिष्ठित्यै वागेवासौ प्रथमानुष्टुप्तां पञ्च गायत्र्योऽनुवर्तन्ते मनःसावित्रं प्राणो वायव्या चक्षुषी द्यावापृथिवीयं योऽयमनिरुक्तः प्राणःस सुरूपकृत्नुः श्रोत्रमार्भवं प्राणोऽपानो व्यान इति तिस्र एकपातिन्य आत्मा सूक्तं यदन्तरात्मस्तन्निवित्प्रतिष्ठा परिधानीयाऽन्नं याज्या तदाहुः कस्माद्ब्रह्मक्षत्रे एव प्रच्यावुके बिलच्युतेति ब्रह्म वै प्रातःसवनं क्षत्रं माध्यंदिनं सवनं विट्तृतीयसवनं तद्यद्यथोपपादमेव प्रातःसवनमाध्यंदिनयोःपरिदधाति तस्माद्ब्राह्मण्यप्रजा अनवधृतं क्षियन्त्यनवधृतं क्षत्रियाअथ यत्तृतीयसवनस्य परिधानीया च्युता तस्माद्बिलच्युतेति॥४॥

घृतस्य यज सौम्यस्य यजेत्याहैताभ्यां वै यज्ञस्तायते यद्घृतेन चसोमेन च ते अत्र प्रीणाति प्रीते यज्ञं वहाते इत्युपांशु घृतस्य यजति

रेतःसिक्तिर्वै घृतमुपांशु वै रेतः सिच्यतेऽथ यदुच्चैः सौम्यस्य यजतिचन्द्रमा वै सोमोऽनिरुक्त उ वै चन्द्रमास्तस्य न परस्तात्पर्यजेदित्याहुस्तथाऽमी अमृत इदमर्वाञ्चः पश्यन्तीति पर्यजेदिति त्वेव स्थितं देवलोको वा आज्यं पितृलोकः सोमो देवलोकमेव तत्पितृलोकादभ्युत्क्रामन्त्यथो पितृृनेव तत्प्रीणन्ति यत्सोम्येन चरन्त्यथो एतदुपसदउत्सृज्यन्त इत्याहुरग्निं सोमं विष्णुमिति वा उपसत्सु प्रतियजत्यग्निं सोमं विष्णुमितीदं हरन्त्येतं सौम्यं सदस्तं होता प्रतिगृह्योपनिधत्तेऽथास्य सर्पिष्यात्मानं पर्यवेक्ष्याङ्गुलिभ्यां सर्पिरुपस्पृशति चक्षुष्या असि चक्षुर्मे पाहीति चक्षुषी विमृजीत चक्षुरेवास्य तद्गोपायन्ति तमुद्गातृभ्यः प्रयच्छति॥५॥

अथ पात्नीवतग्रहेण चरन्ति पत्नीरेव तदाहवनीयभाजः कुर्वन्तितस्य नानुवषट्करोत्याज्यसंसृष्टो हि भवत्यननुवषट्कारभागाज्यमुपांशुयजति रेतःसिक्तिर्वै पात्नीवतग्रह उपांशु वै रेतः सिच्यते नानुवषट्करोति रेतःसिक्तिर्वै पात्नीवतग्रहः संस्थाऽनुवषट्कारो नेत्पुरा कालाद्रेतःसिक्तिं संस्थापयानीति मद्वती याज्या मद्वद्धितृतीयसवनं तदाहुर्यदेषा नेष्टुर्याज्याऽथ कस्मादेनयाऽऽग्नीध्रोयजतीत्याग्नेयी वा एषायाज्याऽऽग्नेयआग्नीध्रस्तस्मादेनयाऽऽग्नीध्रोयजत्यथो एवं समा अनुक्तानां वषट्कारा भवन्तीति॥६॥

एकविंशत्याहावमाग्निमारुतं शंसत्येकविंशो वै चतुष्टोमः स्तोमानां परमः प्रतिष्ठानीयः प्रतिष्ठित्या एव तच्चतुर्विंशतिविधं भवति विंशतिः पर्वाणि तानिचतुश्चत्वारिंशच्चतुश्चत्वारिंशदक्षरा त्रिष्टुब्बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति वैश्वानरीयं शंसति वैश्वानरीयो हि ग्रहो गृहीतोभवति तमेवैतेनानुशंसति रौद्रीं शंसति घोरो वै रुद्रो भैषज्यमेव तत्कुरुतेऽथो अन्तभाग्वा वा एष तस्मादेनामन्ते शस्त्रे शंसति मारुतं शंसत्येतत्पूगो वै रुद्रस्तदेनं स्वेन पूगेन समर्धयत्यथ यज्ञायज्ञीयस्य स्तोत्रियानुरूपौ तौ वै मध्ये भिया एव शंसति मध्ये हीयमात्मनो भिया एव योनिर्जातवेदसीयं शंसति तेनाऽऽग्निमारुतमित्याख्यायते तस्मादेनदभ्यग्रं शंसेद्यथाऽग्निं प्रदाव्यमिति मोक्षमाण एवमापोदेवत्याः शंसतिशान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते तस्मादेनाआरतं शंसेद्यथाऽप्सु न्युन्दमान एवमहिर्बुध्न्यं शंसत्यग्निर्वा अहिर्बुध्न्यस्तमेतयोर्ज्वलयत्यथो धिष्ण्यानेवैतयाऽनुशंसति देवानां च पत्नी

राकां च शंसति पात्नीवतग्रहमित्येवैताभिरनुशंसत्यथो अन्तभाजो वैपत्न्यस्तस्मादेना अन्ते शस्त्रे शंसति॥७॥

अक्षरपङ्क्त्यःशंसति पशवो वा अक्षरपङ्क्त्यःपशूनामेवाऽऽप्त्या अथो प्राणापानौ वा अक्षरपङ्क्त्य प्राणापानावेव तदात्मन्धत्तेऽथोशस्त्रस्यैव सेन्द्रतायै पैत्रीश्च यामीश्च शंसति नाराशंसानेवैताभिरनुशंसत्यथो अन्तभाजो वैपितरस्तस्मादेना अन्ते शस्त्रे शंसतिस्वादुष्किलीयाः शंसति सोममेवैताभिरिन्द्राय स्वदयत्यथो देवलोकोवा इन्द्रः पितृलोको यमो देवलोकमेव तत्पितृलोकादभ्युत्क्रामन्तितास्वध्वर्युर्मद्वत्प्रत्यागृणाति मद्वद्धि तृतीयसवनं वैष्णुवारुणीं शंसतियज्ञो वै वैष्णुवारुणो यद्वै यज्ञस्य स्खलितं वोल्बणं वा भवति तदेतयाभिषज्यति भैषज्यमेवैषा वैष्णवीं चाऽऽग्नेयीं च शंसत्यग्नाविष्णू वैदेवानामन्तभाजौ तस्मादेने अन्ते शस्त्रे शंसत्यैन्द्र्या परिधातीन्द्रस्य ह्येष तमिन्द्र एवान्ततः प्रतितिष्ठति॥८॥

किंदेवत्यः सोम इति मधुको गौश्रंपप्रच्छ स ह सोमः पवत इत्यनुद्रुत्यैतस्य वा अन्ये स्युरिति प्रत्युवाच बह्वृचवदेवेन्द्र इति त्वेव पैङ्ग्यस्य स्थितिरासैन्द्राग्न इति कौषीतकिरग्निना वै प्रतिपद्यते यदाज्येनेन्द्रमनुसंतिष्ठत एतां परिधानीयां तस्मादैन्द्राग्न इत्येष वा अग्निष्टोमएष वा उ कामाय कामायाऽऽहियते यो ह वा एतेनानिष्ट्वाऽथान्येन यजतेगर्तपत्यमेव तद्धीयते प्र वा मीयत इति ह स्माऽऽह स वा एषोऽग्निष्टोमआज्यप्रभृत्याग्निमारुतान्तो यच्छस्यंत्रीणि षष्टिशतान्यृचां संपद्यन्तेत्रीणि वै षष्टिशतानि संवत्सरस्याह्नां संवत्सरस्यैवाऽऽप्त्या अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्युक्थं शस्त्वा यजत्याग्निमारुत्याऽऽग्निमारुतं ह्येतदुक्थं जगत्या जागतं हि तृतीयसवनं मद्वत्या मद्वद्धि तृतीयसवनमनुवषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै॥९॥

सोमेनेष्ट्वा सौत्रामण्या यजेत श्रियं प्रजां विराजं चेच्छन्नैन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामण्यात्मा वै यज्ञस्य त्रिपशुर्बाहूपशुस्तस्मादात्मानमभितो बाहू भवतस्तस्मादात्मानमभितः पार्श्वे स्यातां यत्सुरासोमग्रहाननुवषट्कृत्य सर्वे तस्मात्सोमेनेष्ट्वा सौत्रामणीं कुर्याद्य एवं विद्वान्सोमेनेष्ट्वा सौत्रामण्या यजेत स श्रियं प्रजां विराजमाप्नोति यश्चैवं वेदश्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अवभृथमवैति यथासोमे मैत्रावरुण्या वा पयस्यया यजेत तस्या उक्तं ब्राह्मणम्॥१०॥

ऐन्द्राग्नान्युक्थ्योक्थानि भवन्तीन्द्राग्नी वे सर्वे देवा वैश्वदेवं तृतीयसवनं सर्वेषामेव देवानां प्रीत्या आग्नेयीषु मैत्रावरुणाय प्रणयन्त्यैन्द्रीष्वितरयोस्तेन तान्यैन्द्राग्नानि भवन्ति चत्वारि चत्वारि सूक्तानि शंसन्ति पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाःपशूनामेवाऽऽप्त्यैतानि द्वादश संपद्यन्ते द्वादश वै मासाः संवत्सरःसंवत्सरस्यैवाऽऽप्त्यै चतुराहावानि शस्त्राणि पशवो वा उक्थानिचतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै द्विदेवत्या उक्थयाज्या द्विपाद्यजमानः प्रतिष्ठित्यैतानि चत्वारि संपद्यन्ते पशवो वाउक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्या ऐन्द्रावरुणी मैत्रावरुणस्यैन्द्रावरुणं ह्यस्योक्थं भवत्यैन्द्राबार्हस्पत्या ब्राह्मणाच्छंसिन ऐन्द्राबार्हस्पत्यं ह्यस्योक्थं भवत्यैन्द्रावैष्णव्यच्छावाकस्यैन्द्रावैष्णवं ह्यस्योक्थं भवति प्रथमोत्तमे मद्वत्यौभद्वद्धि तृतीयसवनं ता वै तिस्रो भवन्ति त्रयो वा इमे लोका इमानेव तं लोकानाप्नुवन्ति ता वैत्रिष्टुभो भवन्ति बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधत्यनुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिष्ठित्यै॥११॥

इति शाङ्खायनब्राह्मणे षोडशोऽध्यायः॥१६॥

_______________

** **हरिः ॐ आनुष्टुभो वा एष वज्रो यत्षोलशी तद्यत्षोलशिनमुपयन्त्यानुष्टुभेनैव तद्वज्रेण यजमानस्य पाप्मानमपघ्नन्ति स वै हरिवान्भवतिप्राणो वै हरिः स हि हरति तस्माद्धरिवान्भवति तदसौ वै षोलशी योऽसौ तपत्येतमेव तत्प्रीणन्त्यथो षोलशं वा एतत्स्तोत्रं षोलशं शस्त्रंतस्मात्षोलशीत्याख्यायते तद्यत्षोलशिनमुपयन्ति षोलशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्याअथो इन्द्र उ वै षोलशी तस्माद्धरिवान्भवति हरिस्तवो हीन्द्र इन्द्र जुषस्व प्रवहाऽऽयाहि शूर हरिहेति ताः पञ्चविंशत्यक्षरा एकैका नवभिर्नवभिरक्षरैरुपसृष्टाऽऽत्मा वै पञ्चविंशः प्रजापशव उपसर्गः प्रजयैव तत्पशुभिः प्रेष्येरन्नाद्येनेत्यात्मानमुपसृजते ताश्चतुस्त्रिंशदक्षराःसंपद्यन्ते स्वराड्वैतच्छन्दो यत्किंच चतुस्त्रिंशदक्षरै स्वाराज्यमेनेनाऽऽप्नोति ताः संशस्ताः पञ्चानुष्टुभः संपद्यन्ते दशाक्षरं च पदमुदैत्येकैकस्यैद्वे द्वे त्वावतः पुरूवसो३ इति गायत्रीमुपसंशंसत्येतेषामेवाक्षराणांसंपदेऽथो एतया सह स्तोत्रियः षलनुष्टुभः संपद्यन्ते तस्मादेतां शंसति

संपद एतत्प्रतिरूपमु हैकेऽनुरूपं कुर्वन्ति तदु वा आहुरसौ वै षोलशी योऽसौ तपति न वा एतस्यान्योऽनुरूपोऽस्ति स योऽत्रानुरूपं कुर्वन्तंब्रूयादप्रिय एनं भ्रातृव्यः प्रत्याख्यायिष्यत इति तथा ह स्यात्तस्मादत्रानुरूपं नाऽऽद्रियेत॥१॥

अथात ऊर्ध्वानि च्छन्दांसि विहरति प्राणा वै छन्दांसि प्राणानेवतदात्मन्व्यतिषजत्यवबर्हाय तस्माद्धीमे प्राणा विष्वञ्चोऽवाञ्चोऽनुनिर्वाञ्च्यथोआनुष्टुभो वै षोलशी सर्वाण्येवैतच्छन्दांस्यनुष्टुभमभिसंपादयति गायत्रीश्च पङ्क्तिश्च विहरति यजमानच्छन्दसं पङ्क्तिस्तेजो ब्रह्मवर्चसंगायत्री तेज एव तद्ब्रह्मवर्चसं यजमाने दधात्युष्णिहश्च बृहतीश्च विहरतियजमानच्छन्दसमेवोष्णिक्पशवो बृहतीर्बार्हतानेव तत्पशून्यजमाने दधातिद्विपदां च विंशत्यक्षरां त्रिष्टुभं च विहरति यजमानच्छन्दसं द्विपदा बलंवै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति द्विपदाश्च षोलशाक्षराजगतीश्च विहरति यजमानच्छन्दसमेव द्विपदाः पशवो जगतीर्जागतानेव तत्पशून्यजमाने दधाति गायत्रीः शंसति प्राणो वै गायत्र्यः प्राणमेवतदात्मन्धत्ते सप्तपदां शंसति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्याअथो एतया सह गायत्र्यश्चतस्रोऽनुष्टुभः संपद्यन्ते तस्मादेतां शंसति संपदे॥२॥

अथ नित्या आनुष्टुभः शंसत्यानुष्टुभो वै षोलशी तदेनं स्वेन रूपेणसमर्धयति ता वा अष्टौ भवन्त्येताभिर्वै देवाः सर्वा अष्टीराश्नुवत तथोएवैतद्यजमान एताभिरेव सर्वा अष्टरश्नुते त्रिः शस्तया परिधानीययादश संपद्यन्ते दश दशिनी विराट्श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या उद्यद्ब्रध्नस्य विष्टपमिति परिदधात्यदो वै ब्रध्नस्य विष्टपंयत्रासौ तपति तदेव तद्यजमानं दधाति त्रिरेव षोलशिन आह्वयतेस्तोत्रिये निविदे परिधानीयायै त्रिवृद्वै षोलशी त्रिवृतैव तद्वज्रेणयजमानस्य पाप्मानं हन्ति त एते श्लोका घोषावीर्याणीत्युक्थानांश्लोकी घोषी वीर्यवान्कीर्तिमान्भवति य एवं वेदोक्थानां वीर्याणि ताः शंसस्ताश्चत्वारिंशदनुष्टुभः संपद्यन्ते चत्वारिंशदक्षरा पङ्क्तिः प्रतिष्ठावै पङ्क्तिःसर्वेष्वेव तद्भूतेषु यजमानं प्रतिष्ठापयति॥३॥

विहृतया त्रिष्टुभायजेदिति हैक आहुरेवाहिवाज्यपाः पूर्वेषां हरिवःसुतानां वाजी हि वाज्यथो इदं सवनं केवलं तेवोह्लाहि वाजी ममद्धिसोमं मधुमन्तमिन्द्रजिष्णुर्हि वाजी सत्रा वृषं जठर आवृषस्वेत्यविहृत-

येति त्वेव स्थितं संसिद्धानि वा एतानि देवपात्राणि यद्याज्याः संसिद्धेनैव तद्देवपात्रेण देवेभ्यो हविः प्रयच्छति तन्न रात्र्यामुपेयादिन्द्र उ वै षोलशी न वा इन्द्रादन्यदुत्तरमस्ति बहुरात्र्यामुपाह्नियते पर्याया इवत्वदाश्विनं त्वद एवैनं चतुर्थेऽहन्युपेयात्तद्वै षोलशिन आयतनं तद्वैतदहः षोलश्यन्तं संतिष्ठते तदु वा आहुरुपेयादेवं तत्कृत्स्ने वा अहोरात्रे यत्षोलशी तद्यत्षोलशिनमुपयन्त्यहोरात्रयोरेव कृत्स्नातायै॥४॥

अथ यदतिरात्रमुपयन्त्येतावान्वै संवत्सरो यदहोरात्रे तद्यदतिरात्रमुपयन्ति संवत्सरस्यैवाऽऽप्त्या अथो द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च तदुभयमहोरात्राभ्यामाप्तं तद्यदतिरात्रमुपयन्ति स्नेहतेजसोरेवाऽऽप्यै॥५॥

गायत्रान्स्तोत्रियानुरूपाञ्शंसन्ति ज्योतिर्वै गायत्री तमः पाप्मारात्रिस्तेन तज्ज्योतिषा तमः पाप्मानमपघ्नन्ति पुनरादायं शंसन्त्येवं हिसामगाः स्तुवते यथास्तुतमनुशस्तं भवतीति तदाहुरथ कस्मादुत्तमात्प्रतीहारादूर्ध्वमाहूय साम्ना शस्त्रमुपसंतन्वन्तीति॥६॥

पुरुषो वै यज्ञस्तस्य शिर एव हविर्धाने मुखमाहवनीय उदरं सदोऽन्नमुक्थानि बाहू मार्जालीयश्चाऽऽग्नीध्रीयश्च या इमा अन्तर्देवतास्ते अन्तःसदसं धिष्ण्या प्रतिष्ठा गार्हपत्यव्रतश्रवणावित्यथापरं तस्य मन एवब्रह्मा प्राण उद्गाताऽपानः प्रस्तोता व्यानः प्रतिहर्ता वाग्घोता चक्षुरध्वर्युःप्रजापतिः सदस्य आत्मा यजमानोऽङ्गानि होत्राशंसिनस्तद्यदध्वर्युस्तोत्रमुपाकरोति चक्षुरेव तत्प्राणैः संदधात्यथो अपानमेव तन्मनसा संतनोत्यथयत्प्रस्तोता ब्रह्माणमामन्त्रयते ब्रह्मन्स्तोष्यामः प्रशास्तरिति मनोवा अग्रणीर्भवत्येषां प्राणानां मनसा प्रसूतास्तोमेन स्तुयामेत्यथो अपानमेव तन्मनसा संतनोत्यथ यद्ब्रह्मा स्तोत्रमनुमन्यते मन एव तत्प्राणैः संदधात्यथो अपानमेव तन्मनसा संतनोत्यथ यत्प्रस्तोता प्रस्तौत्यपानमेव तत्प्राणे दधात्यथ यदुद्गातोद्गाति प्राणमेव तद्व्याने दधात्यथयत्प्रतिहर्ता प्रतिहरति व्यानमेव तत्प्राणे दधात्येवमेवैताः सर्वा देवताः प्राण एव प्रतिष्ठिता अथ यद्धोता साम्ना शस्त्रमुपसंतनोति वाग्वै होतावाचमेव तत्प्राणैः संदधात्यथो अपानमेव तन्मनसा संतनोत्यथ यद्धोत्राशंसिनः सामसंततिं कुर्वन्त्यङ्गान्येव तत्प्राणैः संदधत्यथ यद्यजमानः स्तोत्रमुपगाति प्राणा वा उद्गातारः प्राणानेव तदात्मन्धत्तेतस्मान्नैनं बर्हिर्वेद्यभ्यस्तमीयान्नाभ्युदियान्नाभ्युपाकुर्यान्नाभ्याश्रावयेन्नाभिवषट्कुर्यान्नाधिष्ण्ये प्रतपेत नेत्प्राणेभ्य आत्मानमपादधानीति॥७॥

अथ यत्प्रथमेषु पर्यायेषु प्रथमेषु पदेषु निनर्तयन्ति प्रथमरात्रादेवतदसुरान्निर्घ्नन्त्यथ यन्मध्यमेषु पर्यायेषु मध्यमेषु पदेषु निनर्तयन्तिमध्यमरात्रादेव तदसुरान्निर्घ्नन्त्वथ यदुत्तमेषु पर्यायेषूत्तमेषु पदेषु निनर्तयन्त्युत्तमरात्रादेव तदसुरान्निर्घ्नन्ति तद्यथाऽभ्यागारमभिनिनर्तं पुनः पुनःपाप्मानं निर्हन्यादेवमेवैतैः स्तोत्रियानुरूपैरहोरात्राभ्यामेव तदसुरान्निर्घ्नन्ति॥८॥

गायत्र्याण्युक्थमुखानि शंसन्ति तेजो ब्रह्मवर्चसं गायत्री तेज एवतद्ब्रह्मवर्चसं यजमाने दधाति गायत्रीः शस्त्वा जगतीः शंसन्ति व्याह्वयन्ते गायत्रीश्चजगतीश्चान्तरेण च्छन्दांस्यैवैतन्नानावीर्याणि कुर्वन्तिजगतीः शस्त्वा त्रिष्टुभिः परिदधति बलं वै वीर्यं त्रिष्टुप्पशवो जगतीबल एव तद्वीर्येऽन्ततः पशुषु च प्रतितिष्ठत्यन्धस्वत्यो मद्वत्यः पीतवत्यस्त्रिष्टुभो याज्याःसमृद्वास्त्रिर्लक्षणा एतद्वै रात्रे रूपं जागृयू रात्रीं ज्योतिर्वै जागरितं तमः पाप्मा रात्रिस्तेन तज्ज्योतिषा तमः पाप्मानंतरन्ति यावदु ह वै न वा स्तूयते न वा शस्यते तावदीश्वरा यदि नासुररक्षांस्यन्ववपातोस्तस्मादाहवनीयं समिद्धमाग्नीध्रीयं गार्हपत्यं धिष्ण्यान्समुज्ज्वलयतेति भाषेरञ्ज्वलयेयुः प्रकाशमिवैव स्यादारेफन्तः शयीरंस्तान्ह तं चेष्टिं तन्वा इति पाप्मा नापधृष्णोति ते पाप्मानमपघ्नते ते पाप्मानमपघ्नते॥९॥

इति शाङ्खायनब्राह्मणे सप्तदशोऽध्यायः॥१७॥

________________

हरिः ॐ अतिरिक्तसोमो वा एष यदाश्विनं यद्वै यज्ञस्यातिरिच्यतेभ्रातृव्यस्तेन यजमानस्य प्रत्युद्यमी भवत्यथ यत्पुरस्तादश्विनौ यजत्यश्विनौ वै देवानां भिषजौ भैषज्यमेव तत्कुरुतेऽथ यत्र ह तत्सवितासूर्यां प्रायच्छत्सोमाय राज्ञे यदि वा प्रजापतेस्तत्सहस्रमन्वाकरोद्दुहित्र उह्यमानाया एतदासां देवतानामासीत्ता अब्रुवन्नाजिमया मास्मिन्सहस्रइति ता आजिमायंस्तदश्विना उदजयतां रासमेन तस्माद्बह्व्यो देवताः शस्यन्तेऽथाऽऽश्विनमित्याख्यायते तत उ हैतदुत रासभो न सर्वमिवजवं धावति श्रितं नयेति हतं मन्यमानः सहस्रं शंसेत्सहस्रं ह्युदजयताम्॥१॥

तदाहुर्यद्बृहत्यायतनानि पृष्ठानि भवन्त्यथ कस्मात्त्रिष्टुभाप्रतिपद्यत इति त्रिः शस्तैषा तिस्रश्च बृहत्यः संपद्यन्त एका च गायत्रीदमु

ह संधे रूपं यत्तिस्रो बृहत्यःप्रथमरूपं गायत्र्यथ यद्बृहतीमभिसंपादयतिबृहती ह्यभिवतं संपद्यन्तेऽथ यद्बार्हतीनां प्रतिपदां प्रथमं प्रथमं प्रगाथं पुनरादायं ककुप्कारं शंसति पुनरादायं वै सामगाः स्तुवते तस्यैवैतद्रूपं क्रियत आग्नेयं क्रतुंशंसति तदिमं लोकमाप्नोत्युषस्यं शंसतितदन्तरिक्षलोकमाप्नोत्याश्विनं शंसति तदमुं लोकमाप्नोतिसौर्यं क्रतुं शंसत्यस्ति वै चतुर्थो देवलोक आपस्तमेव तेनाऽऽप्नोति प्रगाथं शंसतिपशवो वै प्रगाथः पशूनामेवाऽऽप्त्या अथोप्राणापानौ वै बार्हतः प्रगाथः प्राणापानावेव तदात्मन्धत्तेऽथो शस्त्रस्यैव सेन्द्रतायै द्यावापृथिवीयंशंसति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एव द्विपदां शंसति प्रतिष्ठानीयं वै छन्दो द्विपदाःप्रतिष्ठित्या एव बार्हस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येव तदन्ततः प्रतितिष्ठत्यथैषा संपद्भवति॥२॥

त्रीणि गायत्रीशतानि ते द्वे बृहतीशते सप्ततिमनुष्टुभः सप्ततिं पङ्क्तीश्चत्वारिंशच्छतं बृहतीनां त्रयाणां त्रिष्टुप्शतानां गायत्रीशतमुद्धृत्य तानित्रीणि बृहतीशतानि तच्च गायत्रीशतं जगतीशतं च ते द्वे बृहतीशतेपञ्चाशत्त्रिष्टुभः पञ्चाशदुष्णिहः शतं बृहत्यःसंपद्यन्तेऽथ याः सप्तपञ्चाशतं बृहत्योऽत्रैव ताः संपन्ना अथ ये द्वापञ्चाश्यौत्रिष्टुभौ द्विपदा चतास्तिस्रो बृहत्यःसंपद्यन्ते तन्नानाछन्दस्यानां सहस्रं सत्सहस्रं बृहत्यः संपद्यन्ते न सहस्रमतिशंसेन्नार्वाक्सहस्रादित्येषाहैव स्थितिः प्रोत्वेवाऽऽश्विनस्य विभूतिरतिदृश्यत एष आग्नेयक्रतुराग्नेयादेव क्रतोर्न निश्चवेताथ यद्याग्नेयं क्रतुं पुराकालात्समतीयादाश्विनमनु यत्किंचिद्विदेवत्यमृक्षुस्तदनुवर्तयेत्सौर्ये क्रतौ पावमानीर्यथाछन्दसं गायत्रीर्गायत्रे त्रिष्टुभस्त्रैष्टुभे जगतीर्जागते सर्वं सौर्यं न्यङ्गंसौर्यस्याऽऽयतने सर्वानैन्द्रान्प्रागाथान्प्रगाथस्याऽऽयतने सर्वं द्यावापृथिवीयं द्यावापृथिवीयस्याऽऽयतने सर्वाद्विपदा द्विपदाया आयतने सर्वं बार्हस्पत्यं पुरस्तात्परिधानीयाया एतद्वैकिंचिदिवर्चां न प्रदृश्यते॥३॥

अथ वै चक्रीवदाश्विनमालम्बने चक्रे अकूध्रीच्योऽक्ष आवां रथोअश्विना श्येनपत्वेति स उद्धिरथ चत्वार्यागस्त्यानि युक्तानि स एषदेवरथः स एतेन देवरथेन स्वस्ति स्वर्गं लोकं समश्नुते स सुपर्णं स्याद्वयोवै सुपर्णस्तद्यथा पक्षी वयो भूत्वैवं स स्वस्ति स्वर्गं लोकं समश्नुते द्विरेवाऽऽश्विनायाऽऽह्वयते प्रतिपदे चैव परिधानीयायै च तद्यथा प्रतीघाते-

नानिवेष्ट्यमानो धापयेदेवं तदथातः परिधानस्यैव मीमांसा यदादित्योरराट्यामतिसर्वेद्यदैनं स्वयं होता निर्जानीयाद्यदास्य लोहितमापीयाद्यदैनं सर्वे रश्मयः प्रत्युत्पेरन्स कालः परिधानस्यैतस्मिन्ह वा एष कालेऽपहतपाप्मा विविक्तपाप्मा भवत्यपहते पाप्मानं विविच्यते पाप्मना यएतस्मिन्काले परिदधात्यथ यदभ्रं स्यादेतद्वा अस्य तद्रूपं येन प्रजाबिभर्तीदमेकं यदयं प्राणोऽध्यात्ममतिलोहितोमादित्येव॥४॥

तं मन्यमानः परिदध्याद्विभ्राज आहुतिं जुहुयानिर्ज्ञायमान आदित्येयोऽनुपयुक्तः स्यादाविरेभ्यो भवति द्वाभ्यां यजेद्वाभ्यां ह्याश्विनमित्याख्यायतेऽनवानं गायत्रीमुक्त्वा विराजोऽर्धर्चेऽवानिति श्रीर्विरालन्नाद्यं श्रियां तद्विराज्यन्नाद्ये प्रतितिष्ठत्युत्तरेण विराजोऽर्धर्चेन वषट् करोति स्वर्गएव तं लोके यजमानं दधाति विराजैव यजेदिति ह स्माऽऽह कौषीतकिस्त्रयस्त्रिंशदक्षरा वै विराट्त्रयस्त्रिंशद्देवता अक्षरभाजो देवताः करोत्यश्विना वायुना युवं सुदक्षेति त्वेव स्थिता अश्विनी त्रिष्टुप्तिरोअह्न्यवती तिरो अह्न्या हि सोमा भवन्त्यथो बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधात्यनुवषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै संसन्नेषु च्छन्दोगेषु प्रवृत्तहोमीये आहुती जुहोति महच्छस्त्रं वाक्च मनश्च प्रीते उद्यत्साते इति॥५॥

अथ हारियोजनेन चरन्ति हरी एव तत्प्रीणन्त्यत्र देवाः साश्वाः प्रीता भवन्ति त्रिष्टुभंहारियोजनस्य पुरोनुवाक्यामनूच्य जगत्यायजति बलं वै वीर्यं त्रिष्टुप्पशवो जगती बल एव तद्वीर्येऽन्ततः पशुषु च प्रतितिष्ठति मद्वती याज्या मद्वद्धि तृतीयसवनमनुवषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यैतासां भूयिष्ठा धानानामादधीतपशवो वै धाना भूमानमेव तत्पशूनामात्मन्धत्तेऽथ यदृचंजपन्ति यदाहुतीर्जुह्वति स्वस्त्ययनमेव तत्कुर्वते यज्ञस्यैव शान्त्यै यजमानस्य चभिषज्यायै ता आहवनीयस्य भस्मान्ते निर्वपन्ति ज्योतिर्वै पशूनामाहवनीयः स एवैनंस्तद्गोष्टेनपक्रमे दधति॥६॥

अथ शाकलाञ्जुह्वति तद्यथाऽहिर्जीर्णायै त्वचो निर्मुच्येतेषीका वा मुञ्जादेवमेवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते॥७॥

अथ सव्यावृतोऽप्सु सोमानुपपरायन्ति तानि हान्तर्वेद्यासादयन्तितद्धि सोमस्याऽऽयतनं व्यवदधति दर्भपिञ्जलानि यदा वा आपश्चौषधयश्च संगच्छन्तेऽथ कृत्स्नः सोमस्ता वैष्णव्यर्चा निनयन्ति यज्ञो वै

विष्णुर्यज्ञ एवैनास्तदन्ततः प्रतिष्ठापयन्त्यथ प्राणान्संमृशन्ति तद्यदेवात्रप्राणानां क्रूरीकृतं यद्विलिष्ठं तदेवैतदाप्याययन्ति तद्भिषज्यन्ति भक्षपरिधीन्कुर्वते मानुषेणैव तद्भक्षेण दैवं भक्षमन्तर्दधते॥८॥

अवभृथोऽमुमेवैतत्सवनैरीप्सन्ति योऽसौ तपत्युद्यन्तं प्रातःसवनेन मध्ये सन्तं माध्यंदिनेन सवनेनास्तं यन्तं तृतीयसवनेन स वा एषोऽपःप्रविश्य वरुणो भवति तस्माद्वारुणमेककपालं पुरोलाशं निर्वपत्येकस्थावे श्रीःश्रीर्वै वरुणः श्रियामेव तदन्ततः प्रतितिष्ठति तेऽन्तरेण चात्वालोकरा उपनिष्क्रामन्ति तद्धि यज्ञस्य तीर्थमाप्नानं नाम तदेतदृचाऽभ्युदितमाप्नानं तीर्थं क इह प्रवोचदित्येतेन वै देवास्तीर्थेन यज्ञं प्रपद्यसर्वान्कामानापुस्तथो एवैतद्यजमान एतेनैव तीर्थेन यज्ञं प्रपद्य सर्वान्कामानाप्नोति॥९॥

ते यस्यां दिश्यापो भवन्ति तां दिशमभ्यावृत्य चरन्ति सा वैप्राची दिग्यस्यां देवताश्चतुरः प्रवाजान्यजत्यृते बर्हिष्कान्बर्हिष्मन्तमुत्सृजति न ह्यत्र बर्हिस्तीर्यते वार्त्रघ्नावाज्यभागौ भवतः पाप्मन एव वधायाथो हास्य पौर्णमासात्तन्त्रादनितं भवत्यप्सुमन्तौ हैके कुर्वन्तिवार्त्रघ्नौ त्वेव स्थितावथ यदप्सु वरुणं यजति स्व एवैनं तदायतनेप्रीणात्यथ यदग्नीवरुणौ यजत्यन्त्राग्निः सर्वेषु हविष्णु भागी भवति द्वावनुयाजौयजत्यृते बर्हिष्कौ बर्हिष्मन्तमुत्सृजति प्रजा वै बर्हिर्नेत्प्रजामप्सुप्रवणजानीति त एकशतं प्रयाजानुयाजा भवन्ति शतायुर्वै पुरुषः शतपर्वा शतवीर्यः शतेन्द्रिय उप य एकशततमः स आत्मा तदेतदङ्गिरसामयनं स एनेनायनेन प्रतिपद्यतेऽङ्गिरसां सलोकतां सायुज्यमाप्नोत्यथयाःषड्वा अष्टौ वा वषट्कृतयस्तदादित्यानामयनं स एनेनायनेन प्रतिपद्यत आदित्यानां सलोकतां सायुज्यमाप्नोति॥१०॥

अनुबन्ध्या चतुर्थमेवैतत्सवनं यदनूबन्ध्या तस्मादच्युता भवतिचतुर्थं ह्येवैतत्सवनानां सा वै मैत्रावरुणी भवत्यग्नीषोमीयो हि पुरस्तात्कृतो भवति तस्मान्मैत्रावरुणी भवति यज्ञस्यैव समारताया अथयदप्सु वरुणं यजत्यत्र मित्रो हि नो भवति तस्मान्मैत्रावरुणी भवतिमित्रस्यैवानुलब्ध्यै॥११॥

अथ यदि पशुरानीतोऽनुपाकृतो म्रियेतर्त्विग्भ्यस्तं कारयेदथान्यंतद्रूपं तद्देवत्यं पशुमालभेरंस्तमा प्रीतं पर्यग्निकृतमुदञ्चं नयेयुस्तं संज्ञप-

येयुस्तस्यानुज्ञायमितरं कर्षयेयुस्तयोर्नाना वपे उत्खिद्य नाना श्रपयित्वानानाऽवदाय समाने वषट्कारे जुहुयुस्तयोर्नानैव पशुपुरोलाशौ श्रपयित्वा नानाऽवदाय समाने वषट्कारे जुहुयुस्तयोर्नानैव हविषी श्रपयित्वा नानाऽवदाय समाने वषट्कारे जुहुयुरेवं तृतीयगुदावेवं जाघन्यौयदि त्वप्येकयैवाऽऽप्रियाप्रीतः स्यात्तेनैव प्रचरेयुरिति सा स्थितिः प्राणा वा आप्रियः प्राणानेवास्मिंस्तद्दधात्यथ यद्यष्टापदी स्यात्कथंस्यादिति गर्भस्यत्वचो वपारूपं फलीकरणानां फालीकरणां गर्भमिति शामित्रे श्रपयित्वेतरस्य वषट्कारेषु शामित्रा एवजुहुयू रक्षांसि हवा एतद्यज्ञं गच्छन्ति यदत्रैतादृग्भवति तानि तेनापहन्ति तदरक्षोहतमेवं नुयदि पाशुरनूबन्ध्या भवति यद्यु वै पयस्यैतद्वै मित्रावरुणयोः संहविर्यत्ययस्या मित्रावरुणयोः पयस्येति हि स्थिता॥१२॥

अथ यदि गोपशुर्भवति गोसंस्तवो वै मित्रावरुणौ तस्माद्गोपशुर्भवति युवं वस्त्राणि पीवसा वसाथे इति वपायै याज्या पीवसेति तद्वपायैमेदसो रूपं यद्बंहिष्ठं नातिविधे सुदानू इति पुरोलाशस्य बंहिष्ठमिति बहुल इव हि पुरोलाशः प्र बाहवा सिसृतं जीवसे न इति हविषो बाहवेति तद्धविषोऽङ्गानां रूपम्॥१३॥

उदङ्ङुदवस्यत्युदं हि जीवलोक उदङ्ङुदवसाय वैष्णव्यर्चा पूर्णाहुतिं जुहोति यज्ञो वै विष्णुर्यज्ञमेव तदारभते पञ्चकपालः पुरोलाशोभवति पञ्चपदा पङ्क्तिः पाङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्यै यद्यु वा अष्टाकपालःपौर्णमासमेव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासं प्रतिष्ठित्या एवेदंत्वेव प्रत्यक्षं पुनराधेयस्य रूपं यत्पदपङ्क्तयो याज्यापुरोनुवाक्यास्तथैवव्यतिषक्तास्तस्यां संस्थितायां यजमानोऽग्निहोत्रं जुहोति संस्थितेह्यग्न्याधेयेऽग्निहोत्रं हूयते तस्मात्तस्यां संस्थितायां यजमानोऽग्निहोत्रंजुहुयादिति जुहुयादिति॥१४॥

इति शाङ्खायनब्राह्मणेऽष्टादशोऽध्यायः॥१८॥

______________

हरिः ॐ। ते वै दीक्षिष्यमाणा अग्नीन्त्संनिवपन्त एकधैव तद्बलं वीर्यमात्मन्दधतेऽथैतान्संनिवपनीयामिष्टिं तन्वते ते अग्नये ब्रह्म एवतेऽष्टाकपालं पुरोलाशं निर्वपन्त्यग्नये क्षत्रवत एकादशकपालमग्नये क्षत्रभृते द्वादशकपालं ब्रह्मक्षत्र एव तद्यजमानाः समारोहन्ति ताभ्यामेवैत-

त्स्वस्ति संवत्सरं चरन्ति बहूनां चेष्यमाणानामेषा संनिवपनीयोषासंभरणी या सैवैकस्य दीक्षिष्यमाणस्य भवति॥१॥

अथैतेन प्राजापत्येन पशुना यजन्ते प्रजापतिः प्रसूता स्वस्तीमंसंवत्सरं समश्नुवामहा इति तस्य हैके वायव्यं पशुपुरोलाशं कुर्वन्त्येतद्वै प्रजापतेः प्रत्यक्षं रूपं यद्वायुरित्यग्नय उ हैके कामाय कुर्वन्त्यग्निर्वै कामो देवानामीश्वरः सर्वेषामेव देवानां प्रीत्यै तस्य हैके वैश्वानरीयंपशुपुरोलाशं कुर्वन्त्यसौ वै वैश्वानरो योऽसौ तपत्येतमेव तत्प्रीणन्ति ते पुरस्तादेव दीक्षाप्रसवान्कल्पयन्ते तैषस्यामावास्याया एकाह उपरिष्टाद्दीक्षेरन्माघस्य वेत्याहुस्तदुभयं व्युदितं तैषस्य त्वेवोदिततरमिव तएतं त्रयोदशमधिचरं मासमाप्नुवन्त्येतावान्वै संवत्सरो यदेष त्रयोदशोमासस्तत्रैव सर्वः संवत्सर आप्तो भवति॥२॥

स वै माघस्यामावास्यायामुपवसत्युदङ्ङावर्त्स्यन्नुपेमे वसन्ति प्रायणीयेनातिरात्रेण यक्ष्यमाणास्तदेनं प्रथममाप्नुवन्ति तं चतुर्विंशेनाऽऽरभन्तेतदारम्भणीयस्याऽऽरम्भणीयत्वं स षण्मासानुदङ्ङेति तमूर्ध्वैःषलहैरनुयन्ति स षण्मासानुदङ्ङित्वा तिष्ठते दक्षिणाऽऽवर्त्स्यन्नुपेमे वसन्तिवैषुवतीयेनाह्ना यक्ष्यमाणास्तदेनं द्वितीयमाप्नुवन्ति स षण्मासान्दक्षिणैति तमावृत्तैःषलहैरनुयन्ति स षण्मासान्दक्षिणे त्वातिष्ठत उदङ्ङावर्त्स्यन्नुपेमे वसन्ति महाव्रतीयेनाह्नायक्ष्यमाणास्तदेनं तृतीयमाप्नुवन्ति तं यत्त्रिराप्नुवन्ति त्रेधा विहितो वै संवत्सरः संवत्सरस्यैवाऽऽप्त्यै तदुतैषाऽपि गीयते। अहोरात्राणि विदधदूर्णा वा इव धीर्यः षण्मासो दक्षिणानित्यः षलुदङ्ङेति सूर्य इति षड्ढ्येष उदङ्मासानेति षड्दक्षिणा तद्वैन तस्मिन्काले दीक्षेरन्ननागतं सस्यंभवति दहरकान्यहानि भवन्तिसंवेपमाना अवभृथादुदायन्ति तस्मादत्र न दीक्षेरंश्चैत्रस्यामावास्यायाएकाह उपरिष्टाद्दीक्षेरन्नागतं सस्यं भवति महान्यहानि भवन्त्यसंवेपमाना अवभृथादुदायन्ति तस्मादेतत्स्थितम्॥३॥

अथैतानमग्निचित्यायां पञ्चहविषं दीक्षणीयाभिष्टिमेके तन्वते पञ्चपदा पङ्क्तिपङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्या अथैतामातिथ्यां पञ्चहविषमेवेष्टिमेके तन्वते पञ्चपदा पङ्क्तिः पाङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्याअथैता बह्वग्नीरन्वाह बहून्ह्यग्नीन्प्रणयन्ति ता वै चतस्रो भवन्ति चतुष्टयंवा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै त्रिः प्रथमया त्रिरुत्तमयाऽष्टौ संपद्यन्तेऽष्टाक्षरा गायत्री गायत्रो वा अग्निर्गायत्रच्छन्दाः स्वेनैव तच्छन्द-

साऽग्नीन्प्रणयन्त्यथ चिन्वन्ति यावदहं कामयन्तेऽथैतं संचितं सामभिः परिष्टुवन्त्यथ होतारमाहुरग्न्युक्थमनु जपेति रुद्रो ह वा एष देवानामशान्तः संचितो भवति तमेवैतच्छमयति निरुक्तं वैश्वानरं यजति निरुक्तो ह्येष तदा भवति यदाऽग्नीन्प्रणयन्ति॥४॥

अथात ऊर्ध्वमैकाहिकं कर्म हविर्धनियोः प्रवर्तनमग्नीषोमयोः प्रणयनमग्नीषोमीयःपशुस्तस्योक्तं ब्राह्मणमथाग्नीषोमीयस्य पशुपुरोलाशमन्वञ्चिदेवसूभ्यो हवींषि निर्वपन्त्येता ह वै देवताः सवानामीशते ताअत्र प्रीणन्ति ता अत्र प्रीताः सवान्प्रस्वन्ति तस्माद्देवस्य स्तावा अष्टौभवन्त्येताभिर्वै देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमाना एताभिरेव सर्वा अष्टीरश्नुवतेऽत्र हैके सर्वपृष्ठायै हवींषि निर्वपन्ति सर्वं वाअग्निचित्या सर्वेण सर्वमाप्नुवामेति तानि वै दश हवींषि भवन्ति दशदशिनी विराट्च्छ्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अथसुन्वन्ति यावदहं कामयन्ते॥५॥

अथानूबन्ध्यस्य वपायां संस्थितायां त्वाष्ट्रेण पशुना चरन्ति रेतःसिक्तिर्वै त्वाष्ट्रः पत्नीशाले चरन्ति पत्नीषु वै रेतः सिच्यत उपांशुचरन्ति रेतःसिक्तिर्वै त्वाष्ट्र उपांशु वै रेतः सिध्यते पर्यग्निकृतमुत्सृजन्तिन संस्थापयन्ति रेतःसिक्तिर्वै त्वाष्ट्रो नेद्रेतःसिक्तिंपुरा कालात्संस्थापयामेति। तदाहुर्यदेते देवते आवाहयति त्वष्टारं च वनस्पतिं चक्वास्यैते इष्टे भवत इति प्रयाजेषु वा एते देवते यजति तत्रैवास्यैते इष्टे भवतः॥६॥

अथानूबन्ध्यस्य पशुपुरोलाशमम्वञ्चि देविकाभ्यो हवींषि निर्वपन्तियातयामानि ह वा एतस्य च्छन्दांसि भवन्ति यः सोमेन यजते छन्दांसिवै देविकास्तद्यद्देविकाभ्यो हवींषि निर्वपन्ति तथा हास्यायातयामानिपुनर्यामानि भवन्त्यथोऽधीतरसानि ह वा एतस्य च्छन्दांसि भवन्ति यःसोमेन यजते छन्दांसि वै देविकास्तद्यद्देविकाभ्यो हवींषि निर्वपन्तिच्छन्दसामेव सरसतायै ता वा एता देव्योऽथैषकः प्रजापतिस्तस्माद्देविकास्तानि वै पञ्च हवींषि भवन्ति पञ्चपदा पङ्क्तिः पाङ्क्तोवै यज्ञो यज्ञस्यैवाऽऽप्त्या अत्र हैके देवीभ्यो हवींषि निर्वपन्ति सर्वं वा अग्निचित्यासर्वेण सर्वमाप्नवामेति तानि वै दश हवींषि भवन्ति दशदर्शिनी विराट्श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अत्र हैके दिशामवेष्टीःकुर्वन्ति सर्वं वा अग्निचित्या सर्वेण सर्वमाप्नवामेति तानि वै

षड्ढवींषि भवन्ति षड्वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै संस्थितायां चोदवसानीयायां मैत्रावरुण्या पयस्यया यजेत तस्या उक्तंब्राह्मणं नैतयाऽनिष्ट्वाऽग्निचिन्मैथुनं चरेतेति॥७॥

मुखं वा एतत्संवत्सरस्य चतुर्विंशं तस्मादग्निष्टोमो भवत्यग्निष्टोमो हियज्ञानां मुखं मुखत एव तत्संवत्सरं प्रीणन्ति तं हैक उक्थं कुर्वन्तियज्ञस्यैव समारताथैतस्य चतुर्विंशस्तोमो भवति चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवाऽऽप्त्यै तस्य त्रीणि षष्टिशतानि स्तोत्रियाणांसंपद्यन्ते त्रीणि वै षष्टिशतानि संवत्सस्याह्नां संवत्सरस्यैवाऽऽप्त्यै तस्यबृहत्पृष्ठं भवति द्वितीयं वा एतदह्नां द्वितीयं बृहत्पृष्ठानां तस्मादस्य बृहत्पृष्ठं भवत्यथ यत्र चतुर्विंशमहरूपयन्त्यवधृतं वा उ तत्र महाव्रतं बृहदु वा आयतनेन महाव्रतस्य पृष्ठं भवति तस्माद्बृहदेवैतस्याह्नः पृष्ठं स्यादितितस्य संवत्संवत्सरमभिपर्युदितं तस्यैतानि च्छन्दोरूपाणि होताऽजनिष्ट चेतन इत्यष्टर्चमाज्यं गायत्रीमात्रं गायत्रीमात्रो वै स्तोमस्तद्वै शस्त्रंसमृद्धं यत्स्तोमेन संपद्यते माधुच्छन्दसः प्रउगः स वै समृद्धस्तस्यरूपेणान्ये प्रउगाः कल्पन्ते समृद्धं मे प्रथमतः कर्म कृतमसदित्या त्वारथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुतमन्ध इत्यनुचर एषएव नित्य एकाहातानस्तस्योक्तं ब्राह्मणम्॥८॥

कया शुभा सवयसः सनीला इति मरुत्वतीयमनुत्तमा ते मघवन्नकिर्न्विवति नवमी तया परिधात्युत्तराः पूर्वाः शस्त्वा मारुत्यो हि ताभवन्त्यथैषा निष्केवल्या तस्मिन्वाऽस्ति समान्या मरुतः संमिमिक्षुरिति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं तदिदास भुवनेषु ज्येष्ठमितिबृहद्दिवो निष्केवल्यं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयतीति संवत्सरे संवत्सरे वै रेतः सिक्तं जायतेतस्मिन्वाऽस्ति सं ते नवन्त प्रभृतामदेष्विति संवत्तत्संवरमभिवदति तदेतस्याह्नो रूपं तत्सवितुर्वृणीमहेद्यानो देव सवितरिति नित्यैव वैश्वदेवस्य प्रतिपञ्चानुचरश्च तयोरुक्तं ब्राह्मणं तद्देवस्य सवितुर्वार्यं महदिति सावित्रं प्रजावन्तं रयिमस्मेसमिन्वत्विति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं ते हि द्यावापृथिवी विश्वशंभुवेतिद्यावापृथिवीयं पनाय्यमोजो अस्मे समिन्वतमिति संवत्तत्संवसरमभिवदति तदेतस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यार्भवं संवत्सर इदमद्याव्यख्यतेति तत्प्रत्यक्षं संवत्सरमभिवदति तदेत-

स्याह्नो रूपं यज्ञस्य वो रथ्यं विश्पतिं विशामिति शार्यातं वैश्वदेवमिन्द्रो मित्रो वरुणः संचिकित्रिर इति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं वैश्वानराय धिषणामृतावृध इति वैश्वानरीयं धिया रथंन कुलिशः समृण्वतीति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपंवृष्णे शर्धाय सुमखाय वेधस इति मारुतं गिरः समञ्जेविदथेष्वाभुवइति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं यज्ञेन वर्धत जातवेदसमिति जातवेदसीयं संददस्वान्रयिमस्मासु दीदिहीति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपमित्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानितदग्निष्टोमो वोक्थंवाहः संतिष्ठतेऽग्निष्टोम इति पैङ्ग्यमुक्थमितिकौषीतकम्॥९॥

तद्धैतदहरेके छन्दोगाः सर्वस्तोमं कुर्वन्त्यनेनाह्ना षलहमाप्नुवन्षलहेन संवत्सरं ये च संवत्सरे कामाः षलहो वा उ सर्वः संवत्सर इतिवदन्तस्ते यदि तथा कुर्युः षलहक्लृप्तं शस्त्रं कल्पयीत यत्प्रथमस्याह्न आज्यं तदाज्यं यो द्वितीयस्याह्नः प्रउगः स प्रउगो यत्तृतीयस्याह्नोमरुत्वतीयं तन्मरुत्वतीयं यच्चतुर्थस्याह्नो निष्केवल्यं तन्निष्केवल्यं यत्पञ्चमस्याह्नो वैश्वदेवं तद्वैश्वदेवं यत्षष्ठस्याह्न आग्निमारुतं तदाग्निमारुतंतत्र सर्वान्पृष्ठस्तोत्रियान्समाहृत्योपरिष्टात्प्रगाथस्य प्रगाथीकृत्य शंसेत्षलहस्याऽऽप्त्यै तद्यथैतेनाह्ना छन्दोगाः षलहमाप्नुवन्ति षलहेन संवत्सरं ये च संवत्सरे कामा एवमेवैतेनाह्नाहोता षलहमाप्नोति षलहेनसंवत्सरं ये च संवत्सरे कामास्तद्धस्मैतत्प्रतिश्याह सैषा मुग्धिरेवेति यं कंच च्छन्दोगाः स्तोममुपापद्येरन्न तदाद्रियेत यदेवेदं शस्त्रं प्रागैक्ष्याम ततएव नेयादेते वा उ स्तोमसाहे सूक्ते यत्कयाशुभीयतदिदासीये ताभ्यामेव न निश्चवेतेति न निश्चवेतेति॥१०॥

इति शाङ्खायनब्राह्मण एकोनविंशोऽध्यायः॥१९॥

____________

हरिः ॐ देवचक्रं वा एतत्परिप्लवं यत्संवत्सरस्तदमृतत्वं तस्मिन्नेतत्षट्तयमन्नाद्यं ग्राम्याश्च पशव आरण्याश्चौषधयश्च वनस्पतयश्चाप्सुचरं च परिप्लवं च तद्देवाः समारुह्य सर्वाल्लोँकाननु परिप्लवन्ते देवलोकं पितृलोकं जीवलोकमिममुपोदकमग्निलोकमृतधामानं वायुलोकमपराजितमिन्द्रलोकमधिदिवं वरुणलोकं प्रदिवं मृत्युलोकं रोचनंब्रह्मणो लोकं नाकं सप्तमं लोकानां तद्यदभिप्लवमुपयन्ति संवत्सरमेव

तद्यजमानाःसमारोहन्ति तस्मिन्नेतत्षट्तयमन्नाद्यमाप्नुवन्ति ग्राम्यांश्च पशूनारण्यांश्चौषधीश्च वनस्पतींश्चाप्सुचरं च परिप्लवं च द्विर्ज्योतिरुपयन्ति तेन द्वयमन्नाद्यमाप्नुवन्ति ग्राभ्यांश्च पशूनारण्यांश्च द्विर्गामुपयन्तितेन द्वयमन्नाद्यमाप्नुवन्त्योषधीश्च वनस्पतींश्च द्विरायुरुपयन्ति तेन द्वयमन्नाद्यमाप्नुवन्त्यप्सुचरं च परिप्लवं च॥१॥

ज्योतिःप्रथममहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानिप्रथमस्याह्नः प्र वो देवायाग्नयइत्याज्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपंमाधुच्छन्दसः प्रउगो रथन्तरं वै साम सृज्यमानं माधुच्छन्दसः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आर्धुकं कर्म यद्रूपसमृद्धमा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसोसुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणमिन्द्रो रथाय प्रवतं कृणोतीति मरुत्वतीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमाया ह्यर्वाङुपवन्धुरेष्ठा इति निष्केवल्यमावदावद्वै प्रथमस्याह्नो रूपंतत्सवितुर्वृणीमहेऽद्या नो देवसवितरिति नित्यैव वैश्वदेवस्य प्रतिपच्चानुचरस्य तयोरुक्तं ब्राह्मणं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवद्युक्तवद्वै प्रथमस्याह्नो रूपं प्रद्यावायज्ञैः पृथिवी ऋता वृधेति द्यावापृथिवीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नरइत्यार्भवमुशिजो जग्मुरभि तानि वेदसेत्यभिवदद्राथन्तरं रूपं कथादेवानां कतमस्य यामनीति वैश्वदेवं कतम ऊती अभ्याववर्ततीत्यावदावद्वै प्रथमस्याह्नो रूपं वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्र त्वक्षसः प्रतवसोविरप्शिन इति मारुतंप्रवत्प्रवद्वै प्रथमस्याह्नो रूपमेति प्रहोता व्रतमस्य माययेति जातवेदसीयंप्रवत्प्रवद्वै प्रथमस्याह्नो रूपमिमं लोकं प्रथमेनाह्नाऽऽप्नुवन्त्यग्निं देवं देवतानां नामाधिभूतं वाचमात्मन्दधते॥२॥

गां द्वितीयमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि द्वितीयस्याह्नस्त्वं हि क्षैतवद्यश इत्याज्यं त्वं विचर्षणे श्रव इति विवत्तदस्यान्तरिक्षस्य रूपं विवृतमिव हीदमन्तरिक्षं गार्त्समदः प्रउगो बृहद्वै साम सृज्यमानं गार्त्समदः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आर्धुकं कर्मयद्रूपसमृद्धं विश्वानरस्य वस्पतिमिति मरुत्वतीयस्य प्रतिपद्विवती तस्या उक्तं ब्राह्मणमिन्द्र इत्सोमपा एक इत्यनुचर इन्द्रः सुतपाविश्वायुरिति विवांस्तस्योक्तं ब्राह्मणमुत्तिष्ठ ब्रह्मणस्पत इत्युद्वान्ब्राह्मण-

स्पत्य उत्तिष्ठेत्युद्वदुद्वद्वैद्वितीयमहरिमा उ त्वा पुरुतमस्य कारोरितिमरुत्वतीयमुद्वत्तस्योक्तं ब्राह्मणं सुत इत्वं निमिश्ल इन्द्र सोम इति निष्केवल्यं स्तोमे ब्रह्मणि शस्यमान उक्थ इत्युद्वत्तस्योक्तं ब्राह्मणं विश्वोदेवस्य नेतुरिति वैश्वदेवस्य प्रतिपद्विवती तस्या उक्तं ब्राह्मणमा विश्वदेवं सत्पतिमित्यनुचरो विवांस्तस्योक्तं ब्राह्मणं द्वे वैश्वदेवानां प्रतिपदौ द्वावनुचरौ षलृतुः संवत्सरः षड्रविधो द्वे द्यावापृथिवी द्वे इमे प्रतिष्ठे षलङ्गोऽयमात्मा षड्विधोऽनु द्वे अहोरात्रे द्वाविमौ प्राणापानौ तन्न संवत्सरःसंपदो यन्ति नाऽऽत्मसंस्कृतेर्न प्राणसंस्कृतेरभूद्देवः सविता वन्द्यो नुन इति सावित्रमुद्वत्तस्योक्तं ब्राह्मणं ते हि द्यावापृथिवी विश्वशंभुवेतिद्यावापृथिवीयं विवत्तस्योक्तं ब्राह्मणं ततं मे अपस्तदु तायते पुनरित्यार्भवमुद्वत्तस्योक्तं ब्राह्मणं देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवमुद्वत्तस्योक्तं ब्राह्मणं पृक्षस्य वृष्णो अरुषस्य नूसह इति वैश्वानरीयं वृष एव वृषा वा इन्द्रो वृषा त्रिष्टुप्तस्माद्वृष्णे शर्धाय सुमखाय वेधस इतिमारुतं वृष एव तस्योक्तं ब्राह्मणं यज्ञेन वर्धत जातवेदसमितिजातवेदसीयं समिधानं सुप्रयसं स्वर्णरमित्युद्वत्तस्योक्तं ब्राह्मणमन्तरिक्षलोकं द्वितीयेनाह्नाऽऽप्नुवन्तीन्द्रं देवं देवतानामोजोऽधिभूतं प्राणमात्मन्दधते॥३॥

आयुस्तृतीयमहरुपयन्ति तस्य तान्येव च्छन्दो रूपाणि यानि तृतीयस्याह्नस्त्वमग्नेवसूं रिहेत्याज्यं स्वयं संमृतं वा एतच्छन्दो यदह्नो रूपेण संपद्यते तान्रोहिदश्वगिर्वणस्त्रयस्त्रिंशतमावहेति त्रय इति तत्तृतीयस्याह्नोरूपमौष्णिहौ वैश्वमनसः प्रउगो रथन्तरं वै साम सृज्यमानमौष्णिहोवैश्वमनसः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आर्धुकं कर्म यद्रूपसमृद्धं तं तमिद्राधसे मह इति मरुत्वतीयस्य प्रतिपत्तं तमितिनिनृत्तिरन्तस्तृतीयमहर्नीय वा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयान्त्रय इन्द्रस्य सोमा इत्यनुचरस्त्रय इति तत्तृतीयस्याह्नो रूपं प्रैतु ब्रह्मणस्पतिरिति प्रवान्ब्राह्मणस्पत्यः प्रदेव्ये तु सूनृतेति निनृत्तिरन्तस्तृतीयमहर्निव वा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयात्तिस्रो मरुत्वतीयानां प्रतिपदस्त्रयोऽनुचरास्त्रयो ब्राह्मणस्पत्यास्त्रयो वा इमे लोका इमानेवतं लोकानाप्नुवन्ति तिष्ठा हरीरथ आयुज्यमानेऽतिमरुत्वतीयं तिष्ठेतिस्थितवत्तदन्तरूपमन्तस्तृतीयमहस्तिष्ठतीव वा अन्तं गत्वा कद्र्यङ्हितत इयादिन्द्रस्य नु वीर्याणि प्रवोचमिति निष्केवल्यं तस्य तदेवान्तरूपं यद्भू-

तानुवाद्यहन्नहिमन्वपस्ततर्देति यदेतद्धूतमिवाभ्युदुष्यदेवः सविता हिरण्ययेति सावित्रं घृतेन पाणी अभिप्रुष्णुते मख इति घृतवद्बहुदेवत्यंवै घृतं बहुदेवत्यं तृतीयमहस्तस्माद्घृतवद्घृतेन द्यावापृथिवी अभीवृतेइति द्यावापृथिवीयं घृतवत्तस्योक्तं ब्राह्मणं तक्षन्रथं सुवृतं विद्मनाऽप स इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयादानो भद्राः क्रतवो यन्तुविश्वत इति वैश्वदेवमप्रायुवो रक्षितारो दिवे दिव इति निनृत्तिरन्तस्तृतीयमहर्नीववा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयाद्वैश्वानरायधिषणामृतावृध इति वैश्वानरीयं घृतं न पूतमग्नये जनामसीति घृतवत्तस्योक्तं ब्राह्मणमा रुद्रास इन्द्रवन्तः सजोषस इति मारुतं तृष्णजेन दिव उत्सा उदन्यव इति दिव इति तदमुप्य लोकस्यरूपं त्वामग्न ऋतायवः समीधिर इति जातवेदसीयं त्वां त्वामिति सप्रभृति यथा वै सोदर्कमेवंसप्रभृत्यन्तरूपममुं लोकं तृतीयेनाह्नाऽऽप्नुवन्त्यादित्यं देवं देवतानां रूपमधिभूतं चक्षुरात्मन्दधते रूपमधिभूतं चक्षुरात्मन्दधते॥४॥

इति शाङ्खायनब्राह्मणे विंशतितमोऽध्यायः॥२०॥

_____________

** **हरिः ॐ देवा वै मृत्युं पाप्मानमपजिघांसमाना ब्रह्मणः सलोकतांसायुज्यमीप्सन्त एतमभिप्लवं षलहमपश्यंस्त एतेनाभिप्लवेनाभिप्लुत्यमृत्युं पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमापुस्तथो एवैतद्यजमाना एतेनैवाभिप्लवेनाभिप्लुत्य मृत्युं पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमाप्नुवन्ति त एतेन पूर्वेण त्र्यहेणाभिप्लुत्य गवा चतुर्थेऽहन्नयजन्तगमनायैवाऽऽयुः पञ्चममहरुपायन्त्सर्वायुत्वाय ज्योतिः षष्ठमहः पुनःपरस्तात्पर्यास्यन्मृत्योरेव पाप्मनो नान्ववाऽयनाय॥१॥

गां चतुर्थमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि चतुर्थस्याह्नोहोताऽजनिष्ट चेतन इत्याज्यं जातवज्जातवद्वै चतुर्थस्याह्नो रूपंमैधातिथः प्रउगो बृहद्वै साम सृज्यमानं मैधातिथः प्रउगोऽन्वसृज्यततद्रूपेण कर्म समर्धयत्येतद्वा आर्धुकं कर्म यद्रूपसमृद्धं जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयं जातवज्जातवद्वै चतुर्थस्याह्नो रूपमुग्रो जज्ञे वीर्याय स्वधावानिति निष्केवल्यं जातवज्जातवद्वै चतुर्थस्याह्नो रूपं तद्देवस्य सवितुर्वार्यं महदिति सावित्रमजीजनत्सविता सुम्नमुक्थ्यमिति जातवज्जातवद्वै चतुर्थस्याह्नो रूपं ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इति जातवज्जातवद्वै चतुर्थ-

स्याह्नो रूपमनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवं जातवज्जातवद्वै चतुर्थस्याह्नो रूपमग्निरिन्द्रो वरुणो मित्रो अर्यमेति वैश्वदेवं यज्ञंजनित्वी तन्वी निमामृजुरिति जातवज्जातवद्वै चतुर्थस्याह्नो रूपं वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयं तस्मिन्त्सुम्नानि यजमान आचकइत्यावदाद्वै चतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं हि चतुर्थमहर्जात आपृणो भुवनानि रोदसी ३ इति जातवज्जातवद्वै चतुर्थस्याह्नो रूपं प्र ये शुम्भन्ते जनयो न सप्तय इति मारुतं जातवज्जातवद्वै चतुर्थस्याह्नो रूपं जनस्य गोपा अजनिष्ट जागृविरिति जातवेदसीयं जातवज्जातवद्वै चतुर्थस्याह्नो रूपमन्नं चतुर्थेनाह्नाऽऽप्नुवन्ति चन्द्रमसं देवं देवतानां दिशोऽधिभूतं श्रोत्रमात्मन्दधते॥२॥

आयुःपञ्चममहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि पञ्चमस्याह्नोन ओजिष्ठमा भरेत्याज्यं प्र नो राया परीणसेति रायेति रविमद्रयिमदिति वा अस्य रूपं मध्यासवत्तत्पङ्क्तेरूपं संहार्यप्रउगो रथन्तरं वै साम सृज्यमानं संहार्यप्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आर्धकं कर्म यद्रूपसमृद्धं क्वस्य वीरः को अपश्यदिन्द्रमिति मरुत्वतीयंयो राया वज्रीसुतसोममिच्छन्निति रायेति रयिमद्रयिमदिति वा अस्यरूपमेतायामोपगव्यन्त इन्द्रमिति निष्केवल्यं गव्यन्त इति पशुमत्पशुमदिति वा अस्य रूपमुदुष्य देवः सविता हिरण्ययेति सावित्रं घृतेन पाणी अभिप्रुष्णुते मख इति घृतवद्घृतमिति पशुमत्पशुमदिति वाअस्य रूपं घृतवती भुवनानामभिश्रियेति द्यावापृथिवीयं घृतवत्तस्योक्तंब्राह्मणं ततं मे अपस्तदु तायते पुनरित्यार्भवं स्रुचेव घृतं जुहवाम विद्मनेति घृतवत्तस्योक्तं ब्राह्मणं कथा देवानां कतमस्य यामनीति वैश्वदेवंसहस्रसा मेधसा ताविवत्मनेति सहस्रसा इति पशुमत्पशुमदिति वा अस्यरूपं पृक्षस्य वृष्णो अरुषस्य नूसह इति वैश्वानरीयमपामुपस्थे महिषाअगृभ्णतेति महिषा इति पशुमत्पशुमदिति वा अस्य रूपं प्र वस्पलक्रंत्सुविताय दावन इति मारुतं गवामिव श्रियसे शृङ्गमुत्तममिति गवामिवेति पशुमत्पशुमदिति वा अस्य रूपं चित्र इच्छिशोस्तरुणस्य वक्षथ इति जातवेदसीयं वाजिन्तमाय सह्यसे सुपित्र्येति वाजवत्तदेतस्याह्नोरूपं मध्यासवत्तत्पङ्क्तेरूपं पशून्पञ्चमेनाह्नाऽप्नुवन्ति रुद्रं देवं देवतानांयशोऽधिभूतं वीर्यमात्मन्दधते॥३॥

ज्योतिः षष्ठमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि षष्ठ-

स्याह्नः सखायः सं वः सम्यञ्चमित्याज्यं सखाय इति सर्वरूपं सर्वरूपंवै षष्ठमहस्तस्मात्सखाय इति सर्वानेवानुवदति संहार्यप्रउगो बृहद्वैसाम सृज्यमानं संहार्यप्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वाआर्धुकं कर्म यद्रूपसमृद्धं महाँ इन्द्रो नृवदाचर्षणि प्रा इति मरुत्वतीयमुरुः पृथुः सुकृतः कर्तृभिर्भूदिति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तंगत्वा नृत्यति कद्र्यङ्हितत इयाद्यो जात एव प्रथमो मनस्वानितिनिष्केवल्यं तस्य तदेवान्तरूपं यद्भूतानुवादि यो दासं वर्णमधरं गुहाकरिति यदेतद्भूतमिवाभि सोदर्कं भवति तद्द्वितीयमन्तरूपं तद्देवस्य सवितुर्वार्यंमहदिति सावित्रं दिवो धर्ता भुवनस्य प्रजापतिरिति दिवइति तदमुष्यलोकस्य रूपं घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घृतवत्सर्वदेवत्यं वै घृतं सर्वदेवत्यं वै षष्ठमहस्तस्माद्घृतवत्किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यार्भवं श्रेष्ठो यविष्ठ इति निनृत्तिरन्तःषष्ठमहर्नीववा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादबुध्रमुत्य इन्द्रवन्तो अग्नय इति वैश्वदेवं तस्य तदेवान्तरूपं यत्सोदर्कं वैश्वानरायधिषणा मृता वृध इति वैश्वानरीयं घृतं न पूतमग्नये जनामसीति घृतवत्तस्योक्तं ब्राह्मणं धारावरा मरुतो धृष्ण्वोजस इति मारुतं धारावराइति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि ततइयात्त्वमग्नेद्युभिस्त्वमाशुशुक्षणिरिति जातवेदसीयं त्वं त्वमिति सप्रभृति यथा वै सोदर्कमेवं सप्रभृत्यन्तं रूपमपः षष्ठेनाह्नाऽऽप्नुवन्ति प्रजापतिं देवं देवतानां तेजोऽधिभूतममृतमात्मन्धते॥४॥

तदाहुः कस्माद्वैश्वदेवान्येवान्वायात्यन्तेनैकदेवत्यानि न द्विदेवत्यानीति नैकदेवत्येन यातयामं भवति न द्विदेवत्येन वैश्वदेवेनैव यातयामंभवति तस्माद्वैश्वदेवान्येवान्वायात्यन्त एतेषामेवाह्नां सबलताया एतेषामभिप्लवानामयातयामतायै ज्योतिः प्रथममहरुपयन्ति तस्यैवैकाहस्यरूपेणायं ह्येकाह उत्तरेषामह्नां ज्योतिर्गां द्वितीयं गच्छन्ति ह्येनेनाऽऽयुस्तृतीयं यन्ति ह्येनेनाग्निष्टोमौप्रथमोत्तमे अहनी चत्वार्युस्थानि मध्ये ब्रह्मवा अग्निष्टोमः पशव उक्थानि ब्रह्मणैव तत्पशूनुभयतः परिगृह्याऽऽत्मन्दधते तेषां वा एतेषां चतुर्णामुक्थानां सहस्रं स्तोत्रियाः साहस्राःपशवः प्र साहस्रं पोषमाप्नोति य एवं वेद पृष्ठ्यान्तान्वा इतश्चतुरश्चतुरोऽभिप्लवानुपयन्ति पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि पशुभिरेव तच्छ्रियमुभयतः परिगृह्याऽऽत्मन्दधते पृष्ठ्यारम्भणान्वा ऊर्ध्वं विश्व-

जितश्चतुरश्चतुरोऽभिप्लवानुपयन्ति श्रीर्वा अभिप्लवाः पशवः पृष्ठ्यानिश्रियैव तत्पशूनुभयतः परिगृह्याऽऽत्मन्धते॥५॥

क्लृप्तो वा अभिप्लवः क्लृप्तच्छन्दा यो वै यज्ञक्रतुः क्लृप्तच्छन्दा भवतिसर्वजागतानि वै तस्य निविद्धानानि भवन्ति तृतीयसवने तथा यथायथं निविदो धीयन्ते ता एनान्यथायथं धीयमानाः सर्वेषु च लोकेषुसर्वेषु च कामेषु यथायथं दधति तद्यत्सर्वजागतानि निविद्धानानिभवन्ति तृतीयसवने तेनो यः सर्वजागते तृतीयसवने कामः स उपाप्तोयद्वे वैतास्तन्त्र्यास्त्रिष्टुभोऽहरहः शस्यन्ते तेनो यः सर्वत्रैष्टुभे तृतीयसवनेकामः स उपाप्तो यद्वेवैषा तन्त्र्या गायत्र्यहरहः सुरूपकृत्नुः शस्यतेतेनो यः सर्वगायत्रे तृतीयसवने कामः स उपाप्तो यद्वेवैष षलहः पुनःपुनरभिप्लवते तस्मादभिप्लवो नामाभिप्लवन्ते ह्येनेन स्वर्गीय लोकाययजमानाः स्वर्गाय लोकाय यजमानाः॥६॥

इति शाङ्खायनब्राह्मणे एकविंशतितमोऽध्यायः॥२१॥

_____________

हरिः ॐ प्रथममहरयमेव लोक आयतनेनाग्निर्गायत्री त्रिवृत्स्तोमोरथंतरं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि करिष्यत्प्रथमेपदेसदेवं यद्वै भविष्यत्तत्करिष्यदावत्प्रवदेषवदर्षदक्तवद्युक्तवद्युञ्जानवज्ज्योतिष्मद्रुक्मवदित्युप प्रयन्तो अध्वरमित्याज्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं गायत्रं गायत्रप्रातः सवनो ह्येष त्र्यह इति नु व्यूल्ह उद्धृत्यैतत्प्र वो देवायाग्नय इति समूल्हे तस्योक्तं ब्राह्मणं माधुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणमायात्विन्द्रोऽवस उप न इति मरुत्वतीयमावदावद्वैप्रथमस्याह्नो रूपं स्वर्णरादद्वसेनो मरुत्वानिति स एवास्मिन्मरुन्यङ्गआ न इन्द्रो दूरादान आसादिति निष्केवल्यमावदावद्वै प्रथमस्याह्नो रूपंसंपातौ निष्केवल्यमरुत्वतीये भवतः प्रथमेऽहन्संपातैर्वै देवाः स्वर्गं लोकंसमपतंस्तस्मादेनौ प्रथमौ शस्येते स्वर्ग्यौतद्यत्संपातौनिष्केवल्यमरुत्वतीये भवतः प्रथमेऽहन्स्वर्गस्यैव लोकस्य समष्ट्यै युञ्जते मन उत युञ्जतेधियः प्रद्यावा यज्ञैः पृथिवी ऋता वृधेहे हवो मनसा बन्धुता नर इत्यार्भवं तेन नियच्छति युक्तवन्ति च वै प्रवन्ति च प्रथमेऽहन्सूक्तानि शस्यन्तेतद्यदिहेह व इत्यार्भवं करोति तन्नियुत्या प्रच्युत्यै रूपं हयो न विद्वां अयुजिस्वयं धुरीति वैश्वदेवं युक्तवद्युक्तवद्वै प्रथमस्याह्नो रूपं तस्य द्वे उत्तमेउत्सृजति कुविदेते अवधृते आग्निमारुते शस्यते३ इति तदु ह स्माऽऽह

कौषीतकिः शंसेदेव सूक्तस्याव्यवच्छेदाय न ह वा ऋक्छस्त्रेण यातयामाभवति नानुवचनेन वषट्कारेणैव सा यातयामा भवति समानेऽहन्वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्रशर्धाय मारुताय स्वभानव इति मारुतं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्रतव्यसीं नव्यसीं धीतिमग्नय इति जातवेदसीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमिमं लोकं प्रथमेनाह्नाऽऽप्नुवन्ति गायत्रीं छन्दस्त्रिवृतं स्तोमं रथन्तरंसाम प्राचीं दिशं वसन्तमृतूनां वसून्देवान्देवजातमग्निमधिपतिम्॥१॥

द्वितीयमहरन्तरिक्षलोक आयतनेनेन्द्रस्त्रिष्टुप्पञ्चदश स्तोमो बृहत्सामतन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि कुर्वन्मध्यमे पदेसदेवं यद्वैप्रत्यक्षमस्पृष्टं तत्कुर्वद्धतवद्वज्रवद्वृत्रहवद्वृषण्वदुद्वद्विव स्थितं त्वामित्यग्निं दूतं वृणीमह इत्याज्यं होतारं विश्ववेदसमिति विवत्तस्योक्तं ब्राह्मणंगायत्रं गायत्रप्रातःसवनो ह्येष त्र्यह इति नु व्यूल्ह उद्धृत्यै तत्त्वं हिक्षैतवद्यश इति समूल्हे तस्योक्तं ब्राह्मणं गार्त्समदः प्रउगस्तस्योक्तंब्राह्मणमिन्द्र सोमं सोमपते पिबेममिति मरुत्वतीयं माध्यंदिने सवने वज्रहस्तेति वज्रवत्तदेतस्याह्नो रूपं या त ऊतिरवमा या परमेति निष्केवल्यंताभिरूषु वृत्रहत्येवीर्न इति वृत्रहवत्तदेतस्याह्नो रूपं तद्देवस्य सवितुर्वार्यं महदिति सावित्रं त्रिरन्तरिक्षं सविता महित्वनेति तत्प्रत्यक्षमन्तरिक्षस्य रूपं ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं विवत्तस्योक्तं ब्राह्मणं तक्षन्रथं सुवृतं विद्मनाऽऽप स इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति वृषण्वत्तस्योक्तं ब्राह्मणं यज्ञस्य वो रथ्यं विश्पतिंविशामिति शार्यातिं वैश्वदेवं वृपाकेतुर्यजतो द्यामशायतेति वृषण्वत्तस्योक्तं ब्राह्मणं पृक्षस्य वृष्णो अरुषस्य नूसहो वृष्णे शर्धाय सुमखायवेधस इति वृषण्वती तयोरुक्तं ब्राह्मणं नूचित्सहोजा अमृतो नितुन्दतइति जातवेदसीयं होता यद्दूतोअभवद्विवस्वत इति विवत्तस्योक्तंब्राह्मणं तस्य प्रातर्मक्षू धिया वसुर्जगम्यादित्युत्तमा परमे वै तदहरभिवदति परमे वै तदहरभ्यारभ्य वसन्तीति ह स्माऽऽह कौषीतकिरन्तरिक्षलोकं द्वितीयेनाह्नाऽऽप्नुवन्ति त्रिष्टुमं छन्दः पञ्चदशं स्तोमं बृहत्साम दक्षिणां दिशं ग्रीष्ममृतूनां मरुतो देवान्देवजातमिन्द्रमधिपतिम्॥२॥

तृतीयमहरसावेव लोक आयतनेन वरुणो जगती सप्तदश स्तोमो वैरूपं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि चकृवदुत्तमे पदेसदेवं यद्वै भूतानुवादि तच्चकृवदश्वावद्गोमद्रथवङ्गतवत्स्थितवदन्तवत्सो-

दर्कमनिरुक्तं सप्रभृतीनि युक्ष्वाहि देवहूतमानित्याज्यं तदाहुर्यदन्तस्तृतीयमहरथ कस्माद्युक्तवदाज्यमित्येतेन वा अह्ना देवाःस्वर्गं लोकमायन्युक्ता वै तदायंस्तस्मादिति ब्रूयादश्वां अग्ने रथीरिवेति रथवत्तदेतस्याह्नो रूपं गायत्रं गायत्रप्रातःसवनो ह्येष त्र्यह इति नु व्यूल्ह उद्धृत्यैतत्त्वमग्ने वसूंरिहेति समूल्हे तस्योक्तं ब्राह्मणमौष्णिह आत्रेयः प्रउगो जागतं वै तृतीयमहस्तद्यदौष्णिह आत्रेयस्तृतीयस्याह्नः प्रउगस्तत्प्रातः सवनं जगती भजते॥३॥

त्र्यर्यमा मनुषो देवतातेति मरुत्वतीयं त्रीति तत्तृतीयस्याह्नो रूपंयद्द्याव इन्द्र ते शतमिति वैरूपस्य स्तोत्रियः शतं भूमी रुतस्युरितिनिनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयाद्यदिन्द्र यावतस्त्वमित्यनुरूपः शिक्षेयमिन्महयते दिवे दिव इति निनृत्तिरन्तस्तृतीयमहर्नीववा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयादिन्द्रत्रिधा तु शरणमिति त्रिवान्त्सामप्रगाथस्त्रिधात्विति तत्तृतीयस्याह्नो रूपमहं भुवं वसु नः पूर्व्यस्पतिरितीन्द्रसूक्तमहमहमिति सप्रभृति यथावै सोदर्कमेवं सप्रभृत्यन्तरूपं यो जात एव प्रथमो मनस्वानित्येतस्मिंस्त्रैष्टुभे निविदं दधाति तदेतदिन्द्र तनूः सूक्तमेतस्मिन्ह गृत्समदो बाभ्रवोनिविदं दधदिन्द्रस्य प्रियं धामोपजगामेत्युप ह वा इन्द्रस्य प्रियं धामगच्छति जयति परं लोकं य एतस्मिन्सूक्ते निविदं दधाति तस्य तदेवातरूपं यद्भूतानुवादि यो दासं वर्णमधरं गुहाकरिति यदेतद्भूतमिवाभिसोदर्कं भवति तद्द्वितीयमन्तरूपम्॥४॥

अभि त्वा देवसवितरित्यभिवाननुचरस्तदाहुर्यदन्तस्तृतीयमहरथकस्मादभिवाननुचर इत्येतेन वा अह्ना देवाःस्वर्गं लोकमायन्नभिप्रेप्सन्तो वै तदायंस्तस्मादिति ब्रूयादुदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभि श्रियेति घृतवती तयोरुक्तं ब्राह्मणमनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवं रथस्त्रिचक्रः परिवर्तते रज इति त्रिचक्र इति तत्तृतीयस्याह्नो रूपं परावतो ये दिधिषन्त आप्यमिति वैश्वदेवं परावत इत्यन्तो वै परावतोऽन्तस्तृतीयमहरन्ते अन्तं दधात्यर्धर्चोदर्काणि ह वाएतानि सूक्तानि भवन्ति पदोदर्काण्येकान्यर्धपदोदर्काण्येकान्यथैतत्तृतीयपदोदर्कमेव तत्तृतीयस्याह्नो रूपं वैश्वानराय धिषणामृता वृध इतिवैश्वानरीयं घृतं न पूतमग्नये जनामसीति घृतवत्तस्योक्तं ब्राह्मणं धारावरा मरुतो धृष्ण्वोजस इति मारुतं धारावरा इति निनृत्तिरन्तस्तृती-

यमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयात्त्वमग्ने प्रथमोअङ्गिरा ऋषिरिति जातवेदसीयं त्वं त्वमिति सप्रभृति यथा वै सोदर्कमेवं स प्रभृत्यन्तरूपममुं लोकं तृतीयेनाह्नाऽऽप्नुवन्ति जगतीं छन्दः सप्तदशं स्तोमं वैरूपं साम प्रतीचीं दिशं वर्षा ऋतूनामादित्यान्देवान्देवजातं वरुणमधिपतिम्॥५॥

अन्तस्तृतीयमहस्ते देवा अन्तं गत्वा चतुर्थमहरैच्छंस्तस्मादिच्छध्वं तदिष्ट्वाऽविन्दंस्तस्माद्युक्तवत्तदाहुर्यदन्तस्तृतीयमहरथ कस्माच्चतुर्थेऽहन्यूङ्खयतीति वाच एव तदायतनं यच्चतुर्थमहरन्नं विरालन्नं न्यूङ्खोऽन्नमेवतद्यज्ञे च यजमानेषु च दधात्यथो अवाप्यते वै तृतीयेनाह्ना वाक्तामेवैतच्चतुर्थेऽहन्विभावयति यथायस्तप्तं विनयेदेवं तद्वाचो विभूत्यै तस्यैतानि च्छन्दोरूपाणि सम्राड्वत्स्वराड्वद्विराड्वज्जातवदूतिमद्वीतिमत्परिवदभिवदुपवदित्याग्निं न स्ववृक्तिभिरिति वै मदमाज्यं विमदेन वै देवा असुरान्विमदस्तद्यद्विमदः शस्यते मध्यतश्च होत्रासु चाङ्गादङ्गादेव तद्यजमानाःपाप्मानं विमदन्त्यग्निर्जातो अथर्वणेति जातवत्तदेतस्याह्नो रूपम्॥६॥

ता दश जगत्यः संपद्यन्ते जगत्प्रातःसवनो ह्येष त्र्यहो विंशतिर्गायत्री गायत्री प्रातःसवनं वहति तदु ह प्रातःसवनरूपान्वाय इतीतिनुव्यूल्ह उद्धृत्यैतदग्निं नरो दीधितिभिररण्योरिति समूल्हे वैराजमाज्यं वैराजं पृष्ठं तत्सलोम वासिष्ठमाज्यं वासिष्ठं पृष्ठं तत्सलोम हस्तच्युतीजनयन्त प्रशस्तमिति जातवत्तदेतस्याह्नो रूपमानुष्टुभः प्रउग आनुष्टुभंवै चतुर्थमहस्तदेनस्वेन च्छन्दसा समर्धयति तं त्वा यज्ञेभिरीमह इतियज्ञवत्या मरुत्वतीयं प्रतिपद्यते पुनरारम्भ्यो वै चतुर्थेऽहन्यज्ञो यज्ञमेवतदारभते श्रुधीहवमिन्द्रमारिषण्य इति मरुत्वतीयं ता वा एतास्त्रिष्टुभो विराड्वर्णास्ता अत्र क्रीयन्त एता ह्यह्नो रूपेण संपन्ना इन्द्र मरुत्वइह पाहि सोममिति विज्ञातत्रैष्टुभं सवनधरणं तानि वा एतानि विज्ञातत्रैष्टुभानि सवनधरणानि मध्यंदिनान्न च्यवन्ते त्रैष्टुभो वा इन्द्रो मध्यंदिनायतनो वा इन्द्रस्तद्यदेतानि विज्ञातत्रैष्टुभानि सवनधरणान्यपिव्यूल्हच्छदसो मध्यंदिनान्न च्यवन्ते त्रैष्टुभ इन्द्रो नेदिन्द्रं स्वादायतनाच्च्यवयानीति जातं यत्त्वा परि देवा अभूषन्निति जातवत्तदेतस्याह्नोरूपमिमं नु मायिनं हुव इति मरुत्वतीयं गायत्रं गायत्रमध्यंदिनो ह्येषत्र्यहः॥७॥

अथातइह न्यूङ्खयेदिहा ३ इति स्तोत्रियानुरूपयोश्चैव न्यूङ्खा उक्थमुखीययोश्चातनाऽऽद्रियेताऽऽत्मा वै स्तोत्रियः प्रजानुरूपोऽन्नं विरा-

लन्नं न्यूङ्खोऽन्नमेवाऽऽत्मनि प्रजायां च दधात्यानुष्टुभं न्यूङ्खंन्यूङ्खयेदितिहैक आहुरानुष्टुभं वै। चतुर्थमहस्तदेनस्वेन च्छदसा समर्धयति वैराजं न्यूङ्खं न्यूङ्खयेदिति सा स्थितिरन्नं विरालन्नं न्यूङ्खोऽन्नमेव तदात्मनिप्रजायां च दधाति मध्यमे पदे न्यूङ्खयेदात्मा वैपूर्वं पदं प्रजोत्तमंमध्यं मध्यमं पदं मध्ये वा इदमात्मनोऽन्नं धीयते तद्यथाऽऽभिर्ग्रासमन्नमद्यादेवं तदिन्द्रमिद्देवतातय इत्यष्टेन्द्रः साम्नः प्रगाथ एतेन वै देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमाना एतेनैव सर्वा अष्टरश्नुवतेकुह श्रुत इन्द्रः कस्मिन्नद्येति कुहश्रुतीयास्ता वा एता विराजोवाऽनुष्टुभो वा भवन्ति ता अत्र क्रीयन्त एता ह्यन्नोरूपेण संपन्ना युध्मस्य तेवृषभस्य स्वराज इति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणंस्वराज इति स्वराड्वत्स्वराड्वदिति वा अस्य रूपं त्यमु वः सत्रासाहमितिनिष्केवल्यं विश्वासु गीर्ष्वायतमित्यावदावद्वै चतुर्थस्याह्नः प्रायणीयरूपंपुनः प्रायणीयं हि चतुर्थमहर्गायत्रं गायत्रमध्यंदिनो ह्येष त्र्यहः॥८॥

हिरण्यपाणिमूतय इत्यूतिमाननुचरऊतय इत्यूतिमदूतिमदिति वाअस्य रूपमा देवो यातु सविता सुरत्नः प्र द्यावा यज्ञैः पृथिवी नमोभिःप्र ऋभुभ्यो दूतमिव वाचमिष्ये प्र शुक्रैतु देवी मनीषेत्येति वा वै प्रेति वाप्रायणीयरूपं तस्मादावन्ति च प्रवन्ति च चतुर्थेऽहन्सूक्तानि शस्यन्ते प्रायणीयरूपेण पुनः प्रायणीयं हि चतुर्थमहर्द्विपदाः शस्यन्ते द्विपाद्वाअभिक्रमितुमर्हत्यभिकान्त्यैतद्रूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायां वसेदेवं तत्प्रसम्राजो असुरस्य प्रशस्तिमिति वैश्वानरीयं सम्राज इति सम्राड्वत्सम्राड्वदिति वा अस्य रूपं क ईं व्यक्ता नरः सनीला इतिमारुतं तस्य तद्ब्राह्मणं यत्प्रशुक्रीयस्य हुवे वः सुद्योत्मानं सुवृक्तिमितिजातवेदसीयं तस्य तद्ब्राह्मणं यन्मरुत्वतीयस्य प्र यन्तु वाजास्तविषीभिरग्नय इति तिस्रोऽधिकाः समूल्हा आ त्वेषमुग्रमव ईमहे वयमित्यावदावद्वैचतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं चतुर्थमहर्वसुं न चित्रमहसंगृणीष इति जातवेदसीयं घृतनिर्णिग्ब्रह्मणे गातुमेरयेत्यावदावद्वै चतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं हि चतुर्थमहरथोक्थान्युपेत्य सृप्त्वा षोलशिनमुपयन्ति षोलशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्या अन्नंचतुर्थेनाह्नाऽऽप्नुवन्त्यानुष्टुभं छन्द एकविंशं स्तोमं वैराजं सामोदीचीं दिशं शरदमृतूनां साध्यांश्चाऽऽप्यांश्च देवान्देवजाते बृहस्पतिं च चन्द्रमसंचाधिपती बृहस्पतिं च चन्द्रमसं चाधिपती॥९॥

इति शाङ्खायनब्राह्मणे द्वाविंशोऽध्यायः॥२२॥

____________

हरिः ॐ पशवः पञ्चममहः पङ्क्तिर्वै तन्वस्य निदानं पशवःपङ्क्तिरिति तस्यैतानि च्छन्दोरूपाणि वृषभवद्धेनुमद्दुग्धवद्घृतवन्मद्वद्रयिमद्वाजवदध्यासवदितीममू षु वो अतिथिमुषर्बुधमित्याज्यं रायः सूनोसहसो मर्त्येष्विति राय इति रयिमद्रयिमदिति वा अस्य रूपमध्यासवत्तत्पङ्क्तेरूपं जागतं जगत्प्रातःसवनो ह्येष त्र्यह इति नु व्यूल्ह उद्धृत्यैतदग्निं तं मन्ये यो वसुरिति समूल्हे पाङ्क्तंपङ्क्तिर्वै पञ्चममहर्यदेतदहस्तदेता अस्तं यं यन्ति धेनव इति धेनुमदिति वा अस्य रूपं बार्हतःप्रउगः पशवः पञ्चममहर्बार्हताः पशवःपशूनामेवाऽऽप्त्यै यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति तत्पञ्चमस्याह्नो रूपमित्था हि सोम इन्मद इति मद्वत्पाङ्क्तंतस्योक्तं ब्राह्मणमवितासि सुन्वतो वृक्तबर्हिष इति षट्पदाः षड्वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यैतासां गायत्रीशंस शस्त्रमिति ह स्माऽऽह कौषीतकिस्तद्वा अत्र संपन्नंयद्गायत्रीशंसं तद्यदृष्टाभिरष्टाभिरक्षरैः प्रणौति तद्गायत्रीरूपं मरुत्वाँइन्द्र वृषभो रणायेति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं वृषभोरणायेति वृषभवत्तदेतस्याह्नो रूपमयं हयेन वा इदमिति मरुत्वतीयंगायत्रं गायत्रमध्यंदिनो ह्येष त्र्यहः॥१॥

महानाम्न्यः पृष्ठं भवन्ति महानाम्नीभिर्वा इन्द्रो वृत्रमहंस्तं वृत्रंहत्वा यन्तं देवताः प्रत्युपातिष्ठन्त पराञ्च्यो हास्मादग्रेऽपक्रान्ताविभ्यत्यस्तस्थुस्तं प्रजापतिः पप्रच्छाशको हन्तु३मित्येवाह्येवेति प्रत्युवाचानिरुक्तमनिरुक्त उ वै प्रजापतिस्तत्प्राजापत्यं रूपं तमग्निःपप्रच्छाशको हन्तु३मित्येवाह्यग्न इति प्रत्युवाच तं स्वो महिमा पप्रच्छाशको हन्तू३मिति स हास्मादग्रेऽपक्रान्तो बिभ्यस्यस्थावेवाहीन्द्रेति प्रत्युवाच तं पूषा पप्रच्छाशको हन्तू ३ मित्येवाहि पूषन्निति प्रत्युवाचतं विश्वे देवाः पप्रच्छुरशको हन्तू ३ मित्येवाहि देवा इति प्रत्युवाचतानि वा एतानि पञ्च पदानि पुरीषमिति शस्यन्ते सोरुच एव वेलाता वा एताः शक्वर्य एताभिर्वा इन्द्रो वृत्रमशकद्धन्तुं तद्यदाभिर्वृत्रमशकद्धन्तुं तस्माच्छक्वर्यः शक्तयो हि प्रत्यस्मै पिपीषते यो रयिवोरयिंतमस्त्यमुवो अप्रहणमिति त्रयस्तृचा अस्मा अस्मा इदन्धस इति बृहतीं दशमीं करोत्येवा ह्यसि वीरयुरिति त्वेव स्थितापुरीषस्य समानाभिव्याहारा तथा स स्तोत्रियेण समो वाऽतिशयो वा संपद्यते यदिन्द्र नाहुषीष्वेति साम्नः प्रगाथो यद्वा पञ्च क्षितीना-

मिति पञ्चेति तत्पञ्चमस्याह्नो रूपमिन्द्रो मदाय वावृध इति मद्वत्पाङ्क्तं तस्योक्तं ब्राह्मणं प्रेदं ब्रह्मवृत्रतूर्येष्वाविथेति षट्पदास्तासामुक्तं ब्राह्मणमभूरेको रयिपते रयीणामिति विज्ञातत्रैष्टुभं सवनधरणंतस्योक्तं ब्राह्मणं रयिपते रयीणामिति रयिमद्रयिमदिति वा अस्यरूपं मध्यासवत्तत्पङ्क्ते रूपं तमिन्द्रं वाजयामसीति निष्केवल्यं स वृषावृषभोऽभुवदिति वृषभवत्तदेतस्याह्नोरूपं गायत्रं गायत्रमध्यंदिनो ह्येषत्र्यहः॥२॥

तत्सवितुर्वरेण्यमिति वैश्वामित्रोऽनुचरः पृष्ट्यानामेव नानात्वायवाजयन्तः पुरंध्येति वाजवत्तदेतस्याह्नो रूपमुदुष्य देवः सविता दमूनाइति सावित्रं वाममद्य सवितर्वाममुश्व इति वाममिति पशुमत्पशुमदिति वा अस्य रूपं मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयंरुवद्धोक्षा पप्रथानेभिरेवैरित्युक्षेति पशुमत्पशुमदिति वा अस्य रूपमृभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं ये गोमन्तं वाजवन्तं सुवीरमिति गोमन्तमिति पशुमत्पशुमदिति वा अस्य रूपं कोऽनु वां मित्रावरुणा वृता यन्निति वैश्वदेवं यज्ञायते वा पशुषो न वाजानिति पशुष इति पशुमत्पशुमदिति वा अस्य रूपं मध्यासवत्तत्पङ्क्तेरूपं हविष्पान्तमजरं स्वर्विदीति वैश्वानरीयं पान्तमिति तत्पञ्चमस्याह्नो रूपं वपुर्नुतच्चिकितुषे चिदस्त्विति मारुतं समानं नाम धेनुपत्यमानमिति धेन्वितिपशुमत्पशुमदिति वा अस्य रूपमग्निर्होता गृहपतिः स राजेति जातवेदसीयमवानो मघवन्वाजसाताविति वाजवत्तदेतस्याह्नो रूपं मध्यासवत्तत्पङ्क्ते रूपमिति नु व्यूल्हेऽथ समूल्हे मूर्धानं दिवो अरतिं पृथिव्याइति वैश्वानरीयं नाभिं यज्ञानां सदनं रयीणामिति रयिमद्रयिमदितिवा अस्य रूपमा रुद्रास इन्द्रवन्तः सजोषस इति मारुतं गोमदश्वावद्रथवत्सुवीरमिति गोमदश्वावदिति पशुमत्पशुमदिति वा अस्य रूपमिममूषु वो अतिथिमुषर्बुधमिति जातवेदसीयं तस्योक्तं ब्राह्मणं पशून्पञ्चमेनाह्नाऽऽप्नुवन्ति पङ्क्तिंछन्दस्त्रिणवं स्तोमं शाक्वरं सामार्वाचीं दिशं हेमन्तमृतूनां मरुतो देवान्देवजातं रुद्रमधिपतिम्॥३॥

पशवः पञ्चममहस्थ पुरुष एव षष्ठमहः स वै पुरुषः प्रजापतिःपूर्वोऽस्य सर्वस्यातिच्छन्दो वै प्रजापतिस्तत्प्राजापत्यं रूपमसुरीन्द्रं प्रत्युत्क्रमत पर्वन्पर्वन्मुष्कान्कृत्वा तामिन्द्रः प्रतिजिगीषन्पर्वन्पर्वंञ्छेपांस्यकुरुतेन्द्र उ वै परुच्छेपः सर्वं वा इन्द्रेण जिगीषितं तां समभवत्तमर्ह-

णादसुरमायया स एताः पुनः पदा अपश्यत्ताभिरङ्गादङ्गात्पर्वणः पर्वणःसर्वस्मात्पाप्मनः संप्रामुच्यत तद्यत्परुच्छेपः शस्यते मध्यतश्च होत्रासुचाङ्गादङ्गादेव तद्यजमानाः पर्वणः पर्वणः सर्वस्मात्पाप्मनः संप्रमुच्यन्तेनित्याःपूर्वा याज्याः कृत्वा पारुच्छेपीभिर्यजन्ति तद्यदाभिस्तदहर्नवषट् कुर्वन्ति तेनोत्सृष्ट्वा यद्वेवैनान्नान्तरयन्ति नेदच्युतं यज्ञस्य प्रियंदेवानामन्तरयामेति नित्यान्पूर्वानृतुयाजान्कृत्वा गार्त्समदैर्यजन्ति तद्यदेभिस्तदर्न वषट्कुर्वन्ति तेनोत्सृष्ट्वा यद्वेवैनान्नान्तरयन्ति नेदच्युतंयज्ञस्य प्रियं देवानामन्तरयामेति तेन तेऽतिच्छन्दसो भवन्ति तथैषांसप्तपदाभिर्वषट्कृतं भवति तदु ह स्माऽऽह कौषीतकिर्विरालष्टमानि हवा एतस्य च्छन्दांसि गोपायन्ति योऽसौ तपति तां ते संपदं मोहयन्ति येऽतिच्छन्दोभिर्यजन्ति॥४॥

तद्वै खल्वैकाहिकीभिरेव यजेयुर्देवयानस्यैव पथो समुग्धा इति तद्धाप्यणीचीमौ नो जाबालगृहपतीन्सत्रमासीनानुपास्यद्यपप्रच्छान्नो गाता ३ परुच्छेपा ३ इति त उ ह तूष्णीमासुस्तत उ होत्तरार्धात्सदसश्चित्रो गौश्रायणिरभिपरोवादगौश्रोवानाहैवाह्नोगामनपरुच्छेपाः शस्त्रेणाहन्परुच्छेपोऽह्नायतीष्वैकाहिकीभिरयाक्ष्म तेनोअह्नोनागामेति यथायथं यजेयुर्देवायतनं वै षष्ठमहस्तद्यत्तदहर्होतैव वषट्कुर्याद्धोतैनयोर्देवायतनं संपृञ्चीताध्वर्योर्गृहपतेश्चाजिं ह वा एते यन्ति स्वर्गे लोके षष्ठेनाह्ना स योऽनवानं समापयति स स्वर्गं लोकमुज्जयतियद्यप्यत्रान्यात्पुनः पुनः प्रतीसारमुपशिक्षेतैव॥५॥

अयं जायत मनुषो धरीमणीत्याज्यमयमित्यनिरुक्तमनिरुक्त उ वैप्रजापतिस्तत्प्राजापत्यं रूपमतिच्छन्दसः सप्तपदाः पुनः पदा यदेतदहस्तदेतानपदं च पुनः पदं चान्तरेणावान्यादात्मा वै पदं प्राणाः पुनः पदं सयोऽत्रावानं तं ब्रूयात्प्राणादात्मानमन्तरगान्न जीविष्यति तथा हस्यात्तस्मान्न पदं च पुनः पदं चान्तरेणावान्यादातिच्छदसः प्रउगआतिच्छन्दसं वै षष्ठमहस्तदेन स्वेन च्छन्दसा समर्धयति स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपत्स इत्यनिरुक्तमनिरुक्त उ वै प्रजापतिस्तत्प्राजापत्यं रूपं यं त्वं रथमिन्द्रमेधसातय इति पारुच्छेपं तस्योक्तंब्राह्मणं यः शूरैः स्वः सनितेति शूरैरिति स एवास्मिन्मरुन्यङ्गः स योवृषा वृष्णेभिः समोका इति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं वृषा वृष्णेभिरिति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति

कद्र्यङ्हि तत इयान्मरुत्वाँ इन्द्र मीढ्वइति मरुत्वतीयं गायत्रं गायत्रमध्यंदिनो ह्येष त्र्यहः॥६॥

रेवतीर्नः सधमादे रेवाँ इद्रेवतस्तोतेति रैवतस्य योनौ वारवन्तीयमूल्हं भवत्याग्नेयंसामैन्द्रीषु तन्मिथुनं प्रजात्यै रूपं माचिदन्यद्विशंसतेतिसाम्नः प्रगाथः सखायोमा रिषण्यतेति सखाय इति सर्वरूपं सर्वरूपं वैषष्ठमहस्तस्मात्सखाय इति सर्वानेवानुवदत्येन्द्रयाह्युपनः परावत इतिपारुच्छेपं तस्योक्तं ब्राह्मणं परावत इत्यन्तो वै परावतोऽन्तः षष्ठमहरन्तेअन्तं दधाति प्रधान्वस्य महतो महानीति विज्ञातत्रैष्टुभं सवनधरणंतस्योक्तं ब्राह्मणं महतो महानीति निनृत्तिरन्तः षठमहर्नीव वाअन्तं गत्वा नृत्यति कद्र्यङ्हितत इयादुप नो हरिभिः सुतमिति निष्केवल्यं याहि मदानां पत उप नो हरिभिरिति निनृत्तिरन्तः षष्ठमहर्नी ववा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयाद्गायत्रं गायत्रमध्यंदिनोह्येष त्र्यहः॥७॥

अभित्यं देवं सवितारमोण्योः कविक्रतुमित्यतिच्छन्दसा वैश्वदेवंप्रतिपद्यत आतिच्छन्दसं वै षष्ठमहस्तत्तृतीयसवनमतिच्छन्वाभ्यश्नुतेऽथोप्राजापत्यं वै षष्ठमहरतिच्छन्दा वै प्रजापतिस्तत्प्राजापत्यं रूपमभिवाननुचरस्तस्योक्तं ब्राह्मणमुदुष्य देवः सविता सवायेति सावित्रं सवितासवायेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि ततइयात्कतरा पूर्वाकतरा परा योरिति द्यावापृथिवीयं पूर्वापरेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयात्किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यार्भवं श्रेष्ठो यविष्ठ इति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयादिदमित्था रौद्रंगूर्तवचा इति वैश्वदेवं क्राणा यदस्य पितरा मंहनेष्ठा इति स्थितवत्तदन्तरूपमन्तः षष्ठमहस्तिष्ठतीव वा अन्तं गत्वा कद्र्यङ्हि तत इवात्तस्य द्वे उत्तमे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्येतं नाराशंसंसमावपत्यात्मा वै सूक्तं प्रजा पशवो नाराशंसं मध्य एव तदात्मन्प्रजांपशूनुभये दधात्यहश्च कृष्णमहरर्जुनं चेति वैश्वानरीयमहरर्जुनं चेतिनिनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयान्प्रयज्य वो मरुतो भ्राजदृष्टय इति मारुतं तस्य तदेवान्तरूपं यत्सोदर्कमिमं स्तोममर्हते जातवेदस इति जातवेदसीयं तस्य तदेवान्तरूपं यत्सोदर्कं मा रिषाम मा रिषामेति तदन्ततो रिष्ट्यै रूपमपः षष्ठेनाह्नाऽऽप्नुवन्त्य-

तिच्छन्दसं छन्दस्त्रयस्त्रिंशं स्तोमं रैवतं सामोर्ध्वां दिशं शिशिरसृतूनां विश्वान्देवान्देवजातं प्रजापतिमधिपतिं प्रजापतिमधिपतिम्॥८॥

इति शाङ्खायनब्राह्मणे त्रयोविंशतितमोऽध्यायः॥२३॥

____________

हरिः ॐ। अभिजिदभिजिता वै देवा अभ्यजयन्निमांस्त्रील्लोँकांस्तस्मात्सत्र्यावृच्चतुरुदयो भवति विश्वजिता जयन्निमाश्चतस्रो दिशस्तस्मात्स चतुरावृत्र्युदयो भवत्यभिजिदभिजिता वै देवा अभ्यजयंस्तदु हन्विवैव स संजयदजितं पर्यशिष्यत तद्विश्वजिता जयन्विश्वमजैष्मेति वाव विश्वजित्तौ वा एताविन्द्राग्नी एव यदभिजिद्विश्वजितावग्निरेवाभिजिग्निर्हीदं सर्वमभ्यजयदिन्द्रो विश्वजिदिन्द्रो हीदं सर्वं विश्वमजयत्स वा अभिजिदुभयसामासर्वस्तोमो भवति तस्मादुमयानि सूक्तानि शस्यन्ते बार्हतराथन्तराणितस्य प्र वो देवायाग्नये यद्बाहिष्ठं तदग्नय इत्येते उभे तदाज्यं प्र व इतितद्राथंतरं रूपं बृहदर्च विभावसो३ इति बृहद्बार्हतमुभौमाधुच्छन्दसगार्त्समदौ प्रउगौ संप्रवयेद्वायव्यां पुरोरुचं शस्त्वाऽथो उभे वायव्येतृचे ऐन्द्रवायवीं पुरोरुचं शस्त्वाऽथो उभेऐन्द्रवायवे तृचे अथ पुरोरुचमथोभे तृचे अथ पुरोरुचमथोभेतृच एवमेव संप्रवयेन्नाऽऽद्रियेत माधुच्छन्दसान्येव पूर्वाणि तृचानि करोति गार्त्समदान्युत्तराणि तदु वा आहुः किं तदुभौसंप्रवयेन्नाऽऽद्रियेत माधुच्छन्दस एव प्रउगे सतिगार्त्समदं वैश्वदेवमुपरिष्टान्माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरेत्तद्वा अत्रैकं निरुक्तं बार्हतम्॥१॥

विश्वे देवास आगत शृणुताम इमं हवम्। एवं बर्हिर्निषीदतेति बर्हिरिति तद्बार्हतं रूपमथ माधुच्छन्दसं सारस्वतं तस्यैवोत्तमया परिदध्यादित्यैकाहिकं प्रातःसवनं स्यादिति सा स्थितिरेकाहो वा अभिजित्प्रतिष्ठावा एकाहः प्रतिष्ठित्या एवा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तंब्राह्मणं जनिष्ठा उग्रः सहसे तुरायेति गौरिवीतीयं पूर्वं शस्त्वेन्द्र पिब तुभ्यं सुतो मदायेत्येतस्मिन्बार्हते पञ्चर्चे निविदं दधातीन्द्रस्य नुवीर्याणि प्रवोचमिति हैरण्यस्तूपीयं पूर्वं शस्त्वा या त ऊतिरवमा यापरमेत्येतस्मिन्बार्हते नवर्चेनिविदं दधात्येवं नु यदि रथंतरं पृष्ठं भवतियद्यु बृहद्बार्हते पूर्वे शस्त्वैकाहिकयोर्निविदौ दध्यादित्येकसूक्ते निष्केवल्यमरुत्वतीये स्यातामिति सा स्थितिः पिबा सोममभियमुग्र तर्द-

स्तमु ष्टुहि यो अभिभूत्योजा इत्युभे अभिवती तदभिजितो रूपमथनित्यमेवैकाहिकं तृतीयसवनं स्यादिति सा स्थितिरेकाहो वा अभिजित्प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव॥२॥

स्वर्भानुर्हासुरा दित्यं तमसा विध्यत्तस्यात्रयस्तमौपजिघांसन्तएतं सप्तदशस्तोमं त्र्यहं पुरस्ताद्विषुवत उपायंस्तस्य पुरस्तात्तमोपजघ्नुस्तत्परस्तादसीददेतमेव त्र्यहमुपरिष्टाद्विषुवत उपायंस्तस्य परस्तात्तमोपजघ्नुस्तद्य एवं विद्वांस एतं सप्तदशस्तोमं त्र्यहमुभयतो विषुवन्तमुपायन्त्युभाभ्यामेव ते लोकाभ्यां यजमानाः पाप्मानमपघ्नते तान्यैस्वरसामान इत्याचक्षत एतैर्ह वा अत्रय आदित्यं तमसोपस्पृण्वततद्यदुपस्पृण्वत तस्मात्स्वरसामानस्तदेतदृचाऽभ्युदितम्॥३॥

यं वै सूर्यं स्वर्भानुस्तमसा विध्यदासुरः अत्रयस्तमन्वविन्दन्न ह्य १ न्ये अशक्नुवन्निति स्वरसामानो ह वा एतेनाभ्युक्ताः कद्वन्ति मरुत्वतीयानि भवन्ति कद्वन्तौ निष्केवल्येषु प्रगाथाःको वै प्रजापतिः प्रजापतिः स्वरसामान आनुष्टुभानि निविद्धानानि भवन्त्यापो वा अनुष्टुबापः स्वरसामानोऽद्भिर्हीदं सर्वमनुस्तब्धमुभयतो ह्यमुमादित्यमापोऽवस्ताच्चोपरिष्टाच्च तदेतदृचाऽभ्युदितम्॥४॥

या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इत्या यज्ञैर्देवमर्त्य इति प्रथमस्य स्वरसाम्न आज्यमावद्राथन्तरं बृहद्वयो हि मानवइति द्वितीयस्य बृहद्बार्हतमग्न ओजिष्ठ मा भरेति तृतीयस्यावद्राथंतरं माधुच्छन्दसः प्रथमस्य स्वरसाम्नः प्रउगो गार्त्समदो द्वितीयस्यौष्णिह आत्रेयस्तृतीयस्य तेषामुक्तं ब्राह्मणमन्वायत्ता मरुत्वतीयानां प्रतिपदनुचरा अन्वायत्ता ब्राह्मणस्पत्यास्त्र्यहरूपेण तेषामुक्तं ब्राह्मणंक्वस्य वीरः को अपश्यदिन्द्रमिति प्रथमस्य स्वरसाम्नो मरुत्वतीयं क्वेति कद्वत्कया शुभासवयसः सनीला इति द्वितीयस्य कथेतिकद्वद्गायत्साम नभन्यं यथावेरिति तृतीयस्य ताकर्मापतरास्मा इतिकर्मेति कद्वत्को वै प्रजापतिः प्रजापतिः स्वरसामानो यज्जायथा अपूर्व्येत्येतस्मिन्नु हैके बृहती तृतीये स्तोत्रियेऽन्वहं स्वराण्यन्वायातयन्तिते यदि तथा कुर्युरेतावेव स्तोत्रियानुरूपावेषा धाय्या कं नव्यो अतसीनामिति कद्वान्प्रगाथस्तस्योक्तं ब्राह्मणम्॥५॥

अथ रथंतरस्य योनिर्यमिन्द्र दधिषे त्वमिति द्वृचोनैकपातितायैनेदसौ बृहत्येकाकिनी वशस्त्वासदितीन्द्र तुभ्यमिन्मघवन्नभूमेति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं यस्ते साधिष्ठो वस इत्यानुष्टुभंनिष्केवल्यमिन्द्रक्रतुष्टमा भेरत्यावद्राथंतरं कदून्वस्याकृतमिति कद्वान्प्रगाथस्तस्योक्तं ब्राह्मणम्॥६॥

अथ बृहतो योनिः स्वरन्ति त्वा सुते नर इति द्वृचोनैकपातितायैनेदसौ बृहत्यैकाकिनीवशस्त्वासदित्यध्वर्यो वीर प्रमहे सुतानामितिविज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं गायन्ति त्वा गायत्रिणइत्यानुष्टुभं निष्केवल्यमुद्वंशमिव येमिर इत्युद्वाद्बार्हतमिमा उ त्वा पुरूवसो३ इति प्रगाथः पावकवर्णाः कवर्णा इति कद्वांस्तस्योक्तं ब्राह्मणम्॥७॥

अथ रथंतरस्य योनिरथ बृहतो दानामृगो न वारण इति द्वृचोनैकपातितायै नेदसौ बृहत्येकाकिनीवशस्त्वासदितीदं त्यत्पात्रमिन्द्रपानमिति विज्ञातत्रैष्टुभंसवनधरणं तस्योक्तं ब्राह्मणमिन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं निष्केवल्यं त्वामभि प्रणोनुम इत्यभिवाथंतरं रूपं तदाहुर्नानुष्टुप्सु निविदं दध्यान्मोहयति क्लृप्तच्छन्दसो मध्यंदिनमानुष्टुभानि पूर्वाणि शस्त्वा कामस्योपाप्त्यै त्रैष्टुभेषु निविदं दधाति तथा यथायथंनिविद्धीयते सैनान्यथायथं धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषुयथायथं दधात्यर्वाग्रथं विश्ववारं त उग्रेति प्रथमेऽहन्नावति राथंतरेपादित उदुनश्चित्रतम इति द्वितीय उद्वति बार्हते संचत्वे जग्मुर्गिर इन्द्रपूर्वीरिति तृतीये गतवत्यन्तरूपे यदि स्वराणि पृष्ठ्यानि भवन्ति बृहद्रथंतरे एव तर्हि सामगाः पवमानेषु कुर्वन्ति यद्यु बृहद्रथंतरे पृष्ठेस्यातां स्वराणि त्वेव तर्हि सामगाः पवमानेषु कुर्वन्ति स्वराणि त्वेवपृष्ट्यानि स्युरिति ह स्माऽऽह कौपीतकिः स्वरसामानो ह्येते पृष्ठ्यैर्वै देवाःस्वर्गं लोकमस्पृक्षंस्तद्यत्स्वराणि पृष्ठ्यानि भवन्ति स्वर्गस्यैवलोकस्य स्पृष्ट्यै॥८॥

पृष्ठ्यस्य षलहस्य समूल्हस्य याः पूर्वस्य त्र्यहस्य वैश्वदेवानां प्रतिपदस्ताःप्रतिपदो यान्युत्तरस्य त्र्यहस्य तृतीयसवनानि तानि तृतीयसवनानि सानुचराणि तद्यानि तत्र वैश्वदेवानि भवन्ति तान्युद्धृत्यान्यानि प्राजापत्यान्यनिरुक्तानि परोक्षवैश्वदेवान्यवधीयन्ते प्र वः पान्तंरघुमन्यवोऽन्धस्तं प्रत्नथा पूर्वथा विश्वथेमथा कदित्थानृृःँपात्रं देवयता-

मिति प्रति नामानेदिष्ठस्तद्वै खलु प्रत्यक्षं वैश्वदेवान्येवावधीयेरन्नग्निरिन्द्रो वरुणो मित्रो अर्यमेति प्रथमेऽहन्द्यां स्कभित्वीति कद्वद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति द्वितीये ज्योतिष्कृत इति कद्वदुषासा नक्ता बृहती सुपेशसेति तृतीये नक्तेति कद्वत्को वै प्रजापतिः प्रजापतिः स्वरसामानस्तेऽग्निष्टोमा वोक्थ्याहः संतिष्ठतेऽग्निष्टोमा इति पैड्ग्यं ब्रह्मवर्चसिनो भवन्तियोऽग्निष्टोमानुपयन्त्युक्थ्याः स्युरिति ह स्माऽऽह कौषीतकिः स वै यज्ञक्रतुः समृद्धो य उक्थ्यः पञ्चदश ह्यस्य स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि तानि त्रिंशत्सुतशस्त्राणि स विराजमभिसंपद्यते श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै श्रियो विराजोऽन्नाद्यस्योपाप्त्यै॥९॥

इति शाङ्खायनब्राह्मणे चतुर्विंशतितमोऽध्यायः॥२४॥

____________

हरिः ॐ। आपस्तपोऽतप्यन्त तास्तपस्तप्त्वा गर्भमदधत तत एषआदित्योऽजायत षष्ठे मासि तस्मात्सत्रिणः षष्ठे मासि दिवाकीर्त्यमुपयन्ति स षण्मासानुदङ्ङेति षलावृत्तांस्तस्मात्सत्रिणः षलेवोर्ध्वान्मासोयन्ति षलावृत्तानन्तरेणोह वा एतमशनाया च पुनर्मृत्युश्चापाशनायां चपुनर्मृत्युं च जयन्ति ये वैषुवतमहरुपयन्ति तस्यैतानि च्छन्दोरूपाणि सूर्यवद्भानुमज्ज्योतिष्मद्रुक्मवद्रुचितवद्धर्यतवदिति समुद्रादूर्मिर्मधुमाँ उदारदित्याज्यं समुद्राद्ध्येषोऽद्भ्य उदैन्तीद्र एकं सूर्य एकं जजानेति सूर्यवत्तदेतस्याह्नो रूपं ताः संशस्ता एकविंशतिरनुष्टुभः संपद्यन्त एकविंशोवा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति त्रैष्टुभः प्रउगो विषुवान्वा एषोऽह्नां विषुवांश्छन्दसां त्रिष्टुप्तदेनं स्वेन च्छन्दसासमर्धयति॥१॥

कुविदङ्ग नमसा ये वृधास इति वायव्यमवासयन्नुषसं सूर्येणेति सूर्यवत्तदेतस्याह्नो रूपमत एवोत्तरं तृचमैन्द्रवायवं यावत्तरस्तन्वो यावदोजइति यावन्नरश्चक्षसा दीध्याना इत्येतेन रूपेणोद्वां चक्षुर्वरुण सुप्रतीकमिति मैत्रावरुणं देवयोरेति सूर्यस्ततन्वानिति सूर्यवत्तदेतस्याह्नो रूपमा गोमता नासत्या रथेनेत्याश्विनं तस्योर्ध्वं भानुं सविता देवोअश्रेदिति भानुमती तृतीया तदेतस्याह्नो रूपमा नो देव शवसा याहिशुष्मिन्नित्यैन्द्रं तनूषु शूराः सूर्यस्य साताविति सूर्यवत्तदेतस्याह्नो रूपं

प्र ब्रह्मैतु सदनादृतस्येति वैश्वदेवं विरश्मिभिः ससृजे सूर्यो गा इति सूर्यवत्तदेतस्याह्नो रूपमुतस्यानः सरस्वती जुषाणेति सारस्वतं द्वारा वृतस्यसुभगे व्यावरित्येतेन रूपेणैष वा उ सूर्यवांस्त्रैष्टुभस्तूचक्लृप्तो वासिष्ठःप्रउगः प्रजापतिर्वै वसिष्ठः प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति॥२॥

तदाहुर्न त्रैष्टुभं प्रातःसवनं स्यान्मोहयति क्लृप्तच्छन्दसो यज्ञमुखमैकाहिकमेव स्याज्ज्योतिर्वा एकाहो ज्योतिरेष य एष तपति ज्योतिषैवतज्ज्योतिः समर्धयति तस्य प्रवो देवायाग्नये त्वं हि क्षैतवद्यश इत्येते उभेतदाज्यं ताः शंसस्ता एकविंशतिरनुष्टुभो भवन्ति तासामुक्तं ब्राह्मणं माधुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणमा त्वा रथं यथोतय इति मरुत्वतीयस्यप्रतिपदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तंब्राह्मणं कया शुभा सवयसः सनीला इति मरुत्वतीयं शुभाभा इत्येतेन रूपेण त्यं सुमेषं महया स्वर्विदमिति जागतमधारयो दिव्या सूर्यं दृश इति सूर्यवत्तदेतस्याह्नो रूपं जनिष्ठा उग्रः सहसे तुरायेत्येतस्मिंस्त्रैष्टुभे निविदं दधात्यपध्वान्तमूर्णुहि पूर्धि चक्षुरित्येतेन रूपेण ता वा उभय्यस्त्रिष्टुब्जगत्यः शस्यन्ते त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यःप्रतिष्ठितस्तपति तदेनं प्रत्यक्षमाप्नुवन्ति॥३॥

बृहदेतस्याह्नः पृष्ठं स्यादिति हैक आहुर्बार्हतो वा एष य एष तपतिबृहदेतत्तपतीति वदन्तोऽथो अपृष्ठं वा एतद्यन्महादिवाकीर्त्यमथैते एवप्रत्यक्षे पृष्ठे यद्बृहद्रथंतरे तस्माद्बृहदेवैतस्याह्नः पृष्ठं स्यादिति यद्यु सूर्यवति प्रगाथे बृहत्कुर्युः सूर्यवतश्च प्रगाथानेतस्यैवाह्नो रूपेणेन्द्रः किलश्रुत्या अस्य वेदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्यायेति सूर्यवतीतदेतस्याह्नो रूपं महादिवाकीर्त्यमेवैतस्याह्नः पृष्ठं स्यादिति सा स्थितिरेतद्वै प्रत्यक्षं साम यन्महादिवाकीर्त्यं तदेनं स्वेन साम्ना समर्धयन्ति तद्धैकेत्रिष्टुप्सु कुर्वन्ति त्रैष्टुभो वा एष य एष तपति तदेनं स्वेन च्छन्दसासमर्धयन्ति बृहतीषु स्यादिति हैक आहुर्बार्हतो वा एष य एष तपतितदेनं स्वेन च्छन्दसा समर्धयन्ति जगतीषु स्यादिति त्वेव स्थितं जागतोवा एष य एष तपति तदेनं स्वेन च्छन्दसा समर्धयन्ति॥४॥

विभ्राड्बृहत्पिबतु सोम्यं मध्विति स्तोत्रियस्तृचो विश्वभ्राड्भ्राजो महि सूर्यो दृश इति विवान्भ्राजिष्मान्सूर्यवांस्तदेतस्याह्नो रूपं विसूर्यो मध्ये अनुचद्रथं दिव इत्यनुरूपो विवान्सूर्यवाञ्जागत उ वै समानंछन्दो विश्वाहा त्वा सुमनसः सुचक्षस इति त्वेव स्थितः सौर्यः

सूर्यस्य ज्योग्जीवाः प्रतिपश्येम सूर्येत्येतेन रूपेण बण्महाँ असि सूर्येतिसूर्यवान्सामप्रगाथस्तदेतस्याह्नो रूपमथ बृहद्रथंतरयोर्योनी शंसतीन्द्रःकिल श्रुत्या अस्य वैदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्यायेति सूर्यवती तदेतस्याह्नो रूपं शं नो भव चक्षसा शं नो अह्नेतित्वेव स्थिता सौरी सूर्यस्य तत्सूर्य द्रविणं धेहि चित्रमित्येतेन रूपेणय एक इन्द्रव्यश्चर्षणीनामिति त्रैष्टुभं दिव्यानि दीपयोऽन्तरिक्षेत्येतेन रूपेणैवं नु यदि महादिवाकीर्त्यपृष्ठंभवति यद्यु वै बृहत्स्वयोनौकुर्युर्बृहत आतानं शस्त्वा रथंतरस्य योनिं शंसतीन्द्रः किल श्रुत्या अस्यवेदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्यायेति सूर्यवती तदेतस्याह्नो रूपम्॥५॥

द्यौर्न य इन्द्राभिभूमार्य इति त्रैष्टुभमिन्द्रः कुत्साय सूर्यस्य सातावितिसूर्यवत्तदेतस्याह्नो रूपं नचेत्स्वयोनौ श्रायन्त इव सूर्यमिति सूर्यवांस्तोत्रियस्तदेतस्याह्नो रूपं यद्द्याव इन्द्र ते शतमित्यनुरूपः सहस्रं सूर्या इतिसूर्यवांस्तदेतस्याह्नो रूपं यः सत्रा हा विचर्षणिरिति सामप्रगाथस्तनूष्वप्सुसूर्य इति सूर्यवांस्तदेतस्याह्नो रूपमथ बृहद्रथंतरयोर्योनिं शंसतीन्द्रः किलश्रुत्या अस्य वेदेत्युक्थमुखीया तस्या उक्तं ब्राह्मणं य एक इद्धव्यश्चर्षणीनामिति त्रैष्टुभं तस्योक्तं ब्राह्मणमेवं नु यदि बृहत्स्वयोनौवा स्वयोनौ वाकुर्युरनुभयसामानं चेत्कुर्युः समानमोक्थमुखीयाया उद्धरेबृहद्रथंतरयोर्योनी तमुष्टुहि यो अभिभूत्योजा इति त्रैष्टुभं गीर्भिर्वर्ध वृषभं चर्षणीनामित्येतेन रूपेण समानमुत्तरमभित्यं मेषं पुरुहूतमृग्मियमिति जागतमादित्सूर्यं दिव्या रोहयो दृश इति सूर्यवत्तदेतस्याह्नो रूपं ता वा उभय्यस्त्रिष्टुब्जगत्यः शस्यन्ते त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यः प्रतिष्ठितस्तपति तदेनं प्रत्यक्षं स्पृशन्ति॥६॥

प्र ते महे विदथे शंसिषं हरी ३ इति तस्य नवशस्त्वाहूय निविदं दधात्याविष्कृधि हरये सूर्यायेति सूर्यवत्तदेतस्याह्नोरूपं सर्वहरेश्चतस्रोऽभ्युदैत्यासत्यो यातु मघवाँ ऋजीषीत्येकविंशतिर्महि ज्योती रुरुचुर्यद्धवस्तोरित्येतेन रूपेण ताः पञ्चविंशतिर्विश्वजिते धनजिते स्वर्जित इतिषड्जगत्य इन्द्राय सोमं यजताय हर्यतमित्येतेन रूपेण ता एकत्रिंशत्तासुजगतीषु दूरोहणं रोहति जागतो वा एष य एष तपति यजमानादूरोहण एतमेव तद्यजमाना रोहन्ति पच्छः प्रथमं रोहति तदिमंलोकमाप्नोत्यर्धर्चशो द्वितीयं तदन्तरिक्षलोकमाप्नोति त्रिपच्छस्तृतीयं

तदमुं लोकमाप्नोति केवलीं स आवेशस्त्रिपच्छोऽर्धर्चशः पच्छस्तदस्मिल्लोँके प्रतितिष्ठति प्रतिष्ठायामप्रच्युत्यां सैषा दूरोहणीया शंसस्ताः सप्तसंपद्यन्ते ता अष्टत्रिंशदेष प्रपूर्वीरवतस्य च म्रिष इति जागतं षलृचमिन्द्रं सिषक्त्युषसं न सूर्य इति सूर्यवत्तदेतस्याह्नो रूपं ताश्चतुश्चत्वारिंशत्पतङ्गमक्तमसुरस्य माययेति तिस्रस्तां द्योतमानां स्वर्यं मनीषामित्येतेन रूपेणताः सप्तचत्वारिंशदुरुं नो लोकमनुनेषि विद्वानिति त्रिःशस्तया परिधानीयया स्वर्वज्ज्योतिरभयं स्वस्तीत्येतेन रूपेण ताः पञ्चाशत्पूर्वाएकपञ्चाशत्ता एकशतमृचो भवन्ति शतायुर्वै पुरुषः शतपर्वा शतवीर्यः शतेन्द्रिय उपयैकशततमी स यजमानलोकस्तदत्रैव यजमानान्संस्कुर्वन्तितदत्रैव यजमानान्त्संस्कृत्याऽऽदौ महाव्रतीयेनाह्ना प्रजनयतीति पैङ्गीसंपत्॥७॥

अथ कौषीतकी समानमोक्थमुखीयाया ऋतुर्जनित्रीयमुद्धृत्य बृहद्रथंतरे तस्यैवैकादश स्वयोनौ नवान्यत्र तद्रूपामिनं तदपा एक ईयतइत्येतेन रूपेणेन्द्र याहि हरिभिरिति पञ्चदश सरूपैरासुनोगहीत्येतेनरूपेण बरोरेकादश शस्त्वा सर्वहरेर्वा निविदं मध्य एकशतस्यैकपञ्चाशतं शस्त्वा द्वेबरोरभ्युदैति सर्वहरेर्वाऽऽसत्यो यातु मघवां ऋजीषीत्येकविंशतिस्तास्त्रयोविंशतिर्विश्वजित इति षट्ताएकयानस्त्रिंशद्दूरोहणीयाःसप्त ताः षड्त्रिंशद्भूरेको रयिपते रयीणामिति त्रैष्टुभं पञ्चर्चं दशप्रपित्वे अधसूर्यस्येति सूर्यवत्तदेतस्याह्नो रूपं ता एकचत्वारिंशत्त्यमूषुवाजिनं देवजूतमिति तिस्रः सूर्य इव ज्योतिषाऽपस्ततानेत्येतेन रूपेणताश्चतुश्चत्वारिंशत्पतङ्गस्तिस्रस्ताः सप्तचत्वारिंशदुरुं नो लोकमनुनेषिविद्वानिति त्रिःशस्तया परिधानीयया ताः पञ्चाशत्पूर्वा एकपञ्चाशत्ताएकशतमृचो भवन्ति तासामुक्तं ब्राह्मणम्॥८॥

तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति नित्यैव वैश्वदेवस्य प्रतिपच्चानुचरश्च तयोरुक्तं ब्राह्मणं युञ्जते मन उत युञ्जते धिय [इति]सावित्रमुतसूर्यस्य रश्मिभिः समुच्यसीति सूर्यवत्तदेतस्याह्नो रूपं ते हि द्यावापृथिवीविश्वशंभुवेति द्यावापृथिवीयं देवो देवी धर्मणा सूर्यः शुचिरिति सूर्यवत्तदेतस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठोन आजगन्नित्यार्भवं यदा वाऽऽख्यच्चमसां चतुरः कृतानित्यवाऽऽख्यदित्येतेन रूपेण देवान्हुवेबृहच्छ्रवसः स्वस्तय इति वैश्वदेवं ये सूर्यस्य ज्योतिषो भागमानशुरिति सूर्यवज्ज्योतिष्मस्तदेतस्याह्नो रूपं वैश्वानराय धिषणामृतावृध इति

वैश्वानरीयं रुरुचानं भानुना ज्योतिषा महामिति रुचितवद्भानुमज्ज्योतिष्मत्तदेतस्याह्नो रूपं प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं विरोकिणः सूर्यस्येव रश्मय इति सूर्यवत्तदेतस्याह्नो रूपं वेदिषदे प्रियधामायसुद्युत इति जातवेदसीयं ज्योतीरथं शुक्रवर्णं तमोहनमित्येतेन रूपेणेत्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदग्निष्टोमः संतिष्ठते ज्योतिर्वाअग्निष्टोमो ज्योतिरेष य एष तपति ज्योतिषैव तज्ज्योतिः समर्धयन्तितेऽमृतत्वमाप्नुवन्ति ये वैषुवतमहरुपयन्ति॥९॥

॥अर्धः॥

पुराऽऽदित्यस्यास्तमयादेतदहः संस्थापयिषेयुः स प्रातरनुवाकमेतदहर्दिवाकीर्त्यं भवति स प्रातरनुवाकेन स पत्नीसंयाजेनैतेनाह्ना पुरादित्यस्यास्तमयाशमीप्सेयुरग्निं मन्ये पितरमग्निमापिमित्येतया तदहर्होताप्रातरनुवाकं प्रतिपद्यत आपिमित्यापो रेवत्यै रूपेण दिवि शुक्रं यजतंसूर्यस्येति सूर्यवती तदेतस्याह्नो रूपं तदु ह स्माऽऽह कौषीतकिः प्रजापतिर्वै प्रातरनुवाको न तमसा एतद्यथायथमेव तमुपाकुर्यात्तत्तस्य समृद्धंतथा यथायथमुपांश्वन्तर्यामौहूयेते तदु तयोः समृद्धमिति वासिष्ठमाप्री सूक्तं संरश्मिभिस्ततनः सूर्यस्येति सूर्यवत्तदेतस्याह्नो रूपं शुक्ल एतस्याह्नःपिङ्गाक्षो होता स्यादिति हैक आहुरमुं वा एतेनाह्वेप्सन्ति योऽसौतपति तद्यथा श्रेयांसमाहरन्नुपेयादेवं तद्यथोपपादमिति त्वेव स्थितं शस्त्रेणैवैतस्याह्नो रूपमुपेप्सेत्सौर्यः पशुरुपालम्भ्यः सवनीयस्य सउपांशु भवति स यस्तं निर्ब्रूयाद्यस्तं तत्र ब्रूयादुश्चर्मा किलासीद्भविष्यसीति तथा ह स्यात्ते वा एते चत्वार एव पशव उपांशु भवन्तिसौर्यः सावित्रः प्राजापत्यो वाग्देवत्य इत्यथान्ये निरुक्ता अथ स्त्री(त्री)न्स्वरसाम्न आवृत्तानुपयन्ति तेषामुक्तं ब्राह्मणम्॥१०॥

त्रयोदशं वा एतं मासमाप्नुवन्ति यद्विश्वजितमुपयन्त्येतावान्वै संवत्सरो यदेष त्रयोदशो मासस्तदत्रैव सर्वः संवत्सर आप्तो भवतितमाहुरेकाहःषलह इति यद्ध्यन्वहं षलहे क्रियत एकाहे तद्विश्वजिति क्रियते तद्वा इदं बहु विश्वरूपं विश्वजिति क्रियते यत्सर्वाणि पृष्ठ्यानि सर्वे स्तोमा उच्चावचाः समवधीयन्ते वैराजमेवास्य प्रत्यक्षं पृष्ठं भवतिमाध्यंदिने पवमाने रथंतरं बृहत्तृतीये पवमाने क्रियते शाक्वरं मैत्रावरुणस्य वै रूपं ब्राह्मणाच्छंसिनो रैवतमच्छावाकस्य त एतं त्रयोदशमधिचरं मासमाप्नुवन्त्येतद्धि त्रयोदशं पृष्ठ्यान्युपयन्ति तस्याग्निं नरोदीधितिभिररण्योरिति वैराजमाज्यं तस्योक्तं ब्राह्मणं माधुच्छन्दसः

प्रउगस्तस्योक्तं ब्राह्मणमा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुत मन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तंब्राह्मणं कया शुभा सवयस्यःसनीला इति मरुत्वतीयं कद्वत्कया शुभीयं को वै प्रजापतिर्विश्वजिद्यामेवामुं वैराजस्य स्तोत्रियानुरूपौतौ स्तोत्रियानुरूपौ तयोस्तथैव न्यूङ्खयति यथादश्चतुर्थेऽहन्न हि वैराजंतत्स्थानमन्यूङ्खनायैषा धाय्यैषा धाय्यैषोष्ठेन्द्रः प्रगाथोऽथ बृहद्रथंतरयोर्योनी शंसति तदिदास भुवनेषु ज्येष्ठमिति निष्केवल्यं यज्ञो वै भुवनेषुज्येष्ठो यज्ञ उ वै प्रजापतिर्विश्वजिथ यदि षष्ठस्याह्नस्तृतीयसवनं तत्तृतीयसवनं प्राजापत्यं वै षष्ठमहः प्रजापतिर्विश्वजिदैकाहिकी प्रतिपदेकाहो वै विश्वजित्प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवाभिवाननुचरस्तस्योक्तं ब्राह्मणम्॥११॥

तदाहुरथ कस्माद्विश्वजिति सर्वपृष्ठ एका तृतीयसवने शिल्पानिशस्यन्ते कस्मादग्निष्टोमे माध्यंदिन इति ये वा इमेऽवाञ्चः प्राणास्तानिशिल्पानि पुरुषो वै यज्ञस्तस्य य ऊर्ध्वाः प्राणास्तत्प्रातःसवनमात्मा मध्यंदिनो येऽवाञ्चस्तत्तृतीयसवनं तानि शिल्पानि तस्मात्तृतीयसवनेशिल्पानि क्रियन्त एतद्ध्येषामायतनमथ कस्मादग्निष्टोमे सात्रिके सांवत्सरिके विश्वजिति माध्यंदिने शिल्पानि शस्यन्त आत्मा वै पृष्ठ्यानिप्राणाः शिल्पानि न वाऽन्तरेणाऽऽत्मानं प्राणाः ख्यायन्ते न प्राणानन्तरेणाऽऽत्मानो एतन्नाना तस्मादग्निष्टोम एवापि विश्वजिति माध्यंदिनेशिल्पानि शस्यन्ते नेत्प्राणेभ्य आत्मानमपादधानीत्यथो प्रजापतिर्वैविश्वजित्सर्वं वै प्रजापतिर्विश्वजित्तस्मात्सर्वाणि पृष्ठ्यानि क्रियन्ते सर्वाणि शिल्पानि सर्वं वै प्रजापतिर्विश्वजित्तत्सर्वेण सर्वमाप्नोति यएवं वेद॥१२॥

तत्राऽऽग्निमारुते रौद्रींशस्त्वा होतैव या मरुतं पङ्क्तिशं संशंसति पाङ्क्तो वै यज्ञो यज्ञस्यैवाऽऽप्त्यै नेदच्छावाकस्य शिल्पमन्तर्यामित्यथो रुद्रो वैज्येष्ठश्च श्रेष्ठश्च देवानामतिच्छन्दाश्छन्दसां विश्वजिदेकाहानां तदेनं स्वेनच्छदसा समर्धयति तिसृष्वस्य न्यूङ्खयेन्न्यूङ्खयितुं चेन्द्रियेत सर्वाश्चैव न्यूङ्खयेदन्नं वै न्यूङ्खोऽन्नं प्राणाः प्राणाः शिल्पानि प्राणेष्वेव तत्प्राणं दधात्यथोविश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्वमुद्जयत्तस्माद्विश्वजिदेतद्वा एष जायते विश्वजिता यो यजते तस्मान्युङ्खयति न्यूङ्गमानक इव वै प्रथमं चिचरिषश्चरति तदेनममृताच्छन्दसोऽमृतत्वाय प्रजनयति तेऽमृतत्वमाप्नुवन्ति ये विश्वजितमुपयन्ति॥१३॥

स सर्वस्तोमः सर्वपृष्ठोऽग्निष्टोमः संतिष्ठते यः सात्रिकःसांवत्सरिकोविश्वजित्प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्या एवैकाह उ चेद्विश्वजिद्रात्रिसत्रस्य वा विषुवानतिरात्र एव स्यात्स कृत्स्नो विश्वजिद्योऽतिरात्रोर्ध्वंवै विश्वजितोह्ना क्रियतेऽर्धं रात्र्या सर्वपराजिदु हैव स योऽन्यत्र सर्ववेदसाद्वा सत्राद्वा क्रियते सर्वज्यानिर्हैव सा योऽन्यत्रविश्वजितः सर्वं ददाति विश्वजिच्चेत्सर्वमेव सर्वमु चेद्विश्वजिदेव योह वै न सर्वं ददाति सर्वं ददानीति ब्रुवन्गर्तपत्यमेवं तद्धीयते प्रवामीयते इति ह स्माऽऽह सहस्रं वैनमवरुन्ध इति ह स्माऽऽह कौषीतकिः सर्वं वैतद्यत्सहस्रं सर्वं विश्वजित्तत्सर्वेण सर्वमाप्तवानीति॥१४॥

वत्सछवीं परिदधीत रिरिचान इव वा एतस्या आत्मा भवति यःसर्वं ददाति वत्सं वै पशवो वाञ्छन्ति पुनर्मा पशवो वाञ्छानित्युदुम्बरे वसेदूर्वान्नाद्यमुदुम्बर ऊर्जोन्नाद्यस्योपाप्त्यै नैषादेव सेदेतद्वाअवरार्ध्यमन्नाद्यं यन्नैषादोऽवरार्द्ध्यस्यान्नाद्यस्योपाप्त्यै वैश्ये वसेद्वैश्योये पुष्यतीव यद्वैश्येऽन्नाद्यं तस्योपाप्त्यै क्षत्रिये वसेदेतद्वै परार्द्ध्यमन्नाद्यंयत्क्षत्त्रियः परार्द्ध्यस्यान्नाद्यस्योपाप्त्यै ब्राह्मणे समानगोत्रे वसेद्यत्समाने गोत्रेऽन्नाद्यं तस्योपाप्त्यैसंवत्सरं चरेदधः संवेश्य फालकुष्टास्य प्रतिगृह्णन्नान्यं याचन्निदं धत्तमनुवसानं तत्तेनानुवस्ते द्वादशरात्रं चरित्वाथान्यस्यै बुभूषायै स्यादिति ह स्माऽऽह कौषीतकिर्द्वादश वै मासाःसंवत्सरः सा संवत्सरस्य प्रतिमेति प्राजापत्यान्यनिरुक्तानि होत्राणामाज्यानि भवन्ति तस्य तानः शक्तं पार्थिवस्य युञ्जन्ति ब्रध्नमरुषं ताहि शश्वन्त ईलते तमीलिष्वयो अर्चिषेति वा स्तोत्रियाः षष्ठस्याह्नःस्तोत्रियाननुरूपान्कुर्वीरन्प्राजापत्यं वै षष्ठमहः प्रजापतिर्विश्वजिदितरेपञ्च तदुक्तं पर्यासैः परिदधति प्रतिष्ठा वै पर्यासाः प्रतिष्ठित्या एवप्रतिष्ठित्या एव॥१५॥

इति शाङ्खायनब्राह्मणे पञ्चविंशतितमोऽध्यायः॥२५॥

___________

** **हरिः ॐ द्वात्रिंशी प्रथमो मासो द्वात्रिंश्युत्तमो द्वात्रिंशदक्षराऽनुष्टुब्बागनुष्टुप्तद्वाचा प्रयन्ति वाचमनुतिष्ठन्तेऽष्टाविंशिनावभितो विषुवन्तं मासावष्टाविंशत्यक्षरोष्णिगौष्णिह्यो ग्रीवा अथैतच्छिरो यज्ञस्य यद्विषुवान्ग्रीवा एव तत्कल्पयित्वा तासु शिरः प्रतिद्धति तदाहुः कतरेषामेषोऽह्नामवरेषां परेषामिति नावरेषां न परेषामित्याहुरुभयेषां वा एषोऽह्नामुभयानि वैतस्यैतान्यहानि तदाहुः कति षलहः संवत्सर इति षष्टिः षलहाः

षलहशस्तदेतदव्यवलम्बिसंवत्सरायनं तद्य एवं संवत्सरस्याहानि युञ्जन्तित एतान्कामानृध्नुवन्ति ये संवत्सरेऽथ योऽ(ये)तोऽन्यथा संवत्सरस्याहानि युञ्जन्ति न ते तान्कामानृध्नुवन्ति ये संवत्सरेऽथ हैक ऊर्ध्वानेव मासानुपयन्त्यूर्ध्वान्यहान्यूर्ध्वं वा उभयं संवत्सरं रोहाम इति मासाएवाऽऽवर्तेरन्नहानीत्येके य एष पृष्ठ्यः षलहः पुनः परस्तात्पर्येति तेनमासा आवृत्ता इति वदन्तस्तदाहुर्विदूररूपं वा एतद्यत्त्रिवृच्च त्रयस्त्रिंशश्चस्तोमौ तद्यथा गिरिशिखराद्गर्तमभिप्रस्कन्देदेवं तत्स्तोमकृन्तत्रं तस्मादेवाहानि वर्तेरन्नो मासास्तोमकृन्तत्रताया इति॥१॥

अथातो गोआयुषोर्मीमांसा विकृते गोआयुषी उपेयुरहोरात्रे वैगो आयुषी विकृते वा इमे अहोरात्रे अन्योन्यस्मिन्नथो द्यावापृथिवीवै गोआयुषी विकृते वा इमे द्यावापृथिवी अन्योन्यस्मिन्नथो प्राणापानौ वै गोआयुषी विकृतौ वा इमौ प्राणापानावन्योन्यस्मिन्प्रत्यतिष्ठत ते हैक ऊर्ध्वे उपयन्त्यूर्ध्वे उपेतव्ये गोआयुषी इत्यन्वाभिप्लविकाः स्तोमा आवर्तन्ते दशरात्रमनुपृष्ठ्यस्तोमा इति वदन्तस्तदाहुर्यदेवेदं द्वितीयमर्हयच्च तृतीयमेते वा उ गोआयुषी॥२॥

अथ कश्चिच्छस्त्रेवाऽनुवचने वा प्रमत्त उपहन्याद्विचिकित्सा वास्यादुपहतमबुद्धमतिक्रान्तं मन्यमानो मनसा वृत्तान्तमीक्षमाणो विनिवृत्त्योपहतमनुपहतं कृत्वाऽऽनन्तर्यात्प्रयोगः स्याद्वृत्तान्तादिति मीमांसन्तेऽथ ह स्माऽऽह पैङ्ग्योनानन्तर्यात्प्रयोगः स्यादतिरिक्तो वा एष मन्त्रः स्याद्यो वचना[द्]द्विरुच्येत तस्मान्नाऽऽनन्तर्यात्प्रयोगः स्यादिति हस्माऽऽह पैंग्योऽथ ह स्माऽऽ[ह] कौषीतकिः परिमितफलानि वा एतानिकर्माणि येषु परिमितो मन्त्रगणः प्रयुज्यतेऽथापरिमितफलानि येष्वपरिमितो मन्त्रगणः प्रयुज्यते मनो वा एतद्यदपरिमितं प्रजापतिर्वै मनोयज्ञ उ वै प्रजापतिः स्वयं वैतद्यज्ञो यज्ञस्य जुषते यन्मनो मनसस्तस्मादानन्तर्यात्प्रयोगः स्यादिति ह स्माऽऽह पैंग्योऽथ ह स्माऽऽह कौषीतकिर्मित ह वै मितेन यजत्यमितममितेनापरिमितस्यावरुद्ध्या अनुल्बणममेतदिति ह स्माऽऽहकौषीतकिर्नाऽऽहुतिं जुहुयात्तथा ह यजमानःस्वर्गल्लोँकान्सर्वान्कामान्सर्वा इष्टीः सर्वं चाऽमृतत्वमाप्नोति सर्वेषांच भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति यश्चैवं क्रियते॥३॥

अथ यद्यूर्ध्वंपरिधानात्प्रणववषट्कारयोर्वोर्ध्वं याज्यापुरोनुवाक्ययोर्बुध्येतातिक्रान्तमुल्बणमेतस्यां वेलायां भवतीति ह स्माऽऽह प्रागहिस्त-

स्मान्नैतस्यां वेलायामतिक्रान्तमुल्बणं सदस्यो बोधयेतेति ह स्माऽऽहपैंग्यःस्थाणुं वर्छति गर्ते वा पतति धीयते वा प्र वा मीयत इति हस्माऽऽह यद्यतिक्रान्तमुल्बणं द्य [स] दस्यो बोधयेत कृतस्यानावृत्तिरिति ह स्माऽऽहाऽऽरुणिर्गुणलोप इति श्वेतकेतुस्तस्मान्नातिक्रान्तमुल्बणं सदस्यो बोधयेतेति ह स्माऽऽह पैंग्योंऽहो वा एतद्यज्ञस्ययद्यतिक्रान्तमुल्बणं सदस्यो बोधयेतेति हैक आहुस्तस्मान्नातिक्रान्तमुल्बणं सदस्यो बोधयेतेति ह स्माऽऽह पैंग्यः॥४॥

अथ ह स्माऽऽह दैवोदासः प्रतर्दनो नैमिषीयाणां सत्रमुपगम्योपास्यद्यविचिकित्सां पप्रच्छ यद्यतिन्क्रातमुल्बणं सदस्यो बोधयेतर्त्विजां वाऽन्यतमो बुध्येत कथं वोऽनुल्बणं स्यादिति त उ ह तूष्णीमासुस्तेषामलीकयुर्वाचस्पतो ब्रह्मा स सहोवाच नाहमेतद्वेद हन्त पूर्वेषामाचार्यंस्थविरं जातूकर्ण्यं पृच्छानीति तं ह पप्रच्छ यद्यतिक्रान्तमुल्बणं कर्तावा स्वयं बुध्येतान्यो वा बोधयेत कथं तदुल्बणमनुल्बणं भवेत्पुनर्वचनेन वा मन्त्रस्य होमेन वेति पुनर्वाच्यो मन्त्र इति ह स्माऽऽह जातूकर्ण्यस्तमृलीकयुः पुनः पप्रच्छ शस्त्रं वा अनुवचनं वा निगदं वा याज्यांवा यद्वाऽन्यत्सर्वं तत्पुनर्ब्रूयादिति यावन्मात्रमुल्बणं तावद्ब्रूयादृचंवाऽर्धर्चं वा पादं वा पदं वा वर्णं वेति ह स्माऽऽह जातूकर्णो(र्ण्यो)ऽथ ह स्माऽऽहकौषीतकिर्नमन्त्रं पुनर्ब्रूयान्नाऽऽहुतिं जुहुयादनुल्बणमेतदिति ह स्माऽऽह कौषीतकियेद्धि होतारो यज्ञस्य किंचित्तदुल्बणमबुध्यमानाः कुर्वन्ति सर्वं तदग्निर्देवो होता अनुल्बणं करोति तदेतदृचाऽभ्युदितम्॥५॥

यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः। अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजातीति यच्चाऽऽह संस्थिते यज्ञेऽयाद्यज्ञं जातवेदा इत्ययाक्षीदिमं यज्ञं जातवेदा इति तदाहान्तरः पूर्वो अस्मन्निषद्येति यदाहाग्निर्ह देवो होता मानुषाद्धोतुःपूर्वोनिषद्य यजत इति तदाहाऽऽशिषमेवोत्तरेणार्धर्चेन वदतिपूर्वया चर्चा॥६॥

षष्ठे वा अहन्देवाः स्तोमांश्च मासांश्चाऽऽप्नुवंस्तानाप्तान्स्तोमानेतानेवपृष्ठ्यस्तोमान्द्वंद्व समास्यन्कुतो ह्यन्यं स्तोममाहरिष्यन्नथैतौ [त्रि]बृत्पञ्चदशौ स्तोमौसप्तममहर्वहतश्चतुर्विंशस्तोमो भूत्वाऽथैतौ सप्तदशत्रिणवौ स्तोमावष्टममहर्वहतश्चतुश्चत्वारिंशस्तोमो भूत्वाऽथैतावेकविंशत्र-

यस्त्रिंशौ स्तोमौनवममहर्वहतोऽष्टाचत्वारिंशस्तोमो भूत्वा तेषांगायत्र्या प्रथमो मितस्त्रिष्टुभा द्वितीयो जगत्या तृतीयस्तद्यच्छन्दोभिर्मितास्तस्माच्छन्दोमा अथ याः षट्स्तोत्रिया अष्टाचत्वारिंशं स्तोममतियन्ति तास्ता ऋतव इत्याहुः षलृतवस्ताभिर्दशम महस्तायते॥७॥

अन्तो वै षष्ठमहरथ पुनस्ततिरेव सप्तममहस्तस्मात्ततवन्ति सप्तमेऽहं(हन्) सूक्तानि शस्यन्ते प्रायणीयरूपेण पुनः प्रायणीयं हि सप्तममहः प्रवः शुक्राय भानवे भरध्वमित्याज्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्रवीरयाशुचयो दद्रिरेवामितिवायव्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमत एवोत्तरंतृचमैन्द्रवायचं ते सत्येन मनसा दीध्याना इति स्वेन युक्तासः क्रतुनावहन्तीति युक्तवद्युक्तवद्वै प्रथमस्याह्नो रूपमुद्वां चक्षुर्वरुण सुप्रतीकमितिमैत्रावरुणं देवयोरेति सूर्यस्ततन्वानिति ततवत्ततवद्वै सप्तमस्याह्नो रूपमागोमता नासत्यारथेनाऽऽनो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्रक्षोदसा धायसा सस्र एषेत्येति वा वै प्रेति वा प्रायणी[य] रूपं तस्मादावन्ति च प्रवन्ति च सप्तमेऽहन्त्सूक्तानि शस्यन्ते प्रायणीयरूपेणपुनः प्रायणीयं हि सप्तममहस्तदाहुर्यत्किंच च्छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शस्त्रं गायत्र्यै रूपेणाथो प्रातः सवनरूपेणेति तदु ह स्माऽऽह कौषीतकिर्न त्रिष्टुब्जगत्यावेतत्स्थानेऽर्धर्चशः शस्याय यद्यपिप्रातःसवने युज्येयातां पच्छ एवैनयोः शस्त्रमिति सा स्थितिर्बृहत्पृष्टंराथंतरं शस्त्रं तन्मिथुनं प्रजात्यै रूपमन्वायत्ता मरुत्वतीयानां प्रतिपदनुचरा अन्वायत्ता ब्राह्मणस्पत्यास्त्र्यहरूपेण तेषामुक्तं ब्राह्मणम्॥८॥

कयाशुभा सवयसः सनीला इति मरुत्वतीयं तदेतत्संज्ञा श्रीसूक्तमेतेन हेन्द्रश्चमरुतश्च समजानतामभिसंजानते ह वा अस्मै स्वाश्रैष्ठ्याय य एवं वेद कया मती कुत एतास एत इत्यावद्राथंतरं त्यं सुमेषं महयास्वर्विदमिति जागतमेन्द्रं ववृत्यामवसे सुवृक्तिभिरित्यावद्राथंतरं तदाहुर्यद्रथंतरं पृष्ठं सप्तमस्याह्न आयतनेनाथ कस्मादन्वहं बृहत्क्रियतइति तानि वा एतानि महांस्तोमान्यहानि भवन्ति तस्मादन्वहं बृहत्क्रियत एतेषामेवाह्नां सबलताया एतेषां स्तोमानामसमल्लतायै बृहत आतानंशस्त्वा रथंतरस्य योनिं शंसति नाऽऽहैव नः पिता योऽन्यवादं सैवासीदिति ह स्माऽऽह कौषीतकिर्यत्र तु क्व चैते सामनी समानेऽहन्संनिवपनेयातामन्वेव तत्रेतरस्येतरस्य वा योनिमनुशंसेद्यक एवरथंतरं कुर्युर्नास्य योनिमनुशंसेन्न ह्यन्येषां पृष्ठ्यानां योनिः शस्या भव-

तीति ह स्माऽऽह कौषीतकिस्तमु ष्टु हि यो अभिभूत्योजा अभित्यं मेषं पुरुहूतमृग्मियमिति [त्रै]ष्टुभजागते सूक्ते उभे अभिवती तद्राथंतरंरूपं द्वे द्वे सूक्ते निष्केवल्यमरुत्वतीययोः शस्येते प्रथमे छन्दोमे द्विपाद्यजमानः प्रतिष्ठित्यै तानि चत्वारि संपद्यन्ते पशवो वै छन्दोमाश्चतुष्टयावै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै॥९॥

तत्सवितुर्वरेण्यमिति सावित्रं धियो यो नः प्रचोदयादिति प्रवत्मवद्वै प्रथमस्याह्नो रूपं प्रेतां यज्ञस्य शंभुवेति द्यावापृथिवीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमयं देवाय जन्मन इत्यार्भवं स्तोमो विप्रेभिरासयेत्यावदावद्वै प्रथमस्याह्नो रूपमृजुनीती नो वरुण इति पञ्चर्चवैश्वदेवं नीतवन्नीतवद्वै सप्तमस्याह्नो रूपमायाहि वनसा सहेति द्विपदा आवदावद्वै प्रथमस्याह्नोरूपमोमासश्चर्षणी धृत इति वैश्वदेवं विश्वे देवास आगतेत्यावदावद्वै प्रथमस्याह्नो रूपं गायत्रं गायत्रतृतीयसवनो ह्येष त्र्यहो वैश्वानरो न ऊतय इति वैश्वानरीयमा प्रयातु परावत इत्यादावद्वै प्रथमस्याह्नो रूपं प्रयद्वस्त्रिष्टुभमिषमिति मारुतं प्रवत्प्रवद्वै प्रथमस्यान्हो रूपमर्चन्तस्त्वाहवामह इति जातवेदसीयं त्वया यज्ञं वितन्वत इति ततवत्ततवद्वै सप्तमस्याह्नोरूपं गायत्रं गायत्रतृतीयसवनो ह्येष त्र्यह इत्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽप्तिर्या प्रथमस्याह्नः॥१०॥ अर्धः॥

अयं लोकः प्रथमश्छन्दोमोऽन्तरिक्षलोको द्वितीयोऽसौ लोकउत्तमस्तस्मान्महद्वन्ति मध्यमेऽहन्सूक्तानि शस्यन्ते महद्धीदमन्तरिक्षमथोअभ्यारब्धवन्ति स्युः परमे वै तदहरभिवदति परमे वै तदहरभ्याऽऽरभ्यवसन्तीति ह स्माऽऽह कौषीतकिरग्निं वो देवमग्निभिः सजोषा इत्याज्यं यदा महः संवरणाद्व्यस्थादिति महद्वत्सदभ्यारब्धवत्कुविदङ्ग नमसा ये वृधास इति वायव्यं महद्वद्वृद्धवन्महद्वन्महद्वद्ध्येतदहरत एवोत्तरंतृचमैन्द्रवायवं यावत्तरस्तन्वो यावदोज इति यावन्नरश्चक्षसा दीध्याना इत्यभ्यारब्धवत्प्रति वां सूर उदिते सूक्तैरिति मैत्रावरुणं मित्रं हुवे वरुणं पूतदक्षमिति महद्वत्सदभ्यारब्धवदपस्वसुरुषसो नग्जिहीत इत्याश्विनमश्वा मघा गोमघा वां हुवेमेति महद्वत्सदभ्यारब्धवदयं सोम इन्द्र तुभ्यंसुन्व इत्यैन्द्रं ब्रह्मन्वीर ब्रह्म कृतिं जुषाण इत्यभ्यारब्धवत्प्र ब्रह्माणोअङ्गिरसो न क्षन्तेति वैश्वदेवं प्रक्रन्दनुर्नभन्यस्येवेत्वित्यभ्यारब्धवदुतस्यानः सरस्वती जुषाणेति सारस्वतं वर्धशुभ्रे स्तुवते रासि वाजा-

निति वृद्धवन्महद्वन्महद्वद्ध्येतदहा राथंतर पृष्ठं बार्हतं शस्त्रं तन्मिथुनंप्रजात्यै रूपम्॥११॥

महाꣳइन्द्रोनृवदाचर्षणि प्रा इति त्रैष्टुभानां प्रथमं मरुत्वतीयानांमहद्वन्महद्वद्ध्येतदहरिमा उ त्वा पुरुतमस्य कारोरिति द्वितीयं हव्यंवीर हव्या हवन्त इति महद्वत्सदभ्यारब्धत्क्वस्य वीरः को अपश्यदिन्द्रमिति तृतीयं सुखं रथमीयमानं हरिभ्यामिति महद्वत्सदभ्यारब्धवन्महश्चित्वमिन्द्र यत एतानिति चतुर्थं महश्चिदसि त्यजसो वरूतेति महद्वत्सददभ्यारब्धवत्तमस्य द्यावापृथिवी स चेतसेति जागतं पञ्चमं यदैत्कृण्वानोमहिमानमिन्द्रियमिति महद्वत्सदभ्यारब्धवत्त्वं महाꣳइन्द्र तुभ्यं हक्षा इति त्रैष्टुमानां प्रथमं निष्केवल्यानां महद्वन्महाद्व्यद्ध्येतदहस्त्वं महाꣳ इन्द्र यो ह शुष्मैरिति द्वितीयं महद्वत्सदभ्यारब्धवदपूर्व्या पुरुतमान्यस्माइति तृतीयं महे वीराय तवसे तुरायेति महद्वत्सदभ्यारब्धवत्तां सुतेकीर्ति मघवन्महित्वेति चतुर्थं महद्वत्सदभ्यारब्धवदिमां ते धियं प्रभरेमहो महीमिति जागतं पञ्चमं महद्वत्सदभ्यारब्धवत्पञ्च पञ्च सूक्तानिनिष्केवल्यमरुत्वतीययोः शस्यन्ते मध्यमे छन्दोमे पशवो वै छन्दोमाः पाङ्क्ताःपशवः पशूनामेवाऽऽप्त्यै॥१२॥

हिरण्यपाणिमूतय इति सावित्रमपान्नपातमवस इत्यभ्यारब्धवन्मही द्यौः पृथिवी च न इति द्यावापृथिवीयं महद्वन्महद्वद्ध्येतदहर्युवानापितरा पुनरित्यार्भवमिन्द्रेण च मरुत्वतादित्येभिश्च राजभिरित्यभ्यारब्धवद्देवानाभिदवो महदिति नवर्चंवैश्वदेवं वामं नो अस्त्वर्यमन्वामं वरुणशंस्यमिति महद्वत्सदभ्यारब्धवदिमा नु कं भुवनासीषधामेति द्विपदा इन्द्रश्चविश्वे च देवा इत्यभ्यारब्धयद्विश्वेदेवा ऋतावृध इति वैश्वदेवंवृद्ववन्महद्वन्महद्वद्ध्येतदहर्गायत्रं गायत्रतृतीयसवनो ह्येष त्र्यहो वैश्वानरो अजीजनदिति वैश्वानरीयं क्ष्मया वृधान ओजसेति वृद्ववन्महद्वन्महद्वद्ध्येतदहः कद्धनूनं कधप्रिय इति मारुतमभ्यारब्धवद्दूतं वो विश्ववेदसमिति जातवेदसीयमग्ने मृल महाꣳअसीति वाऽष्टर्चमष्टमस्याह्नः पूर्वं तु स्थितं महाꣳआ रोधनं दिव इति महद्वन्महद्वध्द्येतदहर्गायत्रंगायत्रतृतीयसवनो ह्येष त्र्यह इत्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानितदुक्थं संतिष्ठते तस्य साऽऽप्तिर्या द्वितीयस्याह्नः॥१३॥

अन्तो गतिर्नवममहरसौ द्यौरसौ लोकस्तस्माद्गतवन्ति नवमेऽहन्सूक्तानि शस्यन्तेऽगन्म महानमसा यविष्ठं सोमस्य मा तवसं वक्ष्यग्न इत्येते

उभे तदाज्यमगन्मेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयादस्थुरत्र धेनवः पिन्वमाना इति स्थितवत्तदन्तरूपमन्तो नवममहस्तिष्ठतीव या अन्तं गत्वा कद्र्यङ्रहि तत इयादगन्म महानमसा यविष्ठमित्येतदेव तृचमाज्यं स्यादिति ह स्माऽऽह पैङ्ग्योऽगन्मेति गतवत्तद्न्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कद्र्यङ्रहि तत इयादष्टाचत्वारिंशं स्तोमं किं तृचं व्यश्नुवीतेति ह स्माऽऽह कौषीतकिः सोमस्य मा तबसं वक्ष्यग्न इत्येतदुपसंशंसेत्तस्य तदेवान्तरूपं यद्भूतानु वादि प्राञ्चं यज्ञं चकृम दिवः शशासुरिति यदेतद्भूतमिवाभ्यत्रन्वाभिस्तोमो न व्याप्त इति ह स्माऽऽह पैङ्ग्यो यदृग्भिरेव स्तोमो न व्याप्त इत्यक्षरैर्ह वा ऋक्स्तोमं व्यश्नुतेऽक्षरैर्ह निविद्वा पुरोरुग्वर्चं व्याप्तो ह वा उ तत्र स्तोमो भवति यत्र निविद्वापुरोरुग्वा शस्यते तस्माद्वद एव तृचमाज्यं स्यादिति यददः पैङ्गस्य वर्चस उमे इति त्वेव स्थितमेतेन ह विश्वामित्रश्च वसिष्ठश्च समजानतामभिसंजानते ह वा अस्मै स्वाश्रेष्ट्याय य एवं वेद तस्मादुभे एव स्यातां वासिष्ठं पूर्वं वैश्वामित्रमुत्तरम्॥१४॥

आ वायो भूषं शुचिपा उप न इति वायव्यं चैन्द्रवायवं चाऽऽगतेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयात्प्र सोता जीरो अध्वरेष्वस्थादिति स्थितवत्तदन्तरूपमन्तो नवममहस्तिष्ठतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयाद्दिवि क्षयन्ता रजसः पृथिव्यामिति मैत्रावरुणं क्षयन्तेति क्षितवत्तदन्तरूपमन्तो नवममहः क्षियतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयादा विश्ववाराश्विना गतं नं इत्याश्विनं प्रतत्स्थानमवाचि वां पृथिव्यामिति स्थितवत्तद्न्तरूपमन्तोनवममहस्तिष्ठतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयादिन्द्रं नरो नेमधिता हवन्त इत्यैन्द्रं यत्पार्या युनजते धियस्ता इति पार्याः परार्ध्यास्तदन्तरूपमन्तो नवममहरन्ते अन्तं दधात्यूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदिति वैश्वदेवमश्रेदिति श्रितवत्तदन्तरूपमन्तो नवममहः श्रियतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयात्प्रक्षोदसा धायसा सस्र एषेति सारस्वतं प्रबाबधानेति निवृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादेते वा उ त्रैष्टुभास्तृचक्लृप्ता वासिष्ठाःप्रउगाः प्रजापतिर्वै वसिष्ठः स तं ता यज्ञस्यस पुनस्तताव यातयामा भवतिप्रजाप्तावेव तत्सर्वान्कामानृध्नुवन्ति बृहत्पृष्ठं राथंतरं शस्त्रं तन्मिथुनं प्रजात्यै रूपम्॥१५॥

त्र्यर्यमा मनुषो देवतातेति त्रैष्टुभानां प्रथमं मरुत्वतीयानां त्रीति तत्तृतीयस्याह्ने रूपमिन्द्रो रथाय प्रवतं कृणोतीति द्वितीयं यमध्यस्था न्मघवा वाजयन्तमित्यधस्थादिति स्थितवत्तदन्तरूपमन्तो नवममहस्तिष्ठतीव वा अन्तं गत्वा कड्यङ्हि तत इयात्तिष्ठा हरी रथ आयुज्यमानेति तृतीयं तिष्ठेति स्थितवत्तदन्तरूपमन्तो नवममस्तिष्ठतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयाद्गायत्साम नभन्यं यथावेरिति चतुर्थं सामेति तदमुष्य लोकस्य रूपं प्रमन्दिने पितुमदर्चता वच इति जागतं पञ्चमं तस्य तदेवान्तरूपं यसोदर्कमासत्यो यातु मघवाꣳ ऋजीषीति त्रैष्टुभानां प्रथमं निष्केवल्यानामवस्य शूरेति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादस्मा इदु प्रतवसे तुरायेति द्वितीयमस्मा अस्मा इति सप्रभृति यथा वै सोदर्कमेवं सप्रभृत्यन्तरूपं द्यौर्नय इन्द्राभिभूमार्य इति तृतीयं द्यौरिति तदमुष्य लोकस्य रूपं तत्त इन्द्रियं परमं पराचैरिति चतुर्थं परमं पराचैरिति निवृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादहं भुवं वसु नः पूर्व्यस्पतिर्विश्वजिते धनजिते स्वर्जित इति द्वे जागते अहमहमिति सप्रभृति यथा वै सोदर्कमेवं सप्रभृत्यन्तरूपं जिते जित इति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हितत इयात्पञ्च पञ्च सूक्तानि मरुत्वतीये शस्यन्त उत्तमे छन्दोमे पशवो वै छन्दोमाः पाङ्क्ताःपशवः पशूना मेवाऽऽप्त्यै षलन्ततो निष्केवल्ये षड्वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै॥१६॥

अभि त्वा देवसवितरिति सावित्रमभीत्येव वा असौ लोकस्तदमुष्य लोकस्य रूपं प्र वांमहिद्यवी अभीति द्यावापृथिवीयं महिद्ययी अभीति निवृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादिन्द्र इषे ददातु न इत्येका तेनो रत्नानि धत्तनेति द्वे इत्यार्भवमेकमेकं सुशस्तिभिरित्येकमेकमिति निवृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादथ वैश्वदेवं मनुः सर्व आयुर्वै मनुरायुरेव तद्यज्ञे च यजमानेषु च दधात्यत्रैव द्विपदास्तासामुक्तं ब्राह्मणं विश्वे देवास आगतेति वैश्वदेवमागतेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कद्र्य्ङ्हि तत इयाद्गायत्रं गायत्र तृतीयसवनो ह्येष त्र्यहो दिवि पृष्ठो अरोचतेति वैश्वानरीयं दिवीति तदमुष्य लोकस्य रूपं मरुतो यस्य हि क्षय इति मारुतं क्षय इति क्षितवत्तदन्तरूपमन्तो नवममहः

क्षियतीव वा अन्तं गत्वा कद्र्यङ्हि तत इयादग्निर्होता पुरोहित इति जातवेदसीयं क्षयं पावक शोचिष इति क्षितवत्तदन्तरूपमन्तो नवममहः क्षियतीव वा अन्तं गत्वा कड्यङ्हि तत इयाद्गायत्रं गायत्रतृतीयसवनो ह्येष त्र्यह इत्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽप्तिर्यातृतीयस्याह्नोऽन्वहं द्विपदाः शस्यन्ते सर्वेषु च्छन्दोमेषु पशवो वै च्छन्दोमा यजमानच्छन्दसं द्विपदा अधिष्ठायामेव तत्पशूनां यजमानां दधात्यधीव वै पशून्पुरुषस्तिष्ठति पुरुषस्तिष्ठति॥१७॥

इति शाङ्खायने ब्राह्मणे षड्विंशोऽध्यायः॥२६॥
——————

ॐ यद्दिव्युपरि तद्दशममहरिति ह स्माऽऽह कौषीतकिस्तस्मात्तदविवाक्यं भवति न हि तदद्धा वेद कश्चनेनदविद्वान्निर्ब्रवाणीति मितमेतद्देवकर्म यद्दशममहरनुष्टुवेव स यो व्याहसोऽतिरेचयतीश्वरो विवक्तारं भ्रेषोऽन्वेतोस्तदु वा आहुर्येव ब्रूयान्नन्दति ह वै यज्ञो विदुषा गच्छताऽयं मे समृद्धं भविष्यत्ययं मे तत्समर्धयिष्यतीति यदि कश्चित्प्रमत्त उपहन्याद्यस्तदधीयात्स तं देशं पार्श्वतः स्वाध्यायमधीयीतापि वा गृहपतिर्वर्त्विजां वैकः पर्यवसर्येत्स तं देशं पार्श्वतः स्वाध्यायं शंसेद्यदि तथा न मन्येत संप्रत्येव विब्रूयादुत्सृज्यते दशमेऽहन्यनुष्टुब्वागनुष्टुप्सैषा वाक्प्रतदोहुषी क्रूररवैव भवति तस्मादुत्सृज्यते नेद्वाचमासीदामेत्यथो सर्वाण्येवैतच्छन्दांस्यनुष्टुभमभिसंपादयति तदेनान्वाहेवाभिभृशे शूद्रान्नो एनान्प्रससृक्षाणि नो त्वेवाऽन्यत्र यामक पुंश्चल्या अयनं मे अस्तीत्यनुष्टुब्भ्येषा दशमेऽहन्परिगीता तदाहुर्नानुष्टुभ आयतनं रिङच्याद्दिराजस्तत्रानुब्रूया त्समानं वा एतच्छन्दो यद्विराड्वाऽनुष्टुप्चन ह्येकेनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्यामिति तयोर्वा एतयोस्तृचयोः षलक्षराण्यभ्युद्यन्त्यग्निष्टोमसाम्नः स्तोत्रियानुरूपयोः षट्तानि द्वादशाक्षराणि होता प्रातरनुवाके संपादयेन्नाऽऽद्रियेतात्रैव संपन्नमुष्णिगुदेतीति मेनिमहे गायत्री वा तां प्रातरनुवाके संपादयेन्नाऽऽद्रियेतात्रैव संपन्नम्॥१॥

अग्ने तमद्याश्वं न स्तोमैरित्याज्यं तदेतत्सृष्टं दशमायाह्वेन संपादयेन्नाऽऽद्रियेतात्रैव संपन्नं माधुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणं त्रिकद्रुकेषु महिषो यवाशिरं तुवि शुष्म इत्यतिच्छन्दसा मरुत्वतीयं प्रतिपद्यते सा संपन्ना चतुःषष्ट्यक्षरा ते द्वे अनुष्टुभौ संपद्येते बृहदिन्द्राय गायत प्रव इन्द्राय बृहत इति सूक्तात्पूर्वौ द्वौ प्रगाथौ पिन्वन्त्यपीयया संशंसतीति तत्सं-

पन्नं जनिष्ठा उग्रः सहसे तुरायेत्यैकाहिकं मरुत्वतीयं प्रतिष्ठा वा एकाहःप्रतिष्ठित्या एव कया नश्चित्र आमुवत्कया त्वं न ऊत्येति वामदेव्यस्य योनौ रथंतरमूलं भवत्याग्नेयं सामैन्द्रीषु तन्मिथुनं प्रजात्यै रूपं यावन्तः प्रगाथास्तावन्त्योष्णिहानि तृचानि धाय्यामन्या द्विपदा भजते सप्तदशीमन्या सूक्तस्य तत्संपन्नमिन्द्रस्य नु वीर्याणि प्रवोचमित्यैकाहिकं निष्केवल्यं प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः प्रतिष्ठानीयं वै छन्दो द्विपदे प्रतिष्ठित्या एवामित्यं देवं सवितारमोण्योः कविक्रतुमित्यतिच्छन्दसा वैश्वदेवं प्रतिपद्यते सा संपन्ना चतुःषष्ट्यक्षरा ते द्वे अनुष्टुभौ संपद्येते अभि वाननुचरस्तस्योक्तं ब्राह्मणं तत्र पुरस्तादानोभद्रीनीयस्य प्रशुक्रीयं शंसति प्रतिष्ठा वा एकाहः प्रतिष्ठादशममहः प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव विराड्सु वामदेव्यमग्निष्टोमसाम भवति श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अथो शान्तिर्वै भेषजं वामदेव्यं शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते॥२॥

अथ यत्समूहूलस्यातिरिक्तोक्थमुपयन्ति तेनातिरिक्तोक्थमाप्नुषन्त्यथैष दशमस्याह्नो दोहो यथा सहस्रं च पञ्चदश चानुष्टुभः स्युस्तथैतवहःसंपादयेत्पञ्चदशोद्धृत्य शतस्य शतस्य चतस्रश्चतस्र उद्धरति ताः पञ्चपञ्चाशदुद्धृता अथेतरे द्वात्रिंशद्द्वात्रिंशद्वर्गा अथैषा स्तोमाक्षरानुष्टुवष्टाक्षरा गायत्री चतुर्विशस्तोम इत्येषा स्तोमाक्षरा अनुष्टुब्द्वात्रिंशी भवत्यथैषा पद्याऽनुष्टुबुब्गायत्र्यै चोष्णिहश्चषट्पदानि विराजस्त्रीणि तानि नव बृहत्यै चत्वारि तानि त्रयोदश पङ्क्तेःपञ्च तान्यष्टादश त्रिष्टुभश्चत्वारि तानि द्वाविंशतिर्जगत्यै चातिच्छन्दसश्चाष्टौ तानि त्रिंशद्विपदायैद्वे तानि द्वात्रिंशदित्येषा पद्याऽनुष्टुब्द्वात्रिंशी भवत्यथैषा देवक्याऽनुष्टुबष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रो द्वात्रिंशदित्येषा देवक्याऽनुष्टुद्वात्रिंशी भवत्यथ याः पञ्चपञ्चाशदुद्धृताश्चतुश्चत्वारिंशत्ताः पङ्क्तयस्ततो याश्चत्वारिंशत्तदूधोऽथ याश्चतस्रोऽतियन्ति ते स्तनाः सैषा स्तोमाक्षरा अनुष्टुवेतेनोधसैतैः स्तनैरेतमिन्द्रस्याऽऽत्मानं प्रत्यमहरमिक्षरत्येतस्या उ एव व्यक्षरेण च्छन्दोमाः स्तोमतश्च शस्त्रतश्च वर्धन्ते य उ वै वेद तन्मयः संभवति य एवं वेद स्याऽऽयुषः पुरस्तादेतमिन्द्रस्याऽऽत्मानं प्रत्यमहरभिसंभवति तमेषा स्तोमाक्षराऽनुष्टुबेतेनोधसैतैः स्तनैः सर्वैरसैः सर्वैः कामैः सर्वेणान्नाद्येन सर्वेणासृतत्वेना भिक्षरति य एवं संपन्नं दशममहः शंसति तस्मादेवं संपन्नं दशममहःशंसेदिति॥३॥

अथ यद्व्युह्लस्यातिरिक्तोक्यमुपयन्ति मन एव तत्मीणन्ति तत्सर्वयज्ञैरनुशंसन्त्येषा हि मनसो मात्रा संस्थिते दशमेऽहनि पुरापत्नीसंयाजेभ्य एतस्मिन्काले संप्रसर्पन्त्ययज्ञिया वै पत्न्यो बहिर्वेदि हि ता इति वदन्तः संस्थितेषु पत्नीसंयाजेष्विति त्वेव स्थितमत्राल्पको भ्रातृव्यलोकः परिशिष्टो भवतीति ते संप्रसृप्य सार्पराज्ञ्य ऋक्षुस्तुवत इयं वै सार्पराज्ञीयं हि सर्पतो राज्ञ्यथो वाग्वै सार्पराज्ञी वाग्धि सर्पतो राज्ञ्यथो गौर्वै सार्पराज्ञी सर्पतो राज्ञयं गौः पृश्निरक्रमीदित्येतं तृचं नान्तरियात्स्तोत्रियस्यानन्तरित्या अस्मासु नृम्णंधा इत्यन्नं वै नृम्णमन्नमेव तद्यज्ञे च यजमानेषु च दधाति वातापे हवनश्रुत इतीन्द्र उ वै वातापिः स हि वातमात्मा शरीराण्यर्हन्प्रतिपरैत्यध्वर्युः सोऽनिरुक्ते गार्हपत्ये प्राजापत्ये द्वे आहुती जुहोति प्रजापतिर्वै गार्हपत्य आहुतिसंस्थे उ वै स्तुतशस्त्रे समाप्तं स्तोत्रं समाप्तं शस्त्रं समाप्तं ब्रह्मवद्यमित्यथो अन्ये वाऽपि कामं यजेयुरथ भक्षयेयुरयं वै वेनः प्रजापतेः प्रत्यक्षं तन्वस्ता होता वदेत्॥४॥

अन्नादी चान्नपत्नी चेयं वा अन्नाद्यसावन्नपत्नी भद्रा च कल्याणी च भद्रातत्सोमः कल्याणी तत्पशवोऽनिलया चापभया चानिलया तद्वायुर्न ह्येष इलयत्यपभया तन्मृत्युर्न ह्येष बिभेत्यनाप्ता चानाप्या चेयं वै पृथिव्यनाप्ताऽसौ द्यौरनाप्या नादृष्टा चानाधृष्या चायं वा अग्निरनाधृष्टोऽसावादित्योऽनाधृष्योऽपूर्वा चाभ्रातृष्या चापूर्वा तन्मनो भ्रातृष्या तत्संवत्सरोऽथासावेव गृहपतिर्योऽसौ तपत्येष हि गृहाणां पतिस्तस्यर्तव एव गृहा एष पतिरेष उ एव देवोऽपहतपाप्मोदग्रवत्यध्वर्युरपिदधति सदसो द्वारावेवं शालायाः॥५॥

औदुम्बरीमन्वारभन्त ऊर्ग्वा अन्नाद्यमुदुम्बर ऊर्जोऽन्नाद्यस्योपाप्त्या उत्तमौ पाणी होता कुर्वीतोत्तमोऽसानीत्युत्तमो हैव भवति वाग्यताःसंमील्पाऽऽसत आ नक्षत्राणां दर्शनाद्वाचं ह वा एतदाप्याययन्ति यद्वाचंयमा आसत आपीनां वाचमभ्यासिक्तामन्तत ऋध्नवामेति मार्जालीयन्नं तेन नक्षत्रेषु चक्षुर्विसृजन्ते ज्योतिर्वै नक्षत्राणि ज्योतिरेव तदात्मन्धत्ते ते परया द्वारा हविर्धाने प्रपद्यन्ते अथाध्वर्युरुत्तरस्य हविर्धानस्य कूबरीमभिपद्याऽऽह सत्रस्यर्द्धि गायति गायति सत्रस्थर्द्धि तत्सत्रस्यद्धिमाप्नुवन्ति सर्वे साम्नो निधनमुपयन्ति प्रतिठा वै निधनं प्रतिष्ठित्या एव त उत्तरस्य हविर्धानस्याधोक्षं सर्पन्त्यैन्द्रीमतिच्छन्दसं जपन्तोऽतिच्छन्दसैव तदधोक्षं

यजमानाः पाप्मानमपघ्नते ते नु वा उ वयमुत्तरेणैव परीम इति ह स्माऽऽह कौषीतकिर्यज्ञस्यानुसंचरं सप्तऋषिभ्योऽनन्तर्हिता इति तेऽग्रेण हविर्धाने समुपविश्य कामान्ध्यायन्ते यत्कामा भवन्त्ययं नः कामः समृध्यतामिति स उ हैभ्यः कामः समृध्यते ये बहुकामा भवन्ति भूर्भुवःस्वरित्येतास्ते व्याहृतीर्जपेयुस्ते प्राञ्च उदञ्च उत्क्रम्य वाचं विद्वयन्ते नेद्वाक्यराज्यसदिति सुब्रह्मण्यायै वाचं विसृजन्ते ब्रह्म वै सुब्रह्मण्या ब्रह्मणैव तद्वाचं विसृजन्ते त आग्नीध्रीये सह राज्ञा संविशन्ते तद्यथा राजानं वा राजमात्रं वा श्रान्तं वेश्म प्रपादयेयुरेवमेवैतत्सोमं राजानमहरहर्हविर्धानाभ्यामुपावहृत्याग्नीध्रं प्रपादयन्ति त आग्नीध्रीये सह राज्ञा संविशन्ते॥६॥

अथ यत्समूल्हं दशरात्रमुपयन्ति सर्वेषामेव कामानामात्या अथ यदव्यूल्हमुपयन्ति सर्वेषामेव च्छदसामात्या अथ यद्व्यूल्हसमूल्हा उपयन्ति दशरात्रस्यैव नानात्वाय समूल्ह उ हैवाग्र आस तानि च्छन्दास्यन्योन्यस्य स्थानमभिदध्युः सर्वाणि प्रथमानि स्याम सर्वाणि मध्यमानि सर्वाण्युत्तमान्यथो सर्वाण्येवैतच्छन्दांसि सर्वसवनभाञ्जि करोति गायत्रप्रातःसवनः प्रथमरूयहस्त्रिष्टुम्मध्यंदिनो जगत्तृतीयसवनो जगत्प्रातः सवनो द्वितीयस्त्र्यहो गायत्रमध्यंदिनस्त्रिष्टुप्तृतीयसवनस्त्रिष्टुप्प्रातःसवनस्तृतीयस्त्र्यहो जगन्मध्यंदिनो गायत्रतृतीयसवनो गायत्रप्रातःसवनं दशममहस्तत्समाना छन्दसः समानं छन्द उपसंगच्छन्तेऽथ यद्दशममहरनुष्टुभमभिसंपादयन्ति वाग्वा एतदहर्वागनुष्टुब्वाच्येव तद्वाचं प्रतिष्ठापयन्ति तेऽमृत्वमाप्नुवन्ति ये दशममहरुपयन्ति ये दशममहरुपयन्ति॥७॥

इति शाङ्खायने ब्राह्मणे सप्तविंशोऽध्यायः॥२७॥
——————

ॐ प्रजापतिर्ह यज्ञं ससृजे तेन ह सृष्टेन देवा ईजिरे तेन हेष्ट्वा सर्वान्कामानापुस्तस्य हेतरार्ध्यमुपनिदधुर्य एते प्रैषाश्च निगदाश्चाथेतरेण यज्ञेन ऋषय ईजिरे ते हर्विजजुरसर्वेण ह वै यज्ञेन यजामहे न वै सर्वान्कामानाप्नुम इति ते ह श्रेमुस्त एतान्प्रेषांश्च निगदांश्च ददृशुस्तेन ह सप्रैषेण सनिगदेनेष्ट्वा सर्वान्कामानापुरेते ह ते ह वा उ प्रैषाश्च निगदाश्च यदृग्मिर्यज्ञस्यानाप्तं तदेभिः सर्वमाप्स्याम इति तानेतान्प्रैषानुप्रैषान्विश्वामित्रो ददर्शाथो पुरोलाशप्रैषानथेतर ऋषय इतरांस्तदाहुःकस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यतीत्येता ह वै देवताः प्रैषाणामाजि-

मीयुस्तान्मित्रावरुणा उज्जिग्यतुस्तस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यति स वै तिष्ठन्प्रेष्यति तिष्ठन्वै वीर्यवत्तमस्तिष्ठन्वा उ श्रितवदनुत्तमो वीर्यवतीमाश्रितां देवेषु वाचमुद्यासमिति॥१॥

ॐ वक्र इव प्रणतोऽनुब्रूयात्तथा ह वर्षुकः पर्जन्यो भवतीति ह स्माऽऽह कौषीतकिस्तद्ध स्म वै पुराऽसुररक्षांसि हवींषि विबध्नते तत एता वामदेवोऽभिरूपा अपश्यदग्निर्होता नो अध्वर इति ताभिर्हाग्निं परिणिन्युस्ततो वैतानि रक्षांसि नाष्ट्रा अपजज्ञिरे जुषस्व सप्रथस्तममिति जुष्टवतिमभिरुपामन्वाह जुष्टवतीमभिरूपां देवेषु वाचमुद्यासमितीमं नो यज्ञममृतेषु धेहीति विश्वामित्रस्तोकानेवैताभिरग्नये स्वदयत्येता ह वा उ तेषां पुरोनुवाक्या एता याज्यास्तस्मादभिरूपा भवन्ति वैश्वामित्रीं पुरोलाशःस्विष्टकृतः पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणं वैश्वामित्रीरनुसधनं पुरोडाशानां पुरोनुवाक्ये अन्वाह विश्वामित्रो हैतान्पुरोलाशःप्रैषां ददर्श सलोमतायै माधुच्छन्दस्यावभिरूपे द्विदेवत्यामां प्रथमस्य पुरोनुवाक्ये अन्वाह मधुच्छन्दा हैतां द्विदेवत्यः प्रैषां ददर्श सलोमतायै गार्त्समदीं च मैधातिथीं चोत्तरयोरभिरूपे अन्वाह मैधातिथीः प्रातः सवन उन्नीयमानेभ्योऽन्वाह मैधातिथिर्ह प्रातः सवन इन्द्राय सोमं प्रोवाच ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुषाक्यारूपेण ता वा ऐन्द्र्यो भवन्त्यैन्द्रो हि यज्ञक्रतुस्ता वै गायत्र्यो मवन्ति गायत्रं प्रातःसवनं ता वै नवान्वाह नवम्वा अत्र चमसानुन्नयन्ति॥२॥

षलु हैके प्रातःसवन उन्नीयमानेभ्योऽन्वाहुः स्वयमच्छावाकः सप्तमीं सप्तसप्तोत्तरयोः सवनयोः सप्त वै प्राञ्च आसीना वषट्कुर्वन्तीति वदन्तस्तदु वा आहुर्यथा सूक्तमेवानुब्रूयाद्धोतुर्ह्योवैताःपुरोनुवाक्या भवन्ति होतुर्ह्येवैतांश्चमसाननुचमसमुन्नयन्ति तस्माद्यथासूक्तमेवानुब्रूयादथ होत्राः संयजन्ति तासामुक्तं ब्राह्मणं मित्रं वयं हवामह इति मैत्रावरुण्या मैत्रावरुणः स्वया देवतया यज्ञमुखस्यानवरार्ध्या इन्द्र त्वा वृषभं वयमित्यैन्द्र्या ब्राह्मणाच्छंस्यैन्द्रो हि यज्ञक्रतुर्मरुतो यस्य हि क्षय इति मारुत्या पोता यत्र ह तदिन्द्रं मरुतः पुपुवुस्तदेनादिन्द्रः सोमपीथेऽन्वाभेजे तस्मात्स मारुत्या पोता प्रथतश्चान्ततश्च यजत्यग्ने पत्नीरिहावहेत्याग्निपात्नीवत्या त्वष्टृमत्या नेष्टा प्रथमतश्चान्ततश्च यजत्यग्निर्वै देवानां पात्नीवतो नेष्टर्त्विजां तस्मात्स आग्निपात्नीवत्या त्वष्टृमत्या नेष्टा प्रथमतश्चान्ततश्च यजत्युक्षान्नाय वशान्नायेत्याग्नेय्याऽऽग्ग्नीध्रोऽग्नीन्ह स समिन्धे तस्मात्स आग्नेय्याग्नीध्रः प्रथमतश्चान्ततश्च यजत्य-

नुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहूतीनां प्रतिष्ठित्या अथेलाथ होतृचमसस्तस्योक्तं ब्राह्मणम्॥३॥

अथ यत्र हतं नामा नेदिष्ठो मानवोऽङ्गिरःसूपहवमीशे स एतामच्छावाकीयां होत्रां ददर्श स वा इलापामुपहूतायामाजगाम तस्मात्तन्न प्रवृणुते स वा एतस्मात्पूर्वस्मादवान्तरदेशादाजगाम तस्मादेतस्यां दिश्यासीनोऽच्छावाक उपहवमिच्छते तदाहुः कस्मादच्छावाकाय पुरोलाशबृगलं परिहरन्तीत्यलीकयुर्वाचस्पतो नैमिषीयाणां दीक्षोपसत्सुब्रह्मा स सह प्रसूतेऽच्छावाकीयां चकार ते होचुरस्मै वा इमं पुरा ब्रह्मभागं परिहराम कस्मा एनं परिहरामेति ते होचुरस्मा एवैनं परिहरतेति तत्तस्मै पर्यहरन्स एष ब्रह्मभाग एवाथो इलाभाजो वा इतरे चमसास्त स्मादच्छावाकाय पुरोलाशबृगलं परिहरन्ति चमसस्यैवापरीलतायै॥४॥

अथैनमध्वर्युराहाच्छावाकवदस्व यत्ते वाद्यमित्यच्छावाकोपहवमिच्छस्वेत्येवैनं तदाहाच्छाबो अग्निमवस इत्याग्नेयीरन्वाहाऽऽग्नेयं प्रातःसवनं ता वा अनुष्टुभो भवन्ति गायत्री वै सा याऽनुष्टुब्गायत्रमग्ने छन्दस्ता वै तिस्रो भवन्ति त्रिवृद्वा अग्निरङ्गारार्चिर्धूम इत्युत्तमायै तृतीये वचने प्रणवेन निगदमुपसंदधाति यजमानहोतरध्वर्यो अग्नीन्ब्रह्मन्पोतर्नेष्टरुतोपवक्तरिति प्रशास्ता या उपवक्ताऽपिवत्सचाभ्युदितमुपवक्ता जनानामितीषेषयध्वमूर्जोऽर्जयध्वमित्यन्नं वा इषमन्नमूर्जमन्नेन समुक्षध्यमित्येवैनं तदाहनि वो जामयो जिहतान्यजामय इति यच्च जामिर्यच्चाजामिस्तद्वो निजिहतामित्येवैनं तदाह तदेतद्वचाऽभ्युदितम्॥५॥

जामिमजामिं प्रमृणीहि शत्रुनिति निसपत्नायामनिबाधिता स इति निहता वः सपत्नाःसमरण इत्येवैनं तदाह जेषथा अभीत्वरीं जेषथाऽभीत्वर्या इति सेना वा अभीत्वरी सेनया सेनां जयतेत्येवैनं तदाह श्रवद्व इन्द्रः शृणवद्वो अग्निरिति शृणोतु न इन्द्रः शृणोत्वग्निरित्याशिषमेव तद्वदते प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति सर्वेष्वेवैतदुपहवमिच्छत उपहवमयं ब्राह्मण इच्छतेऽच्छावाको वेत्यध्वर्युराह तं होतरुपह्वयस्वेति तं होतोपह्वयते स हि तेषां श्रेष्ठी भजतेऽयं वै श्रेष्ठ्युपह्वयते स उपहूत इति ह स्माऽऽह॥६॥

प्रत्यस्मै पिपीषत इत्यच्छावाक उन्नीयमानायान्वाह ता वै चतस्रो भवन्ति चतुष्टयं वा इदं सर्वमस्यैव सर्वमस्याऽऽप्त्यै ता वा अनुष्टुभो भवन्ति संशंसायै बृहत्युत्तमा भवति श्रीर्वै बृहती श्रियामेव तदन्ततः

प्रतितिष्ठति प्रातर्यावभिरागतमित्यैन्द्राग्न्या यजत्यैन्द्राग्नं ह्यस्योक्थं भवति गायत्र्या गायत्रं प्रातःसवनमनुवषट्करोत्यातीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अनवानं प्रातःसवने यजेयुरिति ह स्माऽऽह पैङ्ग्यः क्षिप्रं देवेभ्यो हविः प्रदास्याम इत्यर्धर्चश इति कौषीतकिरेतद्वै छन्दसां पर्व यदर्धर्चः पर्वश एव तद्देवेभ्यो हविः प्रयछन्ति॥७॥

अथात ऋतुप्रैषाणामेव मीमांसा कण्यो हैतानृतुप्रैषान्ददर्श मेधातिथिर्याज्याः काण्वो ह वै मेधातिथिस्तेन तौ मृत्युं पाप्मानमपजिघ्नातेस च इच्छेन्मृत्युं पाप्मानमपहन्यामित्येताभिर्यजेत्॥८॥

पुरुषो वै यज्ञस्तस्य वागेवाऽऽज्यं सा वा एकैव भवति तस्मादेकदेव त्यमाज्यं शंसति प्राणाः प्रउगन्ते वा इमे बहवः प्राणास्तस्माद्बह्व्यो देवताः प्रउगे शस्यन्ते बाहू मैत्रावरुणश्चाच्छावाकश्च तौ वै द्विगुणौ भवतस्तस्मात्तौ प्रातःसवने द्विदेवत्याः शंसत इयमेव बेनासेवनी मध्यं ब्राह्मणाच्छंसी तस्माद्ब्राह्मणाच्छंसी प्रातःसवन एकदेवत्याः शंसत्यात्मा मध्यंदिनः स वा एक एव भवति तस्मान्मध्यंदिने होत्रा शंसिन एकदेवत्याः शंसति होता च निष्केवल्यमुरू मैत्रावरुणश्चाच्छावाकश्च तौ वै द्विगुणौ भवतस्तस्मात्तौ तृतीयसवने द्विदैवत्याः शंसत इदमेव शिश्नं मध्यं ब्राह्मणाच्छंसी तस्माद्विरूपं जायते स्त्री च पुमांश्च तस्माद्ब्राह्मणाच्छंसी तृतीयसवने द्विदेवत्याः शंसति ब्राह्मणाच्छंसी भूयिष्ठाः शंसत्यात्मा वै ब्राह्मणाच्छंसी तस्मादिदमात्मनो मध्यं स्थविष्ठम्॥९॥

अथ पदावन्तः स्तोत्रियानुरूपा भवन्ति तत्प्रथमस्याह्नो रूपं वैश्वामित्रौ मैत्रावरुणस्य चाच्छावाकस्य च स्तोत्रियौ भवतो वासिष्ठौ नवर्चौ पर्यासावन्तावेवैतत्सदृशौ कुर्वतः स्तोत्रियां छस्त्वा श्वः स्तोत्रियाननुरूपान्कुर्वन्त्यहीनरूपताया अहीनसंतत्या अहरेव तदह्नोऽनुरूपं कुर्वन्त्यहर्वाह्नोऽनुरूपं तदाहुः कस्मात्स्तुतमनुशस्यते कस्मात्स्तोममतिशंसंतीति न ह वै तत्स्तुतं भवति यन्नानुशस्यते न स स्तोमो देवान्गछन्ति यो नातिशस्यते तस्मात्स्तुतमनुशस्यते तस्मास्तोममतिशंसन्ति चतुराहावानि शस्त्राणि पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्या ऐकाहिका उक्थयाज्याःप्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवानुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहूतीनां प्रतिष्ठित्यै॥१०॥

इति शाङ्खायनब्राह्मणेऽष्टाविंशोऽध्यायः॥२८॥
——————

ॐ अथ यत्र ह तत्सर्वचरौ देवा यज्ञमतन्वत तान्हार्बुदः काद्रवेयो माध्यंदिन उपोदासृप्यो वाचैका वै वेयं होत्रानुक्रियते ग्रावस्तोत्रिया तां वोऽहं करवाण्युपमाह्वयध्वमिति ते ह तथेत्यूच्चुस्तं होपजुह्निरे स एता ग्रावस्तोत्रिया अभिरूपा अपश्यत्प्रैते वदन्तु प्रवयं वदामेति प्रवदत्सु प्रहिते वदन्त्यथ यत्र बृहद्बृहदिति बृहद्वदन्ति मदिरेण मन्दिनेति तत्र विषू मुञ्चा सुषुवुषों मनीषामिति विमुञ्च सुता वै चतुर्दश भवन्ति दश वा अङ्गुलयश्चत्वारो ग्रावाण एतदेव तदभिसंपद्यन्ते ता वै जगत्यो भवन्ति जागता वै ग्रावाणोऽथ यत्त्रिष्टुभा परिदधाति तेनो माध्यंदिने त्रिष्टुवुपाप्ता स वै तिष्ठन्नभिष्टौति तिष्ठन्तीव वै ग्रावाणः स वा उष्णीष्यपि नद्धाक्षोऽभितुष्टाव तस्माद्वाअप्येतर्ह्युष्णीष्येव ग्राव्णोऽभिष्टोत्यथो खल्वाहुश्चक्षुरियाय ससर्प आस तत्विजो विषमपीयाय स एताः पावमानीविषापवदनीरभितुष्टाव तद्यत्पावमानीर्विषापवदनीरमिष्टौति यज्ञस्यैव शान्त्यै यजमानानां च भिषज्यायै॥१॥

अथ स्तुते पवमाने दधिधर्मेण चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हविष्पङ्क्या चरन्ति तस्या उक्तं ब्राह्मणं वासिष्ठीर्मध्यंदिन उन्नीयमानेभ्योऽन्वाह वसिष्ठो ह मध्यंदिन इन्द्राय सोमं प्रोवाच तावा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्यारूपेण ताव ऐन्द्र्यस्त्रिष्टुभो भवन्त्यैन्द्र्ं हि त्रैष्टुभं माध्यंदिनं सवनं ता वै दशान्वाह दशन्वा अत्र चमसानुन्नयन्त्यथ होत्राः संयजन्ति तासामुक्तं ब्राह्मणमैन्द्रीभिस्त्रिभिर्मध्यंदिने प्रस्थितानां यजन्त्यैन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनमनुवषद्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथेलाथ होतृचमसस्तस्योक्तं ब्राह्मणं हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते तासामुक्तं ब्राह्मणं वैश्वामित्रीं मरुत्वतीयग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणम्॥२॥

वामदेव्यं मैत्रावरुणस्य पृष्ठं भवति शान्तिर्वै भेषजं वामदेव्यं शान्तिरेवैषा भेषजं यज्ञे क्रियते नौधसं ब्राह्मणाच्छंसिनस्तद्वै निधनवद्भवति प्रतिष्ठा वै निधनं प्रतिष्ठित्या एव काले यमच्छावाकस्य तद्वा ऐलं बृहतीषु कुर्वन्ति पशवो वा इला पशवो बृहतीर्बार्हताः पशवः पशूनामेवाऽऽप्त्या अथैतां सामप्रगाथां छंसन्ति तथैषां होतुर्न्यायादनितं भवति पञ्चर्चे मैत्रावरुणस्य चाच्छावाकस्य चोक्थमुखे भवत एकादशर्चो पर्यासावन्तावेवैतत्सदृशौ कुर्वतो विश्वामित्रस्य च वामदेवस्य च

मैत्रावरुणः शंसति वामदेवो ह्यस्य पर्यासो भवति विश्वामित्रस्य च वसिष्ठस्य च ब्राह्मणाच्छंसी वासिष्ठो ह्यस्य पर्यासो भवति भरद्वाजस्य च विश्वामित्रस्य चाच्छावाको वैश्वामित्रो ह्यस्य पर्यासो भवति ते वै चतुर्णामृषीणां शंसन्त्याचतुरं वै द्वं द्वं मिथुनं प्रजननं प्रजात्यै वैश्वामित्रे मैत्रावरुणस्य च ब्राह्मणाच्छंसिनश्चोक्थमुखे भवतः पर्यासोऽच्छावाकस्य वाग्वविश्वामित्रोवाचैव तत्सर्वतो यज्ञं तन्वत इत्येतद्ब्राह्मणं प्रायणीयोदयनीययोरैकाह्यं च भवति॥३॥

वामदेव्यं मैत्रावरुणस्याहरहः पृष्ठं भवति शान्तिर्वै भेषजं वामदेव्यं शान्तिरेवैषा भेषजमहरहर्यज्ञे क्रियतेऽथैतान्कद्वतः प्रगाथानहरहः शंसन्ति को वै प्रजापतिः प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्त्यथो अशान्तानि वा एते अहीनसूक्ताम्यन्यान्यन्यान्युपयुञ्जाना यन्ति मान्येवैतैः कद्वद्भिः प्रगाथेरहरहः शमयन्तो यन्त्यथैतास्तान्त्र्यास्त्रिष्टुम उक्थ्प्रतिपदोऽहरहः शस्यन्ते बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्येऽहरहः प्रतितिष्ठन्तो यन्त्यपप्राच इन्द्र विश्वाꣳ अमित्रानिति सौकीर्ती मैत्रावरुणोऽपनुत्तवतीं पाप्मन एवापनुत्यै यदार्षेये सूक्ते तदार्षेये उक्थमुखीये इतरयोर्ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनुनेषि विद्वानित्युक्थमुखीये ब्रह्मवत्युरुवत्यौ ब्रह्मणि चैव तदुरुगाये चादरहः प्रतितिष्ठन्तो यन्ति॥४॥

अथैतानि शिल्पानि मध्यमे त्र्यहे शस्यन्ते शिल्पवान्ह्येष मध्यमस्त्र्यहो भवति विराजश्च वै मध्यमश्चतुर्थेऽहन्वैराजं हि चतुर्थमहः पङ्क्तयश्च महापङ्क्तयश्च पञ्चमेऽहन्पाङ्क्तंहि पञ्चममहरतिच्छन्दसः षष्ठेऽहन्नातिच्छन्दसे हि षष्ठमहरथो अपृष्ठं वा एतद्यदन्यत्र बृहत्यै क्रियते च्यवन्त उ वाऽत्र बृहत्यै पृष्ठानि शिल्पेष्वेव तदहरहः प्रतितिष्ठन्तो यन्त्यथो अन्तरिक्षं वा एष मध्यमस्त्र्यहो नाऽऽरम्भणं वा इमन्तरिक्षमप्रतिष्ठानं शिल्पेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति तानि वै तृचानि मवन्ति त्रिवृद्वै शिल्पं नृत्यं गीतं वादितमिति तेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति माचिदन्यद्विशंसत मामेम मा श्रमिष्मेति मेधातिथं मैत्रावरुणस्य दशमेऽहन्पृष्ठं भवति न हि तस्य प्राद्गशमादह्नो बृहतीषु पृष्ठं भवत्येकस्था वै श्रीः श्रीर्वै बृहती श्रीयामेव तदन्ततः प्रतितिष्ठति द्विपदाः शरत्वैकाहिकानि शंसन्ति प्रतिष्ठा वा एकाहःप्रतिष्ठा दशममहः प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव॥५॥

नौधसं ब्राह्मणाच्छंसिनस्तस्योक्तं ब्राह्मणं गायत्रीषु ब्रह्मणाच्छंसिने प्रणयन्ति षष्ठेऽहन्नैव तस्यैवाह्नो रूपेणाहीनरूपताया अहीनसंतत्या अहीनान्सर्वान्कामानाप्नुम इति न ह्यत्र किं चन हीयत उदुब्रह्माण्यैरत श्रवस्येत्यहरहः पर्यास ऋतवो वा उदुब्रह्मीयमृतुष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ता वै षड्भवन्ति षड्वा ऋतव ऋतुष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति॥६॥

कालेयमच्छावाकस्य तस्योक्तं ब्राह्मणं षड्यदास्वच्छावाकाय प्रणयन्ति षष्ठेऽहम्पष्ठस्यैवाह्नो रूपेणाभितष्टेव दीधया मनीषामित्यहरहः पर्यासः प्रजापतिर्वा अभितष्टीयं प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति तदनिरुक्तं भवत्यनिरुक्त उ वै प्रजापतिः प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति सा वा अत्रैकैव निरुक्तैक उ वै प्रजापतिः प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति तेषामेतान्यच्युतानि भवन्ति पृष्ठं मैत्रावरुणस्य पर्यासावितरयोस्तेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति॥७॥

दशर्चं भवति दशेमे प्राणाः प्राणानेव तद्यज्ञे च यजमानेषु च दधाति द्विषूक्ता होत्राणां मध्यंदिनाद्युक्तस्यैव होतुः प्रत्युद्यमाया अथो संवत्सरो वै होता ऋतवो होत्राशंसिनस्तद्यद्वंद्वं समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति तस्माद्विषूक्ताहोत्राणां मध्यंदिना अथो आत्मा वै होताऽङ्गानि होत्राशंसिनस्तद्यद्विगुणान्यङ्गानि भवन्ति तस्माद्विषूक्ताहोत्राणां मध्यंदिनाः स्तोमातिशंसं प्रातःसवनेषु शस्त्वाऽहीनसूक्तानि मध्यंदिनेषु शंसन्ति चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रतीयेऽहन्नहीनो ह्येतान्यहान्यहीनसूक्तानि शस्त्वैकाहिकानि शंसन्ति पराञ्चीनि वा एतान्यहान्यनभ्यावर्तीनि भवन्ति तद्यदहीनसूक्तानि शस्त्वैकाहिकानि शंसन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवपञ्च पञ्चसूक्तानि मैत्रावरुणः शंसति सर्वेषु च्छन्दोमेषु पशवो वै च्छन्दोमाः पाङ्क्ताःपशवः पशूनामेवाऽऽप्त्यै चत्वारि चत्वारि ब्राह्मणाछंसी चाच्छावाकश्च पशवो वै च्छन्दोमाश्चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेषाऽऽप्त्यै पञ्चाहावानि शस्त्राणि पशवो वा उक्थानि पाङ्क्ताःपशवः पशूनामेवाऽऽप्त्या ऐकाहिका उक्थयाज्याः प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवानुवपद्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिष्ठित्यै॥८॥

इति शाङ्खायनब्राह्मण एकोनत्रिंशत्तमोध्यायः॥२९॥
——————

ॐ वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानां तृतीयसवनं तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तद्देवतया प्रतिपद्यतेऽथोऽधीतरसं वा एतत्सवनं यत्तृतीयसवनमथैष सरसो ग्रहो यदादित्यग्रहस्तेनैव तत्तृतीयसवनं सरसं करोति त्रिष्टुभमादित्यग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणमथ स्तुते पवमाने पशुना चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हविष्यङ्क्त्याचरन्ति तस्या उक्तं ब्राह्मणं वामदेव्यास्तृतीयसवन उन्नीयमानेभ्योऽन्वाह वामदेवो हि तृतीयसवन इन्द्राय सोमं प्रोवाच ता वा आवत्योहरिवत्यो भवन्ति पुरोनुवाक्यारूपेण ता वा ऐन्द्रार्भव्यस्त्रिष्टुभो भवन्तीन्द्रमेव तदर्धभाजं सवनस्य करोति ता वै नवान्वाह दशन्वा अत्र चमसानुन्नयन्ति यथाऽनुप्रायणं तथोदयनमथ होत्राःसंयजन्ति तासामुक्तं ब्रह्माणमन्धस्वत्यो मद्वत्यः पीतवत्यो जगत्यो याज्या जागतं हि तृतीयसवनं मद्वत्यो मद्वद्धि तृतीयसवनमनुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथेलाथ होतृचमसस्तस्योक्तं ब्राह्मणमौपासनांस्तृतीयसवन उपास्यन्ति तेषामुक्तं ब्राह्मणमथ सावित्रग्रहेण चरन्ति तस्योक्तं ब्राह्मणं त्रिष्टुभं सावित्रग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणमथ यदुक्थे अन्तरेणाग्नीत्पात्नीवतस्य यजति तेन तौ होतारमनुसमश्नुवाते॥१ ॥

ऐन्द्राग्नान्युक्थ्योक्थानि भवन्ति तेषामुक्तं ब्राह्मणमथैतान्यैन्द्राणि जागतान्यहरहः शंसंन्ति पशवो वै जगती जागताः पशवः पशूनामेवाऽऽप्त्यै तान्यच्युतानि स्युरिति हैक आहुः सवनधरणानीति वदन्तोऽन्यान्यन्यानीति त्वेव स्थितमन्यदन्यद्व्यहरुपयन्त्यथ वारुणं बार्हस्पत्यं वैष्णवमिति शंसन्ति जगती वा एतेषां छन्दस्त्रिष्टुविन्द्रस्य तद्यच्छन्दसी विपरीते द्विदेवत्यताया एैन्द्रावरुणमैन्द्राबार्हस्पत्यमैन्द्रावैष्णवमिति शंसति ग्रहानेवैतैरनुशंसन्त्येवं हि ग्रहा गृहीता भवन्ति ॥२॥

चर्षणीधृतं मघवानमुक्थ्यमिति मैत्रावरुणस्तस्योक्तं ब्राह्मणं वासिष्ठोऽहरहः पर्यासोभवति वसिष्ठो हैतन्मैत्रावरुणीयायै तृतीयसवनं ददर्श तस्माद्वासिष्ठोऽहरहः पर्यासो भवति क अप्सु मैत्रावरुणाय प्रणयन्ति तृतीयेऽहंस्तेनो स ब्राह्मणाच्छंसिनो वशमेत्यथ चतुर्थेहन्स्वे स्वेछन्दसि प्रणयन्ति स्वे स्व एव तच्छन्दसि प्रतितिष्ठन्तो यन्ति गायत्रीषु मैत्रावरुणाय प्रणवन्त्यष्णिक्षु ब्राह्मणाच्छंसिनेऽनुष्टु-

प्स्वच्छावाकायोत्तरोत्तरितायै तथैषां चतुर्भिश्चतुर्भिरक्षरैश्छन्दांस्यभ्युद्यन्ति पङ्क्तिषु मैत्रावरुणाय प्रणयन्ति पञ्चमेऽहन्पाङ्क्तंहि पञ्चममहर्द्विपदासु षष्ठेऽहन्प्रयणयन्ति द्वैपदं हि षष्ठमहरथो अगूर्ध्वं भद्रमुद्वंशपुत्रमिति सामानि कुर्वन्त्यथो द्विपदाः सहचराणि वै शिल्पानि भवन्ति तस्मादत्र शिल्पानि शस्यन्ते नेच्छिल्पेभ्यो गामेति॥३॥

नाभा नेदिष्ठेनात्र होता रेतः सिञ्चति तन्मैत्रावरुणाय प्रयच्छति तत्स वालखिल्याभिर्विकरोत्यथैता वालखिल्या विहृताः शंसन्ति पच्छः प्रथमे सूक्ते विहरति पर्वश एवैनं तत्संभरत्यर्धर्चशो द्वितीये द्वे वै पुरुषःकपाले ते एव तत्संदधात्यृचमृचं तृतीये कृत्स्नमेवैनं तसंभरति विपर्यस्येन्नाराशंसे तस्माद्विपर्यस्ता गर्भा जायन्ते॥४॥

तार्क्ष्ये दूरोहणं रोहति वायुर्वै तार्क्ष्यः प्राणो वै वायुः प्राण एवास्मिंस्तद्दधाति तं ब्राह्मणाच्छंसिने प्रयच्छति तं स सुकीर्तिना योनिना प्रतिगृह्णाति जातमथैतं वृषाकपिं पङ्क्तिशंसंन्यूङ्खं शंसत्यन्नं वै न्यूङ्खो जात एवास्मिंस्तदन्नाद्ये प्रतितिष्ठत्यथैतत्कुंतापं यथा छन्दसं शंसति सर्वेषामेव कामानामाप्त्यै नाराशंसी रैभीः कारव्या इन्द्रगाथाभूते छन्दःपारि क्षिती रेतशः प्रलापमित्येतशो ह वै मुनिर्यज्ञस्यायुरदर्शत्सह पुत्रानुवाच पुत्रका यज्ञस्यायुरदर्शंस्तदभिलपिष्यामि मामादृप्तं मंध्वमिति ते ह तथेत्यूचुस्तद्धाभिललाप तस्य ह ज्येष्ठः पुत्रोऽभिसृप्य मुखमभिजग्राहातृपद्वै नः पितेति तं होवाचापनस्य धिक्त्वा जाल्मास्तु पापिष्ठां ते प्रजां करोमि यद्वै मे जाल्ममुखं नाभ्यग्रहीष्यः शतायुषं गामकरिष्यत्सहस्रायुषं पुरुषमिति तस्मादैतशायना आजानेयाः सन्तो भृगूणां पापिष्ठाः पित्रा हि शप्ताः स्वया देवतया स्वेन प्रजापतिना॥५॥

आदित्याङ्गिरसीरुपसंशंसत्यादित्याश्च ह वा अङ्गिरसश्चास्पर्धन्त वयं पूर्वे स्वर्गं लोकमेष्याम इत्यादित्या वयमित्यङ्गिरसस्तेऽङ्गिरस आदित्येभ्यः प्रजिग्युः श्वः सुत्यानोयाजयतन इति तेषां हाग्निर्दूत आस त आदित्या ऊचुरथास्माकमद्य सुत्या तेषां नस्त्वमेव होता स बृहस्पतिर्ब्रह्माऽयास्य उद्गाता घोर आङ्गिरसोऽध्वर्युरिति तान्ह प्रत्याचचक्षिरे तमेताभिः शिशिक्षस्तदेता अभिवदन्ति ते अश्वं श्वेतं दक्षिणा निन्युरेतमेव य एष तपति तत उ ह आदित्याः स्वरीयुः स्वरेति य एवं वेद॥६॥

दिशां क्लृप्तीः शंसति दिशो हास्मै कल्पन्ते जनकल्पाः शंसति जना हास्मै कल्पन्ते प्रवह्लिकाः प्रतीराधानतीवादा महानस्याः सर्वा वाचो

वदति तस्मात्पुरुषः सर्वा वाचो वदत्येकैकामितरे पशवस्ता वा अष्टौ भवन्त्येताभिर्वै देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमाना एताभिरेव सर्वा अष्टरश्नुवते कपृन्नरः कपृथमुद्दधातनं यद्ध प्राचीरजगन्तेति द्वे तथा त आनाक्षिप्यो भवन्ति ता दश संपद्यन्ते दश दशिनी विराट्छ्रीर्विरान्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै॥७॥

दाधिक्रींशंसति वाग्वै दाधिक्री वाचमेवास्मिंस्तद्दधाति पावमानीःशंसति पवित्रं वै पावमान्यः पुनात्येवैनं तत्तमच्छावाकाय प्रयच्छति तं स एव या मरुता चारयति जातं न्यूङ्खयति न्यूङ्खमानक इव वै प्रथमं चिचररिषश्चरति तदेनमनृताच्छन्दसोऽमृतत्वाय प्रजनयति तेऽमृतत्वमाप्नुवन्ति ये षष्ठमहरुपयन्ति स्तोत्रियानुरूपौ शस्त्वा वालखिल्याः शंसत्यात्मा वै स्तोत्रियानुरूपौ प्राणा वालखिल्या अनन्तर्हिता उ हेमे प्राणास्तदाहुः कस्माद्वालखिल्या इति यद्वा उर्वरयोरभिन्नं भवति खिलमिति वै तदाचक्षते वालमात्रा उ हेमे प्राणा असंभिन्नास्तद्यसंभिन्नास्तस्माद्वालखिल्याः॥८॥

तार्क्ष्ये दूरोहणं रोहतीति तदुक्तं गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति द्वितीयेऽहंस्तेनो स मैत्रावरुणस्य वशमेति प्रमंहिष्ठाय बृहते बृहद्रय इति षलृचं द्विस्तावद्यावन्मैत्रावरुणस्य कार्ष्णोऽहरहः पर्यासो भवति कृष्णो हैतदाङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीयसवनं ददर्श तस्मात्कार्णोऽहरहः पर्यासो भवत्यनुष्टस्वच्छावाकाय प्रणयन्ति तृतीयेऽहंस्तेनो स ब्राह्मणाच्छंसिनो वशमेत्युतुर्जनित्रीयं त्रयोदशचं द्विस्तावद्यावद्वाह्मणाच्छंसिन एकाचोपभारद्वाजोऽहरहः पर्यासो भवति भरद्वाजो हैतदच्छावाकीयायै तृतीयसवनं ददर्श तस्माद्भारद्वाजोऽहरहः पर्यासो भवति वैष्णवे विपर्यस्यत्यच्छावाकः पर्यासावितरौ द्विपर्यासौ मैत्रावरुणस्य च ब्राह्मणाच्छंसी चैकपर्यासोऽच्छावाकस्तद्यदच्युतपर्यासोऽच्छावाकः प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव॥९॥

षट्त्रिंशतं मैत्रावरुणश्चतुर्विंशे शंसति चत्वारिंशतं ब्राह्मणाच्छंसी चतुश्चत्वारिंशतमच्छावाकस्तद्विंशतिशतं विंशतिशतवा ऋतोरहानि तदृतुमाप्नोत्यृतुना संवत्सरं ये च संवत्सरे कामाः पञ्च पञ्च सूक्तानि मैत्रावरुणः शंसति सर्वेषु च्छन्दोमेषु पशवो वै छन्दोमाः पाङ्क्ताःपशवःपशूनामेवाऽऽप्त्यै चत्वारि सूक्तानि ब्राह्मणाच्छंसी शंसति प्रथमे च्छन्दोमे पशवो वै च्छन्दोमाश्चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यैपञ्चपञ्चोत्तरयोः पशवो वै छन्दोमाः पाङ्क्ताःपशवः

पशूनामेवाऽऽप्त्यै पञ्चसूक्तान्यच्छावाकः शंसति प्रथमे छन्दोमे पशवो वै च्छन्दोमाः पाङ्क्ताःपशवः पशूनामेवाऽऽप्त्यै षट्षलुत्तरयोः षड्वाऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्ये चतुराहावानि शस्त्राणि पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै षष्ठएवाहन्मैत्रावरुणस्य पञ्चाहावं भवति पशवो वा उक्थानि पाङ्क्ताःपशवः पशूनामेवाऽऽप्त्या ऐकाहिका उक्थयाज्याःप्रतिष्ठा वा एकाहःप्रतिष्ठित्या एवानुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै॥१०॥

पञ्च च्छन्दांसि रात्रौ शंसन्त्यनुष्टुभं गायत्रीमुष्णिहं त्रिष्टुभं जगतीमित्येतानि वै रात्रिच्छन्दांसि पञ्चाहावा रात्रिर्वाजपेयस्य चातिरिक्तोक्थमुक्थस्यातिग्रहो रात्रिश्छन्दशश्छन्दस एव तदाहूयन्त इति ह स्माऽऽह कौषीतकिरजामिताया अथ यत्तिरोअह्न्यवतीं त्रिष्टुभमाश्विनोक्थग्रहस्य पुरोनुवाक्यामन्वाह तिरोअह्न्यवान्प्रैषस्तिरोअह्न्याहिसोमा भवन्त्यथो बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति चतुराहावान्याप्तोर्यामस्यातिरिक्तोक्थानि भवन्ति पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै क्षेत्रपत्याः परिधानीयाः कुर्वत इयं वै क्षेत्रं पृथिव्यस्यामदीनायामन्ततः प्रतिष्ठास्याम इत्यस्यामेव तददीनायामन्ततः प्रतितिष्ठत्यथ यत्तिरोअह्न्यवत्यस्त्रिष्टुभो याज्या भवन्ति तिरोअह्व्याहिसोमा भवन्त्यथो बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधत्यनुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ हारियोजनेन चरन्ति तस्योक्तं ब्राह्मणं त्रिष्टुभं हारियोजनस्य पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणमथ यदतिप्रैषस्य पुरोनुवाक्यामन्वाहावीर्यो वा उ स प्रैषो योऽपुरोनुवाक्योऽथो द्विदेयत्येषु वै पुरोनुवाक्या भवन्ति सर्वेषु च प्रस्थितेषु तस्मादस्य पुरोनुवाक्यामन्वाहाथ यदतिप्रैषमाह परमेवैतदहरभिवदति परमेवैतदहरभ्यारभ्यवसन्तीति हस्माऽऽह कौषीतकिः परमेवैतदहरभ्यारभ्य वसन्तीति ह स्माऽऽह कौषीतकिः॥११॥

इति शाङ्खायनब्राह्मणे त्रिंशोऽध्यायः॥३०॥

इति शाङ्खायनब्राह्मणं समाप्तम् ।

——————

]


  1. " यत्त्रिष्टु।" ↩︎