ईक्ष् {विवीक्ष्} ईक्ष् (ईक्ष दर्शने)। ‘विवीक्षमाणा हरितं ददर्श तन्महद् वनं नैव तु रामलक्ष्मणौ’ (रा० ३।४६।३७)। तिलककारस्तु निरीक्षमाणेति पठति। विशब्दस्य द्विरुक्तिर्नार्थवतीति जघन्यः स पाठः।