ष्ठगेँ (संवरणे, भ्वादिः)
इति शब्दकल्पद्रुमे, वाचस्पत्ये, क्षीरतरङ्गिण्याम्, धातुप्रदीपे । षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः, अतः “स्थगति” इति रूपम् ।ष्टगेँ (संवरणे, भ्वादिः)
इति सिद्धान्तकौमुद्याम् । षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः, अतः “स्तगति” इति रूपम् ।ष्टगेँ / ष्ठगेँ (संवरणे, भ्वादिः)
इति उभयथा कृदन्तरूपमालायाम् ।स्थग (आच्छादने, चुरादिः)
’ इति शब्दार्थकौस्तुभे ।- माघकृते शिशुपालवधे स्थगयति इति प्रयोगः (४.२४)।