अनुप्रयोगपक्षे
- आम्-योजनम्, अनुप्रयोगः
- इजादेः गुरुमतः अनृच्छः धातोः लिटि आम् प्रत्ययः परश्च
- ईह चेष्टायाम्। ऊह वितर्के। ईहाञ्चक्रे। ऊहाञ्चक्रे।
प्रत्ययनिर्माणम्
- “णल्-अतुस्-अस्
थल-थुस्-अ
णल्-व-म”- आत औ णलः॥ +++(बभौ ददौ)+++
- “एश् आते इरेच्
से आथे ध्वे
ए वहे महे”- +++(ए-इरे इति विहाय लँट्वत्।)+++
अतिदेशाः
- आर्धधातुकत्व-अतिदेशः (लिट् च॥)
- असंयोगात् लिट् कित् अपित्। णल् उत्तमो वा।
इडागमः
अथलि
- अनिटः - क्रादिः।
- वेटः पूर्वोक्ताः।
- सेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु अक्रादयः।
थलि
- अनिटः - क्रादिः। पूर्वोक्त-अनिट्सु ऋ-अन्ताः।
- वेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु क्रादिभिन्नाः ऋ-अन्त-भिन्नाः, हलन्तेषु अत्वतः । सृज्-दृश्।
- सेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु हलन्तेषु अनत्वतः।
सन्धिकार्यम्
इणः अङ्गात् षीध्वम्-लुङ्-लिटाम् अपदान्तस्य धः मूर्धन्यः।
कित्-कर्म
सम्प्रसारणम्।
अभ्यासयोजनम्
- अभ्यासस्य सम्प्रसारणम् पिति
- इ/उ अभ्यासे + असवर्णः → इयङ् | उवङ्
अभ्यासलोपः, एत्वञ्च
अभ्यासो न विकृतश्चेत्। कित् | सेट् थल्।
- धातौ असंयोग-हल् + अ + असंयोग-हल् (न ऋ-गुणकृतः) - (शस्|दद) - व-आदिः | …"
- “तॄ फल् भज् त्रप् रध् (हिंसायाम्)”
- “जॄ| भ्रमु|त्रस् ७ फणादयः”
उदाहरणम्
पपाच पेचतुः पेचुः
पेचिथ पेचथुः पेच
पपाच पेचिव पेचिम
पेचे पेचाते पेचिरे
पेचिषे पेचाथे पेचिध्वे
पेचे पेचिवहे पेचिमहे