०१२ स जनास! इन्द्रः

परिचयः

  • इन्द्रः। गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। त्रिष्टुप्।
  • इन्द्रशत्रुपरिचयो ऽत्र खसूचनादिसहितः। तत्रैव गवाम् अपाञ्च मोकस्य विचारः।

महत्त्वम्

०१ यो जात ...{Loading}...

यो᳓ जात᳓ एव᳓ प्रथमो᳓ म᳓नस्वान्
देवो᳓ देवा᳓न् क्र᳓तुना पर्य᳓भूषत्
य᳓स्य शु᳓ष्माद्+++(=बलाद्)+++ रो᳓दसी अ᳓भ्यसेतां+++(←भ्यस भये)+++
नृम्ण᳓स्य+++(=पौरुषस्य)+++ मह्ना᳓ स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०१॥

लोकधारणम्

०२ यः पृथिवीं ...{Loading}...

यः᳓ पृथिवीं᳓ व्य᳓थमानाम् अ᳓दृंहद्+++(←दृहि वृद्धौ)+++
यः᳓ +++(विषुवस्थानकम्पकान्?)+++ प᳓र्वतान् प्र᳓कुपिताँ अ᳓रम्णात्+++(←रमु क्रीडायां)+++ ।
यो᳓ अन्त᳓रिक्षं विममे᳓ व᳓रीयो +++(ऽन्तरिक्षम्)+++
यो᳓ द्या᳓म् अ᳓स्तभ्नात् स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०२॥

+++(अश्मन्वती नामाकाशङ्गेति “महत् तद् उल्बम्” इत्य् अत्र ज्ञायते। अत्राश्मा नाम मेघस् स्याद्, अग्निश् च विद्युत्। अथवा ऽग्निर् विषुवस्थानम् अस्मा ऽकाशगङ्गास्थः।)+++

०३ यो हत्वाहिमरिणात्सप्त ...{Loading}...

यो᳓ हत्वा᳓हिम् +++(मेघरूपम् नक्षत्रस्थं वा)+++ अ᳓रिणात्+++(=प्रैरयत्)+++ +++(द्युगङ्गासहितान्)+++ सप्त᳓ सि᳓न्धून्
यो᳓ +++(वृषराशिस्था अपि)+++ गा᳓ उद्-आ᳓जद्+++(=गमयत्)+++ अप-धा᳓ वल᳓स्य ।
यो᳓ अ᳓श्मनोर् अन्त᳓र् अग्निं᳓ जजा᳓न
संवृ᳓क् सम्-अ᳓त्सु +++(युद्धादिषु)+++ स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०३॥

०४ येनेमा विश्वा ...{Loading}...

ये᳓नेमा᳓ वि᳓श्वा च्य᳓वना+++(=नश्वराणि)+++ कृता᳓नि
यो᳓ दा᳓सं व᳓र्णम् अ᳓धरं गु᳓हा᳓+++(=गूढम्)+++ऽकः+++(=अकरोत्)+++ ।
श्वघ्नी᳓व+++(→व्याध इव)+++ यो᳓ जिगीवा᳓ल्ँ लक्ष᳓म्, आ᳓दद्
अर्यः᳓ +++(शत्रु)+++पुष्टा᳓नि स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०४॥

पूज्यता

०५ यं स्मा ...{Loading}...

यं᳓ स्मा पृच्छ᳓न्ति कु᳓ह से᳓ति घोर᳓म्
उत᳓+ई᳓म् आहुर् नै᳓षो᳓ अस्ती᳓त्य् एनम् ।
सो᳓ अर्यः᳓ पुष्टी᳓र् +++(उद्)+++वि᳓ज इवा᳓ मिनाति+++(=हिनस्ति)+++
श्र᳓द् अस्मै धत्त स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥+++(5)+++ ०५॥

०६ यो रध्रस्य ...{Loading}...

यो᳓ रध्र᳓स्य+++(=समृद्धस्य ← रध हिंसासंराध्योः)+++ चोदिता᳓ यः᳓ कृश᳓स्य
यो᳓ ब्रह्म᳓णो ना᳓ध+++(थ)+++मानस्य कीरेः᳓+++(=कीर्तयितुः)+++ ।
+++(सोमसवाय)+++ युक्त᳓-ग्राव्णो यो᳓ ऽविता᳓ सुशिप्रः᳓+++(=सुशिराः‌\सुहनुः)+++
सुत᳓-सोमस्य स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०६॥

०७ यस्याश्वासः प्रदिशि ...{Loading}...

य᳓स्या᳓श्वासः प्रदि᳓शि+++(=निर्देशे)+++ य᳓स्य गा᳓वो
य᳓स्य ग्रा᳓मा य᳓स्य वि᳓श्वे र᳓थासः ।
यः᳓ सू᳓र्यं य᳓ उष᳓सं जजा᳓न
यो᳓ +++(मेघवृत्रहननेन)+++ अपां᳓ नेता᳓ स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०७॥

सङ्ग्रामजित्

०८ यं क्रन्दसी ...{Loading}...

यं᳓ क्र᳓न्दसी +++(रोदसी)+++ संयती᳓ विह्व᳓येते
प᳓रे᳓ ऽवर उभ᳓या अमि᳓त्राः ।
समानं᳓ चिद् र᳓थम् आतस्थिवां᳓सा
ना᳓ना हवेते स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥+++(4)+++ ०८॥

०९ यस्मान्न ऋते ...{Loading}...

य᳓स्मान् न᳓ ऋते᳓ विज᳓यन्ते ज᳓नासो
यं᳓ यु᳓ध्यमाना अ᳓वसे+++(=अवनाय)+++ ह᳓वन्ते ।
यो᳓ वि᳓श्वस्य प्रतिमा᳓नं बभू᳓व
यो᳓ अच्युतच्यु᳓त् स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ०९॥

१० यः शश्वतो ...{Loading}...

यः᳓ श᳓श्वतो+++(=बहून्)+++ म᳓ह्य्-ए᳓नो द᳓धानान्
अ᳓मन्यमानाञ् छ᳓र्वा+++(=हिंस्रः)+++ जघा᳓न ।
यः᳓ श᳓र्धते+++(←श्रृधु शब्दकुत्सायाम्)+++ ना᳓नुद᳓दाति शृध्यां᳓+++(←श्रृधु शब्दकुत्सायाम्)+++
यो᳓ द᳓स्योर् हन्ता᳓ स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ १०॥

अधिद्यु

११ यः शम्बरं ...{Loading}...

यः᳓ श᳓म्बरं +++(विषुवस्थानकम्पक-ख-)+++प᳓र्वतेषु क्षिय᳓न्तं
चत्वारिंश्यां᳓ +++(तिथौ)+++ शर᳓द्य् अन्व᳓विन्दत् ।
ओजाय᳓मानं यो᳓ अ᳓हिं +++(ज्येष्ठासमीपस्थं/ प्रोष्ठपदस्थं / मेघं)+++ जघा᳓न
दा᳓नुं+++(=दानवं)+++ श᳓यानं स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ ११॥

![](../../../../../jyotiSham/history/images/zodiac_history/bce-2300_naxatra-chakra.png" title=")

+++(खचक्रे ज्येष्ठाविरुद्धं रोहिणीनक्षत्रम् इति ध्येयम्। वृषाकपिसूक्तं स्मारयति। खरेखास् स्यू रश्मयः, आरण्यकोक्ताः पर्जन्या वा, जैमिनीयोपनिषद्ब्राह्मणे वोक्ता वाङ्-मनश्-चक्षुश्-श्रोत्र-प्राणास्वन्नाः ७सु दिक्षु स्थिता नानादेवतारूपेण।)+++

१२ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे ...{Loading}...

यः᳓ सप्त᳓+++(=युक्त)+++-रश्मिर् +++(विपरीतराश्या वर्षणेन वा)+++ वृषभ᳓स् तु᳓विष्मान्+++(=बलवान्)+++
अवा᳓सृजत् स᳓र्तवे+++(=सरणाय)+++ +++(आकाश-गङ्गा-सहितान्)+++ सप्त᳓ सि᳓न्धून् ।
यो᳓ रौहिण᳓म् +++(असुरं खस्थानं वा)+++ अ᳓स्फुरद् व᳓ज्रबाहुर्
द्या᳓म् आरो᳓हन्तं स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ १२॥

१३ द्यावा चिदस्मै ...{Loading}...

द्या᳓वा चिद् अस्मै पृथिवी᳓ नमेते
शु᳓ष्माच् चिद् अस्य +++(विषुवस्थानकम्पका?)+++ प᳓र्वता भयन्ते ।
यः᳓ सोमपा᳓ निचितो᳓ व᳓ज्रबाहुर्
यो᳓ व᳓ज्रहस्तः स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ १३॥

फलस्तुतिः

१४ यः सुन्वन्तमवति ...{Loading}...

यः᳓ सुन्व᳓न्तम् अ᳓वति यः᳓ प᳓चन्तं
यः᳓ +++(शस्त्राणि)+++ शं᳓सन्तं यः᳓ +++(स्तोत्रैः)+++ शशमान᳓म्+++(←शम्)+++ ऊती᳓ ।
य᳓स्य ब्र᳓ह्म व᳓र्धनं य᳓स्य सो᳓मो
य᳓स्येदं᳓ रा᳓धः+++(=वर्धनं/ अनूराधाः ज्येष्ठापार्श्वस्थाः)+++ स᳓ +++(हे)+++ जनास! इ᳓न्द्रः ॥ १४॥

१५ यः सुन्वते ...{Loading}...

यः᳓ सुन्वते᳓ प᳓चते दुध्र᳓+++(=दुर्धरः)+++ आ᳓ चिद्
वा᳓जं द᳓र्दर्षि+++(=प्रापयसि)+++, स᳓ कि᳓लासि सत्यः᳓ ।
वयं᳓ त इन्द्र विश्व᳓ह+++(=सर्वेष्वहस्सु)+++ प्रिया᳓सः
+++(प्रजाभिः)+++ सुवी᳓रासो विद᳓थम्+++(=स्तोत्रम्)+++ आ᳓ वदेम ॥ १५॥