प्रत्ययः
सोदात्ताः
प्रत्ययः। परश् च। आद्युदात्तश्च।अपवादा अधः।- अन्तोदात्ताः
- चित्-
चितः६.१.१६३ अन्त॑ उ॒दात्तः॑।- घुरच् - भङ्गुर᳓म्, भासुर᳓म्, मेदुर᳓म्
[तद्धितस्य] कितःअन्तोदात्तः। नड + फक् → ना॒डा॒य॒न ।
- चित्-
उपोत्तमं रिति- अनीयर् - अनी᳓यर्।तित् स्वरितम्। चि॒की॒र्ष्य॑म् (सन्नन्ताद् यत्) का॒र्य॑म् (ण्यत्)।- अपवादाः - द्व्यच् यत् - नौ। ण्यति केचित्।
प्रसिद्धा अपवादाः
- क्त
जुष्टार्पिते च च्छन्दसि- वा॒चीमा विश्वा॒ भुव॑ना॒न्य् अर्पि॑ता- इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः,
अनुदात्ताः
अनुदत्तौ सुप्पितौ। (सुबन्तेष्व् अपवादा अन्यत्रोक्ताः।)- किन्तु -
ह्रस्व-नुड्भ्यां मतुप् [उदात्तः]- वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्। - विकरण-प्रत्ययेषु शब् अनुदात्तः - शिष्टा उदात्ताः।
- किन्तु -
तास्य् अनुदात्तेन्-ङिद्-अद्-उपदेशाल् ल-सार्वधातुकम् अनुदात्तम् अहन्विङोः। (तासि | अनुदात्तेत् | ङित् - {ह्नुङ् इङ्}| अदुपदेशः/ शप्-ग्राही) धातुः + लाँदेशः सार्वधातुकः- अद्-उपदेश-धातवो नाम अद्-अङ्गाः, यत्रेमे विकरण-प्रत्यया दृश्यन्ते - कर्तरि शप्, भावकर्मणोर् यक्, दिवादिभ्यः श्यन्, तुदादिभ्यः शः, चुरादिभ्यो णिच्+शप् इति । (नेमे - अदादि+++(शब्लुक्)+++-स्वादि+++(स्नु)+++-रुधादि+++(स्नम्)+++-तनादि+++(उ)+++-क्र्या॒दिभ्यः॑+++(श्ना)+++। ) तेभ्यः शतृशानचौ᳓ प्राये᳓णा᳓नुदात्तौ।
- … + शतृँ -
नि॒षीद॑त्। - … + शानच् (तिङ्शित्सार्वधातुकम्।) - र॒क्ष्यमा॑णम्।
- विजृ᳓म्भते
- … + शतृँ -
- अनुदात्तेत् - आस् - आ᳓स्ते, वस् - व᳓स्ते ॥
- ङित्
- षूङ् - सू᳓ते, शीङ् - शे᳓ते ॥
- नात्र - विधूनुते᳓ अधीते᳓।
- अद्-उपदेश-धातवो नाम अद्-अङ्गाः, यत्रेमे विकरण-प्रत्यया दृश्यन्ते - कर्तरि शप्, भावकर्मणोर् यक्, दिवादिभ्यः श्यन्, तुदादिभ्यः शः, चुरादिभ्यो णिच्+शप् इति । (नेमे - अदादि+++(शब्लुक्)+++-स्वादि+++(स्नु)+++-रुधादि+++(स्नम्)+++-तनादि+++(उ)+++-क्र्या॒दिभ्यः॑+++(श्ना)+++। ) तेभ्यः शतृशानचौ᳓ प्राये᳓णा᳓नुदात्तौ।
अङ्गे स्वरविकारः
- लित्-
लितिप्रत्ययात् पूर्वम् उदात्तः।- अर्वाचीन᳓ता, नि॒र्वच॑नम्। द᳓र्शनम् (ल्युट्)।
ञ्नित्य् आदिर् नित्यम्उदात्तः फलस्य।- नित्त्वात्
- तुमुन् - कर्तु॑म्। (गतिसमासे ऽपवादाः वक्ष्यन्ते। )
- क्तिन् - स्मृतिः॑
- सूत्र॑म् - ष्ट्रन्।
- ञित्
- दुष् + घञ् → दो᳓षः (भावे घञ्)। (गतिकारकोपपदेषु नैवम्।)
- कर्षादिः | आकारो घञन्ते चेन्, कर्षतेर् वा नैवम् -
कर्षात्वतो घञोऽन्त उदात्तः। कर्षः᳓, पाकः᳓, त्यागः᳓, रागः᳓, दायः᳓, धायः᳓, रा᳓मः ॥
- कर्षादिः | आकारो घञन्ते चेन्, कर्षतेर् वा नैवम् -
- गर्ग + यञ् → गा᳓र्ग्य ।
- दुष् + घञ् → दो᳓षः (भावे घञ्)। (गतिकारकोपपदेषु नैवम्।)
- नित्त्वात्
- निष्ठान्तेष्व् आद्युदात्ताः
- द्व्यच् संज्ञायां -आकारादिः
निष्ठा च द्व्यजनात्- गु᳓प्तः, बु᳓द्धः, द᳓त्तः
- शुष्क, धृष्ट
- द्व्यच् संज्ञायां -आकारादिः
- यत्, ण्यत्
- {द्व्यच् यत् - नौ}।
यतोऽनावः। चे᳓यम्, जे᳓यम् - ई᳓ड्यम्, व᳓न्द्यम्, वा᳓र्यम्, श᳓स्यम्, दो᳓ह्या
- {द्व्यच् यत् - नौ}।
आगमाः
- आगमा अनुदात्ता भवन्ति साधारणतया -
यासुट् परस्मैपदेषूदात्तो ङिच्चइत्यनेन ज्ञापनात्। - एषु विकरण-प्रत्यया नान्तर्भवन्ति।
धातुः
- धातुस्वरो ज्ञेयः।
- धातोर् अन्त उदात्तः प्रायेण -
धातोः। - प᳓चति, प᳓ठति, ऊर्णो᳓ति, गोपाय᳓ति, या᳓ति ॥
तिङन्तेषु
- प्रत्यय-स्वरो लभ्यः - नानासूत्राणि मनसि निधाय।
- अदुपदेशाल् लसार्वधातुकम् अनुदात्तं भवति (6.1.186)।
यासुट् परस्मैपदेषूदात्तो ङिच्च- कुर्युः᳓- विकरण-प्रत्ययेषु
- शप् … पित्।
- तिङन्तेषु प्रारम्भे अट्-आट् उदात्तौ।
उपसर्गाः
- तिङन्तस्य सर्व-निघाते सति +उपसर्गस्य स्वरस् तिष्ठति । यथा “ओ३॒म् प्रोक्ष॑”, तथा पादादौ
निया॑ति।- नान्यथा -
तिङि चोदात्तवति। यथा - “धियो॒ यो नः॑ प्रचो॒दया॑त् ॥”
- नान्यथा -
- उपसर्ग-शृङ्खलायाम् अन्तिमस्यैवोदात्तो भवितुम् अर्हति -
गतिर्गतौ (अनु॑दात्तः)।
यथा - अ॒न्वाव॑र्ते। नक्षत्र-सूक्ते अ॒भि सय्ँय॑न्तु इत्य् अपवादो भाति - अथवाभेर् उपसर्गत्वं तत्र निराकरणीयम्। - भ्रमास्पदम् -
- इड॒ एहि॑ । अत्र आ + इ॑हि।
सर्वनिघातः
- तिङ्ङ् अतिङः। “रा॒मो गच्छति।”
अपवादाः
- कात्यायनेन “समानवाक्ये” एव इदं प्रवर्तते इत्युक्तम्। “एकतिङ् वाक्यम्” इत्यपि । “अद॑र्श्म॒ ज्योति॒र्, अवि॑दाम दे॒वान् ।”
न लुट्।“श्वः कर्ता॑। श्वः क॒र्तारौ॑। मासेन क॒र्तारः॑।”- यत्, तथा - {यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र} इत्येतैर् निपातैर् युक्तस्य तिङन्तस्य न सर्वनिघातः।
निपातैर् यद्यदिहन्त-कुविन्-नेच्चेच्-चण्-कच्चिद्-यत्र-युक्तम्। यद्वृत्तान्नित्यं- यो भुङ्क्ते᳓, यं भोज᳓यति, येन भुङ्क्ते᳓, यस्मै ददाति, यत् कामास्ते जुहुमः᳓नह प्रत्यारम्भे- न᳓ह भोक्ष्य᳓से।सत्यं प्रश्ने- सत्यं᳓ भोक्ष्य᳓से।अङ्गाप्रातिलोम्येअङ्ग᳓ प᳓च। अङ्ग᳓ प᳓ठ ॥हि च- स᳓ हि᳓ प᳓च। स᳓ हि᳓ प᳓ठ।- यावद्-यथाभ्याम्
यावद्यथाभ्याम्- यावद् भुङ्क्ते᳓, यथा भुङ्क्ते᳓ यावदधीते᳓ यथाधीते᳓, देवदत्तः प᳓चति यावत्, देवदत्तः प᳓चति यथा ॥पूजायां नानन्तरम्,उपसर्गव्यपेतं च
तु-पश्य-पश्यताहैः पूजायाम्,अहो च, +++(पूजेतरार्थे)+++शेषे विभाषा- माणवकस्तु भुङ्क्ते᳓ शोभनम्; पश्य माणवको भुङ्क्ते᳓ शोभनं, पश्यत माणवको भुङ्क्ते᳓ शोभनम्, अह माणवको भुङ्क्ते᳓ शोभनम् ॥ अहो देवदत्तः प᳓चति शोभनं, अहो विष्णुमित्रः करो᳓ति चारु ॥
- क᳓टम् अ᳓हो करिष्य᳓सि, क᳓टम् अ᳓हो करिष्यसि
नन्वित्य् अनुज्ञैषणायाम्- न᳓नु करो᳓मि भोः? न᳓नु ग᳓च्छामि भोः?
किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम्- किं देवदत्तः प᳓चति, आहोस्विद् भुङ्क्ते ॥ किं देवदत्तः शेते᳓, आहोस्विदधीते᳓ ॥
- नात्र - किं देवदत्त ओदनं प॒॒च॒॒ति॒॒ आहोस्विच्छाकं ॥ किं देवदत्तः प्रपचति आहोस्वित् प्रकरोति ॥ किं देवदत्तो न पठति आहोस्वित् न करोति ॥
एहिमन्ये प्रहासे लृट्- एहि मन्ये ओदनं भोक्ष्य᳓से, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः ॥ एहि मन्ये रथेन यास्य᳓सि, नहि यास्यसि, यातस् तेन पिता ॥जात्वपूर्वम्- जा᳓तु भोक्ष्य᳓सेकिम्-वृत्तं च चिदुत्तरम्- कश्चिद् भुङ्क्ते᳓, कश्चिद् भोज᳓यति, कश्चिद् अधीते, केनचित् करो᳓ति, कस्मैचिद् द᳓दाति, कतरश्चित् करो᳓ति, कतमश्चिद् भुङ्क्ते᳓आहो उताहो चानन्तरम्- आहो or उताहो भुङ्क्ते᳓, उताहो प᳓ठति ॥- +++(पूजेतरार्थे)+++
शेषे विभाषा- आहो देवदत्तः प᳓चति or प॒॒च॒॒ति॒॒ ॥
- +++(पूजेतरार्थे)+++
- गत्यर्थक-लोट् … कर्तृ-कर्म-साम्यवत्-लृङ् - आ᳓ग॒॒च्छ॒॒ दे॒॒व॒॒द॒॒त्त॒॒ ग्रा᳓मं, द्रक्ष्य᳓स्येनम्।
- गत्यर्थलोटा युक्तं
लोट् च- आगच्छ देवदत्त ग्रामं प᳓श्य ॥विभाषितं सोपसर्गमनुत्तमम्- आगच्छ देवदत्त ग्रामं प्रविश᳓ or प्र᳓वि॒श॒ ॥
हन्त च(सोपसर्गमनुत्तमम्) - हन्त प्र᳓ वि॒॒श॒॒ or प्रविश᳓, हन्त प्र᳓ शाधि or प्रशाधि᳓ ॥- आम् … एकपदमितदूरे सम्बोधनम् असमीपस्थः - आम् पचसि देव᳓दत्ता᳓ ३; आ᳓म् भो॒॒ देवदत्ता ३ ॥
यद्-धि-तु-परं छन्दसि- उ॒दसृ॑जो॒ यद॑ङ्गिरः । उ॒शन्ति॒ हि ।- अगतिपरं तिङन्तम् + (चन चिद् इव गोत्रादि तद्धित आम्रेडित)
- चित् - देवदत्तः पचति चित्। इव - देवदत्तः पचतीव।
- गोत्रादि - देवदत्तः पचति गोत्रम्। देवदत्तः पचति ब्रुवम्। देवदत्तः पचति प्रवचनम्।
- तद्धित - देवदत्तः पचतिकल्पम्। देवदत्तः पचतिरूपम्।
- आम्रेडित - देवदत्तः पचति पचति।
चादिषु च- अगतिपरं तिङन्तम् + (च | वा | ह | अह | एव)- देवदत्त प᳓चति च खा᳓दति च, देवदत्तः प᳓चति वा खा᳓दति वा, देववत्त प᳓चति ह खा᳓दति ह, देवदत्तः प᳓चति अह खा᳓दत्यह, देवदत्तः प᳓चत्येव खा᳓दत्येव ॥
चवायोगे प्रथमा- च | वा … प्रथम-तिङन्तम्- गर्दर्भाश्च काल᳓यति, वीणां च वादयति। गर्दभान् वा काल᳓यति, वीणां वा वादयति। उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह।
चादिलोपे विभाषा- च | वा| अह| एव लोपे प्रथम-तिङन्तम्- च लोपः - शुक्ला व्रीहयो भ᳓वन्ति / भ॒व॒न्ति॒, श्वेता गा आज्याय दुहन्ति ॥
वैवावेति च च्छन्दसि
विकल्पाः
पुरा च परीप्सायाम्(त्वरायाम्)- अधीष्व मानवक, पुरा विद्यो᳓तते विद्युत्।
नन्वित्यनुज्ञैषणायाम्- न᳓नु करो᳓मि भोः? न᳓नु ग᳓च्छामि भोः?- (किं)
लोपे विभाषा- देवदत्तः प᳓चति (or प॒॒च॒॒ति॒॒)
प्रातिपदिकेषु स्वरः
फिषो+++(=प्रातिपदिकस्य)+++ ऽन्त उदात्तः।
निपातादयः
निपाता आद्युदात्ता, उपसर्गाश् चाभिवर्जम्(फि।सू।4।80)। तेन परि॑, प्र, उप॑, अप॑ …॥एवादीनाम् अन्तः।चादयोऽनुदात्ताः।यथेति पादान्ते।सर्वैकान्यकिंयत्तदः काले दा- सर्वदा᳓, एकदा᳓, यदा᳓
समासे
- साधारणतः - उत्तर-पद-प्रकृतेर् अन्तिमाक्षर उदात्तः -
समासस्यइति सूत्रम्। यथा - … ब्रह्मवर्च॒सेन॑। - उभयपदप्रकृतिस्वरः
उभे वनस्पत्यादिषु युगपत्। देवताद्वन्द्वे च। नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु- Índra–Sóma, Índra–Víṣṇu, Agnī́–Ṣóma
बहुव्रीहाव् अपवादाः
बहुव्रीहौ प्रकृत्या पूर्वपदम्- पूर्वपदस्य उदात्तः।इन्द्र॑शत्रुर्वर्धस्व। (शत्रुर् हन्त्रर्थे।) अत्र॑ पठ्यतां॒ तद् वृ॒त्रस्य॑ वृ॒त्तम् ।
उत्तरपदादिः
नञो जर-मर-मित्र-मृताःइत्यनेन अ॒मृत॑म्, अज᳓रः, अम᳓रः, अमि᳓त्रः, अमृ᳓तः।- सु + … बहुव्रीहौ
सोर्मनसी अलोमोषसी- सु + (*मन् | *अस् - {लोमन्म्, उषस्})- सुक᳓र्म्मन्, सुध᳓र्मन्, सुप्र᳓थिमन्, सुप᳓यस्, सुय᳓शस्, सुस्रो᳓तम् सुस्र᳓त् (←स्रस्) सुध्व᳓त् (←ध्वंस्)
क्रत्वादयश्च- सुक्र᳓तुः, सुदृ᳓शीकः, सुप्र᳓पूर्तिः, सुह᳓व्यः, सुभ᳓गः, सुप्र᳓तीकःआद्युदात्तं द्व्यच् छन्दसि- सु + द्व्यच् आद्युदात्तं छन्दसि- स्व᳓श्वः, सुर᳓थः
वीरवीर्यौ च- सु॒वीरो॑
द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ- द्वि᳓पात् or द्विपा᳓त्, त्रि᳓पाद् or त्रिपा᳓द्, द्वि᳓दम् or द्विद᳓म्, त्रि᳓दन् or त्रिद᳓न्, द्विमूर्द्धा᳓ or द्वि᳓मूर्धा ॥
समासान्तस्वरः
नञ्सुभ्याम्- अयवो᳓ देशः, अव्रीहिः᳓, अमाषः᳓, सुयवः᳓, सुव्रीहिः᳓, सुमाषः᳓, … अनमि॒त्राय॑ … ॥कपि पूर्वम्- अकुमारी᳓cको देशः, अवृषली᳓कः, अब्रह्मबन्धू᳓कः, सुकुमा᳓रीकः, सुवृष᳓लीकः, सुब्रह्मबन्धू᳓कः- अय᳓वकोदेशः, अव्री᳓हिकः, अमा᳓षकः, सुय᳓वकः, सुव्री᳓हिकः, सुमा᳓षकः
बहोर् नञ्वद् उत्तरपदभूम्निबहुयवा᳓ देशः, बहुव्रीहिः᳓, बहुतिलः᳓, बहुय᳓वकः, बहुव्री᳓हिकः, बहुमा᳓षकः, बहुज᳓रः, बहुम᳓रः, बहुमि᳓त्रः, बहुमृ᳓तः
अव्ययीभावे ऽपवादाः
- *+कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे - परिकू᳓लम्, उपकू᳓लम्, परिती᳓रम्, उपती᳓रम्, परितू᳓लम्, उपतू᳓लम्, परिमू᳓लम्, उपमू᳓लम्, परिशी᳓लम्, उपशा᳓लम्, उपा᳓क्षम्, पर्यक्षम्, सुष᳓मम्, विष᳓मम्, निष᳓मम् दुःष᳓मम्
परि-प्रति-उप-अपाः +++(प्रकृतिस्वराः)+++ वर्जमान-अहः-रात्रावयवेषु+++(अव्ययीभावे)+++।- प्र᳓तिपूर्वाह्णम्, प्र᳓त्यपराह्णम्, अ᳓पत्रिगर्ते, उ᳓पापराह्णम्,
तत्पुरुषान्तरय् उत्तरपदादिः
- *+कंस-मन्थ-शूर्प-पाय्य-काण्डम् द्विगौ - द्विकं᳓सः त्रिकं᳓सः, द्विम᳓न्थः त्रिम᳓न्थः, द्विशू᳓र्पः त्रिशू᳓र्पः, द्विपा᳓य्यः, त्रिपा᳓य्यः, द्विका᳓ण्डः, त्रिका᳓ण्डः ॥
- *शालम् तत्पुरुषे - ब्राह्मणशा᳓लम्, क्षत्रियशा᳓लम्
- *-कन्थम् तत्पुरुषे - सौशमिक᳓न्थम्, आह्वरक᳓न्थम्, चप्यक᳓न्थम् ॥
पुत्रः पुंभ्यः- राजपु᳓त्रः
तत्पुरुषे पूर्वपदप्रकृतिः
- पूर्वपद-प्रकृति-स्वरो यदि -
तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान+अव्यय-द्वितीया-कृत्याःपूर्वपदानि।- तुल्यार्थे - तुल्य॑श्वेतः, तुल्य॑लोहित, सदृ᳓ग्लोहितः, सदृ᳓शमहान्
- द्वितीयापूर्वपदे - मुहूर्त्त᳓सुखम्
- तृतीयापूर्वपदे - शङ्कुल᳓या+++(= पूगकर्त्तनी)+++ खण्डः = शङ्कुला᳓खण्डः
- सप्तमीपूर्वपदे - अक्षे᳓षु शौण्डः = अक्ष᳓शौण्डः
- अव्यय-पूर्वपदाः - अब्रा॑ह्मणः। अवृ॑षलः। प्रकृ॑तः। प्रहृ॑तः।
- उपमानानि - हंस᳓गद्गदा
- कृत्यानि (ण्यत् यत् तव्यत् अनीयर् …) - भो॒ज्य॑लवणम् पानी᳓यशीतम्
पूर्वे भूतपूर्वे- कृत॑पूर्वम्। भ्रातृव्य- “महान् व्रीहि-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु” इत्यनेन - महा᳓व्रीहिः, महा᳓पराह्णः, महा᳓गृष्टिः, महे᳓ष्वासः, महा᳓जाबालः, महा᳓भारः, महा᳓भारतः, महा᳓हैलिहलः, महा᳓रौरवः, महा᳓प्रवृद्धः ॥
तृतीया कर्मणि- prī́ti-pūrṇam, pada-puṣpá-sam-anv-itam
कृद्-उत्तर-पदानि
पूर्वपदस्वरः
- गतिः + त्.*न् कृत् (-तुन्)
तादौ च निति कृत्य् अतौ- प्र᳓कर्ता (तृन् ) प्र᳓कर्तुम् (तुमुन्), प्र᳓कृतिः (क्तिन्)। प्र᳓लपिता, प्र᳓लपितुम्।
- नात्र - प्रज᳓ल्पाकः (पाकन्)। आगन्तुः᳓ with the Unadi affix तुन्।
क्तः
- कर्मधारये ऽनिष्ठान्ते पूर्वे + *क्त -
कर्मधारयेऽनिष्ठा। पूग᳓कृताः, ऊक᳓कृताः, निध᳓नकृताः। +++(अ-विभागे=)+++ अ-हीने द्वितीया+++(पूर्वपदम्)+++- कष्टं श्रितः क॒ष्टश्रि॑तः। त्रिश॑कल-पतितः। ग्रा᳓मगतः ॥
तृतीया कर्मणि(उत्तरपदे क्ते) - अहि॑हतः। व॒ज्रह॑तः। म॒हा॒रा॒जह॑तः। न॒खनि॑र्भिन्ना। दात्र॑लूना।- गतौ (क्ते कर्मण्य् उत्तरपदे) -
गतिरनन्तरः।- प्रकृ॑तः। प्रहृ॑तः। अभि᳓ + उ᳓द्धृतः = अभ्यु᳓द्धृतः ॥
- स॒र॒लीकृ॑तम्।
ऊर्यादिच्विडाचश्च१.४.६१ इति गतिसंज्ञा तत्र। सूपमानात् क्तःइत्य् अपवादः।- सुकृत᳓म्, सुभुक्त᳓म्, सुपीत᳓म् ॥
- वृकावलुप्त᳓म्, शशप्लुत᳓म् , सिंहविनर्दित᳓म्
- कारकोपपदे ऽपवादो वक्ष्यते -
थाथघञ्क्ताजबित्रकाणाम्। आतपशुष्कः᳓ पुरुष्टुतः᳓॥
कृद्-उत्तर-प्रकृतिस्वरत्वम्
गतिकारकोपपदात् कृत्।। तत्पुरुषो यत्र (गतिशब्दः | कारकम् | उपपदम्) + * + (कृत् - {क्त, घञ् …})। यथा- गति-शब्दाः
- उपसर्गाः - प्रका᳓रकः, प्रक᳓रणम्, प्रहा᳓रकः, प्रह᳓रणम् ॥ वि॒ज्ञान॑म् (ल्युट्)।
- च्विः - स्वादूक᳓रणम्। (
ऊर्यादि-च्वि-डाचश् चइ᳓ति ग᳓तिः स्वादू᳓ इ᳓ति।)
- उपपदेभ्यः,
तत्रोपपदं सप्तमीस्थम्इति कृद् विहितश् चेत् - ईषत्क᳓रः, दुष्क᳓रः, सुक᳓रः, कीदृ᳓शम् ॥ - कारकोपपदेषु - इध्मानि प्रवृश्च्यन्ते येन - इध्मव्र᳓श्चनः, पलाशशा᳓तनः, श्मश्रुक᳓ल्पनः
- प॒रा॒वल्ग॑ते॒ स्वाहा᳚। नात्र - दूरात् + आ᳓गतः।
- गति-शब्दाः
अन्तोदात्ताः
थाथघञ्क्ताजबित्रकाणाम्इत्य् अपवादःगतिकारकोपपदात् कृत्।इत्यस्य।- क्थन् - सुनीथः᳓, अवभृथः᳓
- घञ् - प्रभेदः᳓, काष्ठभेदः᳓, रज्जुभेदः᳓ ॥
- क्तः {कारकोपपदाद् एव,
गतिरनन्तरःइत्य् उत्सर्गात्} - आतपशुष्कः᳓ पुरुष्टुतः᳓॥- उत्तरपदे गतियुक्त-क्ते ऽपि - दूराद्-आगतः᳓ । किन्तु, नात्र - अभि + उ᳓द्धृतः = अभ्यु᳓द्धृतः ॥ विज्ञा॑तम्।
- अच् । प्रक्षयः᳓ ।
- अप् । प्रलवः᳓ ।
- इत्र । प्रलवित्र᳓म् ।
छान्दसापवादाः
परादिश्छन्दसि बहुलम्।
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥
अ॒ञ्जि॒सक्थ॑मालभेत। त्वा॒ष्ट्रौ लो॑मशस॒क्थौ (तै०सं० ५.५.२३ .१)।
ऋ॒जु॒बाहुः॑। वा॒क्पतिः॑। चि॒त्पतिः॑।
मतुप्
[अन्तोदात्तात्] ह्रस्वनुड्भ्यां मतुप् [उदात्तः]अन्तोदात्तः ह्रस्वः|न् + मतुप् - वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्। पशुमा᳓न्। नात्र - पु᳓ष्पवान्।मतोः पूर्वमात् संज्ञायां स्त्रियाम्- *+आ+मत् स्त्रियां संज्ञायाम् - अदुम्बरा᳓वती, पुष्करा᳓वती, शरा᳓वतीअन्तोऽवत्याः। ईवत्याः- अजिरवती᳓, खदिरवती᳓, हंसवती᳓, कारण्डवती᳓ ॥ अहीवती᳓, कृषीवती᳓, मुनीवती᳓ ॥
द्व्युदात्ताः
- वाव = वा + ए॒व प्रायेण। (प्र॒जाप॑ति॒र्वाव । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वावैषः ।)
स्त्रीप्रत्ययाः
ङीप्- पित्त्वाद् अनुदात्तः। न तथा ङीष् ।
प्रसिद्धापवादाः
- अ᳓त्र।
- किं, यत्, तत् + डतमच्। क॒त॒मः।
वा बहूनां जातिपरिप्रश्ने डतमच्५.३.९३।
सुबन्तेषु
- प्रकृतिस्वरो ज्ञेयः। ततः प्रत्ययस्वरः।
अनुदत्तौ सुप्पितौ। अस्यापवादा अधः।
अनुदात्तानि एतदादिषु
एतदस् त्रतसोस्त्रतसौ चानुदात्तौ(अन्वादेशे) - एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथोऽतो व्याकरणमप्यधीष्व।द्वितीयाटौस्स्वेनः(एतदो ऽन्वादेशे ऽनुदात्तः)- एनम्, एनेन, एनयोः
एनदिति नपुंसकैकवचने वक्तव्यम्॥एनत्।
- अस्मै, अस्मिन्न् इत्येतयोः क्वचिद् अनुदात्तत्वम्, क्वचिच्चान्तोदात्तत्वम्। “If the demonstrative pronoun refers back to a previously mentioned subject it is often unaccented in the Rigveda.” इति Karen Thompson. किं सूत्रम्??
युष्मद्-अस्मदोर् अपवादाः
- वां, नौ, वः, नः, ते, मे, त्वा, मा इत्यनुदात्ताः, न पादादौ दृश्येन्ते।
अनुदात्तं सर्वम् अपादादौइत्यधिकारसूत्रम् अनुषज्यते -युष्मद्-अस्मदोः षष्ठी-चतुर्थी-द्वितीया-स्थयोर् वान्-नावौ,बहुवचनस्य वस्नसौ,तेमयाव् एकवचनस्य,त्वामौ द्वितीयायाः
- म᳓म। त᳓व। तु᳓भ्यम् म᳓ह्यम्।
विभक्तिस्वरः
-
सावेकाचस् तृतीयाऽऽदिविभक्तिः- (७ बहुवचने या एकाच्-प्रकृतिः) + ३-७ विभक्तिषु- वा॒चा वा॒ग्भ्याम् अ॒प्सु
-
(यस्य उदात्तस्थाने हल्-पूर्वो य् व् र् ल् | न्) + (२-बहु-आदिः अजादिः |नदी) = अन्त्येदात्तम् (न त्व् अन्ते स्वरितः।)
उदात्तयणो हल्पूर्वात्। नकारग्रहणं कर्तव्यम् (वा)।- यथा क॒र्तृ᳓ + ई = क॒र्त्री᳓। प्र॒स॒वि॒त्रा᳓।
-
(* + अनुम् शतृँ अन्तोदात्तः) + (२-बहु-आदिः अजादिः सुँप्| नदी) = अन्तः उदात्तः
शतुर् अनुमो नद्यजादीइत्यनेन। तु॒द॒ती तु॒द॒ता नि॒वे॒ख्ष्य॒ते। -
ऊड्-इदम्-पदाद्य्-अप्-पुम्-रै-द्युभ्यः(अन्तोदात्तात्, असर्वनामस्थानविभक्तिर् उदात्ता) - पुं॒सा ए॒भिः।अन्तोदात्तात्इत्यनेन,इदमो ऽन्वादेशे ऽश् अनुदात्तस् तृतीयाऽऽदौइति बाधते - आभ्या᳓म् छात्राभ्याम् रात्रिरधीता, अथो आ᳓भ्याम् अहरप्यधीम् ।
-
(मतुबि यो ह्रस्वान्तः | अन्तोदात्तः) + नाम् → अन्तः उदात्तः।
नाम् अन्यतरस्याम्। अग्नीना᳓म् or अग्नी᳓नाम्, वायूना᳓म् or वायू᳓नाम्, कर्तॄणा᳓म् or कर्तॄ᳓णाम्। ब॒हू॒नाम्। व्री॒ही॒णाम्। +++(5)+++ -
बृहन्महतोरुपसंख्यानम्। (वा॰) इत्यनेन बृ॒ह॒ते।
सम्बोधने
- सम्बोधनय् आद्युदात्तः -
आमन्त्रितस्य च६.१.१९८ - पादादौ। - साधारणतः स्वरनिघातः -
आमन्त्रितस्य च। (अनुदात्तं सर्वम् अपादादौ)८.१.१९ । अस्यापवादा अधः। आमन्त्रितं पूर्वम् अविद्यमानवत्।यथा- अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। किन्तु समानाधिकरणे सामान्यवचनं न तथा -नामन्त्रिते समानाधिकरणे सामान्यवचनम्। यथा - अग्ने॑ गृहपते।
सन्धिः
अनुदात्तस्य च यत्रोदात्तलोपः- कुमार᳓ + ई॒ = कुमा॒री᳓, प॒थिन् + ए॒ = प॒थे