सुट् कात् पूर्वः
- सुट् कात् पूर्वः (अधिकारसूत्रम्)
- अड्-अभ्यास-व्यवाये +++(उपसर्ग-धात्वोर् मध्ये)+++ ऽपि +++(सुट् कात् पूर्वः)+++ ।+++(5)+++
- समस्कार्षीत्। सञ्चस्कर। परिचस्कार
- सम्-पर्य्-उपेभ्यः करोतौ भूषणे ।+++(5)+++
- संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्।
- परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्।
- उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्।
- भूषणे इति किम्? उपकरोति।
- समवाये +++(=समुदायार्थे)+++ च ।
- तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्।
- उपात् +++(गुणाधान-)+++प्रतियत्न-वै+++(वि)+++कृत-वाक्याध्याहारेषु ।
- उपस्कृता कन्या ।
- उपस्कृतं +++(→विकृतं)+++ भुङ्क्ते।
- वाक्याध्याहारेषु - उपस्कृतं जल्पति। उपस्कृतमधीते।
- किरतौ लवने । ( णमुलत्र वक्तव्यः।)
- उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः।
- हिंसायां प्रतेश्च (किरतौ) ।
- उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः।
- अपाच् चतुष्पाच्-छकुनिष्व् आलेखने ।
- अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी। आलिख्य विक्षिपति इत्यर्थः।
- चतुष्पाच्छकुनिषु इति किम्? अपकिरति देवदत्तः।
- (हर्ष-जीविकाकुलायकरणेष्विति वक्तव्यम्।) इह मा भूत्, अपकिरति श्वा ओदनपिण्डमाशितः।
निपातनानि
- कुस्तुम्बुरूणि जातिः +++(निपातनम्)+++।
- जातिः इति किम्? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि।
- अपरस्पराः क्रियासातत्ये ।
- अपरस्पराः सार्थाः गच्छन्ति।
- गोष्पदं सेवितासेवितप्रमाणेषु ।
- सेविते - गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते।
- असेविते - अगोष्पदान्यरण्यानि।
- प्रमाणे - गोष्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः।
- आस्पदं प्रतिष्ठायाम् ।
- आश्चर्यम् अनित्ये+++(→अद्भुते)+++ ।
- वर्चस्के+++(=कुवर्चः → अन्नमलम्)+++ ऽवस्करः ।
- वर्चस्के इति किम्? अवकरः।
- अपस्करो रथाङ्गम् ।
- विष्किरः शकुनिर् विकरो वा ।
- ह्रस्वाच् चन्द्रोत्तरपदे मन्त्रे ।
- सुश्चन्द्रः युष्मान्।
- ह्रस्वातिति किम्? सूर्याचन्द्रमसाविव। मन्त्रे इति किम्? सुचन्द्रा पौर्णमासी।
- प्रतिष्कशश्च कशेः +++(गतिशासनयोः)+++ ।
- प्रस्कण्व-हरिश्चन्द्राव् ऋषी ।
- मस्कर-मस्करिणौ वेणु-परिव्राजकयोः ।
- कास्तीराजस्तुन्दे नगरे ।
- कारस्करो वृक्षः ।
- पारस्करप्रभृतीनि च संज्ञायाम् ।
- पारस्करो देशः। कारस्करो वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा।