अस्
- {पर्यस्}
- अस् (असु क्षेपे)।
- ‘एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिरोमणिः’ (भा० पु० १०।७१।३१)। पर्यस्तः परिवेष्टितः।
- ‘इदं नु मायिनं हुव इति पर्यासः’ (ऐ० ब्रा० ५।४)। पर्यासः समाप्तिः।
इ
- {परी}
- इ (इण् गतौ)।
- ‘कस्मात्सामान्यादिति कालानुवादं परीत्य’ (नि० १२।१३।३)। परीत्य परिज्ञाय।
- ‘प्रभुर्गात्राणि पर्येषि’ (पञ्च० ब्रा० १।२।८)। पर्येषि व्याप्नोषि।
- ‘वैदिक तूदाहरणं पर्येप्यं यद्यस्ति क्वचित्।’ (नि० १।५) इत्यत्र स्कन्दस्वामी। पर्येष्यं मृग्यम्।
काल्
- {परिकाल्}
- काल् (काल क्षेपणे)।
- ‘परिकाल्य कुरून् सर्वान् शरवर्षैरवाकिरन्’ (भा० भीष्म० ११९।८४)। परिकाल्य पराणुद्य प्रद्राव्य।
खन्
- {परिखन्}
- खन् (खनु अवदारणे)।
- ‘कण्टकिक्षीरिणस्तु समूलान् परिखायोद्वासयेत्’ (आश्व० गृ० २।६।५)। परिखाय परित उत्खाय। परितः खननेनोत्पाट्येत्यर्थः।
गम्
- {परिगम्}
- गम् (गम्लृ गतौ)।
- ‘मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः’ (रा० ४।६७।११)। परिगन्तुं परिभ्रमितुम्। असङ्गेन=अविलम्बेन।
ग्रह्
- {परिग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘अटवीपर्वताश्चैव नद्यस्तीर्थानि यानि च। सर्वाण्यस्वामिकान्याहुर्नहि तत्र परिग्रह’ (भा० अनु० ६६।३५-३६)॥ परिग्रहः स्वामित्वम्।
- ‘अयं चाद्य मया दृष्टः परदारपरिग्रहः (रा० ५।११।३९)। परदारा एव परिग्रहो ऽ वरोधः।
- ‘शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन परिगृह्णाति स वीरः पुरषोत्तमः’ (रा० ४।३०।७२)॥ परिगृह्णाति पालयति रक्षति।
- ‘उभयतोऽध्वर्युं पात्रेण परिगृह्णाति’ (का० श्रौ० ९।१३।११)। पात्रमादाय परिगच्छतीत्यर्थः।
छद्
- {परिच्छद्}
- छद् (छद अपवारणे)।
- ‘बाला एव तास्त्यक्त्वा वैराग्येण पितुर्गृहम्। श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम्’ (कथा० २८।१४)॥
तन्
- {परितन्}
- तन् (तनु विस्तारे)।
- ‘अहतपक्षेण (=अहतवस्त्रैकदेशेन) परितत्य’ (का० श्रौ० २१।३।६)। परितत्य सर्वतो वेष्टयित्वा।
तप्
- {परितप्}
- तप् (तप सन्तापे)।
- ‘परितापेन समृद्धिभावम्… वाञ्छन्ति’ (तन्त्रा० १।१३।१५३)। परितापेन परपीडया।
दा
- {परिदा}
- दा (डुदाञ् दाने)।
- ‘जवस्ते… श्येने वात उत योऽचरत् परीत्तः’ (अथर्व० ६।९२।२)। रक्षणार्थं दानं परिदानम्। परीत्तः (=यो जवः) रक्षणाय दत्तः।
धा
- {परिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘परि वो विश्वतो दध ऊर्जा घृतेन पयसा’ (ऋ० १०।१९।७)। परिदधे परिपुष्णाति।
नी
- {परिनी}
- नी (णीञ् प्रापणे)।
- ‘मुखत एवैनान् यज्ञस्य परिणयति’ (पञ्च० ब्रा० १७।३।२)। परिणयति प्रापयति (ब्राह्मणत्वम्) इति सायणः।
भी
- {परिभी}
- भी (ञिभी भये)।
- ‘अथापि नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये’ (नि० १।११)। परिशब्द ईषदर्थः। तद्यथा परिमधुरमपर्याप्तमिति दुर्गः।
वृत्
- {परिवृत्}
- वृत् (वृतु वर्तने )।
- ‘वर्वर्ति चक्रं परि द्यामृतस्य’ (ऋ० १।१६४।११)। परिवर्वर्ति सततं परिवर्तते।
श्रि
- {परिश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘परिश्रितेषु देयः स्यान्मधुपर्क इति ध्रुवम्’ (गृह्यासङ्ग्रहे २)।
सद्
- {परिषद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘परिषीदन्ति परितः सीदन्त्यत्रेति परिषत्।’
स्कृ
- {परिस्कृ}
- स्कृ (डुकृञ् करणे, सुट्)।
- ‘गोभिर्भगं परिष्कृतम्’ (ऋक्तन्त्रे ४।५।८)। परिष्कृतं प्रचुरम्। पर्युप भूषणप्राचुर्यवाक्येषु।
स्था
- {परिष्ठा}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘याश्चिद् (अपः) वृत्रो महिना पर्यतिष्ठत्’ (ऋ० १।३२।८)। परिक्रान्तवान् अरुणद्वा।
स्पन्द्
- {परिस्पन्द्}
- स्पन्द् (स्पदि ईषच्चलने)।
- ‘सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते’ (यो० सू० भा० २।१५)। परिस्पन्दते चेष्टते।
हृ
- {परिहृ}
- हृ (हृञ् हरणे)।
- ‘अलोभशीलमपरिहार्यम्’ (का० सू० १।५।३३)। अपरिहार्यं परेण हर्तुं न शक्यते ऽनुरक्तत्वात्।