आप् {उपसम्प्राप्} आप् (आप्लृ व्याप्तौ)। ‘जिघांसूनुपसम्प्राप्तान् देवान् दृष्ट्वा’ (भा०)। इ {उपसम्प्रे} इ (इण् गतौ)। ‘न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण’ (रा० ३।६२।९)। उपसम्प्रैति उपैति। नार्थः सम्प्राभ्याम्।