परिचयः
- लक्षणा/ भाक्तार्थः / भक्तिः।
मुख्यार्थबाधे तद्योगे
रूढितोऽथ प्रयोजनात्।
अन्योऽर्थो लक्ष्यते यत् सा
लक्षणारोपिता क्रिया॥
“अभिधेयाऽऽविनाभूत-प्रतीतिर् लक्षणोच्यते”
इति तन्त्रवार्तिके।
पद-लक्षणा बाधे हि ग्राह्या। तस्याप्य् अपर्याप्ताव् एव वाक्य-लक्षणा ग्राह्या।
प्रकाराः
बहुव्रीहिः
यौगिकार्थनिश्चये बहुव्रीहौ गृहीते लक्षणा-वृत्तिर् इवाश्रिता - अन्य-पदार्थ-प्राधान्यतः ।