परिचयः
- वाक्यार्थविवरणे अप्राप्तार्थस्य विधेयत्वम्, प्राप्तांशस्य उद्देश्यत्वमिति सिद्धान्तः।
- वाक्यानुपूर्वी कदाचित् समाना भवति चेदपि उद्देश्यविधेयभावः भिद्यते। यथा-
- अनेकेषां पुरुषाणां मध्ये कंचित् निर्दिश्य कश्चित् पृच्छति– ‘अयं कः?’ इति। ‘अयं रामः’- इति तस्य प्रश्नस्य उत्तरं भवति।
- उत्तरवाक्ये ‘अयम्’ इति उद्देश्यम् , ज्ञातत्वात् , ‘रामः’ इति तु विधेयम् , अज्ञातत्वात्।
- कदाचित् तत्रैव ‘अत्र रामः कः?’ इति प्रश्नो भवति। तदापि अङ्गुलिनिर्देशपुरस्सरं वक्ता ‘अयं रामः’ - इति तस्य प्रश्नस्य उत्तरं वदति।
- उत्तरवाक्ये ‘रामः’ इति उद्देश्यम् , ‘अयम्’ इति विधेयम्।
- अनेकेषां पुरुषाणां मध्ये कंचित् निर्दिश्य कश्चित् पृच्छति– ‘अयं कः?’ इति। ‘अयं रामः’- इति तस्य प्रश्नस्य उत्तरं भवति।
- अधिकांशः/ अविवक्षितांशः
- गृहं सम्मार्ष्टि। इत्यस्मिन् एकत्वम् “अविवक्षितम्”।
- दन्तं सम्मार्जय। इत्यस्मिन् एकत्वम् “अविवक्षितम्”।
- अभिज्ञानप्रक्रिया
- ज्ञातांश+अज्ञातांश-कलनेन बहुदा निश्चयो भवति।
- (आर्थी/शाब्दी)भावनाकलनेन स्पष्टतरम् भवति - साध्यस्योद्देश्यप्रायतादि-नियमा अन्यत्रोक्ताः।
- न्यायप्रयोगः।
कृत्यङ्गैः सम्बन्धः
- कृतिः = आर्थी/शाब्दी-भावना ऽन्यत्रोक्ता।
- अग्निहोत्रं जुहोति।
- अग्निहोत्रहोमेन +इष्टम्+++(√इष्+क्त →साध्यम्)+++ भावयेत्।
- विधेयम् - अग्निहोत्रहोमः = सकलविशेषणविशिष्टा ऽऽर्थीभावना। इष्टम् उद्देश्यम्।
- “सर्वत्रावस्थितो न्यायो - भावनांशद्वये विधिः।” अत्र साध्यम् न भवति विधेयम्। साधनम् इतिकर्तव्यता चैव विधीयते।
- [अग्निहोत्रं जुहोति।] दध्ना जुहोति।
- दध्यात्मकद्रव्येण प्रकृतं होमम्+++(→साध्यम्)+++ भावयेत्।
- कृतिः पूर्ववाक्येनोक्ता उद्देश्यकोटौ। दध्नेति तद्विशेषण विधेयम्।
- [पद्मनाभः संस्कृताध्यापकः।] “पद्मनाभस्तु प्राचार्यः ।” इत्यस्यार्थविवरणम् - “पद्मनाभं प्राध्यापकत्वेन भावयेत्”।
विधेय-निश्चय-न्यायाः
- “वाक्यार्थविधिर् अन्याय्यः श्रुत्यर्थ-विधि-सम्भवे” इति वेदमीमांसान्यायः।
- श्रुत्यर्थविधिर् विधिनबोधकशब्दापेक्षया समानपदोपात्तः।
- “अग्निहोत्रं जुहुयात्” इत्यत्र श्रुत्यर्थविधानम्। होमो विधीयते, स च “जुहुयात्” इति विधिबोधकपदेनैव विधीयते।
- “सोमेन यजेत” इत्यत्र सोमविशिष्टयागो विधीयते, न तु सोमद्रव्यम्।
- वाक्यार्थविधिर् विधिनबोधकशब्दापेक्षया समानपदोपात्तः।
- “दध्ना जुहोति” इत्यत्र दधि विधीयते।