१७ भागवत-ब्राह्मण्य-प्रमाणम्

विश्वास-प्रस्तुतिः

आह केन पुनः प्रमाणेनैषां ब्राह्मण्यमवगतम्, केन वाऽन्येषाम् ।

Buitenen

He says: By the same means of knowledge by which the brahminhood of one set of people is evident
the brahminhood of another set of people is evident.

मूलम्

आह केन पुनः प्रमाणेनैषां ब्राह्मण्यमवगतम्, केन वाऽन्येषाम् ।

शिखादिभिः

विश्वास-प्रस्तुतिः

ननु चक्षुर्-विस्फारण-समनन्तरं शिखा-यज्ञोपवीत–पालाश-दण्ड–मौञ्जी-युजो द्विज-कुमारकान् पश्यन्तो
“ब्राह्मणा” इत्य् अवगच्छन्ति

Buitenen

121. OBJECTION. But when one sees the small sons of the twice-born who wear the customary hairtuft, sacred thread, palasa wood stick and munjagrass girdle, one knows, the moment the eyes fall on them, that they are brahmins.

मूलम्

ननु चक्षुर्विस्फारणसमनन्तरं शिखा -यज्ञोपवीत -पालाशदण्ड -मौञ्जीयुजो द्विजकुमारकान् पश्यन्तो ब्राह्मणा इत्यवगच्छन्ति

विश्वास-प्रस्तुतिः

इह वा किम् अहर् अहर् अधीयमान-वाजसनेयकैकायन-शाखान् विलसद्-उपवीतोत्तरीय-शिखा-शालिनो ऽध्यापयतो याजयत प्रतिगृह्णतो विदुषः पश्यन्तो ब्राह्मणा इति नावयन्ति ।

Buitenen

REFUTATION. And in our case, when one sees learned people who day after day study the Vajasaneyaka and Ekāyana śākhās, wear prominently their sacred threads, upper garments and hairtufts, impart teaching, sacrifice, receive priestly stipends—does one not instantly know that they are brahmins?

मूलम्

इह वा किमहरहरधीयमानवाजसनेयकैकायनशाखान् विलसदुपवीतोत्तरीयशिखाशालिनोऽध्यापयतो याजयत प्रतिगृह्णतो विदुषः पश्यन्तो ब्राह्मणा इति नावयन्ति ।

यजनादिभिः

विश्वास-प्रस्तुतिः

अथ

याजन-प्रवचन-पालाश-दण्डादीनां दुष्ट-शूद्रादिषु व्यभिचार-संभवाद्
ब्राह्मण्य-सिद्धवत्-कारेण प्रवृत्तेश् च
न तेभ्यो ब्राह्मण्य निर्णयः,

तद्-भागवतेतर-विप्राणम् अपि समानम् ।

Buitenen

If it be held that outcastes, low-caste people etc., may also illegitimately sacrifice, teach, carry palata sticks etc. and that they behave as though they were legitimate brahmins, and that therefore neither costume nor conduct provides positive certainty that a man is a brahmin, then the same applies to other priests than Bhagavatas.

मूलम्

अथ याजन -प्रवचन -पालाशदण्डादीनां दुष्टशूद्रादिषु व्यभिचारसंभवाद् ब्राह्मण्यसिद्धवत्कारेण प्रवृत्तेश्च न तेभ्यो ब्राह्मण्य निर्णयः, तद्भागवतेतरविप्राणमपि समानम् ।

विश्वास-प्रस्तुतिः

अथ सत्य् अपि तेषां क्वचिद् व्यभिचारे,
तत्-सामान्याद् अन्यत्र +++(सद्-भागवतेषु)+++ व्यभिचार-शङ्कायां

शुक्तौ रजत-धियो व्यभिचारात्,
रजते रजत-धियां व्यभिचार-शङ्कावत् प्रत्यक्ष-विरोधात्, अनवस्थानाच् च
अनुपलभ्यमान-व्यभिचारोदाहरणेषु तथात्व-निश्चयस्,

तद्+++(←रजत)+++-अन्यत्रापि समानम् ।+++(5)+++

Buitenen

Or be it granted that there are cases where people illegitimately display the marks of brahminhood;
still, [[102]] though there may be doubt about the legitimacy of these marks in others because of their resemblance to pretenders
(just as when there is a doubt that one may be mistaken about real silver too because one has mistaken nacre for silver),
then there can be certainty of their being genuine brahmins
in all cases when no misapprehension occurs,
because otherwise doubt would conflict with Perception
and lead to infinite regress.

मूलम्

अथ सत्यपि तेषां क्वचिद्व्यभिचारे
तत्सामान्यादन्यत्र व्यभिचारशङ्कायां शुक्तौ रजतधियो व्यभिचारात् रजते रजतधियां व्यभिचारशङ्कावत् प्रत्यक्षविरोधात् अनवस्थानाच्च अनुपलभ्यमानव्यभिचारोदाहरणेषु तथात्वनिश्चयस्तदन्यत्रापि समानम् ।

गोत्रतः

विश्वास-प्रस्तुतिः

अथ मतम्

अन्येषां ब्राह्मण्यं तद्-असाधारण-गोत्र-स्मरणाद्

इति,
तद् भागवतानाम् अपि समानम्,

Buitenen

122. Or if it be held that the others are genuine brahmins because they recollect those gotras which are peculiar to brahmins, the same applies to the Bhagavatas;

मूलम्

अथ मतम् अन्येषां ब्राह्मण्यं तदसाधारणगोत्रस्मरणादिति, तद् भागवतानामपि समानम्,

विश्वास-प्रस्तुतिः

स्मरन्ति हि भागवताः -
वयं भारद्वाजाः वयं काश्यपाः वयं गौतमाः वयमौपगवा इति ।

Buitenen

for the Bhagavatas have the tradition: “We are descendants of Bharadvaja, of Kasyapa, of Gotama, of Upagava.”

मूलम्

स्मरन्ति हि भागवताः -
वयं भारद्वाजाः वयं काश्यपाः वयं गौतमाः वयमौपगवा इति ।

विश्वास-प्रस्तुतिः

न चेदं गोत्रस्मरणं निर्मूलं सामयिकं (आधुनिकम्) वा
सर्वगोत्रस्मरणानां तथाभावप्रसङ्गात् । +++(4)+++

Buitenen

Nor is this recollection or tradition of gotras unfounded or merely contemporary, for the same can be argued for all tradition of gotras.

मूलम्

न चेदं गोत्रस्मरणं निर्मूलं सामयिकं (आधुनिकम्) वा सर्वगोत्रस्मरणानां तथाभावप्रसङ्गात् ।

विश्वास-प्रस्तुतिः

संभाव्यमान-दोषत्वाद्
वंशानां यदि संशयः ।
तद्-ब्राह्मण्ये ततो लोकं
सर्वं व्याकुलयेद् अयम् ॥ +++(4)+++

Buitenen

If there were doubt about descent since error could conceivably occur,
this would confuse the whole world about the authenticity of their brahminhood.

मूलम्

संभाव्यमानदोषत्वाद् वंशानां यदि संशयः ।
तद्ब्राह्मण्ये ततो लोकं सर्वं व्याकुलयेदयम् ॥

विश्वास-प्रस्तुतिः

तथा हि ।

जननी-जार-सन्देह-
जातश् चण्डाल-संशयः ।
निर्विशङ्कः कथं वेदम्
अधीषे साधु सत्तम +++(प्रतिवादिन्)+++? ॥+++(5)+++

Buitenen

After all, anyone may fear that he really is a candala
if he suspects his mother of having had a lover;
and how, my excellent opponent, can you be quite sure yourself that your birth entitled you to Veda-study?

नरसिंहः

अयं बहु-व्रीहिः ‘त्वं’ इत्य् अस्य अध्याहृतस्य विशेषणम् ।

मूलम्

तथा हि ।

जननीजारसन्देहजातश्चण्डालसंशयः ।
निर्विशङ्कः कथं वेदमधीषे साधु सत्तम? ॥

विश्वास-प्रस्तुतिः

तेन भागवतानाम् अ-विच्छिन्न-परम्-परा-प्राप्त–विचित्र-गोत्र-स्मरण–पर्यवस्थापितं
ब्राह्मण्यम् अनपोदितम् आस्ते
इति न भागवतानाम् अन्येषाञ्च ब्राह्मण्ये कश्चिद् विशेषः ।

Buitenen

Therefore if the brahminhood of Bhagavatas,
which is completely established by the recollection of the various gotras
which has been passed on in uninterrupted transmission, stands unchallenged,
then there is no difference whatever in this
between the brahminhood of Bhagavatas and of others.

मूलम्

तेन भागवतानामविच्छिन्नपरम्पराप्राप्तविचित्रगोत्रस्मरणपर्यवस्थापितं ब्राह्मण्यमनपोदितमास्ते इति न भागवतानामन्येषाञ्च ब्राह्मण्ये कश्चिद्विशेषः ।

देवता-विवेकतः

विश्वास-प्रस्तुतिः

यदि परं

ते परम-पुरुषम् एवाश्रिता एकान्तिनः,
अन्ये क्षुद्र-दैवतिकास् साधारणा

इति,

किं पुनर् एतेषां ब्राह्मण्ये प्रमाणम् अभिहितं
यद् एवान्येषाम्?

Buitenen

123. Further, if some who believe in the Supreme Person are monotheists and others who believe in [[103]] petty godlings are polytheists,

is then the same authority stated for the brahminhood of the ones as well as of the others,

नरसिंहः

अन्येषां ब्राह्मणत्वेन प्रसिद्धानां ब्राह्मण्य-ग्रहणे यत् प्रमाणं, तद् एव एतेषां भागवतानां ब्राह्मण्य-ग्रहणे प्रमाणं भवतीति ग्रन्थ-कृद्-वचः ।

मूलम्

यदि परं ते परमपुरुषमेवाश्रिता एकान्तिनः, अन्ये क्षुद्रदैवतिकास्साधारणा इति, किं पुनरेतेषां ब्राह्मण्ये प्रमाणमभिहितं यदेवान्येषाम्,

राममिश्रशास्त्री

तांस्तु भगवानेव -

तेऽपि मामेव कौन्तेय
यजन्त्य् अविधिपूर्वकम्

इति विनिनिन्द ।

विश्वास-प्रस्तुतिः

केन वा तेषां ब्राह्मण्यम् अवगतम्
किन् न एतेन,

Buitenen

or how else is their brahminhood known
if not by that same authority?

नरसिंहः

अस्माकम् एतेन विवादेन को लाभः? तथापि श्रूयताम् इत्य् आह ।

मूलम्

केन वा तेषां ब्राह्मण्यमवगतम् किन्न एतेन,

राममिश्रशास्त्री

न केवलं ममैव ब्राह्मण्य-निरुपण-भार
आवयोर् उभयोर् एव
तस्य निरूपणीयत्वेन समत्वाद् इति भावः ।

निर्णय-प्रकारः

विश्वास-प्रस्तुतिः

यदि च कौतूहलम् -

श्रूयताम् उभयत्रापि
ब्राह्मण्यस्यावधारकम् ।
प्रत्यक्षं वाऽनुमानं वा
यद् वाऽर्थापत्तिर् एव वा ॥

Buitenen

If this is the question, then listen:
there remains a criterion to determine brahminhood in either case,
either Perception, or Inference, or Circumstantial-Implication.

मूलम्

यदि च कौतूहलम् -

श्रूयतामुभयत्रापि ब्राह्मण्यस्यावधारकम् ।
प्रत्यक्षं वाऽनुमानं वा यद्वाऽर्थापत्तिरेव वा ॥

प्रत्यक्षे शङ्का

विश्वास-प्रस्तुतिः

ननु कथं प्रत्यक्षं ब्राह्मण्यमवगमयति,

Buitenen

124. OBJECTION. But how can Perception convey that they are brahmins?

मूलम्

ननु कथं प्रत्यक्षं ब्राह्मण्यमवगमयति,

विश्वास-प्रस्तुतिः

न हि प्रथमाक्ष-सन्निपात-समनन्तरम्
अ-दृष्ट-पूर्व-विप्र-क्षत्र-समान-वयो-वेष- पिण्ड-द्वय-सन्निधाव्
अज-गज-महिषादि-विशेषवद्
“अयं ब्राह्मणः”, “अयं क्षत्रिय”
इति विभागेन प्रतिपद्यामहे ।

Buitenen

For when we are close to two individuals whom we have not seen before, one a brahmin, the other a ksatriya, of the same age and the same appearance, we do not immediately observe the distinction that one is a brahmin and the other a ksatriya in the same way as we instantly observe the differentness of a goat, an elephant, a buffalo etc.

मूलम्

न हि प्रथमाक्षसन्निपातसमनन्तरमदृष्टपूर्वविप्र -क्षत्रसमानवयोवेषपिण्डद्वयसन्निधावजगजमहिषादिविशेषवद् अयं ब्राह्मणः अयं क्षत्रिय इति विभागेन प्रतिपद्यामहे ।

विश्वास-प्रस्तुतिः

न च

तत्-पित्रादि-ब्राह्मण्य-स्मरण-सापेक्षम् अक्षम् एव
सन्निहित-व्यक्ति-वर्ति ब्राह्मण्यम् अवगमयति

इति साम्प्रतम्,
तत्-स्मरणस्यैव
+++(तत्-पितृ-)+++पूर्वानुभव-विरहेण वन्ध्या-सुत-स्मरणवद् अनुपपत्तेः ।
+++(पूर्वानुभव-साहित्ये ऽप्य् अनवस्था-दोषेणानुपपत्तेः। )+++

Buitenen

Nor is it proper to maintain that

the visual sense conveys the brahminhood of a nearby individual
in dependence on our recollection of his father’s brahminhood etc.;
for that recollection itself is impossible without a previous immediate cognition,
just as the recollection of the son of a sterile mother is impossible.

मूलम्

न च तत्पित्रादिब्राह्मण्यस्मरणसापेक्षमक्षमेव सन्निहितव्यक्तिवर्ति ब्राह्मण्यमवगमयतीति साम्प्रतम्, तत्स्मरणस्यैव पूर्वानुभवविरहेण बन्ध्यासुतस्मरणवदनुपपत्तेः ।

अनुमाने शङ्का

विश्वास-प्रस्तुतिः

न चानुमानात् -
तत्-प्रतिबद्ध-लिङ्गादर्शनात् ।

Buitenen

Nor can we know from Inference that a man is a brahmin,
for we do not find a concomitant mark.

मूलम्

न चानुमानात्तत्प्रतिबद्धलिङ्गादर्शनात् ।

विश्वास-प्रस्तुतिः

न च शम-दम-तपश्-शौचादयो ब्राह्मण्ये लिङ्गम्,
तेषां ब्राह्मणेन सता संपाद्यत्वाद्, व्यभिचाराच् च ।

Buitenen

And such qualities as tranquillity, self-restraint, austerity, purity etc., cannot be taken as marks of brahminhood, because they are available only in the case of a good brahmin and because they are not exclusively confined to brahmins.

मूलम्

न च शम दम तपश्शौचादयो ब्राह्मण्ये लिङ्गम्, तेषां ब्राह्मणेन सता संपाद्यत्वाद् व्यभिचाराच्च ।

अर्थापत्तौ शङ्का

विश्वास-प्रस्तुतिः

न चार्थाप्रत्या ब्राह्मण्य-निर्णयः, अनुपपत्त्य्-अभावात्,

Buitenen

Nor can Circumstantial-Implication furnish proof of brahminhood,
because it is not lacking in reason

मूलम्

न चार्थाप्रत्या ब्राह्मण्यनिर्णयः, अनुपपत्त्यभावात्,

विश्वास-प्रस्तुतिः

न च वसन्ते ब्राह्मणोऽग्नीन् आदधीत

इत्य्-आदि-वाक्यार्थानुपपत्त्या ब्राह्मण्यनिर्णयः, ब्राह्मण्यादिपदार्थावगमपूर्वकत्वात् तद्वाक्यार्थावगमस्य,

Buitenen

[[104]]
and the fact that the sentence-meaning of the statement,

“In spring the brahmin must add fuel to the fire,” 250

is otherwise unestablished
does not therefore by Circumstantial-Implication
furnish proof that a man is a brahmin;
for knowledge of that sentencemeaning presupposes knowledge of the word-meaning of brahminhood etc.

[250]: not identified.

नरसिंहः

Taittirīya Brāhmaṇa I.1.2.

मूलम्

न च वसन्ते ब्राह्मणोऽग्नीनादधीत इत्यादिवाक्यार्थानुपपत्त्या ब्राह्मण्यनिर्णयः, ब्राह्मण्यादिपदार्थावगमपूर्वकत्वात् तद्वाक्यार्थावगमस्य,

प्रत्यक्षम्

विश्वास-प्रस्तुतिः

नायं दोषः,

Buitenen

125. REFUTATION. All this does not make for a defect in my argument.

मूलम्

नायं दोषः,

विश्वास-प्रस्तुतिः

न हि

प्रथमाक्ष-संप्रयोगसमय एव भासमानं प्रत्यक्षं
नान्यद्

इत्य् अस्ति नियमः,

Buitenen

There is no invariable rule that
Perception becomes manifest only at the first contact between sense and object and not otherwise.

मूलम्

न हि प्रथमाक्षसंप्रयोगसमय एव भासमानं प्रत्यक्षं नान्यदित्यस्ति नियमः,

विश्वास-प्रस्तुतिः

यद् एवेन्द्रिय-व्यापारानुवृत्तौ सत्याम्
अ-परोक्षम् अवभासते
तत् प्रत्यक्षं

Buitenen

Perception is that which illumines the unmanifest
while there is continuity of the operation of the senses.

मूलम्

यदेवेन्द्रियव्यापारानुवृत्तौ सत्यामपरोक्षमवभासते तत्प्रत्यक्षं

विश्वास-प्रस्तुतिः

तथा च ब्राह्मण्यम् इति - तद् अपि प्रत्यक्षम्, +++(5)+++

Buitenen

Thus there can be Perception of brahminhood;

मूलम्

तथा च ब्राह्मण्यमिति तदपि प्रत्यक्षम्,

विश्वास-प्रस्तुतिः

प्रतीमो हि वयम् उन्मीलित-लोचनाः
तत्-सन्तति-विशेषानुसंधान-समनन्तरं
वसिष्ठ-काश्यपीय–शठ-मर्षण–प्रभृति- विचित्र-गोत्र-कुल-शालिषु समाचार-शुचिषु
विलसद्-उपवीतोत्तरीय-शिखा-मौञ्जी-बन्धेषु
स्फुटतर-सन्दधद्-ब्राह्मण्यम् । +++(4)+++

Buitenen

for when we keep our eyes open we note,
immediately upon observing the particular differentiae of the genus brahminhood,
that the brahminhood is quite clearly noticeable in those who belong to the families of the different gotras-Vasistha, Kasyapiya Sathamarṣaṇa etc.–,
who are pure in their conduct,
and who display the sacred thread, upper cloth, hairtuft and munja grass girdle.

मूलम्

प्रतीमो हि वयमुन्मीलितलोचनाः तत्सन्ततिविशेषानुसंधानसमनन्तरं वसिष्ठ-काश्यपीय -शठमर्षणप्रभृतिविचित्रगोत्रकुलशालिषु समाचारशुचिषु विलसदुपवीतोत्तरीयशिखामौञ्जीबन्धेषु स्फुटतरसंदधद् ब्राह्मण्यम् ।

विश्वास-प्रस्तुतिः

न चैतद् अ-लौकिकं
यत् “सन्तति-विशेषानुसंधान-सापेक्षम् अक्षं
ब्राह्मण्यं ग्राहयती"ति,

Buitenen

Nor does it run counter to ordinary experience that the eyes can convey brahminhood in dependence on the observation of the peculiarities of genus.

मूलम्

न चैतदलौकिकं यत्सन्ततिविशेषानुसंधानसापेक्षमक्षं ब्राह्मण्यं ग्राहयतीति,

विश्वास-प्रस्तुतिः

सर्वत्र देश-काल-संस्थानादीतिकर्तव्यताऽनुगृहीतम् एवेन्द्रियं
स्व-गोचर-परिच्छेदोत्पादे कारणम् भवति। +++(5)+++

Buitenen

In every case the sense becomes the cause of the rise of determination of sense-object when favoured by the accompanying circumstances of place, time, configuration etc.251

[251]: read deśakālasaṃsthānāditi.[[??]]

नरसिंहः

सर्वत्र … Cf. Ślokavārtika under I.1.5, śl. 26 (vanavāda) :

तस्योपलक्षणं चापि क्वचित् केनचिद् इष्यते ।
रूपादीनां विशेषेण देश-कालाद्य्-अपेक्षया ॥

परिच्छेदः = ज्ञानं, निर्णयो वा ।

मूलम्

सर्वत्र देशकालसंस्थानादीतिकर्त्तव्यतानुगृहीतमेवेन्द्रियं स्वगोचरपरिच्छेदोत्पादे कारणम्भवति ।

विश्वास-प्रस्तुतिः

करण-मात्रस्यायं स्वभावो यद् इतिकर्त्तव्यतापेक्षणम् ।

Buitenen

It is the natural function of the sense-organ as such to relate itself to these accompanying circumstances.

नरसिंहः

करण-मात्रम् = करण-सामान्यम् ।

मूलम्

करणमात्रस्यायं स्वभावो यदितिकर्त्तव्यतापेक्षणम् ।

विश्वास-प्रस्तुतिः

यथा ऽऽह -

न हि तत् +++(ज्ञान-)+++कारणं लोके
वेदे वा किञ्चिद् ईदृशम् ।
इति-कर्तव्यता-साध्ये
यस्य नानुग्रहेऽर्थिता ॥

इति,

Buitenen

As the author says:

“No organ of knowledge, whether in Veda or in ordinary process,
becomes efficacious in determining the object
that is to be realized through the accompanying circumstances
unless it is favoured by these circumstances.252

[252]: not identified.

नरसिंहः

Ślokavārtika (Sambandhākṣepavāda) under I.i.5.śl. 37.

‘इति-कर्तव्यता-साध्ये’ अङ्गाधीने; ‘अनुग्रहे’ उपकारे; ‘अर्थिता’ सापेक्षता इति भावः ।

Cf. Nyāyaratnākara (Chowkhamba edn.) on the above verse p.507:

सर्वत्र चक्षुरादौ प्रदीपाद्य्-अर्थित्व-दर्शनाद् ऐकान्तिकं सहायापेक्षणं नाशक्तिम् आपादयति । प्रस्तुत इति-कर्तव्य-तयैव करणत्वं, तद्-अभाव एव तस्य सिध्यति ।

मूलम्

यथा ऽऽह -
न हि तत्कारणं लोके वेदे वा किञ्चिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ इति,

विश्वास-प्रस्तुतिः

ततश् च सन्तति-स्मृत्या
ऽनुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं
प्रत्यक्षत्वं न मुञ्चति

Buitenen

[[105]]
Consequently the visual sense, when favoured by the recollection of genus,
gives knowledge of brahminhood
without the object giving up its perceptuality.

नरसिंहः

Veṅkaṭanātha quotes this and the following verse in his Nyāyasiddhāñjana V. p. 267.

Cf. Prakaraṇapañcikā III. p. 17:

जातिर् आश्रयतो भिन्ना प्रत्यक्ष-ज्ञान-गोचरा ।
पूर्वाकारावमर्शेन प्रभाकर-गुरोर् मता ॥

मूलम्

ततश्च सन्ततिस्मृत्यानुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥

विश्वास-प्रस्तुतिः

तथा च दृश्यते नाना
सहकारि-व्यपेक्षया ।
चक्षुषो जाति-विज्ञान-
करणत्वं यथोदितम् ॥

Buitenen

So it is evident that the visual sense can be the instrument of knowledge of genus in dependence on a variety of accompanying factors.

नरसिंहः

श्लोक-वार्तिक इति भावः ।

मूलम्

तथा च दृश्यते नाना सहकारिव्यपेक्षया ।
चक्षुषोजातिविज्ञानकरणत्वं यथोदितम् ॥

विश्वास-प्रस्तुतिः

सुवर्णं व्यज्यते रूपात्
ताम्रत्वादेर् असंशयम् ।
तैलाद् घृतं विलीनञ् च
गन्धेन तु रसेन वा ॥

Buitenen

Gold becomes manifest through its colour fromcopper etc., gheeis differentiated from oil, through its smell and taste;

मूलम्

सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद् घृतं विलीनञ्च गन्धेन तु रसेन वा ॥

विश्वास-प्रस्तुतिः

भस्म-प्रच्छादितो वह्निः
स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे
निश्चयो जायते ध्वनेः ॥

Buitenen

fire, which is hidden by ashes, perceived through touching the ashes.

Sound may provide us with proof that there is a horse in the distance;

नरसिंहः

Cf. Ślokavārtika (Vākyādhikaraṇa) śl. 358, p. 947:

पश्यतः श्वेतिमारूपं हेषा-शब्दं च शृण्वतः ।
खुर-निक्षेप-शब्दं च श्वेतो ऽश्वो धावतीति धीः ॥

मूलम्

भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥

विश्वास-प्रस्तुतिः

संस्थानेन घटत्वादि
ब्राह्मणत्वादि योनितः ।
क्वचिद् आचारतश् चापि
सम्यग् राज्यानुपालितात् ॥ +++(4)+++

इति ॥

Buitenen

a pitcher etc. are known through their configuration; brahminhood through descent, and also through conduct in certain particulars, which is completely protected by the king.

नरसिंहः

Vide ibid (Vanavāda) I. i.5, śls. 27 & 29.

मूलम्

संस्थानेन घटत्वादि ब्राह्मणत्वादियोनितः ।
क्वचिदाचारतश्चापि सम्यग्राज्यानुपालितात् ॥

इति ॥

विश्वास-प्रस्तुतिः

यत् समान-वयो-वेष-
पिण्ड-द्वय–विलोकने
तत्-क्षणाद् अक्षतो भेदो
नावभातीति भाषितम् ॥

Buitenen

It has been contended that when we see two individuals of the same age and appearance, the difference between the two does not immediately appear to eye;
but the perceptuality of their differentness is not refuted by just this.

मूलम्

यत्समानवयोवेषपिण्डद्वयविलोकने ।
तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥

विश्वास-प्रस्तुतिः

नैतावता विभागस्य
प्रत्यक्षत्वं निवर्तते
सादृश्य-दोषात् तत्र स्याद्
विभागस्यानवग्रहः ॥

Buitenen

In this case the non-perception of their differentness is caused by the defect of similarity.

नरसिंहः

विभागो भेदः, विशेषो वा ।

मूलम्

नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते ।
सादृश्यदोषात्तत्र स्याद् विभागस्यानवग्रहः ॥

विश्वास-प्रस्तुतिः

समान-रूप-संस्थान-
शुक्तिका–कल-धौतयोः ।
विवेकः सहसा नाभाद्
इति कालान्तरेऽपि किम् ॥
प्रत्यक्षो न भवेद् एवं
विप्र-क्षत्र-विशां भिदा । +++(5)+++

Buitenen

The difference between nacre and silver, which are similar in appearance and configuration, may not be immediately visible, yet that does not mean that their difference is not visible at another time; and the same holds for the difference between brahmin, kṣatriya and vaisya.

मूलम्

समानरूपसंस्थानशुक्तिका-कलधौतयोः ।
विवेकः सहसा नाभादिति कालान्तरेऽपि किम् ॥ प्रत्यक्षो न भवेदेवं विप्रक्षत्रविशां भिदा ।

सन्तति-कार्यत्वम्

विश्वास-प्रस्तुतिः

यद्वा संतति-विशेष-प्रभवत्वम् एव ब्राह्मण्यम्,

Buitenen

Or else, brahminhood is that which arises from the differentiae of genus,

नरसिंहः

Cf. Prakaraṇapañcikā, III, p. 31:

तेन सन्तति-विशेष-प्रभवत्वम् एव ब्राह्मण-शब्द-प्रवृत्ताव् उपाधिः । तत्-प्रभवानाम् एव कर्मस्व् अधिकार इति न किञ्चिद् अवहीनम् । के पुनस् ते सन्तति-विशेषाः? न ते परिगणय्य निर्देष्टुं शक्यन्ते; किन्तु लोकत एव प्रसिद्धाः प्रत्येतव्याः । तथा च तज्-जन्यत्वे ऽवगते ब्राह्मण-शब्दं प्रयुञ्जते लोकाः ।

मूलम्

यद्वा संततिविशेषप्रभवत्वमेव ब्राह्मण्यम्,

विश्वास-प्रस्तुतिः

तच् चान्वय-व्यतिरेकाभ्यां
यथाऽऽलोकं कार्यान्तरवद् अवगन्तव्यम् एव,

Buitenen

and such a product can empirically be known just like any other product
by a process of positive and negative consideration,

नरसिंहः

कपाल-द्वय-योग एव घटोत्पत्तिः; नो चेत् । एवं, एतादृश-पितृ-मातृ-कारणत्व एव ब्राह्मणत्वं, न त्व् अन्यथा इति भावः ।

मूलम्

तच्चान्वयव्यतिरेकाभ्यां यथालोकं कार्यान्तरवदवगन्तव्यमेव,

विश्वास-प्रस्तुतिः

+++(यथा)+++

के पुनः सन्ति विशेषा,
येषु ब्राह्मण-शब्दं प्रयुञ्जते वृद्धाः?
केषु वा प्रयुञ्जते?

Buitenen

e.g. “what are the specific characteristics to which the elders apply the term brahminhood, or to which characteristics is the term applied?”

मूलम्

के पुनः सन्ति विशेषा येषु ब्राह्मणशब्दं प्रयुञ्जते वृद्धाः केषु वा प्रयुञ्जते, ।

विश्वास-प्रस्तुतिः

उक्तं गोत्रार्षेयादि-
स्मृतिमत्स्व् इत्य् अनेकशः ।
आस्ताम् अ-प्रस्तुता चिन्ता
प्राची प्रस्तूयते कथा ॥
सिद्धं गोत्रादि-युक्तत्वाद्
विप्रा भागवता इति ।

Buitenen

[[106]]
It has been said often that it applies to those who possess recollection of gotra, Vedic ancestry etc.; let us not start discussing this question again, or we must repeat our old argument:

it is established that the Bhagavatas are brahmins, because they possess gotra etc.

मूलम्

उक्तं गोत्रार्षेयादिस्मृतिमत्स्वित्यनेकशः ।
आस्तामप्रस्तुता चिन्ता प्राची प्रस्तूयते कथा ॥
सिद्धं गोत्रादियुक्तत्वाद् विप्रा भागवता इति ।

वैश्य-व्रात्य-मूलं न

विश्वास-प्रस्तुतिः

वैश्यव्रात्यान्वये जन्म
यद् एषाम् उपवर्णितम् ॥

Buitenen

126. The objection that was made that the Bhāgavatas are born from a vaiśya vratya:

नरसिंहः

See p. 13 above, for the pūrvapakṣa view.

मूलम्

वैश्यव्रात्यान्वये जन्म यदेषामुपवर्णितम् ॥

विश्वास-प्रस्तुतिः

पञ्चमस् सात्त्वतो नाम
विष्णोर् आयतनानि सः ।
पूजयेद् आज्ञया राज्ञः
स तु भागवतः स्मृतः ॥

Buitenen

([253]: supra § 15. [[143]] )

“The fifth one, the Sarvata, must worship the sanctuaries of Visnu by royal decree;”

नरसिंहः

To be identified.

मूलम्

पञ्चमस्सात्त्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञः स तु भागवतः स्मृतः ॥

विश्वास-प्रस्तुतिः

वैश्यात् तु जायते व्रात्याद्

इति वाक्यद्वयेक्षणात् ।

Buitenen

and

“he is also called a Bhagavata; he is born from a vaisya vratya.”

- On the authority of the two statements.

नरसिंहः

Cf. Manusmṛti X. 23:

वैश्यात् तु जायते व्रात्यात् सुधन्वा ऽऽचार्य एव च ।
भारुषश् च निजङ्घश् च मैत्रस् सात्वत एव च ॥

मूलम्

वैश्यात्तु जायते व्रात्यादिति वाक्यद्वयेक्षणात् ।

प्रयोगान्तराणि

विश्वास-प्रस्तुतिः

अत्र ब्रूमः किम् एताभ्यां
वचनाभ्यां प्रतीयते ॥
अभिधानान्वयो वा स्यान्
नियमो वाऽभिधीयताम् ।

Buitenen

To this we reply:
precisely what do we learn from these two statements?
Is there a simple connection of names,
or must an invariable rule be stated ?

[254]: ie., is the same name used for several groups or only one?

मूलम्

अत्र ब्रूमः किमेताभ्यां वचनाभ्यां प्रतीयते ॥
अभिधानान्वयो वा स्यान्नियमो वाऽभिधीयताम् ।

विश्वास-प्रस्तुतिः

न तावत्

“सात्त्वत-भागवत-शब्दौ वैश्य-व्रात्याभिधायकाव् एव”

इति नियन्तुं शक्यौ - अप्रतीतेः, अतिप्रसङ्गाच्च,

Buitenen

In It is impossible to make it a rule that the words Bhagavata and Satvata denote a vaiśya vratya, for that is not known from the text, and it involves overextension.

मूलम्

न तावत् सात्त्वत-भागवत-शब्दौ वैश्यव्रात्याभिधायकावेवेति नियन्तुं शक्यौ अप्रतीतेः, अतिप्रसङ्गाच्च,

विश्वास-प्रस्तुतिः

न हि “पञ्चमः सात्त्वत” इत्यत्र
सात्त्वत-भागवत-शब्दयोर् अर्थान्तराभिधान-प्रतिषेधः प्रतीयते -
श्रुत-हान्य्–अश्रुत-कल्पना-प्रसङ्गात्।

Buitenen

In the statement, “the fifth one, Satvata,” we do not find a denial that the words Bhagavata and Satvata denote other meanings, for that would mean ignoring the explicit and inventing the unstated.

मूलम्

न हि “पञ्चमः सात्त्वत” इत्यत्र
सात्त्वतभागवतशब्दयोरर्थान्तराभिधानप्रतिषेधः प्रतीयते
श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्।

विश्वास-प्रस्तुतिः

इह हि व्रात्य-वैश्यान्वय-जन्मा यः पञ्चमः
सात्त्वत इति तस्य सात्त्वत-संज्ञान्वयो ऽवगम्यते
पञ्चम-शब्दस्य प्रथम-निर्दिष्टत्वेनोद्देशकत्वात्।

Buitenen

In our statement the fifth one,
who is born from an vaisya vratya,
is understood to bear the name of Satvata:
“The fifth one, Sarvata…”, since the word ‘fifth’ is the operative term as it is mentioned first.

मूलम्

इह हि व्रात्यवैश्यान्वयजन्मा यः पञ्चमः सात्त्वत इति तस्य सात्त्वतसंज्ञान्वयोऽवगम्यते पञ्चम शब्दस्य प्रथम निर्दिष्टत्वेनोद्देशकत्वात् (उद्देश्यसमर्थकृत्वादित्यर्थः)।

राममिश्रशास्त्री

उद्देश्यसमर्थकृत्वादित्यर्थः

विश्वास-प्रस्तुतिः

न च पञ्चमस्य सात्त्वतत्वे
सात्त्वतेनापि वैश्य-व्रात्य-पञ्चमेन भवितव्यम्,

Buitenen

And if the fifth is the Satvata,
the Satvata is not necessarily also be the fifth, namely the vaiśya vratya.

मूलम्

न च पञ्चमस्य सात्त्वतत्वे सात्त्वतेनापि वैश्यव्रात्यपञ्चमेन भवितव्यम्,

विश्वास-प्रस्तुतिः

न हि उद्दिश्यमानस्याग्निमत्त्वे
उपादीयमानस्याग्नेर् धूमवत्त्वेन भवितव्यम्
+++(अयोगलोऽपि स्यात् तत्र)+++

Buitenen

For when the stated subject (e.g. a mountain) is possessed of fire,
the predicated fire does not necessarily possess smoke.255

  1. The argument is: if S is P, then P is not therefore S.

The example is ‘parvato ‘gnimin dhumavattvāt if we interchange S and P, we get parvato dhumavin agnimattvåt, but this is not true, for though there is no fireless smoke, there is smokeless fire. Similarly here: the fifth may be a sitvata or a vaidya vratya, but being the fifth does not make the sitvata a vaidya vratya,

नरसिंहः

‘उद्दिश्यमानस्य’ धूमवत इत्य् अर्थः ।

मूलम्

न हि उद्दिश्यमानस्याग्निमत्त्वे उपादीयमानस्याग्नेर् धूमवत्त्वेन भवितव्यम् ।

विश्वास-प्रस्तुतिः

अतो नेदृश-स्मृति-पर्यालोचनया सात्त्वत-भागवत-शाब्दितानां व्रात्यत्व-निश्चयः ।

Buitenen

Consequently the consideration if a smrti statement of this kind cannot give certainty that the words Satvata, Bhagavata etc mean vratya.

मूलम्

अतो नेदृश-स्मृति-पर्यालोचनया सात्त्वत-भागवत-शाब्दितानां व्रात्यत्व-निश्चयः ।

आचार्य-शब्दादौ व्यभिचारः

विश्वास-प्रस्तुतिः

यदि पुनर्

अनयोर् जात्य्-अन्तरे ऽपि प्रयोगो दृष्ट

इति +एतावता तच्-छब्दाभिधेयतया भगवच्-छास्त्रानुगामिनाम् अपि विप्राणां तज्-जातीयत्व-निश्चयः,
ततस् तत्रैव सह-पठिताचार्य-शब्दस्यापि निकृष्ट-व्रात्यापत्ये प्रयोग-दर्शनात्
साङ्ग-स-रहस्य-वेद–दातुर् द्विज-परस्यापि व्रात्यत्वं स्यात् । +++(4)+++

Buitenen

127. If it be argued that since these two words also may denote another caste (namely of the vaisya vratyas),
then the mere fact that certain brahmins are denoted by these words proves that these brahmins belong to that caste,
even though they follow the doctrine of the Bbagavan,
it would also follow that, since we find the collocated word acaryas256 also used to denote the issue of a lowly vaisya,
therefore an eminent brahmin who is an acarya imparting teaching of the Veda with its ancillae and its esoteric teachings is thereby denoted as being a vaisya vratya!

[256]: In the Manu quotation supra § 15.

नरसिंहः

यदि … This paragraph is in elucidation of the word “atiprasaṅgācca” used in the para “na tāvat” etc. above.

सहपठिताचार्य … The term ‘ācārya’ is from the Manusmṛti X. 23a:

वैश्यात् तु जायते व्रात्यात् सुधन्वा ऽऽचार्य एव च ।

मूलम्

यदि पुनरनयोर्जात्यन्तरेऽपि प्रयोगो दृष्ट इति एतावता तच्छब्दाभिधेयतया भगवच्छास्त्रानुगामिनामपि विप्राणां तज्जातीयत्वनिश्चयः, ततस्तत्रैव सहपठिताचार्यशब्दस्यापि निकृष्टव्रात्यापत्ये प्रयोगदर्शनात् साङ्गसरहस्यवेददातुर्द्विजपरस्यापि व्रात्यत्वं स्यात् ।

विश्वास-प्रस्तुतिः

अथ

तस्य व्रात्य-वाचकाचार्य-शब्दाभिधेयत्वेऽपि
प्रमाणान्तरेणाप्लुत-ब्राह्मण्य-निश्चयात्
आचार्य-शब्दस्य

आचिनोत्य् अस्य बुद्धिम्

इत्य्-आदि-गुण-योगेनापि वृत्ति-संभवान्
न व्रात्यत्व-शङ्का।

Buitenen

If, on the other hand, even though a true brahmin is denoted by the word ācārya which dea vratya, there still can be no suspicion that he actually is a vratya, because there is positive certainty of his brabminhood which is clearly proved by other means of knowledge, and because it is possible that the word acarya is used figuratively (ācārya as one who “accumulates”— acinoti the pupil’s knowledge) for a Brahmin teacher,

नरसिंहः

Cf. Nirukta (Ānandāśrama Series 88) I. ii. 4, p. 36:

आचारं ग्राहयत्य् आचिनोत्य् अर्थान्, आचिनोति बुद्धिम् इति वा ।

Also Cf. Vihagendrasaṁhitā (ms.):

आचिनोति परान् सर्वान् आचारयति सर्वतः ।
आचरेत्य् अपि तान् लोकान् स तु आचार्य उच्यते ॥ [XXII. 14]

मूलम्

अथ तस्य व्रात्यवाचकाचार्य-शब्दाभिधेयत्वेऽपि प्रमाणान्तरेणाप्लुतब्राह्मण्यनिश्चयात्
आचार्य-शब्दस्य आचिनोत्यस्य बुद्धिम् इत्यादिगुणयोगेनापि वृत्तिसंभवान्न व्रात्यत्वशङ्का।

विश्वास-प्रस्तुतिः

तद् अत्रापि
जात्य्-अन्तर-वाचक–सात्त्वत-भागवत –शब्दाभिधेयत्वेऽपि
भगवच्-छास्त्रानुगामिनाम् अमीषाम् अतिस्पष्ट-विशिष्ट-गोत्रार्षेयादि-स्मरण- दृढावगतत्वाद्
ब्राह्मण्यस्य सात्त्वत-भागवत-शब्दयोश् च
सत्त्ववति भगवति भक्ति-योगेनैव वृत्ति-सम्भवान्
न व्रात्यत्व-शङ्काऽवतारः।

Buitenen

then in our case, too, the same argument can be made, namely thus: even though they are denoted by the terms Satvata and Bhagavata, which denote another caste, yet there can rise no suspicion that they actually are vratyas, because the brahminhood of these followers of the Bhagavan’s doctrine is firmly known from the recollection of completely obvious clans, Vedic ancestry etc., and because it is possible that the terms Sātvata and Bhāgavata have a figurative denotation of sattva-vat and bhaga-vat.

(257, explained below, § 130.)

मूलम्

तद् अत्रापि जात्यन्तरवाचकसात्त्वत-भागवत -शब्दाभिधेयत्वेऽपि भगवच्छास्त्रानुगामिनाममीषामतिस्पष्टविशिष्टगोत्रार्षेयादिस्मरणदृढावगतत्वाद् ब्राह्मण्यस्य सात्त्वत-भागवत-शब्दयोश्च सत्त्ववति भगवति भक्तियोगेनैव वृत्तिसम्भवान्न व्रात्यत्वशङ्कावतारः।

विश्वास-प्रस्तुतिः

एतद् उक्तं भवति ।

न चैक-शब्द-वाच्यत्वाद्
एक-जातीयता भवेत् ।
मा भूद् आचार्य-शब्दत्वाद्
ब्राह्मणस्य निकृष्टता । +++(4)+++

Buitenen

In other words,

the fact that the same word denotes both classes of people
does not mean that therefore both belong to one and the same caste,
lest the true brahmin be not made into a low-caste man because he is also denoted by the word AchArya.

नरसिंहः

“śabdyatvāt” would have been a better reading. But no text preserves this reading. As it stands now, the term “ācāryaśabdatvāt” has to be explained as a Bahuvrīhi compound, qualifying the term “Brāhmaṇa”.

मूलम्

एतदुक्तं भवति ।
न चैकशब्दवाच्यत्वादेकजातीयता भवेत् ।
मा भूदाचार्यशब्दत्वाद् ब्राह्मणस्य निकृष्टता ।

विश्वास-प्रस्तुतिः

तथा च ‘हरि’-शब्दस्य
दृष्टा मण्डूकवाचिता ।
इति तच्-छब्द-वाच्यत्वात्
सिंहो मण्डूक एव किम् ॥
तथा गो-शब्द-वाच्यत्वाच्
छब्दश् चापि विषाणवान् । +++(4)+++

Buitenen

We find that the word hari also means ‘frog.’ Does it follow that a lion is a frog because both are denoted by the same word? Then word itself would be horned, since ‘word’ is denoted by gau !”

([259]: gauḥ can mean ‘cow’ and ‘word.” )

नरसिंहः

This and the two succeeding lines are quoted by Sudarśanasūri in his commentary on Śrībhāṣya, I.i.1, Vol. I, p. 153.

मूलम्

तथा च ‘हरि’-शब्दस्य दृष्टा मण्डूकवाचिता ।
इति तच्छब्दवाच्यत्वात् सिंहो मण्डूक एव किम् ॥
तथा गो-शब्दवाच्यत्वाच्छब्दश्चापि विषाणवान् ।

विश्वास-प्रस्तुतिः

ततश्च -

सुधन्वाचार्य इत्याद्या
यथाऽर्थान्तरवाचकाः ।
व्रात्यान्वये प्रयुज्यन्ते
तथैवैतौ +++(सात्त्वत-भागवतौ)+++ भविष्यतः ॥

Buitenen

Consequently, just as the words sudhanvan, ācārya etc., which denote more than one meaning, are also used for someone born from a vaiśya vratya, so also the words Bhagavata and Satvata.

नरसिंहः

सुधन्वाऽऽचार्य … Manusmṛti X. 23a: “वैश्यात् तु जायते व्रात्यात्” etc.

यथा … सुधन्वादि-शब्दा यथा अर्थान्तर-वाचका, एवं सात्त्वत-भागवत-शब्दाव् अपीति योजना । ‘यथार्थान्तर-वाचका’ इति न समस्तं पदम् ।

मूलम्

ततश्च -

सुधन्वाचार्य इत्याद्या यथाऽर्थान्तरवाचकाः ।
व्रात्यान्वये प्रयुज्यन्ते तथैवैतौ भविष्यतः ॥

अवयव-रूढिः

विश्वास-प्रस्तुतिः

यद् उक्तं

योग-रूढि-शक्ति-द्वयोपनिपाते
सात्त्वत-भागवत-शब्दयो रूढि-शक्तिर् एवाश्रयितुम् उचिता

इति ,

Buitenen
  1. The contention that when the conventional meaning and the etymological meaning of a word collide, it is right to assume the conventional meaning of the term, in this case of the terms Bhagavata and Satvata,

[260]: supra §15.

नरसिंहः

See “रूढ्या” etc., p. 12 above.

मूलम्

यदुक्तं योगरूढिशक्तिद्वयोपनिपाते सात्त्वत-भागवत-शब्दयो रूढिशक्तिरेवाश्रयितुमुचितेति ।

विश्वास-प्रस्तुतिः

तद् अ-युक्तं -
कॢप्तावयव-शक्त्यैवाभिधानोपपत्तौ सत्याम्
अ-कॢप्ताखण्ड-शक्ति-कल्पनाऽनुपपत्तेः +++(वक्ष्यमाण-रीत्या)+++।

Buitenen

is not correct;
for when a denotation is appropriate
which is the composite of the denotations of the component elements of the words,
then it is not right to assume a non-composite denotation.

नरसिंहः

अवयव-शक्तिः = योग-शक्तिः ।

मूलम्

तदयुक्तं कॢप्तावयवशक्त्यैवाभिधानोपपत्तौ सत्यामकॢप्ताखण्डशक्तिकल्पनाऽनुपपत्तेः ।

विश्वास-प्रस्तुतिः

योऽपि हि
सात्त्वत-भागवत-शब्दयोर् वैश्य-व्रात्यान्वय-जन्मनि रूढि-शक्तिम् अभ्युपगच्छति

अभ्युपगच्छत्य् एव +असाव् अन्यत्र
सत्त्ववद्-भगवच्-छब्दयोः प्रकृति-भूतयोस्
तद्-उत्पन्नस्य च तद्धित-प्रत्ययस्यार्थान्तराभिधान-सामर्थ्यम्

सात्त्वतं विधिम् आस्थाय,
जन्मान्तर-कृतैः पुण्यैर्
नरो भागवतो भवेद्

इत्य्-आदौ।

Buitenen

For he who theorizes that the words satvata and bhagavata have their conventional meaning
in denoting someone born from a vaisya vratya,
must also theorize that the words sattvavat and bhagarut, which are the stem and the taddhita suffix built on the stem,261 have a different meaning in a sentence like, “having observed the satvata rules, a man becomes a Bhagavata because of the merits he has won in a previous existence.” 262

[261]: taddhita suffix, cf. Panini.

[262]: “conventionally the two words are synonymous, ’etymologically’ they have different meanings.

नरसिंहः

सत्त्ववद् … Parāśarabhaṭṭa in his ‘Viṣṇusahasranāmabhāṣya’ gives the following explanations for the term ‘sāttvata’ identifying the latter with ‘mahābhāgavata’ [ See Introduction to Jayākhya Saṁhitā ]

(i) सत् ब्रह्म, सत्त्वं वा, तद्वन्तः सात्त्वन्तः; ब्रह्म-विधाः सात्त्विका वा; तेषाम् इदं कर्म शास्त्रं वा सात्त्वतम्, तत्-कुर्वाणाः, तद्-आचक्षणाश् च वा ।

(ii) सातयति सुखयत्य् आश्रितान् इति सात् परमात्मा; स एतेषाम् अस्तीति वा सात्त्वताः । सात्त्वतो वा महा-भागवतः ।

The Mahābhārata, Āśvamedhikaparvan [Vavilla edn., Vol. XVIII] ch. 124, śls. 33-37 speaks in favour of the brahmanical status of the Bhāgavatas:

अपार्थकं प्रभाषन्ते शूद्रा भागवता इति ।
न शूद्रा भगवद्-भक्ता विप्रा भागवताः स्मृताः ॥
सर्व-वर्णेषु ते शूद्रा ये ह्य् अभक्ताः जनार्दने ।
द्वादशाक्षर-तत्त्व-ज्ञः चतुर्-वेद-विभागवित् ॥
अच्छिद्र-पञ्च-काल-ज्ञः स वै भागवतः स्मृतः ।
ऋग्-वेदेनैव होता च यजुषा ऽध्वर्युर् एव च ॥
साम-वेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ।
अथर्व-शिरसा चैव नित्यम् आथर्वणा द्वि-जाः ॥
स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ॥

तद्धित … अमुम् एव प्रत्ययं ‘अण्’ इति स्वयम् एव निर्दिशति ।

सात्त्वतं … Mahābhārata, Bhīṣma, ch. 62. śl. 39b.

जन्मान्तर … Paramasaṁhitā, III. 38b.

मूलम्

योऽपि हि सात्त्वत-भागवतशब्दयोर्वैश्यव्रात्यान्वयजन्मनि रूढिशक्तिमभ्युपगच्छति अभ्युपगच्छत्येव असावन्यत्र सत्त्ववद्भगवच्छब्दयोः प्रकृतिभूतयोस्तदुत्पन्नस्य च तद्धितप्रत्ययस्यार्थान्तराभिधानसामर्थ्यं सात्त्वतं विधिमास्थाय, जन्मान्तरकृतैः पुण्यैर्नरो भागवतो भवेदित्यादौ

विश्वास-प्रस्तुतिः

तद् इहापि +++(पूर्वेक्त-तद्धितान्त←)+++तद्-योगेनैव
व्रात्यान्वय-जन्मनि +++(प्रयोग=)+++वृत्ति-सम्भवेन
शक्त्य्-अन्तर-कल्पनायां प्रमाणं क्रमते।

Buitenen

This goes to prove the assumption that
in this case the word may have a double meaning by etymology alone,
because it is possible for it to be used in the sense of “issue of a vaisya vratya.”

मूलम्

तदिहापि तद्योगेनैव व्रात्यान्वयजन्मनि वृत्तिसम्भवेन शक्त्यन्तरकल्पनायां प्रमाणं क्रमते,

विश्वास-प्रस्तुतिः

संभवति चैतेषाम् अपि साक्षाद्-भगवद्-आराधनाभावे ऽपि
वासुदेवस्यायतनशोधन-बलिनिर्हरण– प्रतिमा-संरक्षणादि-क्रिया-योगेनैव
सात्त्वत-भागवत-शब्दाभिधेयत्वम्,
तस्येदम् इति संबन्ध-मात्रेऽपि चाण्-प्रत्यय-स्मरणात्।

Buitenen

And it is possible that those vratyas too, despite the fact that they fail to [[109]] worship the Bhagavan directly,
yet may be denoted by the words satvata and bhagavata,
because of their work discipline of cleaning up Vasudeva’s temple,
clearing away the bali offerings,
guarding the idol etc., for it is taught that the can suffix may occur in the sense of a simple relation, “this is of that.” (263, Panini.)

नरसिंहः

See Siddhāntakaumudī, IV. iii. 120.

मूलम्

संभवति चैतेषामपि साक्षाद्भगवदाराधनाभावेऽपि वासुदेवस्यायतनशोधन -बलिनिर्हरण -प्रतिमासंरक्षणादिक्रियायोगेनैव सात्त्वत -भागवत -शब्दाभिधेयत्वम्, तस्येदम् इति संबन्धमात्रेऽपि चाण्प्रत्ययस्मरणात्,

विश्वास-प्रस्तुतिः

उक्तश्च वैश्य-व्रात्यान्वय-जन्मनोऽपि भगवद्-आयतनादि-शोधनादि-क्रिया-योगः,

Buitenen

And it is declared that the issue of a vaiśya vratya has the work discipline of cleaning the Bhagavan’s temple etc.,

नरसिंहः

See p. 14 above where the word नैवेद्य-शोधनं was used.

मूलम्

उक्तश्च वैश्यव्रात्यान्वयजन्मनोऽपि भगवदायतनादिशोधनादिक्रियायोगः,

विश्वास-प्रस्तुतिः

सात्त्वतानाञ् च देवायतन-शोधनं नैवेद्य-भोजनं प्रतिमा-संरक्षणम्

इति,

Buitenen

“and (the task) of the satvatas is the cleaning of the deity’s temple, the eating of the offerings, the guarding of the idol;”

नरसिंहः

To be identified.

मूलम्

सात्त्वतानाञ्च देवायतनशोधनं नैवेद्यभोजनं प्रतिमासंरक्षणम् इति,

विश्वास-प्रस्तुतिः

तथा “विष्णोर् आयतनानि संपूजये"ति ।

Buitenen

and “he must worship Visnu’s sanctuaries."‘264

([264]: quoted supra.)

मूलम्

तथा विष्णोरायतनानि संपूजयेति ।

वृत्तिसाम्यान् न व्रात्यत्वम्

विश्वास-प्रस्तुतिः

एतेन इदम् अप्य् अपास्तं
यद् एषाम् अपि वृत्ति-साम्याद् व्रात्यत्वम् इति।

Buitenen

129. Herewith is also rejected the contention that the Bhāgavatas are vratyas because they would have the same profession.

मूलम्

एतेन इदमप्यपास्तं यदेषामपि वृत्तिसाम्याद् व्रात्यत्वमिति।

विश्वास-प्रस्तुतिः

अन्यद् एव हि देवायतन-शोधन–बलि-निर्हरण–प्रतिमासंरक्षणादिकम्,

Buitenen

For it is one thing to clean the temple, clear away the bali offerings, guard the idol,

मूलम्

अन्यदेव हि देवायतनशोधनबलिनिर्हरणप्रतिमासंरक्षणादिकम्,

विश्वास-प्रस्तुतिः

अन्ये चाभिगमनोपादानेज्या -स्वाध्याययोगा
भागवतैर् अहर्-अहर् अनुष्ठीयमानाः क्रिया-कलापा
इति ज्योतिष्टोमादाव् इव ।

Buitenen

and quite another thing to perform the variety of actions that are daily observed by the Bhagavatas: the cleaning of the way to the idol approaching, the preparation for worship, offering, daily study, and meditation.
It is as it is in the case of the jyotistoma etc.

नरसिंहः

Vide Journal of Royal Asiatic Society, (1911), p. 948:

The Pañcakāla or Five-Time-observances enjoined on a Bhāgavata are: (i) abhigamana: morning prayer, abluting etc., (ii) upādāna: fetching articles of worship, (iii) ijyā: divine worship, (iv) svādhyāya: study of the sacred lore and (v) yāga or yoga: divine meditation.

The day, from 4 a.m. to 10 p.m. is to be divided into five divisions for each of these acts. Cf. Pādmasaṁhitā: Caryāpāda: XIII: 3-4a:

ādyaṃ karmābhigamanamupādānamataḥ param ।
ijyā ca paścāt svādhyāyastato yogastataḥ param ॥
pañcaite vidhayasteṣāṃ kālāḥ pañcaiva te kramāt ।

For a definition and explanation of these five terms, see ibid: śl. 4b, ff.

मूलम्

अन्ये चाभिगमनोपादानेज्या -स्वाध्याययोगा भागवतैरहरहरनुष्ठीयमानाः क्रियाकलापा इति ज्योतिष्टोमादाविव

विश्वास-प्रस्तुतिः

तथैव ज्योतिष्टोमे -
ग्रह–चमस-जुह्वादि-पात्र-करण-तक्ष्णादिषु तक्ष्णो व्यापारः,
ऋत्विजस् तु विशिष्ट-मन्त्रोच्चारण-देवताभिध्यानाऽभिष्टव-प्रभृतिषु ।

Buitenen

In the jyotistoma, too, a carpenter has a task in making the various receptacles, soma-cups, soma-decanters, ladles etc., while the officiating priests have their tasks in reciting various different mantra recitations, representing the deity, pressing of the soma etc. +++(5)+++

नरसिंहः

“Graha”, “Camasa”, etc., are the names of cups into which soma-juice is poured during a sacrifice. Cf. Śabara on Pūrvamīmāṁsā: III.i.16, p. 158: “grahādi somapātram”.

मूलम्

तथैव ज्योतिष्टोमे ग्रहचमसजुह्वादिपात्रकरणतक्ष्णादिषु तक्ष्णो व्यापारः, ऋत्विजस्तु विशिष्टमन्त्रोच्चारणदेवताभिध्यानाऽभिष्टवप्रभृतिषु ।

विश्वास-प्रस्तुतिः

न च तावता तेषां तक्ष्णाञ् चैक-जातित्व-संशयः,

Buitenen

And this occupational similarity, limited as it is, does not raise the question whether the priests have the same caste as the carpenters!

मूलम्

न च तावता तेषां तक्ष्णाञ्चैकजातित्वसंशयः,

विश्वास-प्रस्तुतिः

एवम् इहापि भगवच्-छास्त्र-सिद्ध–पाञ्च-कालिकानुष्ठातॄणाम्
अन्येषाम् आयतन-शोधनादि कुर्वतां
प्रासाद-पालकापर-नाम्नाम् अन्त्यानां चेति ।

Buitenen

So here, too, there is a difference between those who perform the pañcakālikā265 ritual, which is established by the Bhagavan’s doctrine, and the low-caste people who do the cleaning-up of the temple and are also called temple-guards.

[265]: supra note.

मूलम्

एवमिहापि भगवच्छास्त्रसिद्धपाञ्चकालिकानुष्ठातॄणामन्येषामायतनशोधनादि कुर्वतां प्रासादपालकापरनाम्नामन्त्यानां चेति ।

रथ-कारे न व्यभिचारः

विश्वास-प्रस्तुतिः

यत् पुनर् उक्तं -

सात्त्वत-भागवत-शब्दयोर् यौगिकत्वे

रथ-कार आदधीत

इत्य्-अत्रापि
रथ-कार-शब्दस्य रथ-करण-योगेन त्रैवर्णिक-वृत्ति-प्रसङ्ग

इति, तद् अनुपपन्नम्,

Buitenen

[[110]]

130. Further, the contention266 that, if the words bhāgavata and satvata have their etymological meaning, this entails that the word rathakara in the injunction the “rathakara must build a fire"267 desomeone belonging to the three varias on account of its etymology of chariot-making,268 is not correct.

[266]: supra § 15.

[267]: not identified.

[268]: For the word means etymologically “maker of chariots, carts.”” [269]: not identified.

नरसिंहः

यत्पुनरुक्तं … See p. 12 above for the pūrvapakṣa.

रथकार … Cf. Āpastambaśrautasūtra, V. 3.19.

रथकरण … रथ-करण-रूप-योग-शक्त्या ।

मूलम्

यत्पुनरुक्तं सात्त्वत -भागवत -शब्दयोर्यौगिकत्वे रथकार आदधीत इत्यत्रापि रथकार -शब्दस्य रथकरणयोगेन त्रैवर्णिकवृत्तिप्रसङ्ग इति तदनुपपन्नम्,

विश्वास-प्रस्तुतिः

युक्तं हि तत्राधानोत्पत्ति-वाक्यावगत–+++(त्रैवर्णिकोचित-)+++वसन्तादि-काल-बाध-प्रसङ्गात्,

सौधन्वना ऋभवः सूर-चक्षस

इति मन्त्र-वर्णावगत–जात्य्-अन्तर–वृत्ति– बाध-प्रसङ्गाच् च ।

Buitenen

For in the case of rathakāra
it is correct that the term refers to someone belonging to the three varṇas,
because otherwise the springtime etc.,
which are given in the statement on the origin of this fire-building, would be invalidated,
and because usages of a word in the sense of different castes, which is given in the mantra

“saudhanvanā ṛbhavaḥ sūracakṣasaḥ”

would be invalidated.

नरसिंहः

युक्तं हि … “अध्यवसानम्” इति शेषः ।

तत्राधानोत्पत्ति … The “ādhāna-utpattivākyas” referred to here are: “vasante brāhmaṇo ’gnimādadhīta”, “grīṣme rājanyaḥ” and “śaradi vaiśyaḥ” (Taittirīya Brāhmaṇa, I.i.2.1.)

Vide Karmamīmāṁsā, pp. 86-87:

The direction to perform an offering is laid down in an originating injunction (utpattividhi) or an injunction of application (viniyogavidhi), according as the matter concerned is a principal or a subordinate offering. The originating injunctions are few in number relating as they do, to the principal Vedic offerings only, such as the Agnihotra, the New and Full-moon sacrifices, the Soma sacrifice and so forth…The originating injunctions, however, do no more than excite in the mind of the hearer the desire to perform the action which they enjoin, generally in the form of a sacrifice; it remains for other injunctions, those of application (viniyogavidhi), to denote the exact manner of procedure (itikartavyatā) by specifying the numerous subsidiary actions required, and the materials and other necessaries for the performance.

सौधन्वना … Ṛgveda: I.110.4.

मूलम्

युक्तं हि तत्राधानोत्पत्ति-वाक्यावगत-वसन्तादि-काल-बाध-प्रसङ्गात्, सौधन्वना ऋभवः सूर-चक्षस इति मन्त्र-वर्णावगत-जात्यन्तर-वृत्ति-बाध-प्रसङ्गाच् च ।

विश्वास-प्रस्तुतिः

माहिष्येण करिण्यां तु रथकारः प्रजायते

इति स्मृत्य्-अवगत-जात्यन्तरत्वे ऽपि

Buitenen

Despite the fact that rathakāra is also a name for another caste-as learnt from the smṛti

“the rathakāra is born out of a kāriṇī by a māhiṣya” 271

[271]: cf. Amarakoṣa, 10.4.

नरसिंहः

Yājñavalkyasmṛti : Ācārādhyāya: I.iv.95a.

मूलम्

माहिष्येण करिण्यां तु रथकारः प्रजायते

इति स्मृत्य्-अवगत-जात्यन्तरत्वे ऽपि

विश्वास-प्रस्तुतिः

क्षत्रिय-वैश्यानुलोमोत्पन्नो रथ-कारस्
तस्येज्या-ऽऽधानोपनयन-क्रियाश् चाप्रतिषिद्धा

इति शङ्ख-वचनाद्

Buitenen

nevertheless, since, on Śaṅkha’s evidence272 that so that the rathakāra is born from an anuloma marriage of a kṣatriya man and a vaiśya woman,265
the rathakāra is not forbidden to perform rites of sacrificing, fire-building and initiation,266

265: supra § 15.
266: not identified.

[272]: not verified.

नरसिंहः

No printed text of the Śāṅkhasmṛti contains this passage. It is however, traced in the “Reconstruction of the Dharmasūtra of Śāṅkha and Likhita”, attempted by Dr. P. V. Kane, in the Annals of the Bhandarkar Institute, Vol. VII, p. 115. The passage was numbered 76 there. The reading found is:

kṣatriyavaiśyānulomāntarotpannajo rathakāraḥ, tasyejyādhānopanayanasaṁskārakriyā aśvapratiṣṭhā rathasūtravāstuvidyādhayayanavṛttitā ca.

This passage appears in the Mitākṣarā on Yājñavalkyasmṛti: I-95 and in Aparārka. The Mitākṣarā [Chowkhamba Sanskrit Series No. 62] has a variant: “kṣatriyavaiśyānulomāntarotpanno yo rathakāraḥ”.

मूलम्

क्षत्रिय-वैश्यानुलोमोत्पन्नो रथ-कारस्
तस्येज्या-ऽऽधानोपनयन-क्रियाश् चाप्रतिषिद्धा

इति शङ्ख-वचनाद्

विश्वास-प्रस्तुतिः

विद्या-साध्ये ऽपि कर्मण्य् अधिकाराविरोधात्,

Buitenen

there is no conflict of qualification for rites that can only be realized through knowledge of the Veda,273

[273]: which is the prerogative only of the three varṇas.

मूलम्

विद्या-साध्ये ऽपि कर्मण्य् अधिकाराविरोधात्,

विश्वास-प्रस्तुतिः

त्रै-वर्णिकानां च शिल्पोपजीवित्वस्य प्रतिषिद्धत्वेन
तेषु रथकार-शब्दस्यानुचितत्वाच् च
जात्यन्तर-वाचित्वाध्यवसानम्।

Buitenen

and since the word rathakāra (in its etymological meaning) is inappropriate for members of the three varṇas
because they are forbidden to follow an artisan’s profession,
therefore we can only conclude that in both cases different castes are denoted by the term,

मूलम्

त्रै-वर्णिकानां च शिल्पोपजीवित्वस्य प्रतिषिद्धत्वेन तेषु रथकार-शब्दस्यानुचितत्वाच् च जात्यन्तर-वाचित्वाध्यवसानम्,

विश्वास-प्रस्तुतिः

न चेह तथा विरोधो ऽस्ति ।

Buitenen

and so there is no conflict (here).

मूलम्

न चेह तथा विरोधो ऽस्ति ।

अवयव-शक्ति-प्राधान्यम्

विश्वास-प्रस्तुतिः

अपि च ।

कॢप्तावयव-शक्त्यैव
लब्धे स्वार्थावबोधने ।
नष्टावयव-मानत्वं
प्रत्याचष्ट च सूत्रकृत् ॥
प्रोक्षणीष्व् अर्थ-संयोगाद्

इति ।

Buitenen

Moreover, when knowledge of the thing meant by a word is obtained from the denotation of the separate members that compose the word, then the Author of the Sūtras rules out the validity of a denotation in which the meanings of the component members are lost, namely in prokṣaṇīṣv arthasaṃyogāt. 274

[[111]]

नरसिंहः

नष्टावयवत्वं योग-शक्ति-राहित्यम् । ‘नाम’ पदेन प्रतिपादिकम् उच्यते । नष्टावयव-नामत्वं = रूढिम् इत्य् अतः ।

प्रोक्षणीष्वर्थ … Pūrvamīmāṁsā : I.iv.11. This aphorism means that in words like “prokṣaṇī”, the etymological significance itself is applicable; i.e., the word is to be taken in its etymological sense alone and not the conventional one, for the former is quite compatible with the latter. The advantage of this sūtra over the preceding sūtras is that all liquids are meant by the term “prokṣaṇī”, and not water alone.

मूलम्

अपि च ।
कॢप्तावयव-शक्त्यैव लब्धे स्वार्थावबोधने ।
नष्टावयवमानत्वं प्रत्याचष्ट च सूत्रकृत् ॥
प्रोक्षणीष्व् अर्थ-संयोगाद् इति ।

निगमनम्

विश्वास-प्रस्तुतिः

ततश् च सत्त्वाद् भगवान्
भज्यते यैः परः पुमान् ।
ते सात्त्वता भागवता
इत्य् उच्यन्ते द्विजोत्तमाः ॥

Buitenen

Therefore, those emine~nt brahmins are called sāttvatas and bhāgavatas who because of their pure character (sattva) devote themselves to the Bhagavān who is the Supreme Person.

नरसिंहः

For a definition of the term Bhāgavata, see Pādmasaṁhitā, Caryāpāda, II.91b-95a and XXI. 14-15. For an interesting account of the origin and significance of the term Sāttvata see J. Przyluski, ‘Sātvant, Sātvata and Nāsatya’, IIIQ, Vol. IX pp 83-91.

For a glorification of Pāñcarātrins along with Vaikhānasas, see Mahābhārata, Anuśāsana [Vavilla edn. Vol. XVI], ch. 78:

यतयो मोक्ष-धर्म-ज्ञा योगिनश् चरित-व्रताः ।
पाञ्च-रात्र-विदो मुख्यास् तथा भागवताः परे ॥ [ 24 ]
वैखानसाः कुल-श्रेष्ठाः वैदिकाचार-वारिणः । [ 25a ]

यावद् एते प्रपश्यन्ति पङ्क्तीस् तावत् पुनन्ति च ॥ [ 28b ]

मूलम्

ततश् च सत्त्वाद् भगवान् भज्यते यैः परः पुमान् ।
ते सात्त्वता भागवता इत्युच्यन्ते द्विजोत्तमाः ॥

विश्वास-प्रस्तुतिः

स्मृत्य्-अन्तराणि च भागवतानाम् उत्कृष्ट-ब्राह्मण्य-प्रतिपादकानीति
परस्तात् प्रदर्शयिष्यन्ते ।

Buitenen

Later on we shall show that other smṛtis set forth the eminent brahminhood of the bhāgavatas.

नरसिंहः

No such smṛtis are however, quoted by the author in the remaining portion of the text.

मूलम्

स्मृत्यन्तराणि च भागवतानाम् उत्कृष्ट-ब्राह्मण्य-प्रतिपादकानीति परस्तात् प्रदर्शयिष्यन्ते ।

पृथङ्-निर्देशः

विश्वास-प्रस्तुतिः

यत् पुनर् उक्तं -

समाने ब्राह्मण्ये
किम् इति सात्त्वत-भागवतैकान्तिक-शब्दैर् एवैतेषां नियमेन व्यपदेश

इति,
तत् परिव्राजक-निगदादिवद् इत्य् अदोषः ।

Buitenen

131. The further objection,275 namely why these people should invariably be denoted by the exclusive names of Sāttvata and Bhāgavata, if their brahminhood were the same as that of others, can be answered thus: there is no defect in that, for it is as it is in the case of the names parivrājaka and nigada.

[275]: supra § 15.

नरसिंहः

See p. 12 above, for the pūrvapakṣa-view.

मूलम्

यत् पुनर् उक्तं समाने ब्राह्मण्ये किम् इति सात्त्वत-भागवतैकान्तिक-शब्दैर् एवैतेषां नियमेन व्यपदेश इति, तत् परिव्राजक-निगदादिवद् इत्य् अदोषः ।

विश्वास-प्रस्तुतिः

यथैव हि समाने ब्राह्मण्ये यजुष्ट्वे च
केचिद् एव ब्राह्मणाः
कानिचिद् एव यजूंषि
परिव्राजक-निगद-शब्दाभ्याम् अधीयन्ते,

तिष्ठन्तु ब्राह्मणाः

परिव्राजका आनीयन्ताम्,

यजूंषि वर्तन्ते न निगदाः,

निगदा वर्तन्ते न यजूंषि

इति च,

नरसिंहः

यथैव हि … See Pūrvamīmāṁsā, II. i. 35-37: “तेषां ऋक् यत्रार्थ-वशेन पाद-व्यवस्था”, “गीतिषु समाख्या”, “शेषे यजुश् शब्दः”, for the definitions of ṛk, sāman and yajus respectively. By the last of the above sūtras, the group of mantras called “nigada” also comes to be known as “yajus”.

तिष्ठन्तु … Cf. Śābara under II. i. 43, p. 89.

यजूंषि … Cf. ibid. under II. i. 39, p. 89.

मूलम्

यथैव हि समाने ब्राह्मण्ये यजुष्ट्वे च केचिद् एव ब्राह्मणाः कानिचिद् एव यजूंषि परिव्राजक-निगद-शब्दाभ्याम् अधीयन्ते,
तिष्ठन्तु ब्राह्मणाः परिव्राजका आनीयन्ताम्, यजूंषि वर्तन्ते न निगदाः, निगदा वर्तन्ते न यजूंषि इति च,

Buitenen

Certain brahmins are called bhāgavatas, just as certain brahmins are called parivrājakas, and certain yajuḥ formulae nigadas, though both are equally brahmins and equally yajuḥ formulae; namely in the statements:

The brahmins should remain,
the parivrājakas must be fetched; 276
“the yajuḥ formulae take place, not the nigadas;
the nigadas take place, not the yajuḥ formulae;“277

[276]: not identified. [277]: not identified.

विश्वास-प्रस्तुतिः

तथेहापि भविष्यति,

निगदाश् चतुर्थं मन्त्र-जातं
यजूंषि वा तद्-रूपत्वाद्

इति न्यायाभिधानात् ।

Buitenen

and this is so because of the interpretation:

“the nigadas are the fourth mantra collection, or the yajuḥ formulae, because they are identical.”

नरसिंहः

Vide Pūrvamīmāṁsā II. i. 40.

मूलम्

तथेहापि भविष्यति, निगदाश् चतुर्थं मन्त्र-जातं यजूंषि वा तद्रूपत्वाद् इति न्यायाभिधानात् ।

वृत्त्या

विश्वास-प्रस्तुतिः

वृत्त्य्-अर्थं देवता-पूजा-
नैवेद्य-प्राशनादिभिः ।
दौर्ब्राह्मण्यं यद् अप्य् उक्तं
तत्र प्रतिविधीयते ॥

Buitenen

132. The contention278 that the bhāgavatas are bad brahmins because they perform pūjā to the God, partake of the offering substance etc. for a livelihood, is countered in the following manner:

[278]: supra § 16.

नरसिंहः

See p. 15 above.

मूलम्

वृत्त्यर्थं देवता-पूजा-नैवेद्य-प्राशनादिभिः ।
दौर्ब्राह्मण्यं यद् अप्य् उक्तं तत्र प्रतिविधीयते ॥

विश्वास-प्रस्तुतिः

हि भागवतैस् सर्वैर्
वृत्तये ऽभ्यार्चितो हरिः ।
दृष्टा हि बहवस् स्वार्थं
पूजयन्तो ऽपि सात्त्वताः ॥

Buitenen

Surely not all bhāgavatas worship Hari for their profession, for many Sātvatas are found who perform pūjā for themselves.

मूलम्

न हि भागवतैस् सर्वैर् वृत्तये ऽभ्यार्चितो हरिः ।
दृष्टा हि बहवस् स्वार्थं पूजयन्तो ऽपि सात्त्वताः ॥

विश्वास-प्रस्तुतिः

केचिद् यदि परं सन्तः
सात्त्वता वृत्ति-कार्शिताः ।
याजयन्ति महा-भागैर्
वैष्णवैर् वृत्ति-कारणात् ॥

Buitenen

If there are certain people who, while being Sātvatas, follow a reprehensible profession and perform sacrifices for respectable bhāgavatas professionally,

मूलम्

केचिद् यदि परं सन्तः सात्त्वता वृत्ति-कार्शिताः ।
याजयन्ति महा-भागैर् वैष्णवैर् वृत्ति-कारणात् ॥

विश्वास-प्रस्तुतिः

न तावतैषां ब्राह्मण्यं
शक्यं नास्तीति भाषितुम् ।
न खल्व् आध्वर्यवं कुर्वन्
ज्योतिष्टोमे पतिष्यति ॥

Buitenen

this fact alone does not mean that one may say that they are not brahmins. A vedic priest who officiates as an adhvaryu at a jyotiṣṭoma does not thereby lose caste.

मूलम्

न तावतैषां ब्राह्मण्यं शक्यं नास्तीति भाषितुम् ।
न खल्व् आध्वर्यवं कुर्वन् ज्योतिष्टोमे पतिष्यति ॥

विश्वास-प्रस्तुतिः

यदि न प्रतिगृह्णीयुः
पूजैवाविफला भवेत् ।
पूजा-साद्गुण्य-सिद्ध्य्-अर्थम्
अतस् ते प्रतिगृह्णते

Buitenen

If the priest were not to receive fees, the pūjā itself would remain fruitless; they take fees in order to realize completely the excellence of the pūjā.

मूलम्

यदि न प्रतिगृह्णीयुः पूजैवाविफला भवेत् ।
पूजा-साद्गुण्य-सिद्ध्यर्थम् अतस् ते प्रतिगृह्णते ॥

विश्वास-प्रस्तुतिः

अर्चनान्ते हिरण्यं च
तस्मै देयं स्व-शक्तितः ।
अन्यथा पूजकस्यैव
तत्र पूजा-फलं भवेत् ॥+++(5)+++
हन्त्य् अल्प-दक्षिणो यज्ञ
इत्य्-आदि-स्मृति-दर्शनात् ।

Buitenen

At the conclusion of the worship one must give gold to the priest according to capacity; otherwise the fruit will go to the pūjā priest himself,
as is shown by the smṛti: “A sacrifice for which a small fee is given kills (the sacrificer).“279

[279]: cf. Manu, 11.40.

नरसिंहः

अर्चनान्ते … Paramasaṁhitā, XVII. 46b-47a.

हन्त्यल्पदक्षिणो … Manusmṛti, XI. 40b.

मूलम्

अर्चनान्ते हिरण्यं च तस्मै देयं स्व-शक्तितः ।
अन्यथा पूजकस्यैव तत्र पूजा-फलं भवेत् ॥
हन्त्यल्प-दक्षिणो यज्ञ इत्यादि-स्मृति-दर्शनात् ।

विश्वास-प्रस्तुतिः

ऋत्विजा द्रव्य-लुब्धेन
स्वयं याञ्चा-पुरस्सरम् ॥
यद् आर्त्विज्यं कृतं कर्म
तद् एव हि निषिध्यते ।

Buitenen

It is however prohibited that a covetous Vedic priest officiate as a priest after he himself has put up his demands for a fee,

मूलम्

ऋत्विजा द्रव्य-लुब्धेन स्वयं याञ्चा-पुरस्सरम् ॥
यद् आर्त्विज्यं कृतं कर्म तद् एव हि निषिध्यते ।

विश्वास-प्रस्तुतिः

तद् यथा

यद् आशंसमानम् आर्त्विज्यं कारयन्त्य्

उत वा मे दद्याद्
उत वा मा वृणीत

इति
तद् ध तत् पराग् एव यथा जग्धं,
न हैवं तद् यज्यमानं भुनक्ति ।

इति,+++(4)+++

Buitenen

e.g. in the statement:

(“There is an error called ‘garbage””).
When the sacrificer appoints as an officiant priest
who covets the office, thinking either
“He should give me (a fee)”
or “He should choose me.”
“This is as far from the sacrificer as garbage; this does not benefit the sacrificer.“280

[280]: AitBr., 3.46.

नरसिंहः

Cf. Aitareya Brāhmaṇa XV. ii. p. 418 [ Ānandāśrama Skt. Ser. 32, with Sāyaṇa’s commentary ]. The passage reads thus :

taddhaitadeva jagdhāṁ yadāśaṁsamānamārtvijyaṁ kārayata uta vā me dadyāt uta vā mā vṛṇīteti taddha tatparāṇeva yathā jagdhāṁ na haiva tad yajamānaṁ bhunakti.

This passage points out that a careful yajamāna should avoid greedy priests who perform three types of objectionable offerings in sacrifices. Cf. ibid. p. 417: “trīṇi ha vai yajñe kriyante, jagdhaṁ, gīrṇaṁ, vāntaṁ”.

Vide Sāyaṇa’s commentary on it:

tānyetāni trīṇi durbuddhibhir yajñe kriyante jagdhādisthānīyāni trīṇi, varjanīyānītyarthaḥ.

For more information on this, see Sāyaṇa’s commentary, p. 411.

मूलम्

तद् यथा

यद् आशंसमानम् आर्त्विज्यं कारयन्त्य्

उत वा मे दद्याद्
उत वा मा वृणीत

इति
तद् ध तत् पराग् एव।
यथा जग्धं (वान्तं) न हैवं तद्यज्यमानं भुनक्ति ।

इति,

विश्वास-प्रस्तुतिः

श्रद्धा-पूत-दक्षिणा-दानं
तूभयोर् अपि श्रेयस्करम् एव ।

Buitenen

The donation of the sacerdotal fee which is purified by faith is felicitous for both,

मूलम्

श्रद्धापूतदक्षिणादानं तूभयोरपि श्रेयस्करमेव ।

विश्वास-प्रस्तुतिः

योऽर्चितं प्रतिगृह्णाति
दद्याद् अर्चितम् एव च ॥ ताव् उभौ गच्छतः स्वर्गम्
इत्यादि-स्मृति-दर्शनात् ।

Buitenen

as according to the smṛti, “He who receives the offering and he who {{deit|gives it}} both go to heaven.“281

[281]: not identified.

[[112]]

नरसिंहः

Vide Manusmṛti. IV-238. The remainder of the verse is “narakaṁ tu viparyaye”. The term “arcitaṁ” should be understood in the sense of “arcanāpurassaraṁ”. It is an adverb and not a noun.

This verse is also found in the Mahābhārata, Āśvamedhika [ Vavilla edn. Vol. XVIII. ] ch. 112, śl. 30.

मूलम्

योऽर्चितं प्रतिगृह्णाति दद्याद् अर्चितम् एव च ॥ ताव् उभौ गच्छतः स्वर्गम् इत्यादि-स्मृति-दर्शनात् ।

देवालकता

विश्वास-प्रस्तुतिः

यद् अपि

वृत्त्यर्थं देव-पूजनाद् देवकोशोपजीवित्वाच् च देवलकत्व-प्राप्तिर्

इति,

Buitenen

133. The statements282 that professional worship of the deity and living off the god’s treasure makes a man a devalaka275

[282]: supra § 16.

नरसिंहः

See pp. 15-16 above.

मूलम्

यद् अपि वृत्त्यर्थं देव-पूजनाद् देवकोशोपजीवित्वाच् च देवलकत्व-प्राप्तिर् इति,

देवतान्तर-वृत्तौ

विश्वास-प्रस्तुतिः

तद् अपि देवतान्तर-वृत्त्य्-अर्थाराधन- तत्-कोशोपजीवन-विषयम् इति द्रष्टव्यम् ।

Buitenen

must be taken to refer to the professional worship of, and the living off the treasure of, other deities than Vāsudeva.

मूलम्

तद् अपि देवतान्तर-वृत्त्यर्थाराधन-तत्कोशोपजीवन-विषयम् इति द्रष्टव्यम् ।

विश्वास-प्रस्तुतिः

तथा च भगवान् व्यासः -

भवेद् देवलको यो वै
रुद्रकाद्य्-उपजीवकः

इति,

Buitenen

Thus the blessed Vyāsa: “A devalaka is he who lives on Rudra etc.” 283

[283]: This and the following quotations could not be identified.

नरसिंहः

To be identified.

मूलम्

तथा च भगवान् व्यासः -
भवेद् देवलको यो वै रुद्रकाद्युपजीवकः
इति,

दीक्षा-हीनाः

विश्वास-प्रस्तुतिः

अपि भवति शाण्डिल्य-वचनम् -

वृत्त्यर्थं याजिनस् सर्वे
दीक्षा-हीनाश् च केवलम् ।
कर्म-देवलका एते
स्मृता ह्यत्र पुरा मुने ॥
तांश् च संवत्सराद् ऊर्ध्वं
न स्पृशेन् न च संविशेत् ।

Buitenen

And there is also Śāṇḍilya’s word:

“All those who perform sacrifices professionally
and are also not consecrated
are the only ones who are traditionally known as karmadevalakas in this world, O sage.
One should not touch them or consort with them for a year.”

मूलम्

अपि भवति शाण्डिल्य-वचनम् -
वृत्त्यर्थं याजिनस् सर्वे दीक्षा-हीनाश् च केवलम् ।
कर्म-देवलका एते स्मृता ह्यत्र पुरा मुने ॥ तांश् च संवत्सराद् ऊर्ध्वं न स्पृशेन् न च संविशेत् ।

विश्वास-प्रस्तुतिः

तथा

कल्प-देवलकाः केचित्
कर्म-देवलका अपि ।
अथ त्रिवर्षाद् ऊर्ध्वम्
अयोग्या देव-कर्मणि ॥

Buitenen

Likewise:

“Certain people who are karmadevalakas and kalpadevalakas are unqualified for ritual before the deity for a period of three years.

मूलम्

तथा ।
कल्प-देवलकाः केचित् कर्म-देवलका अपि ।
अथ त्रिवर्षाद् ऊर्ध्वम् अयोग्या देव-कर्मणि ॥

विश्वास-प्रस्तुतिः

ये कल्पोक्तं प्रकुर्वन्ति
दीक्षा-हीना द्वि-जातयः ।
वृत्त्य-र्थं वा यशोऽर्थं वा
कल्प-देवलकास् तु ते ॥

Buitenen

Those brahmins who, without being consecrated, perform rites set forth in the Kalpa, either professionally or for the fame of it, are kalpadevalakas.

मूलम्

ये कल्पोक्तं प्रकुर्वन्ति दीक्षा-हीना द्वि-जातयः ।
वृत्त्यर्थं वा यशोऽर्थं वा कल्प-देवलकास् तु ते ॥

विश्वास-प्रस्तुतिः

+++(कस्यचिद् विप्रस्य)+++ वृत्तिं कृत्वा, तु विप्रेण
दीक्षितेन विधानतः ।
अन्येन याजयेद् देवम्
अशक्तः स्वयम् अर्चने ॥
यजनं मुख्यम् एवैतद्
गौणम् एवान्यथा भवेत् ।

Buitenen

One must have pūjā offered by another professional priest who has been properly consecrated; (if) one is unable to worship the god oneself.
This is the principal offering; in another manner it is secondary.”

नरसिंहः

Paramasaṁhitā, XVII. 46a.

Cf also ibid., 8b:

अन्येन वैष्णवेनैव देवं शूरः प्रपूजयेत् ॥

मूलम्

वृत्तिं कृत्वा तु विप्रेण दीक्षितेन विधानतः ।
अन्येन याजयेद् देवम् अशक्तः स्वयम् अर्चने ॥
यजनं मुख्यम् एवैतद् गौणम् एवान्यथा भवेत् ।

विश्वास-प्रस्तुतिः

अन्यथा +++(←गौणाराधनम्)+++ +इत्य् अदीक्षितेन +इत्य् अर्थः,

Buitenen

“In another manner,’ that is to say, when it is done by a non-consecrated priest.

मूलम्

अन्यथा +इत्य् अदीक्षितेन +इत्य् अर्थः,

विश्वास-प्रस्तुतिः

तद् एव स्पष्टयति -

अदीक्षितेन विप्रेण
येन केन विधानतः ।
वृत्त्य्-अर्थं यत् कृतं कर्म
तज् जघन्यम् उदाहृतम् ॥

Buitenen

This the author elucidates:

“The rite performed professionally by ‘some priest who has not been properly consecrated is called of the lowest degree.”

मूलम्

तद् एव स्पष्टयति -
अदीक्षितेन विप्रेण येन केन विधानतः ।
वृत्त्यर्थं यत् कृतं कर्म तज् जघन्यम् उदाहृतम् ॥

निगमनम्

विश्वास-प्रस्तुतिः

इत्यादि-स्मृति-शत-पर्यालोचनात्

पञ्चरात्र-सिद्ध-दीक्षा-संस्कार-विरहितानां ब्राह्मणानां
देवकोशोपजीवन-वृत्त्यर्थ-पूजनादिकम् उपब्राह्मणत्व-देवलकत्वावहम्

इति निश्चीयते।

Buitenen

By considering these and a hundred similar smṛti statements we can be sure that living off the deity’s treasure and professional pūjā offering of brahmins who go without the sacrament of consecration as established by Pañcaratra renders them sub-Brahmins and devalakas.276

276: This and the following quotations could not be identified.

[[113]]

मूलम्

इत्यादि-स्मृति-शत-पर्यालोचनात् पञ्चरात्र-सिद्ध-दीक्षा-संस्कार-विरहितानां ब्राह्मणानां देवकोशोपजीवन-वृत्त्यर्थ-पूजनादिकम् उपब्राह्मणत्व-देवलकत्वावहम् इति निश्चीयते।

निर्माल्योपयोगाद् अशिष्टता

विश्वास-प्रस्तुतिः

यत् पुनश्

शिष्ट-विगर्हित-निर्माल्य-निवेद्योपयोगाद् भागवतानाम् अशिष्टत्वम्

इति -
तत्र ब्रूमः
किम् इदं निर्माल्यं, निवेद्यं चाभिप्रेतं श्रोत्रियस्य ?

Buitenen

134. As to the statement284 that the bhāgavatas cannot pass for exemplary persons because they make use of flower and food offerings, which practice is abhorred by exemplary persons, to this we say: what does the śrotriya 285 mean by left-over flowers and leftover food?

[284]: supra § 16.

[285]: a Brahman erudite in the Veda and following its observances.

नरसिंहः

See p. 15 above for the opponent’s view.

For a detailed discussion on this subject, see Vedānta Deśika’s Saccaritrarakṣā, Adhikāra III.

मूलम्

यत् पुनश् शिष्ट-विगर्हित-निर्माल्य-निवेद्योपयोगाद् भागवतानाम् अशिष्टत्वम् इति -
तत्र ब्रूमः किम् इदं निर्माल्यं निवेद्यं चाभिप्रेतं श्रोत्रियस्य ?

विश्वास-प्रस्तुतिः

+++(विग्रहायार्पणस्यानङ्गीकारात्)+++
+++(निवेदनाद्य्-अविशिष्टं)+++ पुष्पौदनादि-मात्रं चेत्
सर्व-लोक-विरुद्धता ।
पुष्पौदन-परित्यागं
न हि लोकोऽनुमन्यते ॥

Buitenen

When he takes it only as the flowers and the cakes,286 he is contradicted by all the world, for nobody approves of wasting flowers and cakes.

Buitenen - Notes

[286]: If he does not believe that God is present in the effigie, the offerings are obviously not used and cannot be characterized as left-overs. The priest’s avoidance of them would simply amount to sinful waste.+++(4)+++

मूलम्

पुष्पौदनादि-मात्रं चेत् सर्वलोकविरुद्धता ।
पुष्पौदन-परित्यागं न हि लोकोऽनुमन्यते ॥

कौमारीलादि-पक्षे

विश्वास-प्रस्तुतिः

+++(देव-निवेदन-)+++विशिष्ट-प्रतिषेधोऽपि
न युक्तस् तद्-असिद्धितः +++(आक्षेपक-मते)+++ ।

Buitenen

Also, a particularized prohibition 287 is not in order, because it is not established.

Buitenen - Notes

[287]: He must make his prohibition specific, in order not to prohibit the priest from using food that is otherwise wasted. But he cannot determine the specification on his own terms.

मूलम्

विशिष्ट-प्रतिषेधोऽपि न युक्तस् तदसिद्धितः ।

विश्वास-प्रस्तुतिः

न ह्य् अनिरूपित-विशेषणा विशिष्ट-बुद्धिर् आविर् अस्ति,

Buitenen

No notion of a particularized thing occurs when the particularization is not determined;

मूलम्

न ह्यनिरूपित-विशेषणा विशिष्ट-बुद्धिर् आविर् अस्ति,

विश्वास-प्रस्तुतिः

न चेह विशेषणं निरूपयितुं शक्यते।

Buitenen

and here it is impossible to determine the particularization.

मूलम्

न चेह विशेषणं निरूपयितुं शक्यते,

विश्वास-प्रस्तुतिः

किम् इति न शक्यते -
यावता देवोद्देशेन परित्यागो विशेषणम्।

Buitenen

OBJECTION. Why should it be impossible, since the particularization is that it is forbidden to use food what has been offered up to the deity?

मूलम्

किम् इति न शक्यते -
यावता देवोद्देशेन परित्यागो विशेषणम्।

विश्वास-प्रस्तुतिः

किम् इदानीं पञ्चरात्र-शास्त्रम् अपि प्रमाणम् अङ्गीकृतं भवता
येन पञ्चरात्र-तन्त्र-विहित-मन्त्र-प्रतिष्ठापित-प्रतिमासु देवताम् अभ्युपेत्य
तद्-उद्देशेन त्यागो विशेषणम् अभिलष्यते?

Buitenen

REPLY. Are you now accepting the validity of Pañcaratra? For only when one admits that there is a deity present in the idols that are erected with the sacred formulae enjoined by Pañcaratra Tantra can one postulate that the particularization of the prohibition lies in the offering-up to the deity.

नरसिंहः

The discussion here is, whether or not the usage of nirmālya, nivedya, etc., contradicts the genuine character of the Bhāgavatas. The Mīmāṁsaka cannot attribute non-brahmanical character to the Bhāgavatas, says the author, on the ground that they use nirmālya and nivedya prohibited is some smṛti-texts. First of all, the prohibition pertains to the nirmālya and nivedya offered to deities other than Viṣṇu. Secondly, the Mīmāṁsaka has to qualify the terms “nirmālya” and “nivedya”, even to refute their usage, because flowers and food in general cannot be termed so. He might say that “nirmālya” and “nivedya” are things offered by the Pāñcarātrins to some deity; but this statement lands him in trouble, since he does not admit of any deity with a personality and also because such a statement would imply his acceptance of the validity of the Pāñcarātra-texts. Without admitting their validity as the starting point, he cannot speak of a deity, and flowers etc., being offered to that deity.

मूलम्

किमिदानीं पञ्चरात्रशास्त्रमपि प्रमाणमङ्गीकृतं भवता
येन पञ्चरात्रतन्त्रविहितमन्त्रप्रतिष्ठापितप्रतिमासु देवतामभ्युपेत्य
तदुद्देशेन त्यागो विशेषणमभिलष्यते?

विश्वास-प्रस्तुतिः

कथं हि तत्-प्रामाण्यानभ्युपगमे
तत्-प्रतिपाद्यमानाया देवतात्वम्,
कथन्तरां च तद्-उद्देशेन त्यक्तस्य निर्माल्य-निवेद्य-भावः?

Buitenen

For unless the validity of the Tantra is admitted, how can an idol which is set forth in the Tantra be a deity, and, a fortiori, how can the substance that is offered up for this deity’s sake be nirmālya and nivedya,288

[288]: used flowers and used food offerings.

मूलम्

कथं हि तत्प्रामाण्यानभ्युपगमे तत्प्रतिपाद्यमानाया देवतात्वम्, कथन्तरां च तदुद्देशेन त्यक्तस्य निर्माल्य-निवेद्य-भावः,

विश्वास-प्रस्तुतिः

न हि काचिज् जात्या देवता नामास्ति,
यैव हि हविः-प्रतियोगितया +++(न तद्-अन्तरा)+++ प्रमाण-भूताच् शब्दाद् अवगम्यते
सा तत्र देवता

इति हि वः सिद्धान्तः । +++(5)+++

Buitenen

For a deity does not exist by just being a deity;
only that deity which is known to be correlated with an oblation on the authority of scriptural testimony is the deity to that oblation;

that is your own doctrine.

नरसिंहः

Cf. Tantravārtika under I. iii. 10, p. 172:

विधिनैव हि देवत्वं प्रतिकर्मवधार्यते । न जात्या देवतात्वं हि क्वचिद् अस्ति व्यवस्थितम् ॥

Cf. also Prakaraṇapañcikā, V. p. 105:

देवतोद्देशेन द्रव्य-त्यागो यागः ।……स्तोत्रं शृणोमि यद् गुण-वचने । यद् उद्देशेन च हविषां त्यागश् चोद्यते, सा देवता । तत्रैव याज्ञिक-वृद्धानां देवता-शब्द-प्रयोगात् । यत्र हि आग्नेयादि-देशनार्थानुष्ठाने प्रवृत्तो ऽग्निम् उद्दिश्य हविस् त्यजति, तत्रैवम् आहुर् अग्निर् अत्र देवतेति ।

मूलम्

न हि काचिज् जात्या देवता नामास्ति, यैव हि हविः-प्रतियोगितया प्रमाण-भूताच् शब्दाद् अवगम्यते सा तत्र देवता इति हि वः सिद्धान्तः ।

पाञ्चरात्रिक-पक्षे

विश्वास-प्रस्तुतिः

अथ

पञ्चरात्रिकैर् देवतोद्देशेन परित्यक्तत्वाभ्युपगमान्
निर्माल्य-निवेद्य-भावः,

Buitenen

Or if it be held that

something is nirmālya and nivedya because it is admitted by the Pāñcarātrikas that it is offered up to the deity,

मूलम्

अथ पञ्चरात्रिकैर् देवतोद्देशेन परित्यक्तत्वाभ्युपगमान् निर्माल्य-निवेद्य-भावः,

विश्वास-प्रस्तुतिः

हन्त तर्हि,
तैर् एव परम-पावनतयाऽपि निर्माल्य-निवेद्योपयोगस्याङ्गीकृतत्वात्
तद्वद् एव पावनत्वम् अङ्गी क्रियताम् ।

Buitenen

well, in that case you must also admit its purity because the Pāñcarātrikas accept also that the utilization of nirmālya and nivedya is perfectly pure.

मूलम्

हन्त तर्हि, तैर् एव परम-पावनतयाऽपि निर्माल्य-निवेद्योपयोगस्याङ्गीकृतत्वात् तद्वद् एव पावनत्वम् अङ्गीक्रियताम् ।

विश्वास-प्रस्तुतिः

अथापावनम् एव तैः +++(पाञ्चरात्र-मोहितैः)+++ पावन-बुद्ध्या परिगृहीतम् इति न तत् प्राशस्त्यम् अङ्गीक्रियते,

Buitenen

Or if you do not accept this peculiar excellence, since in your opinion the Pāñcarātrikas have accepted as pure something that is really impure,

मूलम्

अथापावनम् एव तैः पावन-बुद्ध्या परिगृहीतम् इति न तत् प्राशस्त्यम् अङ्गीक्रियते,

विश्वास-प्रस्तुतिः

हन्त तर्ह्य् अ-देवतैव देवता-बुद्ध्यारोपेण तैः परिगृहीतेति
न तद्-उद्देशेन त्यक्तस्य निर्माल्य-निवेद्य-भावो ऽङ्गीक्रियताम् । +++(4)+++

Buitenen

—well, in that case you must accept it that the substance which is offered up is not really nirmālya and nivedya, since then you opine that the Pañcarātrikas have adopted someone who is not really a deity by mistaking him for a deity!

मूलम्

हन्त तर्ह्यदेवतैव देवताबुद्ध्यारोपेण तैः परिगृहीतेति न तदुद्देशेन त्यक्तस्य निर्माल्य-निवेद्य-भावोऽङ्गीक्रियताम् ।

निगमनम्

विश्वास-प्रस्तुतिः

एतद् उक्तं भवति

  • पुष्पौदनादि-स्वरूप-मात्र-त्यागस्यानिष्टत्वात्,
  • स्व-दर्शनानुसारेण च विशेषणासंभवात्
  • पर-दर्शनानुसारेण विशेषण-निरूपणे
    तस्यैव परम-पावनत्वापातात्

तत्र प्रामाण्यम् अभ्युपगच्छद्भिर् अन्यैश् च
निर्माल्य-निवेद्योपयोगो ऽवश्याङ्गीकरणीय
इति । +++(4)+++

Buitenen

In other words, inasmuch as the offering up abandonment of mere flowers, cakes etc. 289 is not approved,
and because it is impossible to particularize the prohibition of utilizing these substances according to the terms of one’s own doctrine,
therefore the particularization must be determined in the terms of the others’, i.e. the Pañcarātrikas’, doctrine;
and thus the offering up becomes greatly purifying.
And inasmuch as therefore the utilization of nirmālya and nivedya becomes most purifying,
it must needs be accepted by those who admit the validity of the Pañcarātra Tantra as well by others who do not.

[289]: without divine utilisation.

मूलम्

एतद् उक्तं भवति पुष्पौदनादि-स्वरूप-मात्र-त्यागस्यानिष्टत्वात् स्व-दर्शनानुसारेण च विशेषणासंभवात् पर-दर्शनानुसारेण विशेषण-निरूपणे तस्यैव परम-पावनत्वापातात् तत्र प्रामाण्यम् अभ्युपगच्छद्भिर् अन्यैश् च निर्माल्य-निवेद्योपयोगोऽवश्याङ्गीकरणीय इति ।

पाञ्चरात्रे ऽनिषेधः

निषेधाभासाः

विश्वास-प्रस्तुतिः

आह

कथं पुनस् तत्र प्रामाण्यम् अङ्गीकुर्वता निर्माल्यं निवेद्यं च न परिहरणीयम् ।

Buitenen

[[114]]

135. OBJECTION. But how is it possible then that even one who admits the validity of Pāñcarātra
should reject nevertheless the nirmālya and nivedya?

मूलम्

आह कथं पुनस् तत्र प्रामाण्यम् अङ्गीकुर्वता निर्माल्यं निवेद्यं च न परिहरणीयम् ।

विश्वास-प्रस्तुतिः

निषिध्यते हि तन्त्रेषु
निर्माल्य-प्राशनादिकम् ।
यथा सनत्-कुमारीय-
संहितायाम् उदीरितम् ।

Buitenen

For in the Tantras the tasting etc. of the nirmālya is prohibited. For instance, it is said in the Sanatkumārīya Saṃhitā:

नरसिंहः

Published by the Adyar Library and Research Centre, Madras, 1969.

मूलम्

निषिध्यते हि तन्त्रेषु निर्माल्य-प्राशनादिकम् ।
यथा सनत्-कुमारीय-संहितायाम् उदीरितम् ।

विश्वास-प्रस्तुतिः

निवेदितं तु यद् धव्यं
पुष्पं फलम् अथापि वा ।
तन् निर्माल्यम् इति प्रोक्तं
तत् प्रयत्नेन वर्जयेत् ॥

Buitenen

“The offering that is proffered (to the deity), flower or fruit, is called nirmālya; that must be avoided meticulously.”

नरसिंहः

Śivarātra, V. 48b-49a. Also Cf. Paramasaṁhitā XII. 36b-37a:

पूजायां विनियुक्तं तु यद् द्रव्यम् इह पूजकैः ।
निर्माल्यम् इति विज्ञेयं न कार्येषु वर्जितम् ॥

Cf also Vasiṣṭhasaṁhitā ( ms ) VII. 52b-5 a:

निवेदितं च यद् द्रव्यं पुष्पं फलम् अथापि वा ।
निर्माल्यम् इति तं [ तत् ? ] चैव प्रयत्नेन विवर्जयेत् ॥

मूलम्

निवेदितं तु यद् धव्यं
पुष्पं फलम् अथापि वा ।
तन् निर्माल्यम् इति प्रोक्तं
तत् प्रयत्नेन वर्जयेत् ॥

विश्वास-प्रस्तुतिः

तथा प्रदेशान्तरे -

निर्माल्यं भक्षयित्वैवम्
उच्छिष्टम् अगुरोर् अपि ।
मासं पयो-व्रतो भूत्वा
जपन्न् अष्टाक्षरं सदा ॥
ब्रह्म-कूर्चं ततः पीत्वा
पूतो भवति मानवः ।

इति,

Buitenen

Similarly in another passage: “When one has eaten nirmālya, or the foodrests of someone who is not one’s guru, one must observe a milk-vow for a month, continuously recite the eight-syllable formula, and drink the pañcagavya,279 in order to be purified.“290

[290]: The pañcagavya is a substance in which the 5 products of the cow are mingled.

नरसिंहः

निर्माल्यं … Ṛṣirātra, VIII. 77b-78. Variants: “भक्षयित्वा चापि” in the first line, “जप्त्वा चाष्टाक्षर” in the second line and “पूतो भवति साधकः” in the third line.

ब्रह्मकूर्चं … A mixture of five products of the cow (pañcagavya) with darbha-water.

मूलम्

तथा प्रदेशान्तरे -

निर्माल्यं भक्षयित्वैवम् उच्छिष्टम् अगुरोर् अपि ।
मासं पयो-व्रतो भूत्वा जपन्न् अष्टाक्षरं सदा ॥
ब्रह्म-कूर्चं ततः पीत्वा पूतो भवति मानवः ।
इति,

विश्वास-प्रस्तुतिः

तथा इन्द्र-रात्रे ।

न चोपजीवेद् देवेशं
न निर्माल्यानि भक्षयेत् ।

Buitenen

Likewise in the Indrarātra: “One should not live off the Supreme God, nor eat the nirmālya offerings.”

नरसिंहः

IX. 2a.

मूलम्

तथा इन्द्र-रात्रे ।
न चोपजीवेद् देवेशं न निर्माल्यानि भक्षयेत् ।

विश्वास-प्रस्तुतिः

तथा -

न चोपभोगयोग्यानि
निर्माल्यानि कदाचन ।

इति,

Buitenen

Also:

“And the nirmālya offerings are never fit for consumption.”

नरसिंहः

This is not found in the extant text of the Indrarātra-section, perhaps lost in the rest of ch. IX, which ends in a blank.

मूलम्

तथा -

न चोपभोगयोग्यानि
निर्माल्यानि कदाचन ।
(न चोपभोगयोग्यानीति पा. ।) इति,

विश्वास-प्रस्तुतिः

तथा संहितान्तरे -

निर्माल्यानि न चाश्नीयान्
न जिघ्रेन् न च लङ्घयेत् ।

इति,

Buitenen

Similarly in another Saṃhitā:

“One should not eat the nirmālya offerings, nor smell them, nor step over them.”

नरसिंहः

To be identified.

Cf Paramasaṁhitā III. 44:

निर्माल्यं लङ्घयेन् नैव न भुञ्जीत न संस्पृशेत् ।
न दद्याच् च न जिघ्रेच् च रक्षेत्………च ॥

मूलम्

तथा संहितान्तरे ।
निर्माल्यानि न चाश्नीयान् न जिघ्रेन् न च लङ्घयेत् ।
इति,

विश्वास-प्रस्तुतिः

तद् एवम् अनेक-संहिता-समधिगत-निषेधस्य निर्माल्योपभोगस्य
कथम् इव पावनत्वाङ्गीकारः ।

Buitenen

How then can one accept the purity of the utilization of the nirmālya when we thus know from several Saṃhitā that it is prohibited?

मूलम्

तदेवम् अनेक-संहिता-समधिगत-निषेधस्य निर्माल्योपभोगस्य कथम् इव पावनत्वाङ्गीकारः ।

विलम्ब्य प्रयोगः

विश्वास-प्रस्तुतिः

अत्राह देवम् उद्दिश्य
त्यक्तस्यापि च वस्तुनः ।
नाडिका-दशकाद् अर्वाग्
उपयोगो न निन्द्यते ॥

Buitenen

REFUTATION. To this he says: The utilization of a proffered substance which has been offered up to the deity is not condemned if it is done within after a period of ten nāḍikās.291

[291]: one nāḍikā is a half muhūrta.

मूलम्

अत्राह देवम् उद्दिश्य त्यक्तस्यापि च वस्तुनः ।
नाडिका-दशकाद् अर्वाग् उपयोगो न निन्द्यते ॥

विश्वास-प्रस्तुतिः

तथा इन्द्र-रात्रे एव -

दश-नाड्य्-अधिकं पूरं
स्थापयेत् तु विचक्षणः ।
काल-योगस् समुद्दिष्टो
रात्राव् अहनि चैव हि ॥

Buitenen

Thus in the same Indrarātra:

“The wise one must let the offering-cake stand for ten nāḍikās. This period of time has been prescribed both for night and for day.

नरसिंहः

I. 10b-11a. Variants: स्थापयित्वा for स्थापयेत् तु and स उद्दिष्टः for समुद्दिष्टः ।

मूलम्

तथा इन्द्र-रात्रे एव -
दशनाड्यधिकं पूरं स्थापयेत् तु विचक्षणः ।
कालयोगस् समुद्दिष्टो रात्राव् अहनि चैव हि ॥

विश्वास-प्रस्तुतिः

अ-काल-योगातिरिक्तं तु
निर्माल्यं परिचक्षते ।
ततस् तद् अप्सु चैवाग्नौ
क्षिपेद् भूमौ खनेत् तु वा ॥

इति ।

Buitenen

They condemn the nirmālya that has stood for more other than this period of time;
thereupon he must throw it in water, or in fire, or bury it in the ground.”

नरसिंहः

I. 11b, 10a. Variant: वा चाग्नौ for चैवाग्नौ ।

मूलम्

कालयोगातिरिक्तं तु निर्माल्यं परिचक्षते ।
ततस् तद् अप्सु चैवाग्नौ क्षिपेद् भूमौ खनेत् तु वा ॥

इति ।

अनधिकारिभ्यो निषेधः

विश्वास-प्रस्तुतिः

उच्यते - नात्र निर्माल्य-
प्राशनादि प्रशस्यते ।
किं तु पूरण-पूजायां
विनियुक्तस्य वस्तुनः ॥ नाडिका-दशके पूर्णे
पश्चात् त्यागो विधीयते ।

Buitenen

OBJECTION. But what is said here is not to praise the tasting etc. of the nirmālya, but to prescribe that the substance of the cake pūjā is thrown away after a period of ten nāḍikās.

नरसिंहः

For an account of pūraṇapūjā, see Indrarātra, ch. I. See also Kapiñjalasaṁhitā, ch. 29.

मूलम्

उच्यते - नात्र निर्माल्य-प्राशनादि प्रशस्यते ।
किं तु पूरण-पूजायां विनियुक्तस्य वस्तुनः ॥ नाडिका-दशके पूर्णे पश्चात् त्यागो विधीयते ।

विश्वास-प्रस्तुतिः

सामान्येन निवेदितस्य पुष्पौदनादेः
कृत-कार्यताया निर्माल्यत्वेन +अपनये प्राप्ते
नाडिका-दश-पूरणं पूजाङ्गतया स्थापनं विधीयते

दश-नाड्य्-अधिकं पूरं स्थापयेत्

इति ।

Buitenen

In the statement:

“He must let the offering cake stand for over ten nāḍikās,”

the injunction is laid down that when the proffered flowers, cake etc. in general have been taken off as nirmālya,
because they have now fulfilled their ritual function,
they must be kept by way of accessory pūjā rite for a period of ten nāḍikās.

नरसिंहः

Indrarātra, I. 10b.

मूलम्

सामान्येन निवेदितस्य पुष्पौदनादेः
कृत-कार्यताया निर्माल्यत्वेन +अपनये प्राप्ते
नाडिका-दश-पूरणं पूजाङ्गतया स्थापनं विधीयते दशनाड्यधिकं पूरं स्थापयेत् इति ।

विश्वास-प्रस्तुतिः

ततश् च तन्त्र-सिद्धान्त-
पर्यालोचनयापि वः ।
हरिद्रा-चूर्ण-नैवेद्य-
पादाम्बु-स्पर्शनादिकम् ॥ न सिद्ध्येत् तन्त्र-सिद्धान्तः
क्व, नु यूयं क्व चाल्पकाः ।

Buitenen

And consequently even a study of the conclusions of your own Tantras shows that the touching etc. of the turmeric powder, the food offerings and the water used to clean the idol’s feet is not established by Tantric doctrine. Now, where are you!

नरसिंहः

This is Yāmuna’s reply to the above arguments regarding nirmālya and naivedya.

मूलम्

ततश् च तन्त्र-सिद्धान्त-पर्यालोचनयापि वः ।
हरिद्रा-चूर्ण-नैवेद्य-पादाम्बु-स्पर्शनादिकम् ॥
न सिद्ध्येत् तन्त्र-सिद्धान्तः क्व नु यूयं क्व चाल्पकाः ।

विश्वास-प्रस्तुतिः

अहो विद्या-लवोल्लासि-
जिह्वा-ग्रस्त-विचेतसः ॥ सितासितं वचो भाति
स-कलङ्केन्दु-बिम्बवत् । +++(5)+++
ये हि युष्मद्-विधा मूर्खास्
तेषाम् एव निषेध-गीः ॥

Buitenen

REFUTATION. Where are you, loquacious debaters, witless fools who have been swallowed by your own tongue which plays around with a grain of knowledge! Your objection looks black and white at once, like the moon with its spots.
This prohibition applies only to fools like you,

नरसिंहः

Cf. Sāttvata Saṁhitā, XXI. 45b-46:

yo na vettyacyutaṁ tattvaṁ pañcarātrārthameva ca ।
tathā sadvaiṣṇavīṁ dīkṣāṁ nānāśāstroktalakṣaṇām ॥
na tena saha saṁbandhaḥ kāryaḥ………………. ॥

मूलम्

अहो विद्यालवोल्लासि-जिह्वा-ग्रस्त-विचेतसः ॥
सितासितं वचो भाति सकलङ्केन्दुबिम्बवत् ।
ये हि युष्मद्-विधा मूर्खास् तेषाम् एव निषेध-गीः ॥

विश्वास-प्रस्तुतिः

सेव्यमानं हि तत् सर्वं
वैष्णवैर् अधिकारिभिः ।
अघौघ-ध्वंसनायालं
सोम-पानम् इवाध्वरे ॥

Buitenen

since all this is indeed to be observed by Vaiṣṇavas who are qualified to do so, and thus it is capable of wiping off a multitude of sins in the same way as the drinking of soma at a Vedic sacrifice;

मूलम्

सेव्यमानं हि तत् सर्वं वैष्णवैर् अधिकारिभिः ।
अघौघ-ध्वंसनायालं सोम-पानम् इवाध्वरे ॥

विश्वास-प्रस्तुतिः

अन्येषां हि तद् अस्पृश्यं
पुरो-डाशः शुनाम् इव । +++(5)+++

Buitenen

for it is not to be touched by others, just as the puroḍaśa cake292 is not to be touched by dogs!

[292]: cake used at Vedic offerings.

नरसिंहः

Cf. Pādmasaṁhitā, Caryāpāda, XII.83b:

śunāmiva puroḍāśo na nīceṣu tadīyate ॥

मूलम्

अन्येषां हि तद् अस्पृश्यं पुरो-डाशः शुनाम् इव ।

विश्वास-प्रस्तुतिः

तद् यथेश्वर-संहितायाम् -

दुर्लभो भगवद्-भक्तो
लोकेऽस्मिन् पुरुषः सुत ।
तत्रापि दुर्लभतरो
भावो वै यस्य तत्त्वतः ॥
पादोदकं प्रति शुभस्
सिद्धान्नैश् च निवेदिते
स्रग्-आदिके चोपभुक्ते
ह्य् उपभोगार्थम् एव च ॥

Buitenen

Thus in the Īśvara Saṃhitā,

“It is difficult to find in this world a true votary of the lord, my son,
and, among those who are, it is even more difficult to find a disposition which is truly pure enough for the footwater, or to use the garlands etc. which have been mentioned in the doctrine,

नरसिंहः

These and a few other verses following, quoted by Yāmuna as from Īśvarasaṁhitā, are not found in the available āgamas of that name. The Īśvarasaṁhitā from which Yāmuna quotes appears to have been a different work. See Introduction to Jayākhyasaṁhitā ( Gaekwad Oriental Series ), p. 49.

मूलम्

तद् यथेश्वर-संहितायाम् -

दुर्लभो भगवद्-भक्तो लोकेऽस्मिन् पुरुषः सुत ।
तत्रापि दुर्लभतरो भावो वै यस्य तत्त्वतः ॥ पादोदकं प्रति शुभस्सिद्धान्नैश् च निवेदिते ।
स्रगादिके चोपभुक्ते ह्य् उपभोगार्थम् एव च ॥

राममिश्रशास्त्री

(श्रीमद्भागवते यथाऽह भगवन्तं श्रीकृष्णम् उद्धवः -

तवोच्छिष्ट-भुजो दासास्
तव मायां जयेमहि

इति ।)

विश्वास-प्रस्तुतिः

अतश् च भाव-हीनानाम्
अभक्तानां च षण्-मुख ।
निषिद्धं भगवन्-मन्त्र-
दृक्-पूतम् अखिलं हि यत् ॥

इति,

विषयः

प्रसादः, निर्माल्यम्, भक्तिः

Buitenen

Therefore, O six-faced One, all this which is purified by the formulae and the glance of the Bhagavān is forbidden to those who lack this disposition and are not votaries.”

मूलम्

अतश् च भाव-हीनानाम् अभक्तानां च षण्मुख ।
निषिद्धं भगवन्मन्त्र-दृक्-पूतम् अखिलं हि यत् ॥

इति,

पावित्र्यम्

विश्वास-प्रस्तुतिः

तथा प्रदेशान्तरे -

कुङ्कुमं चन्दनं चैतत्
कर्पूरम् अनुलेपनम् ।
विष्णु-देह-परामृष्टं
तद् वै पावन-पावनम् ॥

इति,

Buitenen

And in another passage: “The saffron, sandal, camphor and oils that have been taken off Viṣṇu’s body are supremely purifying.”

नरसिंहः

To be identified.

मूलम्

तथा प्रदेशान्तरे -

कुङ्कुमं चन्दनं चैतत् कर्पूरम् अनुलेपनम् ।
विष्णु-देह-परामृष्टं तद् वै पावन-पावनम् ॥

इति,

विश्वास-प्रस्तुतिः

तथा पद्मोद्भवे -

विष्णु-देह-परामृष्टं
यश् चूर्णं शिरसा वहेत् ।
सोऽश्वमेध-फलं प्राप्य
विष्णु-लोके महीयते ॥

Buitenen

Likewise in the Padmodbhava: “He who wears the powder that is taken of Viṣṇu’s body on his head obtains the fruit of a Horse Sacrifice and glories in Viṣṇu’s heaven.”

मूलम्

तथा पद्मोद्भवे -
विष्णुदेहपरामृष्टं यश्चूर्णं शिरसा वहेत्।
सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥

विश्वास-प्रस्तुतिः

तथेश्वर-संहितायाम् ।

उपभुक्तस्य सर्वस्य
गन्ध-पुष्पादिकस्य च ।
स्नानादाव् उपयुक्तस्य
दधि-क्षीरादिकस्य च ॥
दूषणं न प्रयोक्तव्यं
शब्दैर् अ-प्रतिपत्ति-जैः ।

Buitenen

Similarly in the Īśvara Saṃhitā,

“No blame should be put by statements arising from ignorance on all that is used, the perfume, flowers etc., (the water) of the idol’s bath etc., and the curds, milk etc.

नरसिंहः

This is the second instance where Yāmuna quotes from Īśvarasaṁhitā, which is yet to be recovered.

मूलम्

तथेश्वर-संहितायाम् ।

उपभुक्तस्य सर्वस्य गन्ध-पुष्पादिकस्य च ।
स्नानादाव् उपयुक्तस्य दधि-क्षीरादिकस्य च ॥ दूषणं न प्रयोक्तव्यं शब्दैर् अप्रतिपत्तिजैः ।

राममिश्रशास्त्री

(अप्रतिपत्तिजैः = निन्दाऽसूयाद्य्-आविष्कार-कारकैर् इत्यर्थः ।)

विश्वास-प्रस्तुतिः

निर्माल्य-बुद्ध्या देवीयं
पावनं दूषयन्ति ये ॥ ते यान्ति नरकं मूढास्
तत्-प्रभावापलापिनः ।

इति,

Buitenen

Those who condemn this divine purifying agent because they consider it nirmālya, those witless detractors of its power will go to hell.”

मूलम्

निर्माल्य-बुद्ध्या देवीयं पावनं दूषयन्ति ये ॥ ते यान्ति नरकं मूढास् तत्प्रभावापलापिनः ।

इति।

वैष्वक्सेने निषेधः

विश्वास-प्रस्तुतिः

यानि पुनर् दीक्षितम् एवाधिकृत्य
समयानुशासन-समये निर्माल्योपयोग-निषेध-पराणि वचनानि
तानि पारिषदेशोपयोगोत्तर-कालाभिप्रायेण द्रष्टव्यानि ।

Buitenen

The above statements which to the consecrated prohibit the use of nirmālya at the time mentioned in the time instruction293 must be understood to mean a time subsequent to that when the (offerings to) the chief of the Bhagavān’s retinue294 is being used.

Buitenen - Notes

[293]: namely, in the above statement on the 10 nāḍikās.

[294]: Viśvaksena, to whom pūjā is performed after the main pūjā.

नरसिंहः

इतः पूर्वम् अभक्तानां निर्माल्याद्य्-उपयोग-निषेध-विषयो विचारितः । इदानीं दीक्षितस्यापि तद्-विषये विचारः प्रस्तूयते ।

मूलम्

यानि पुनर् दीक्षितम् एवाधिकृत्य समयानुशासन-समये निर्माल्योपयोग-निषेध-पराणि वचनानि तानि पारिषदेशोपयोगोत्तर-कालाभिप्रायेण द्रष्टव्यानि ।

राममिश्रशास्त्री

(भगवत्-पारिषदानम् ईशो विष्वक्सेनस्
तद्-उपयोगानन्तर-काले निषेध-पराणि द्रष्टव्यानि ।)

विश्वास-प्रस्तुतिः

यतो भगवद्-अर्थेन
त्यक्तं स्रक्-चन्दनादिकम् ।
पश्चाद् अभोग्यतां याति
विष्वक्सेन-निवेदनात् ॥

Buitenen

Since the garlands, sandal etc, which are offered up to the Bhagavān, later on, after the Viśvaksena offering, become unfit to eat,

नरसिंहः

Cf. Sāttvata Saṁhitā, X. 57-58.

दिजातेः दत्त-शिष्टस्य पुष्प-पत्रादिकस्य च ।
विहितश् चाम्भसि त्यागो विश्वक्सेनेनार्चने कृते ॥
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ।
नैवेद्यं मन्त्र-मूर्तीनां किञ्चित्-पुष्प-फलादृते ॥

मूलम्

यतो भगवदर्थेन त्यक्तं स्रक्-चन्दनादिकम् ।
पश्चाद् अभोग्यतां याति विष्वक्सेन-निवेदनात् ॥

विश्वास-प्रस्तुतिः

अत एव निवेद्य्-आदि
ततोऽर्वाग् एव सात्त्वतैः ।
सेव्यते तेन तत् तेषाम्
उत्कर्षस्यैव कारणम् ॥

Buitenen

therefore the Sātvatas use the nivedya etc. before that time. Consequently the use of the nirmālya is a cause of excellence for the Sātvatas.

मूलम्

अत एव निवेद्यादि ततोऽर्वाग् एव सात्त्वतैः ।
सेव्यते तेन तत् तेषाम् उत्कर्षस्यैव कारणम् ॥

देवतान्तर-निर्माल्ये

विश्वास-प्रस्तुतिः

अपि च ।

देवतान्तर-निर्माल्यं
शिष्टैर् इष्टं विगर्हितम् +++(सुरा-पानवत्)+++ ।
इदं तु वैदिकत्वेन
सोम-पानवद् इष्यते ॥

Buitenen

[[118]]

136. Moreover, it is our postulation that the exemplary people hold the nirmālya of other gods in contempt; this is postulated like the drinking of soma (which is good) because it is Vedic (in contrast to the drinking of liquor which is evil).

नरसिंहः

देवतान्तर-निर्माल्यं शिष्टैः विगर्हित-स्वरूपेण इष्टम् इत्य् अर्थः ।

इदं तु … Cf. Viṣṇusaṁhitā, XXXIX. 12-13a:

निर्माल्यं न स्पृशेदद्यात् लङ्घयेद् वाशनं कुतः ।
सर्वेषाम् एव देवानां निर्माल्यम् अशुचि स्मृतम् ॥
विष्णु-भुक्तं तु पुष्पादि शुचीत्य् आददते परे ।

मूलम्

अपि च ।

देवतान्तर-निर्माल्यं शिष्टैर् इष्टं विगर्हितम् ।
इदं तु वैदिकत्वेन सोम-पानवद् इष्यते ॥

निगमनम्

विश्वास-प्रस्तुतिः

ये नाम भगवच्छास्त्र-
प्रामाण्यं नानुजानते ।
न निरूपयितुं शक्यं
तैर् निर्माल्यम् इतीरितम् ॥

Buitenen

So I have said that those who do not accept the validity of the Bhagavān’s doctrine are unable to determine what is nirmālya.

मूलम्

ये नाम भगवच्छास्त्र-प्रामाण्यं नानुजानते ।
न निरूपयितुं शक्यं तैर् निर्माल्यम् इतीरितम् ॥

विश्वास-प्रस्तुतिः

निरूपणेऽपि भगवन्-
निर्माल्यम् अतिपावनम् ।
समस्त-वैदिकाचार्य-
वचनैर् अवसीयते ॥

Buitenen

When it is properly determined (namely according to the Bhagavān’s doctrine) the Bhagavān’s nirmālya proves to be extremely purifying, as is demonstrated by the statements of all Vedic teachers.

मूलम्

निरूपणेऽपि भगवन्निर्माल्यम् अतिपावनम् ।
समस्त-वैदिकाचार्य-वचनैर् अवसीयते ॥

शब्द-प्रमाणम्

विश्वास-प्रस्तुतिः

शब्द-प्रमाणके ह्य् अर्थे
यथा-शब्दं व्यवस्थितिः ।
न चात्र शब्दो नास्तीति
वक्तव्यं बधिरेतरैः ॥+++(5)+++

विषयः

शब्दः, पाञ्चरात्रम्

Buitenen

In a matter for which the only means of knowledge is verbal testimony, it must be so as verbal testimony says that it is. Unless one is deaf, one cannot say that there is no verbal testimony concerning it.

मूलम्

शब्द-प्रमाणके ह्य् अर्थे यथा-शब्दं व्यवस्थितिः ।
न चात्र शब्दो नास्तीति वक्तव्यं बधिरेतरैः ॥

विश्वास-प्रस्तुतिः

यथा ब्रह्म-पुराणे च पठ्यते -

विष्णोर् नैवेद्यकं शुद्धं
मुनिभिर् भोज्यम् उच्यते ।
अन्यन् निवेद्य-निर्माल्यं
भुक्त्वा चान्द्रायणं चरेत् ॥

Buitenen

For instance it is said in the Brahma Purāṇa:

“The nivedya of Viṣṇu is declared by the sages to be pure and fit for consumption; one who eats other nirmālya and nivedya must perform the cāndrāyaṇa in expiation.

नरसिंहः

विष्णोर् … Passages to be identified.

मुनिभिर्भोज्यमुच्यते … Cf. Pādmasaṁhitā, caryā, XII. 81b:

विष्णोर् निवेदितेन शुद्धं पावनानां च पावनम् ॥

मूलम्

यथा ब्रह्म-पुराणे च पठ्यते -

विष्णोर् नैवेद्यकं शुद्धं मुनिभिर् भोज्यम् उच्यते ।
अन्यन् निवेद्य-निर्माल्यं भुक्त्वा चान्द्रायणं चरेत् ॥

विश्वास-प्रस्तुतिः

विष्णु-देह-परामृष्टं
माल्यं पाप-हरं शुभम् ।
यो नरश् शिरसा धत्ते
स याति परमां गतिम् ॥

Buitenen

The mālya which is taken from the body of Viṣṇu takes away evil and is holy.
He who wears it on his head goes to supreme bliss.”

नरसिंहः

Cf. Pādmasaṁhitā, caryā, XII. 85:

धरितं विष्णु-निर्माल्यं चन्दनाद्य् अनुलेपनम् ।
अहर्-निशं धारयतां न पुनर्-जननं भवेत् ॥

मूलम्

विष्णु-देह-परामृष्टं माल्यं पाप-हरं शुभम् ।
यो नरश् शिरसा धत्ते स याति परमां गतिम् ॥

विश्वास-प्रस्तुतिः

एतेन -

निर्माल्यं च निवेद्यं च भुक्त्वा चान्द्रायणं चरेत् ।

इति स्मरणम् अपि रुद्रकाल्यादिविषयम् इत्यावेदितव्यम्,

Buitenen

It follows that the smṛti statement that a man who eats nirmālya and nivedya must perform the cāndrāyaṇa 295 should be taken to bear upon the nirmālya of Rudra, Kālī etc.

[295]: as quoted supra § 16.

नरसिंहः

To be traced out. Cf. Pādmasaṁhitā, caryā, XII. 79a:

ब्रह्मेशानादि-देवानां नैव भोज्यं निवेदितम् ।

मूलम्

एतेन -

निर्माल्यं च निवेद्यं च भुक्त्वा चान्द्रायणं चरेत् ।

इति स्मरणम् अपि रुद्रकाल्यादिविषयम् इत्यावेदितव्यम्,

विश्वास-प्रस्तुतिः

तथा महा-भारते -

हृदि ध्यायन् हरिं तस्मै
निवेद्यान्नं समाहितः ।
मध्यमानामिकाङ्गुष्ठैर्
गृहीत्वान्न-मितं पुनः ॥

Buitenen

(282: Mahābhārata quotations not verifiable. )

Thus in the Mahābhārata:

“Meditating in one’s heart upon Hari, one must offer food to Him with full attention, thereupon pick up this food again with the middlefinger and the thumb,

नरसिंहः

To be identified.

Cf. Laghuvyāsasaṁhitā ( Aṣṭāviṁśatismṛtis ) ch. II. 74-76:

स्वाहा-प्रणव-संयुक्तं प्राणायान्नाहुतिं ततः ।
अपानाय ततो हुत्वा ध्यानाय तद्-अनन्तरम् ॥
उदानाय ततो हुत्वा समानायेति पञ्चमम् ।
विज्ञाय चार्थम् एतेषां जुहुयाद् आत्मनि द्वि-जः ॥
शेषम् अन्नं यथा-कामं भुञ्जीत व्यञ्जनैर् युतम् ।
ध्यात्वा तन्-मनसा देवम् आत्मानं वै प्रजा-पतिम् ॥

This type of taking food is called ‘anuyāga’. See Pāñcarātrarakṣā, p. 115: ‘ईदृशं च भोजनम् एवानुयाग-समाख्यया ऽन्यत्र व्यपदिश्यते ।’

मूलम्

तथा महा-भारते -

हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमानामिकाङ्गुष्ठैर् गृहीत्वान्नमितं पुनः ॥

विश्वास-प्रस्तुतिः

प्राणाय चेत्य् अपानाय
व्यानाय च ततः परम् ।
उदानाय समानाय
स्वाहेति जुहुयात् क्रमात् ॥

इति,

Buitenen

and then sacrifice it bit by bit, saying: “Prāṇāya svāhā, Apānāya svāhā, Vyānāya svāhā, Udānāya svāhā, Samānāya svāhā.”

मूलम्

प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥

इति,

विश्वास-प्रस्तुतिः

तथा प्रदेशान्तरे -

निवेदितं तु यद् देवे
तद् दद्याद् ब्रह्म-चारिणे ।

इति ।

Buitenen

Likewise in another passage, “what has been offered to the god must be given to a brahmacārin.“296

[296]: Mahābhārata quotations not verifiable.

नरसिंहः

To be traced out.

मूलम्

तथा प्रदेशान्तरे -

निवेदितं तु यद् देवे
तद् दद्याद् ब्रह्म-चारिणे ।

इति ।

विश्वास-प्रस्तुतिः

तथा महा-भारते -

पञ्चरात्र-विदो मुख्यास्
तस्य गेहे महात्मनः ।
प्राशनं भगवद्-भुक्तं
भुञ्जते चाग्र-भोजनम् ॥

इति,

Buitenen

Thus in the Mahābhārata:

“The saintly knowers of the Pañcaratra ate in his house that which had been left over by the Bhagavān, as a means to attain to bliss, as supreme nourishment.“297

[297]: The ritual taking of food is considered a performance of the prāṇāgnihotra.

नरसिंहः

Śānti, ch. 322, śl. 23.
Cf. Sāttvatasaṁhitā, ch. 17, śls. 423-424:

दानानं च व्रतानां च तपसाम् यज्ञ-कर्मणाम् ।
निवेदितव्यं यद् द्रव्यं, दत्तं वा यत् पुरा ॥
कर्तव्यम् अनुयागार्थं प्राक् तद् एव हि केवलम् ।
तद् भावितम् अतो ऽश्रीयात् पावनं प्राणान्वितम् ॥

मूलम्

तथा महा-भारते -

पञ्चरात्र-विदो मुख्यास् तस्य गेहे महात्मनः ।
प्राशनं भगवद्-भुक्तं भुञ्जते चाग्र-भोजनम् ॥

इति,

विश्वास-प्रस्तुतिः

तथा च भगवान् शौनकः

नैवेद्यं स्वयम् अश्नीयाद्

इति ।

Buitenen

And likewise the blessed Śaunaka:
“He himself eats the nivedya.”

नरसिंहः

Viṣṇudharma ( of Bhaviṣyapurāṇa ), Śaunakīya, ch. 92. śl. 32a:

नैवेद्यं स्वयम् अश्नीयात् मौनीत्य् एतद् उदङ्-मुखः ।

Cf. Pūjāsaṅgraha ( ms. ) folio 90b:

स्वयं वापि तद् अश्नीयात् सर्व-पाप-विशुद्धये ।

मूलम्

तथा च भगवान् शौनकः नैवेद्यं स्वयम् अश्नीयाद् इति, ।

विश्वास-प्रस्तुतिः

इत्यादि-स्मृति-शत-सिद्ध-शुद्धि विष्णोर्
नैवेद्यं भव-भय-भेदि यो विनिन्देत् ।
नास्तिक्यात् स्मृति-वचनान्य् उपेक्षमाणस् तज्जिह्वा-विशसनम् एव युक्तम् अत्र ।

Buitenen

He who condemns Viṣṇu’s nivedya, whose purity is proved by hundreds of similar smṛtis and which dispels the fear of rebirth, really ignores the statements of the smṛti because of his heterodoxy and ought to have his tongue cut off.

[[119]]

मूलम्

इत्यादि-स्मृति-शत-सिद्ध-शुद्धि विष्णोर्
नैवेद्यं भव-भय-भेदि यो विनिन्देत् ।
नास्तिक्यात् स्मृति-वचनान्य् उपेक्षमाणस् तज्जिह्वा-विशसनम् एव युक्तम् अत्र ।

प्राणाग्निहोत्रे नैवेद्यम्

विश्वास-प्रस्तुतिः

ननु प्राणाग्निहोत्रस्य
नैवेद्य-साधनं कथम् ।
निर्-इष्टकं न शिष्टानाम्
इष्टं होमादि-साधनम् ॥

Buitenen

137. OBJECTION. But how can the nivedya be a means for the prāṇāgnihotra?283
The exemplary people do not approve of a means for homa etc. for which no building bricks are used.?? (no sacrifice has been made.)

283: The ritual taking of food is considered a performance of the prāṇāgnihotra.

नरसिंहः

Vedānta Deśika quotes from “ननु” upto “यथानुष्ठान-तन्त्रत्वं” etc., below, in his Saccaritrārakṣā, p. 93.

मूलम्

ननु प्राणाग्निहोत्रस्य नैवेद्यसाधनं कथम् ।
निर्-इष्टकं न शिष्टानाम् इष्टं होमादि-साधनम् ॥

विश्वास-प्रस्तुतिः

न च +++(शरीरार्थं)+++ द्रव्यान्तराक्षेपो
होमायेत्य् अ-कल्पते ।
रागतः प्राप्तम् एवान्नं
यतस् तेनोपजीव्यते ॥

Buitenen

Nor can a substitution of another substance do duty as a homa,
because he lives off food that has been obtained according to taste.

नरसिंहः

आक्षेपः कल्पनम् इति यावत् ।

मूलम्

न च द्रव्यान्तराक्षेपो होमायेत्यकल्पते ।
रागतः प्राप्तम् एवान्नं यतस् तेनोपजीव्यते ॥

विश्वास-प्रस्तुतिः

नापि +++(सायम्-प्रातर्-अपेक्षया)+++ भुक्त्य्-अन्तराक्षेपो
नैवेद्यायोपपाद्यते ।
सायं-प्रातर् द्वि-जातीनाम्
अशनं श्रुति-चोदितम् ॥
नान्तरा भोजनं कुर्याद्
इति तत्-प्रतिषेधनात् ।

Buitenen

Nor can a substitution of another consumption be made to replace the nivedya,
for scripture enjoins upon the twiceborn a meal in the evening and a meal in the morning,
as follows from the prohibition: “One should not take food in between.”

नरसिंहः

The remainder of the verse is ‘अग्नि-होत्र-समो विधिः ।’ Many Smṛtis attribute this to Manu. But Aparārka on Yājñavalkyasmṛti (p. 61) attributes this to Saṁvarta. Cf. also Saṁvartasmṛti ( Collection of 27 smṛtis, Ānandāśrama Skt. Series ), I.12.

मूलम्

नापि भुक्त्यन्तराक्षेपो नैवेद्यायोपपाद्यते ।
सायं-प्रातर् द्वि-जातीनाम् अशनं श्रुति-चोदितम् ॥ नान्तरा भोजनं कुर्याद् इति तत्-प्रतिषेधनात् ।

विश्वास-प्रस्तुतिः

नैष दोषो यतः प्राण-
प्रभृतिर् देवता-गणः ॥
गुण-भूतः श्रुतो विष्णोर्
विष्णु-पारिषदेशवत् ।

Buitenen

REFUTATION. That is no defect, since the multitude of deities, like prāṇa etc. are revealed to be parts of Viṣṇu, in the same way as Viśvaksena, the chief of Viṣṇu’s retinue.

मूलम्

नैष दोषो यतः प्राण-प्रभृतिर् देवता-गणः ॥
गुण-भूतः श्रुतो विष्णोर् विष्णुपारिषदेशवत् ।

विश्वास-प्रस्तुतिः

यथैव हि भगवन्-निवेदितम् अपि पुष्पौदनादि
विष्वक्सेनाय दीयमानं नानौचित्यम् आवहति ।

Buitenen

For just as the flowers, cake etc., though proffered to the Bhagavān
but actually given to Viśvaksena shows that.

मूलम्

यथैव हि भगवन्निवेदितम् अपि पुष्पौदनादि
विष्वक्सेनाय दीयमानं नानौचित्यम् आवहति ।

विश्वास-प्रस्तुतिः

यथा वा होतुर् उच्छिष्ट
एव सोम-रसो ऽध्वरे ।
अध्वर्य्व्-आदेर् विशुद्ध्यै स्याद्
एवम् अत्र भविष्यति ॥+++(4)+++

Buitenen

He is familiar under various guises, or just as at a sacrifice the soma juice that is left over by the hotṛ is pure to the adhvaryu, so it is also with the nirmālya.298

[298]: The hotar is the principal reciting priest at the soma sacrifice, the adhvaryu the main executive

मूलम्

यथा वा होतुरुच्छिष्ट एव सोम-रसोऽध्वरे ।
अध्वर्य्वादेर् विशुद्ध्यै स्याद् एवम् अत्र भविष्यति ॥

विश्वास-प्रस्तुतिः

अपि च -

भोज्याभोज्य-व्यवस्थायाः
शास्त्रम् एव निबन्धनम् ।
तच् चेद् भोज्यम् इदं ब्रूते
किं वयं विदधीमहि ॥

Buitenen

Moreover, only scripture can be our criterion for what is to be eaten and what is not to be eaten. When it says that something is fit to be eaten, what injunction are we to invent ourselves?

नरसिंहः

Cf. Bhagavadgītā, XVI. 24a:

तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ ।

मूलम्

अपि च ।
भोज्याभोज्य-व्यवस्थायाः शास्त्रम् एव निबन्धनम् ।
तच् चेद् भोज्यम् इदं ब्रूते किं वयं विदधीमहि ॥

विश्वास-प्रस्तुतिः

यथा ऽनुष्ठान-तन्त्रत्वं
नित्य-काम्याग्निहोत्रयोः ।
एवं प्राणाग्निहोत्रेऽपि
नैवेद्याशन-तन्त्रता ॥+++(5)+++

Buitenen

Just as the same rule governs both the periodical and the desiderative agnihotra, so the same rule governing the eating of the nivedya applies also to the prāṇāgnihotra.

[[120]]

नरसिंहः

उभयोद्देशेन सकृद् अनुष्ठानं तन्त्रम् ।

मूलम्

यथा ऽनुष्ठान-तन्त्रत्वं नित्य-काम्याग्निहोत्रयोः ।
एवं प्राणाग्निहोत्रेऽपि नैवेद्याशनतन्त्रता ॥

वैदिक-कर्मातिरस्कारः

विश्वास-प्रस्तुतिः

यद् अप्य् उक्तं

गर्भाधानादि-दाहान्त-संस्कारान्तर-सेवनाद्
भागवतानाम् अ-ब्रह्मण्यम्

इति तत्राप्य् अज्ञानम् एवापराध्यति,
न पुनर् आयुष्मतो दोषः,
यद् एते वंश-परम्परया वाजसनेय-शाखा-मधीयानाः
कात्यायनादि-गृह्योक्त-मार्गेण गर्भाधानादि-संस्कारान् कुर्वते ।

Buitenen

138. As to the remark299 that from the observance of different sacraments,
from conception ceremony to cremation,
it follows that the Bhagavatas are not brahmins,
here again ignorance is to blame.
It is not your Honour’s fault
that the Bhagavatas, who have the Vājasanevasakha in the transmission of their family line,
observe the sacraments of conception ceremony etc. according to the manner laid down by the grhyasutras of Katyayana etc.

[299]: supra § 17.

नरसिंहः

यदप्युक्तं … See p. 14 above for pūrvapakṣa. Vedānta Deśika quotes from here upto the end of the text, in his Nyāyapariśuddhi, p. 168

यदेते … Deśika quotes from here upto the end, in his Pāñcarātrarakṣā, p. 95.

कात्यायनादि … See Kātyāyanagṛhyasūtra ( ms. ), p. 25ff for saṁskāras.

मूलम्

यदप्युक्तं गर्भाधानादिदाहान्तसंस्कारान्तरसेवनाद् भागवतानामब्रह्मण्यमिति तत्राप्यज्ञानमेवापराध्यति, न पुनरायुष्मतो दोषः, यदेते वंशपरम्परया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते ।

एकायन-शाखा

विश्वास-प्रस्तुतिः

ये पुनः सावित्र्य्-अनुवचन-प्रभृति–त्रयी-धर्म-त्यागेन एकायन-श्रुति-विहितान् एव चत्त्वारिंशत् संस्कारान् कुर्वते
तेऽपि स्व-शाखा-गृह्योक्तम् अर्थं यथावद् अनुतिष्ठमानाः
न शाखान्तरीय–कर्माननुष्ठानाद् ब्राह्मण्यात् प्रच्यवन्ते,
अन्येषाम् अपि पर-शाखा-विहित-कर्माननुष्ठान-निमित्ताब्राह्मण्य-प्रसङ्गात्

Buitenen

Those who perform the forty sacraments
which are enjoined by the Ekayana scripture
while giving up the dharmas of the Veda,
from the recitation of the gāyatri onward, 300
they properly follow the rules laid down by the grhyasutras of their own sakha
and do not abdicate their brahminhood
because they fail to follow the rites of a different shakha;
since otherwise it would follow that other brahmins too would forfeit their brahminhood because they fail to perform the rites enjoined by other [[121]] people’s Sakha.

[300]: namely, at the upanayana ceremony.

नरसिंहः

अननुष्ठानात् हेतोर् इति भावः ।

प्रच्यवन्ते … Cf. the following quoted in the Pāñcarātrarakṣā, p. 110, as from the Pārameśvarasaṁhitā:

निषेकादींश् च संस्कारान् स्व-सूत्रोक्तान् समाचरेत् ।
पञ्च-रात्रोदितान् वापि ये स्व-वंश्यैर् अनुष्ठिताः ॥

Cf. also Auśanasa Dharmaśāstra ( Smṛtīnāṁ Samuccayaḥ, Ānandāśrama Sanskrit Series 48 ), I, 48:

निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्ग-सूत्र-धृक् ।
पञ्च-रात्रेण वा कश्चित् तन्त्रोक्तं धर्मम् आचरेत् ॥

मूलम्

ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन एकायनश्रुतिविहितानेव चत्त्वारिंशत् संस्कारान् कुर्वते
तेऽपि स्वशाखागृह्योक्तमर्थं यथावदनुतिष्ठमानाः न शाखान्तरीयकर्माननुष्ठानाद् ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात्

राममिश्रशास्त्री

यद्यपि अनूपसृष्टात्तिष्ठतेर्नात्मनेपदं प्राप्नोतीति अनुतिष्ठन्त इत्येव स्यात्
तथापि अनुष्ठानशीला अनुष्ठानपरायणा इत्यर्थस्य प्रतिपिपादयितत्वेन
ताच्छील्यवयोवचनशक्तिषु चानश् इति पाणिनीयेन चानश्प्रत्ययो
न तु शानच्प्रत्यय इत्यवधारयन्तु निपुणाः ।

विश्वास-प्रस्तुतिः

सर्वत्र हि जाति-चरण-गोत्राधिकारादि-व्यवस्थिता एव समाचारा उपलभ्यन्ते ।

Buitenen

For everywhere among brahmins we find customs that differ according to birth, caraṇa, gotra, qualification etc.

नरसिंहः

चरण-शब्देन शाखोच्यते ।

मूलम्

सर्वत्र हि जाति-चरण-गोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते ।

विश्वास-प्रस्तुतिः

यद्य् अपि सर्व-शाखा-प्रत्ययम् एकं कर्म
तथाऽपि न परस्-पर-विलक्षणाधिकारि-संबद्धा धर्माः
क्वचित् समुच्चीयन्ते,

Buitenen

Even though one ritual is understood for all śākhās,
still all the various dharmas relating to mutually different qualified performers
do not all together accumulate in any one place.

नरसिंहः

Cf. Śābara on II. iv. 32, p. 142: “..सर्व-शाखा-प्रत्ययं सर्व-ब्राह्म-प्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति ।”

See also Pūrvamīmāṁsā, II. iv. 18: “न चैकं प्रति शिष्यते ।” and Śābara on this (p. 139):

न च यत् काठके ऽग्नि-होत्रं तत् काठकम् एवैकं पुरुषं प्रति विधीयते । तैत्तिरीयस्यापि तत् विहितम् एव । पुरुष-विशेष-वचनाभावात् ।…तस्मात् सर्व-शाखाभिर् एकं समाप्तं कर्मोच्यत इति ।

मूलम्

यद्यपि सर्वशाखाप्रत्ययमेकं कर्म
तथाऽपि न परस्परविलक्षणाधिकारिसंबद्धा धर्माः क्वचित्समुच्चीयन्ते,

विश्वास-प्रस्तुतिः

विलक्षणाश् च त्रयी-विहित-स्वर्ग-पुत्रादि-विषयोपभोग-साधनैन्द्राग्नेयादि-कर्माधिकारिभ्यो द्विजेभ्यस्

त्रय्य्-अन्तैकायन-श्रुति-विहित-विज्ञानाभिगमनोपादानेज्या-प्रभृति-
भगवत्-प्राप्त्य्-एकोपायक-कर्माधिकारिणो मुमुक्षवो ब्राह्मणा
इति नोभयेषाम् अप्य् अन्योन्य-शाखा-विहित-कर्माननुष्ठानम् अ-ब्राह्मण्यम् आपादयति।

Buitenen

And the Aspirants who are distinct from those brahmins who are qualified for rites of the aindrāgneya etc.,301
which are means leading to the enjoyment of rewards like heaven etc.,
as enjoined by the three Vedas,
and who themselves are qualified for the rites of the Ekayana,
rites which alone are the means of attaining to the Bhagavan,
viz. knowledge, cleansing the way to the Lord, preparation of worship and oblation, as enjoined by the Ekayana scripture, are brahmins too.
It follows that the non-observance of certain rites enjoined by different sākhās
does not mean that either one forfeits his brahminhood-

[301]: aindrāgneya, name of a śrauta ritual.

नरसिंहः

त्रय्यन्तैकायन … See Pādmasaṁhitā, I. 5b-6a:

आद्यम् एकायनं वेदं सद्-ब्रह्म-प्रतिपादकम् ॥
तेनैव संस्कृता विप्रा मुख्य-कल्पाधिकारिणः ।

विज्ञानाभिगमन … Ibid. Jñāna, II. 5b:

विज्ञानं भगवज्-ज्ञानं तज्-ज्ञानान् मुक्तिर् उच्यते ॥

मूलम्

विलक्षणाश्च त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यस्
त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्येकोपायककर्माधिकारिणोमुमुक्षवो ब्राह्मणा इतिनोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति,

विश्वास-प्रस्तुतिः

यथा चैकायन-शाखाया अपौरुषेयत्वं
तथा काश्मीरागम-प्रामाण्ये प्रपञ्चितम् इति
नेह प्रस्तूयते । +++(5)+++

Buitenen

that the Ekāyana sākhā is preterpersonal scripture has been enlarged upon in the Treatise on the Validity of Kasmira Agama,302
and is therefore here not further discussed.

[302]: Name of a work of Yāmuna.

मूलम्

यथा चैकायन-शाखाया अपौरुषेयत्वं तथा काश्मीरागमप्रामाण्ये प्रपञ्चितमिति नेह प्रस्तूयते ।

विश्वास-टिप्पनी

अनेन यामुनो ऽपौरुषेयत्वम् अङ्गीचकारेति ज्ञायते। +++(5)+++

राममिश्रशास्त्री

काश्मीरागमपदेन किं विवक्षितमिति न विशिष्य जानीमः काश्मीरागमप्रामाण्यनिरूपणपरोग्रन्थोऽपि चास्मदृष्टेरगोचर इति न किंचिदीश्महे वक्तुम् ।
यत्नेन तु तत् सर्वम् आसाध्य समये प्रकाशयिष्यते ।

इतरे भागवताः

विश्वास-प्रस्तुतिः

प्रकृतानां तु भागवतानां
सावित्र्य्-अनुवचनादि-त्रयी-धर्म-बन्धस्य स्फुटतरम् उपलब्धेर्
न तत्-त्याग-निमित्त-व्रात्यत्वादि-संदेहं सहते ॥

Buitenen

But since it is quite obvious that the Bhagavatas, which we are discussing here,
are connected with the dharmas of the three Vedas, like the savitri recitation,
there is no possible support for the suspicion
that they are really vratyas
because they would have abandoned these Vedic dharmas.

मूलम्

प्रकृतानां तु भागवतानां सावित्र्यनुवचनादित्रयीधर्मबन्धस्य स्फुटतरमुपलब्धेर्न तत्त्यागनिमित्तव्रात्यत्वादिसंदेहं सहते ॥

राममिश्रशास्त्री

गायत्रीमन्त्रापेक्षा-विषयिणी टिप्पन्य् अत्र