अभिधा

परिचयः

  • वाच्यः / अभिधा/ मुख्यार्थः।
  • पद-शक्तिः मूलम्। वाच्यार्थस्य वाहकः। साक्षात् सङ्केतितः अर्थः। अयम् उपाधिरेव।

पद-वृत्तिः

वृत्तिर् नाम पद-अर्थ-संबन्धः।
कदाचिद् इयम् वाक्यस्थ-पदान्तरापेक्षा।

शक्तिः

  • ईश्वरसङ्केतः। नाम पदश्रवणे अर्थः स्पष्टः। यथाश्रुतार्थः।
  • शक्तिग्रहणाय व्याकरणज्ञानं, कोशदर्शनम्, प्रयोगदर्शनम् इत्यादिः।
  • साक्षात् सङ्केतितं योऽर्थम् अभिधत्ते, स वाचकः।

यौगिकम्

  • योगार्थः ( अवयवार्थ-प्राधान्यम्। )
  • यौगिकार्थ-निश्चये वृत्ति-विभागः - कृत्-तद्धित-समासाः।
  • गो (=गच्छति इति धातुः)
  • द्विरेफः -> रेफ-द्वय-युक्तता -> भ्रमरशब्दः -> ततः पुनः कीटविशेषः।

आख्यातः / तिङ्-प्रत्ययः

  • तिङि धर्मद्वयम् -

  • सामान्यधर्मः - आख्यातत्वम्

  • विशेषधर्मः - लकारः, पुरुषः, वचनम्।

  • “रामो ग्रामं गच्छति” इत्यस्मिन् तिप् एतान् अर्थान् सूचयति -

    • शक्यार्थाः - वर्तमानत्वम् (लकारात्), एकत्वम्।
      • आर्थीभावना/ कृतिः/ प्रयत्नः - आख्यातत्वात्।
    • लक्ष्यार्थः - कर्ता।
  • “राम, गच्छ” इत्यस्मिन् सिप् एतान् अर्थान् सूचयति -

    • शक्यार्थाः - एकत्वम्।
      • आर्थीभावना/ कृतिः/ प्रयत्नः।
      • शाब्दीभावना/ विधिः - लोट्त्वात्।
    • लक्ष्यार्थः - कर्ता।

समासः

समस्त-पदार्थावगत्यै विग्रह-वाक्यं रचयित्वावगन्तव्यम्।

समासे - उभय-पदार्थ-प्राधान्यात् द्वद्व-समासः प्रथमम् ऊह्यः,
तद्-अशक्तौ तत्-पुरुष-समासः,
तद्-असम्भवे ह्य् अन्य-पदार्थ-प्रधानो लक्षणा-कोटि-गो बहुव्रीहिः।

नव्य-न्याय-समास-बोधः

पृथिवी-निष्ठ+-अधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।

इति वाक्ये दृष्टे, यथाक्रमं विग्रहवाक्यं रचनीयम्।

उपेक्ष्यता

कदाचित् तु ते समासा कुघटिताः, यद्-अवगमने काल-नाश एव।
तदा प्रकरणतो ऽर्थानुमानेनालम्।

सम्बन्ध-कलनम्

ईदृशेषु मुख्यांशः सम्बन्धः।
साधारणतया स द्वि-निष्ठः।
ते द्वे अनुयोगि-प्रतियोगि-शब्द-वाच्ये।
तद्-आधारेण नैय्यायिक-समासा अवगन्तव्याः।
यथा -

चैतन्य-विशिष्ट-+अनुयोगिक+++(→)+++- +अपृथक्-सिद्धि– प्रतियोगित्व

इत्यत्र अपृथक्-सिद्धिः सम्बन्धः।
तत्र अनुयोगी चैतन्य-विशिष्टम्। प्रतियोगी किञ्चिद् अन्यत् ।

व्यवच्छेदः

व्यवच्छिन्नम् = विशिष्टम्।

रूढम्

  • रूढार्थाः ( अवयवार्थ-अप्राधान्यम् )। कोश-गता रूढार्था भवन्ति। तत्र केचन बलीयांसः प्रसिद्धेः।
  • कुशल इत्यादिः।
  • रूढाव् अपि विद्वद्-रूढिः, अज्ञ-रूढिर् इति भेदो वर्ततय् इति मध्वः।

योग-रूढम्

  • योगार्थ-रूढार्थ-साम्यम्। पङ्कजम्।

यौगिक-रूढम्

  • योगार्थः‌ भिन्नः‌, रूढार्थः भिन्नः। उभौ अपि प्रामाणिकौ।

अर्थ-विभागाः

जाति-सूचकता

न कश्चन शब्दः व्यक्ति-सूचकः, यद्य् अपि व्यक्तिर् एव अर्थ-क्रियाश्रयः (गां दोग्धुं व्यक्तिर् आवश्यकी न जातिः।)। कुतः? यदि एकस्याः गोव्यक्तेः गोसंज्ञा कृता, का संज्ञा अपरस्याः? तथा विशेषणानां किं प्रयोजनम् स्यात्?

गौः इति न गोव्यक्तिसूचकम्, अपि तु गोजातिसूचकम् / गोधर्मसूचकम्।

वैय्याकरण-मते

वस्तु-धर्मः

गौः शुक्लश्, चलो डित्थ इत्यादौ
चतुष्टयी शब्दानां प्रवृत्तिः।

इति पतञ्जलिः।

  • सिद्धः
    • पदार्थ-प्राणप्रदः। जातिः। प्राणप्रदः = व्यवहार-योग्यता-प्रदः। उदाहरणम् - गौः। अश्वः।
    • विशेषाधान-हेतुः।
      परार्थं स्वसमर्पणम् अत्र। श्वेतः गौः।
  • साध्यः। क्रिया। यथा - पाकक्रिया।??

वक्तृ-यद्-ऋच्छा-सन्निवेशितः

नामानि। यथा - कृष्णः। रामः।

जातौ व्यक्तित्वम्

मीमांसक-मते ऽनुमानम्। मीमांसकमते अभिधावृत्तिमातृका-ग्रन्थे यथा।
गुणोऽपि जातिवाचकः। क्रियापि जातिरेव। नामान्य् अपि इति ते। व्यक्ति-सङ्केतः।

“गौर् अनुबन्ध्यः।” इति वाक्ये गौः जातिसूचकः, तदालम्भनाशक्यत्वात् व्यक्तिर् लक्षिता।

तस्मात् उपादान-लक्षणा अत्र इति मीमांसकाः।

न - तत्र अनुमानं केवलम् इति मम्मटः।

“मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।”

इति न विशेषार्थग्रहणम्। जातेर् व्यक्त्यविनाभावात्, व्यक्तिर् आक्षिप्यत एव।

समुदायवाची अवयवेऽपि।

  • कश्चन शब्दान् न जानातु, सूत्राण्येव जानाति, सोऽपि वैयाकरणः। वने एकदेशे पुष्पजातिः, तदा “वने पुष्पाणि” इति वचनम्।

नैय्यायिकमत उपमितिः - गवयादौ

  • संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः। शब्दार्थज्ञानम्।
  • अङ्गीकर्तारः - बौद्धाः, वैशेषिकाः, चार्वाकाः, साङ्ख्याः।

उपमिति-करणम् उपमानम्। संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः।
तत्-करणं सादृश्य-ज्ञानम्।
अतिदेश-वाक्यार्थ-स्मरणम् अवान्तर-व्यापारः।
तथा हि कश्चिद् गवयशब्दार्थम् अजानन् कुतश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति। तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते॥

अभिधार्थ-निश्चयः

रूढि-विचारः

योगाद् रूढिर् बलीयसी।
तत्रापि प्रकरणोचिता रूढिर् ग्राह्या - वेदेषु विद्वद्-रूढिर् यथा।

रूढि-निश्चये योग-रूढार्थ-ग्राह्यतां यामुन आह -

कॢप्तावयव-शक्त्यैवाभिधानोपपत्तौ सत्याम्
अ-कॢप्ताखण्ड-शक्ति-कल्पना ऽनुपपत्तेः

येन योगार्थो न निराक्रियेत (भागवत-शब्दे यथा),
प्रत्युत प्रकरण-गत-विशेषैस् स नियाम्येत (रथकार-शब्दे यथा)।

अनन्यथा-सिद्ध-प्रयोग-मुख्यता

वाङ्मय-दृष्ट्या मुख्यार्थ-कलने
‘अनन्यथा-सिद्धः प्रयोगः शक्तिं कल्पयती’ति न्यायो वर्तते।
अनेन ब्रह्म-शब्दस्य मुख्य-वृत्तिर् भगवति - अवयव-योग-वृत्त्या,
ब्राह्मणादौ गौण-वृत्तिर् इति वदन्ति।

बृंहति-धातोर् मनिन्-प्रत्ययान्तत्वेन निष्पन्नस्य ब्रह्म-शब्दस्य
प्रधानादिषु दृश्यमानः प्रयोगो
नावयव-शक्ति-निबन्धनः ।+++(5)+++
तथा हि सति बृहन्-महच्-छब्दादिवत् आपेक्षिक-बृहत्त्व-योगिषु सर्व-वस्तुषु प्रयोगः स्यात् । …
पुरुषोत्तम एव प्रवृत्ति-निमित्त-पौष्वल्यवति मुख्यत्वम्, अन्यत्रौपचारिकत्वं च ।

इति श्रुतप्रकाशिकायां सुदर्शनसूरिः॥

वाङ्मय-दृष्ट्या ऽनेक-मुख्यार्थ-कल्पनं
कदाचिद् युज्यते,
यथा - हरिः = विष्णुः, सिंहः।

वाङ्मय-दृष्टिः, वाक्य-दृष्टिश् च

‘‘अर्थात् प्रकरणाल् लिङ्गाद्
औचित्याद् देश-कालतः ।
शब्दार्थाः प्रविभज्यन्ते
न शब्दाद् एव केवलात्’’()

वाङ्मय-दृष्ट्या शब्दस्य मुख्या वृत्तिर् भिन्ना,
वाक्य-दृष्ट्या शब्दस्य मुखा वृत्तिर् भिन्ना।

वाङ्मय-दृष्ट्या यथा -

भगवच्छब्दस्य मुख्यावृत्तिर् नारायणय् इत्य् उच्यते वाङ्मयदृष्ट्या -

एवम् एष महा-शब्दो
मैत्रेय भगवान् इति ।
परम-ब्रह्म-भूतस्य
वासु-देवस्य नान्यगः ॥

तत्र पूज्य-पदार्थोक्ति-
परिभाषा-समन्वितः ।
शब्दो ऽयं नोपचारेण
त्व् अन्यत्र ह्य् उपचारतः ॥

किञ्च

“भगवान् व्यास आह”

इत्य्-अत्र वाक्य-दृष्ट्या मुख्यवृत्त्या / अभिधया पूज्य उच्यत
इति वदन्ति।

सर्व-नाम-शब्दाः

वाक्येषु सर्वनाम-शब्दा हि भ्रमजनकाः।
पूर्वोक्त-विशेष्यं सूचयन्तीति ग्राह्यम्।

  • पूर्वस्थ-परामर्शिनः - “रामो बली। स धीरः।"।
  • बुद्धिस्थ-परामर्शिनः - धूमपानस्थाने - “तदस्ति वा?"।