1
01
विश्वास-प्रस्तुतिः
फिषो+++(=प्रातिपदिकस्य)+++ ऽन्त उदात्तः
सिद्धान्तकौमुदी
प्रातिपदिकं फिट् । तस्यान्त उदात्तः स्यात् । उच्चैः ॥
मूलम्
फिषोऽन्त उदात्तः
02
विश्वास-प्रस्तुतिः
पाटलापालङ्काम्बासागरार्थानाम्
सिद्धान्तकौमुदी
एतद्-अर्थानाम् अन्त उदात्तः । पाटला, फलेरुहा, सुरूपा, पाकला - इति पर्यायाः । लघावन्ते—
इति प्राप्ते । अपालङ्क, व्याधिघात, आरेवत, आरग्वध - इति पर्यायाः । अम्बार्थः । माता । उनर्वन्नन्तानाम्
इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥
मूलम्
पाटलापालङ्काम्बासागरार्थानाम्
03
विश्वास-प्रस्तुतिः
गेहार्थानाम् अस्त्रियाम्
सिद्धान्तकौमुदी
गेहम् । नविषयस्य—
इति प्राप्ते । अस्त्रियाम् किम् ? शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥
मूलम्
गेहार्थानामस्त्रियाम्
04
विश्वास-प्रस्तुतिः
गुदस्य च
सिद्धान्तकौमुदी
अन्त उदात्तः स्यान्, न तु स्त्रियाम् । गुदम् । अस्त्रियाम् किम् ? आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यः । स्वाङ्गशिटामदन्तानाम्
इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥
मूलम्
गुदस्य च
05
विश्वास-प्रस्तुतिः
ध्यपूर्वस्य स्त्रीविषयस्य
सिद्धान्तकौमुदी
धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्ण—
इति प्राप्ते । छा॒या । मा॒या । जा॒या । यान्तस्यान्त्यात्पूर्वम्
इत्याद्युदात्तत्वे प्राप्ते । स्त्री इति किम् ? बाह्यम् । यञन्तत्वादाद्युदात्तत्वम् । विषयग्रहणम् किम् ? इभ्या । क्षत्रिया । यतोऽनाव:
[[6.1.213]] इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्वम्
इति मध्योदात्तः ॥
मूलम्
ध्यपूर्वस्य स्त्रीविषयस्य
06
विश्वास-प्रस्तुतिः
खान्तस्याश्मादेः
सिद्धान्तकौमुदी
नखम् । उखा । सुखम् । दुःखम् । नखस्य स्वाङ्गशिटामदन्तानाम्
इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्ण कृत्रिमाख्या चेत्
इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोः नब्विषयस्य—
इति प्राप्ते । अश्मादेः किम् ? शिखा । मुखम् । मुखस्य स्वाङ्गशिटाम्—
इति नब्विषयस्य—
आद्युदात्तत्वम् । शिखायास्तु शीडः खो निद्ध्रस्वश्च
इत्युणादिषु नित्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव स्वाङ्गशिटाम्—
इति वा बोध्यम् ॥
मूलम्
खान्तस्याश्मादेः
07
विश्वास-प्रस्तुतिः
बंहिष्ठवत्सरतिशत्थान्तानाम्
सिद्धान्तकौमुदी
एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । बंहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॑न, यद्बंहि॑ष्ठं॒ नाति॒विदे॑ इत्यादौ व्यत्ययादाद्युदात्तः । सवत्सरः, परिवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । लघावन्ते—
इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । ‘अ॒भ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः’ । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥
मूलम्
बंहिष्ठवत्सरतिशत्थान्तानाम्
08
विश्वास-प्रस्तुतिः
दक्षिणस्य साधौ
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया स्वाङ्गशिटाम्—
इत्याद्युदात्तः । अर्थान्तरे तु लघावन्ते—
इति गुरुरुदात्तः । ‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु’ इति कोशः ॥
मूलम्
दक्षिणस्य साधौ
09
विश्वास-प्रस्तुतिः
स्वाङ्गाख्यायामादिर्वा
सिद्धान्तकौमुदी
इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणम् किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥
मूलम्
स्वाङ्गाख्यायामादिर्वा
10
विश्वास-प्रस्तुतिः
छन्दसि च
सिद्धान्तकौमुदी
अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥
मूलम्
छन्दसि च
11
विश्वास-प्रस्तुतिः
कृष्णस्यामृगाख्या चेत्
सिद्धान्तकौमुदी
अन्त उदात्तः । वर्णानां तण—
इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां व्रीहीणाम् । कृ॒ष्णो नो॑ नाव वृष॒भः । मृगाख्यायां तु कृष्णो रात्र्यै ॥
मूलम्
कृष्णस्यामृगाख्या चेत्
12
विश्वास-प्रस्तुतिः
वा नामधेयस्य
सिद्धान्तकौमुदी
कृष्णस्येत्येव । अ॒यं वा॑ कृ॒ष्णाे अ॑श्विना । कृष्णर्षिः ॥
मूलम्
वा नामधेयस्य
13
विश्वास-प्रस्तुतिः
शुक्लगौरयोरादिः
सिद्धान्तकौमुदी
नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । सरो॑ गौ॒रो यथा॑ पिब - इत्यत्रान्तोदात्तदर्शनात् ॥
मूलम्
शुक्लगौरयोरादिः
14
विश्वास-प्रस्तुतिः
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः
सिद्धान्तकौमुदी
अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनाम्
इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोके आद्युदात्ततेत्याहुः ॥
मूलम्
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः
15
विश्वास-प्रस्तुतिः
पृष्ठस्य च
सिद्धान्तकौमुदी
छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्ठम् ॥
मूलम्
पृष्ठस्य च
16
विश्वास-प्रस्तुतिः
अर्जुनस्य तृणाख्या चेत्
सिद्धान्तकौमुदी
उनर्वन्नन्तानाम्
इत्याद्युदात्तस्यापवादः ॥
मूलम्
अर्जुनस्य तृणाख्या चेत्
17
विश्वास-प्रस्तुतिः
अर्यस्य स्वाम्याख्या चेत्
सिद्धान्तकौमुदी
यान्तस्यान्त्यात्पूर्वम्
इति यतोऽनाव
[[6.1.213]] इति वाद्युदात्ते प्राप्ते वचनम् ॥
मूलम्
अर्यस्य स्वाम्याख्या चेत्
18
विश्वास-प्रस्तुतिः
आशाया अदिगाख्या चेत्
सिद्धान्तकौमुदी
दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पर्यायस्याद्युदात्तता । इन्द्र॒ आशा॑भ्य॒ स्परि॑ ॥
मूलम्
आशाया अदिगाख्या चेत्
19
विश्वास-प्रस्तुतिः
नक्षत्राणामाब्विषयाणाम्
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् । आश्लेषानुराधादीनां लघावन्ते—
इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥
मूलम्
नक्षत्राणामाब्विषयाणाम्
20
विश्वास-प्रस्तुतिः
न कुपूर्वस्य कृत्तिकाख्या चेत्
सिद्धान्तकौमुदी
अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय आर्यिका, बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥
मूलम्
न कुपूर्वस्य कृत्तिकाख्या चेत्
21
विश्वास-प्रस्तुतिः
घृतादीनां च
सिद्धान्तकौमुदी
अन्त उदात्तः । ‘घृ॒तं मि॑मिक्षे’ । आकृतिगणोऽयम् ॥
मूलम्
घृतादीनां च
22
विश्वास-प्रस्तुतिः
ज्येष्ठकनिष्ठयोर्वयसि
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् । ज्ये॒ष्ठ आ॑ह च॒मसा । कनि॒ष्ठ आ॑ह च॒तुरः॑ । वयसि किम् ? ज्येष्ठः श्रेष्ठः , कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥
मूलम्
ज्येष्ठकनिष्ठयोर्वयसि
23
विश्वास-प्रस्तुतिः
बिल्वतिष्ययोः स्वरितो वा
सिद्धान्तकौमुदी
अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः ॥
मूलम्
बिल्वतिष्ययोः स्वरितो वा
2
01
विश्वास-प्रस्तुतिः
अथादिः प्राक् शकटेः
सिद्धान्तकौमुदी
अधिकारोऽयम् । शकटिशकट्योः—
इति यावत् ॥
मूलम्
अथादिः प्राक् शकटेः
02
विश्वास-प्रस्तुतिः
हस्वान्तस्य स्त्रीविषयस्य
सिद्धान्तकौमुदी
आदरुदात्तः स्यात् । बलिः । तनुः ॥
मूलम्
हस्वान्तस्य स्त्रीविषयस्य
03
विश्वास-प्रस्तुतिः
नब्विषयस्यानिसन्तस्य
सिद्धान्तकौमुदी
व॒ने न वा॒ यः । इसन्तस्य तु सर्पिः । नब्नपुंसकम् ॥
मूलम्
नब्विषयस्यानिसन्तस्य
04
विश्वास-प्रस्तुतिः
तृणधान्यानां च द्व्यषाम्
सिद्धान्तकौमुदी
द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः ॥
मूलम्
तृणधान्यानां च द्व्यषाम्
05
विश्वास-प्रस्तुतिः
न्रः सङ्ख्यायाः
सिद्धान्तकौमुदी
पञ्च । चत्वारः ॥
मूलम्
न्रः सङ्ख्यायाः
06
विश्वास-प्रस्तुतिः
स्वाङ्गशिटामदन्तानाम्
सिद्धान्तकौमुदी
शिट् सर्वनाम । कर्णा॑भ्यां॒ चु॒बु॑कादधि॑ । ओष्ठा॑विव॒ मधु॑ । विश्वो॒ विहा॑याः ॥
मूलम्
स्वाङ्गशिटामदन्तानाम्
07
विश्वास-प्रस्तुतिः
प्राणिनां कुपूर्वम्
सिद्धान्तकौमुदी
कवर्गात्पूर्वः आदिरुदात्तः । काकः । वृकः । शुके॑षु मे । प्राणिनाम् किम् ? क्षी॒रं स॒र्पिर्मधू॑द॒कम् । कुपूर्वाद् किम् ? धनुः ॥
मूलम्
प्राणिनां कुपूर्वम्
08
विश्वास-प्रस्तुतिः
खय्युवर्ण कृत्रिमाख्या चेत्
सिद्धान्तकौमुदी
खयि परे उवर्णमुदात्तं स्यात् । कन्दुकः ॥
मूलम्
खय्युवर्ण कृत्रिमाख्या चेत्
09
विश्वास-प्रस्तुतिः
उनर्वन्नन्तानाम्
सिद्धान्तकौमुदी
उन । ‘वरु॑ण वो रि॒शाद॑सम्’ । ॠ । स्वसा॑रं त्वा कृणवै॒ । वन् । पीवा॑न मे॒षम् ॥
मूलम्
उनर्वन्नन्तानाम्
10
विश्वास-प्रस्तुतिः
वर्णानां तणतिनितान्तानाम्
सिद्धान्तकौमुदी
आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥
मूलम्
वर्णानां तणतिनितान्तानाम्
11
विश्वास-प्रस्तुतिः
हस्वान्तस्य हस्वमनृताच्छील्ये
सिद्धान्तकौमुदी
ऋद्वर्जं हस्वान्तस्यादिभूतं हस्वमुदात्तं स्यात् । मुनिः ॥
मूलम्
हस्वान्तस्य हस्वमनृताच्छील्ये
12
विश्वास-प्रस्तुतिः
अक्षस्यादेवनस्य
सिद्धान्तकौमुदी
आदिरुदात्तः । तस्य॒ नाक्षः॑ । देवने तु - अ॒क्षैर्मा दी॑व्यः ॥
मूलम्
अक्षस्यादेवनस्य
13
विश्वास-प्रस्तुतिः
अर्धस्यासमद्योतने
सिद्धान्तकौमुदी
अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः ॥
मूलम्
अर्धस्यासमद्योतने
14
विश्वास-प्रस्तुतिः
पीतद्र्वर्थानाम्
सिद्धान्तकौमुदी
आदिरुदात्त । पीतद्रुः सरलः ॥
मूलम्
पीतद्र्वर्थानाम्
15
विश्वास-प्रस्तुतिः
ग्रामादीनां च
सिद्धान्तकौमुदी
ग्रामः । सोमः । यामः ॥
मूलम्
ग्रामादीनां च
16
विश्वास-प्रस्तुतिः
लुबन्तस्योपमयनामधेयस्य
सिद्धान्तकौमुदी
चञ्चेव चञ्चा । ‘स्फिगन्तस्य’ इति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥
मूलम्
लुबन्तस्योपमयनामधेयस्य
17
विश्वास-प्रस्तुतिः
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्
सिद्धान्तकौमुदी
एषामुपमेयनाम्नामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥
मूलम्
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्
18
विश्वास-प्रस्तुतिः
राजविशेषस्य यमन्वा चेत्
सिद्धान्तकौमुदी
यमन्वा वृद्धः। आङ्गमुदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥
मूलम्
राजविशेषस्य यमन्वा चेत्
19
विश्वास-प्रस्तुतिः
लघावन्ते द्वयोश्च बह्वषो गुरुः
सिद्धान्तकौमुदी
अन्ते लघौ, द्वयोश्च लध्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥
मूलम्
लघावन्ते द्वयोश्च बह्वषो गुरुः
20
विश्वास-प्रस्तुतिः
स्त्रीविषयवर्णक्षुपूर्वाणाम्
सिद्धान्तकौमुदी
एषा त्रयाणामाद्युदात्तः । स्त्रीविषयम् । मल्लिका । वर्णः श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्त्येषां ते अक्षुपूर्वाः । तरक्षुः ॥
मूलम्
स्त्रीविषयवर्णक्षुपूर्वाणाम्
21
विश्वास-प्रस्तुतिः
शकुनीनां च लघु पूर्वम्
सिद्धान्तकौमुदी
पूर्वं लघु उदात्त स्यात् । कुक्कुटः । तित्तिरिः ॥
मूलम्
शकुनीनां च लघु पूर्वम्
22
विश्वास-प्रस्तुतिः
नर्तुप्राण्याख्यायाम्
सिद्धान्तकौमुदी
यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥
मूलम्
नर्तुप्राण्याख्यायाम्
23
विश्वास-प्रस्तुतिः
धान्यानां च वृद्धक्षान्तानाम्
सिद्धान्तकौमुदी
आदिरुदात्तः । कान्तानाम् - श्यामाकाः । षान्तानाम् - राजमाषाः ॥
मूलम्
धान्यानां च वृद्धक्षान्तानाम्
24
विश्वास-प्रस्तुतिः
जनपदशब्दानामषान्तानाम्
सिद्धान्तकौमुदी
आदिरुदात्तः । केकयः । यान्तस्यान्त्यात् पूर्वम्
इति प्राप्ते ॥
मूलम्
जनपदशब्दानामषान्तानाम्
25
विश्वास-प्रस्तुतिः
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा
सिद्धान्तकौमुदी
हयिति हल्सज्ञा । पललम् । शललम् । हयादीनाम् किम् ? एकलः । असंयुक्त इति किम् । मल्लः ॥
मूलम्
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा
26
विश्वास-प्रस्तुतिः
इगन्ताना च द्व्यषाम्
सिद्धान्तकौमुदी
आदिरुदात्तः । कृषिः ॥
मूलम्
इगन्ताना च द्व्यषाम्
3
01
विश्वास-प्रस्तुतिः
अथ द्वितीयं प्रागीषात्
सिद्धान्तकौमुदी
ईषान्तस्य हयादे—
इत्यतः प्राग्द्वितीयाधिकार ॥
मूलम्
अथ द्वितीयं प्रागीषात्
02
विश्वास-प्रस्तुतिः
त्र्यचा प्राङ्मकरात्
सिद्धान्तकौमुदी
मकरवरूढ—
इत्यतः प्राक् त्र्यचामित्यधिकारः ॥
मूलम्
त्र्यचा प्राङ्मकरात्
03
विश्वास-प्रस्तुतिः
स्वाङ्गानामकुर्वादीनाम्
सिद्धान्तकौमुदी
कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ल॒लाट॒म् । कुर्वादीनां तु । क॒पोलः॑ । रसना । वदनम् ॥
मूलम्
स्वाङ्गानामकुर्वादीनाम्
04
विश्वास-प्रस्तुतिः
मादीनां च
सिद्धान्तकौमुदी
मलयः । मकरः ॥
मूलम्
मादीनां च
05
विश्वास-प्रस्तुतिः
शादीनां शाकानाम्
सिद्धान्तकौमुदी
शीतन्या । शतपुष्पा ॥
मूलम्
शादीनां शाकानाम्
06
विश्वास-प्रस्तुतिः
पान्तानां गुर्वादीनाम्
सिद्धान्तकौमुदी
पादपः । आतपः । लघ्वादीना तु - अनूपम् । द्व्यचां तु - नीपम् ॥
मूलम्
पान्तानां गुर्वादीनाम्
07
विश्वास-प्रस्तुतिः
युतान्यण्यन्तानाम्
सिद्धान्तकौमुदी
युत । अयुतम् । अनि । धमनि । अणि । विपणिः ॥
मूलम्
युतान्यण्यन्तानाम्
08
विश्वास-प्रस्तुतिः
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा
सिद्धान्तकौमुदी
एषामादिर्द्वितीयो वोदात्तः । मकरः वरूढ इत्यादि ॥
मूलम्
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा
09
विश्वास-प्रस्तुतिः
छन्दसि च
सिद्धान्तकौमुदी
अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं ज्ञेयम् ॥
मूलम्
छन्दसि च
10
विश्वास-प्रस्तुतिः
कर्दमादीनां च
सिद्धान्तकौमुदी
आदिर्द्वितीयं वोदात्तम् ॥
मूलम्
कर्दमादीनां च
11
विश्वास-प्रस्तुतिः
सुगन्धितेजनस्य ते वा
सिद्धान्तकौमुदी
आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥
मूलम्
सुगन्धितेजनस्य ते वा
12
विश्वास-प्रस्तुतिः
नपः फलान्तानाम्
सिद्धान्तकौमुदी
आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ॥
मूलम्
नपः फलान्तानाम्
13
विश्वास-प्रस्तुतिः
यान्तस्यान्त्यात्पूर्वम्
सिद्धान्तकौमुदी
कुलायः । तलयः । वलयः ॥
मूलम्
यान्तस्यान्त्यात्पूर्वम्
14
विश्वास-प्रस्तुतिः
थान्तस्य च नालघुनी
सिद्धान्तकौमुदी
नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥
मूलम्
थान्तस्य च नालघुनी
15
विश्वास-प्रस्तुतिः
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च
सिद्धान्तकौमुदी
अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥
मूलम्
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च
16
विश्वास-प्रस्तुतिः
साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्
सिद्धान्तकौमुदी
द्वितीयमुदात्तं वा ॥
मूलम्
साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्
17
विश्वास-प्रस्तुतिः
ईषान्तख्य हयादेरादिर्वा
सिद्धान्तकौमुदी
हलीषा । लाङ्गलीषा ॥
मूलम्
ईषान्तख्य हयादेरादिर्वा
18
विश्वास-प्रस्तुतिः
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्
सिद्धान्तकौमुदी
एषामादिरुदात्तः स्यात् ॥
मूलम्
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्
19
विश्वास-प्रस्तुतिः
महिष्याषाढयोर्जायेष्टकाख्या चेत्
सिद्धान्तकौमुदी
आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति ॥
मूलम्
महिष्याषाढयोर्जायेष्टकाख्या चेत्
4
01
विश्वास-प्रस्तुतिः
शकटिशकट्योरक्षरमक्षरं पर्यायेण
सिद्धान्तकौमुदी
उदात्तम् । शकटिः । शकटी ॥
मूलम्
शकटिशकट्योरक्षरमक्षरं पर्यायेण
02
विश्वास-प्रस्तुतिः
गोष्ठजस्य ब्राह्मणानामधेयस्य
सिद्धान्तकौमुदी
अक्षरमक्षर पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥
मूलम्
गोष्ठजस्य ब्राह्मणानामधेयस्य
03
विश्वास-प्रस्तुतिः
पारावतस्योपोत्तमवर्जम्
सिद्धान्तकौमुदी
शेष क्रमेणोदात्तम् । पारावतः ॥
मूलम्
पारावतस्योपोत्तमवर्जम्
04
विश्वास-प्रस्तुतिः
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्
सिद्धान्तकौमुदी
एषां चतुर्ण्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥
मूलम्
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्
05
विश्वास-प्रस्तुतिः
कपिकेशहरिकेशयोश्छन्दसि
सिद्धान्तकौमुदी
कपिकेशः । हरिकेशः ॥
मूलम्
कपिकेशहरिकेशयोश्छन्दसि
06
विश्वास-प्रस्तुतिः
न्यङ्स्वरौ स्वरितौ
सिद्धान्तकौमुदी
स्पष्टम् । न्य॑ङ्ङुत्ता॒नः । व्य॑चक्षय॒त्स्वः ॥
मूलम्
न्यङ्स्वरौ स्वरितौ
07
विश्वास-प्रस्तुतिः
न्यर्बुदव्यल्कशयोरादि
सिद्धान्तकौमुदी
स्वरितः स्यात् । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥
मूलम्
न्यर्बुदव्यल्कशयोरादि
08
विश्वास-प्रस्तुतिः
तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त
सिद्धान्तकौमुदी
स्वरितः स्यात् । तिलाना भवनं क्षेत्रं तिल्यम् । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः कार्ष्मर्योर्वज्रेण । यतोऽनाव:
[[6.1.213]] इति प्राप्ते । कार्ष्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम् । प्रतीची मनुष्या ॥
मूलम्
तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त
09
विश्वास-प्रस्तुतिः
बिल्वभक्ष्यवीर्याणि च्छन्दसि
सिद्धान्तकौमुदी
अन्तस्वरितानि । ततो बिल्वस्य उदतिष्ठत् । बलं विरुजवीर्यम् ॥
मूलम्
बिल्वभक्ष्यवीर्याणि च्छन्दसि
10
विश्वास-प्रस्तुतिः
त्वत्त्वसमसिमेत्यनुच्चानि
सिद्धान्तकौमुदी
स्त॒रीरु॑ त्व॒त् । उ॒त त्वः॒ पश्य॑न् । नभ॑न्तामन्यके॒ स॑मे । सिम॑स्मै ॥
मूलम्
त्वत्त्वसमसिमेत्यनुच्चानि
11
विश्वास-प्रस्तुतिः
सिमस्याथर्वणेऽन्त उदात्तः
सिद्धान्तकौमुदी
अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन ‘वास॑स्तनुते सि॒मस्मै॑’ इत्यृग्वेदेऽपि भवत्येव ॥
मूलम्
सिमस्याथर्वणेऽन्त उदात्तः
12
विश्वास-प्रस्तुतिः
निपाता आद्युदात्ताः
सिद्धान्तकौमुदी
स्वाहा ॥
मूलम्
निपाता आद्युदात्ताः
13
विश्वास-प्रस्तुतिः
उपसर्गाश् चाभिवर्जम्
मूलम्
उपसर्गाश्चाभिवर्जम्
14
विश्वास-प्रस्तुतिः
एवादीनाम् अन्तः
सिद्धान्तकौमुदी
एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह ।
सह॑ ते पुत्र सू॒रिभिः॑ । षष्ठस्य तृतीये सहस्य सः संज्ञायाम्
[[6.3.78]] इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तच्चिन्त्यम् ॥
मूलम्
एवादीनामन्तः
15
विश्वास-प्रस्तुतिः
वाचादीनामुभावुदात्तौ
सिद्धान्तकौमुदी
उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥
मूलम्
वाचादीनामुभावुदात्तौ
16
विश्वास-प्रस्तुतिः
चादयोऽनुदात्ताः
सिद्धान्तकौमुदी
स्पष्टम् ॥
मूलम्
चादयोऽनुदात्ताः
17
विश्वास-प्रस्तुतिः
यथेति पादान्ते
सिद्धान्तकौमुदी
तं ने॒मिमृ॒भवो॑ य॒था । पादान्ते किम् । यथा॑नो॒ अदि॑तिः॒ कर॑त् ॥
मूलम्
यथेति पादान्ते
18
विश्वास-प्रस्तुतिः
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः
सिद्धान्तकौमुदी
पटुपटुः ॥
मूलम्
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः
19
विश्वास-प्रस्तुतिः
शेषं सर्वमनुदात्तम्
सिद्धान्तकौमुदी
शेषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रा॒यम् । दि॒वेदि॑वे ॥
मूलम्
शेषं सर्वमनुदात्तम्