०९ सप्त रश्मयः

परिचयः

अत्रेन्द्रमहत्त्वम् उच्यते। “स जनास इन्द्र” इति सूक्तम् प्रासङ्गिकम्।

इन्द्र-रूपाणि

अयम् एवेदम् अग्र आकाश आसीत्। स उ एवाप्य् एतर्हि+++(=अधुना)+++। १
स यस् स आकाश - इन्द्र एव सः।

स यस् स इन्द्र - एष एव स य एष एव तपति। स एष सप्तरश्मिर् वृषभस् तुविष्मान्+++(=बलवान्)+++। २

वाङ्मयो रश्मिर् अग्निः प्राक्

तस्य वाङ्मयो रश्मिः प्राङ् प्रतिष्ठितः।
सा या सा वाग् - अग्निस् सः।
स दशधा भवति, शतधा, सहस्रधा, ऽयुतधा+++(=१०^४)+++, प्रयुतधा+++(=१०^५)+++, नियुतधा+++(=१०^६)+++ ऽर्बुदधा+++(=१०^७)+++, न्यर्बुदधा+++(=१०^८)+++, निखर्वधा+++(=१०^९)+++, पद्मम्+++(=१०^१०)+++, अक्षितिर्+++(=१०^११)+++, व्योमान्तः+++(=१०^१२)+++। ३

स एष एतस्य रश्मिर् वाग् भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् च वदत्य् - एतस्यैव रश्मिना वदति ४

मनोमयश् चन्द्रमा दक्षिणे

अथ मनोमयो दक्षिणा प्रतिष्ठितः।
तद् यत् तन् मनश् चन्द्रमास् सः।
स दशधा भवति। ५
स एष एतस्य रश्मिर् मनो भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् च मनुत एतस्यैव रश्मिना मनुते। ६

चक्षुर्मय आदित्यः प्रत्यङ्

अथ चक्षुर्मयः प्रत्यङ् प्रतिष्ठितः।
तद् यत् तच् चक्षुर् - आदित्यस् सः।
स दशधा भवति। ७
स एष एतस्य रश्मिश् चक्षुर् भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् च पश्यत्य् एतस्यैव रश्मिना पश्यति। ८

श्रोत्रमयः दिश उदङ्

अथ श्रोत्रमय उदङ् प्रतिष्ठितः।
तद् यत् तच् छ्रोत्रं - दिशस् ताः।
स दशधा भवति। ९
स एश एतस्य रश्मिश् श्रोत्रम् भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् च शृणोत्य् एतस्यैव रश्मिना शृणोति। १०
२८

(नवमेऽनुवाके प्रथमः खण्डः)

प्राणमयो वायुर् ऊर्ध्वः

अथ प्राणमय ऊर्ध्वः प्रतिष्ठितः।
स यस् स प्राणो - वायुस् सः।
स दशधा भवति। १
स एष एतस्य रश्मिः प्राणो भूवा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् च प्राणित्य् एतस्यैव रश्मिना प्राणिति। २

असुमयस् तिर्यङ् ईशानः

अथासुमयस् तिर्यङ् प्रतिष्ठितः। स ह स ईशानो नाम।
स दशधा भवति। ३
स एष एतस्य रश्मिर् असुर् भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् चासुमान् - एतस्यैव रश्मिना ऽसुमान्। ४

अन्नमयो ऽर्वाङ् आपः

अथान्न-मयोऽर्वाङ् प्रतिष्ठितः।
तद् यत् तद् अन्नम् - आपस् ताः।
स दशधा भवति, शतधा, सहस्रधा, ऽयुतधा+++(=१०^४)+++, प्रयुतधा+++(=१०^५)+++, नियुतधा+++(=१०^६)+++ ऽर्बुदधा+++(=१०^७)+++, न्यर्बुदधा+++(=१०^८)+++, निखर्वधा+++(=१०^९)+++, पद्मम्+++(=१०^१०)+++, अक्षितिर्+++(=१०^११)+++, व्योमान्तः+++(=१०^१२)+++। ३
स एष एतस्य रश्मिर् अन्नम् भूत्वा सर्वास्व् आसु प्रजासु प्रत्यवस्थितः।
स यः कश् चाश्नात्य् - एतस्यैव रश्मिना ऽश्नाति। ६

ऋचा सम्बन्धः

स एष सप्तरश्मिर् वृषभस् तुविष्मान्। तद् एतद् ऋचा ऽभ्यनूच्यते -

यः स॒प्त-र॑श्मिर् वृष॒भस् तुवि॑ष्मान्+++(=बलवान्)+++
अ॒वासृ॑ज॒त् सर्त॑वे+++(=सरणाय)+++ +++(आकाश-गङ्गा-सहितान्)+++ स॒प्त सिन्धू॑न् ।
यो रौ॑हि॒णम् +++(असुरं खस्थानं वा)+++ अस्फु॑र॒द् वज्र॑बाहु॒र्
द्याम् आ॒रोह॑न्तं॒ स +++(हे)+++ ज॑नास॒! इन्द्रः॑ ॥ १२॥

इति। ७

“यस् सप्त-रश्मिर्” इति - सप्त ह्येत आदित्यस्य रश्मयः। “वृषभ” इति - एष ह्य् एवासाम् प्रजानाम् +++(रेतो-वर्षणेन)+++ ऋषभः।
“तुविष्मान्” इति - महीया +++(शक्तिर्)+++ +एवाऽस्यैषा। ८
“अवासृजत् सर्तवे सप्त सिन्धून्” इति - सप्त ह्य् एते सिन्धवः +++(पूर्वोक्त-रश्मयः)+++। तैर् इदं सर्वं सितं+++(=बद्धम्)+++। तद् यद् एतैर् इदं सर्वं सितं, तस्मात् सिन्धवः। ९
“यो रौहिणम् अस्फुरद् वज्रबाहुर्” इति - एष हि रौहिणम् अस्फुरद् वज्रबाहुः। १०
“द्यामारोहन्तं स जनास इन्द्र” इति - एष हीन्द्रः! ११ २९

(नवमेऽनुवाके द्वितीयः खण्डः)

साम-रहस्यम्

अनिषेधं साम

“तद् यथा गिरिम् पन्थानस् समुदियुर्”, इति ह स्माह शाट्यायनिर् - एवम् एत आदित्यस्य रश्मयः। एतम् आदित्यं सर्वतो ऽपियन्ति।
स हैवं विद्वान् “ओम्” इत्य् आददान - एतैर् एतस्य रश्मिभिर् एतम् आदित्यं सर्वतो ऽप्य् एति। १ तद् एतत् सर्वतो-द्वारम् अनिषेधं साम। अन्यतो-द्वारं हैनद् एक एवाभ्रङ्-गम् उपासते अतोऽन्यथा विद्युः। २
अथ य एतद् एवं वेद - स एवैतत् सर्वतोद्वारम् अनिषेधं साम वेद। ३

सा एषा विद्युत्। यद् एतन् मण्डलं समन्तम् परि-पतति।
तत् साम अथ यत् परम् अतिभाति, स पुण्यकृत्यायै रसः तम् अभ्यतिमुच्यते। ४

अभ्रातृव्यं साम

तद् एतद् अभ्रातृव्यं साम - न ह वा इन्द्रः कं चन भ्रातृव्यम् पश्यते।
स यथेन्द्रो न कं चन भ्रातृव्यम् पश्यत - एवम् एव न कं चन भ्रातृव्यम् पश्यते,
य एतद् एवं वेदाथो यस्यैवं विद्वान् उद्गायति। ५ ३०

(नवमेऽनुवाके तृतीयः खण्डः। नवमोऽनुवाकस्समाप्तः )