लोकावेक्षणम्

वैदिकोच्चारणम्

In nearly all contemporary vedic recitation systems, the aShTAdhyAyI system is contradicted except for the following,

केरले

शाकल-शाखाध्यायिषु क्वचिद् उदात्त-स्वरितौ सम-तारत्व-भाजौ।
तत्र किंचित् याथार्थ्यमस्ति- किञ्च सर्वत्र तदुक्तवत् न।
केवलं दीर्घस्वरितविषयसंबन्धि एतत् ।
तत्रापि संयुक्ताक्षरप्रचयपरेषु अनुदात्तपरेषु च स्थलेषु एवं न संभवति -
यथा - नमो॑भ्यः, नमां॑सि नमा॑मि॒ तत् । (अत्रोच्चारणं श्रूयते । )
केवलम् असंयुक्ताक्षर-प्रचय-परत्वे एवं संभवति,
यथा - हवा॑महे, होता॑रम्।

Frits Staal made a claim that certain nambUtiri-s recite udAtta in high-pitch pada & “ratha-pATha”. He claimed this was retention of ancestral style of veda recitation or even accented Skt speech as recorded by pANini’s statement of “ucchair udAttaH |”. [TW17]

काठकाः

The recently extinct kAshmIra kaTha system emphasized udAtta, based on

  • their svara marking system.
  • However, recordings such as इ꣡न्द्राय वा꣡चं वदते꣡न्द्रं वा꣡जं जापयते꣡न्द्रो वा꣡जम् अजयित् in YT by Ananda ghanapatigal of Kanchipuram & team seem to use taittirIya mantra-s and svaras.

सामवेदे

see sAmaveda notes elsewhere.

भाषान्तरेषु

  • अपि स्पानिकादिभाषास्व् अवलोकनेन उदात्तस्य तारतमस्वरत्वंज्ञायते। तदपि बहुशः पाणिन्युक्तस्थानेष्वेव – amo (आद्युदात्तम्) amAmos। प्रत्ययस्य आद्युदात्तत्वेन पदमध्यो “A” उदात्तः। पाणिनीये शास्त्रेऽपि अपित् प्रत्यय आद्युदात्त एव, इति स्मरणीयम् ।
  • [अस्मात् संवादात् – ] मम दक्षिणात्यस्याभिप्राय आर्यावर्त्तवास्तव्येषु सस्वरभाषणं श्रूयतेतराम् स्वाभाविकतया, यद्यपि तत्राऽप्य् अपूर्णता ऽनुभूयते।
    • मत्परिचितेन कदाचिद् दर्शितमिदं गृह्यताम् ( https://archive.org/download/sasvara-bhAShaNe-prayogAH इत्यत्र) –RShi-dilli-jana-bhAShaNam। तेनैव गुर्जरजनेनाजानता ऽपि स्वप्रादेशिकसंस्कारबलाद् दाक्षिणात्यभाषणदर्शनेऽपि स्वराः स्थापिताः :-) – RShi-mumbai-gurjara-vs-daxiNa.opus
    • तत्रैव गुर्जरभाषणविविध्यम् अपि स्याद् रुचये।