दय्
- {निरवदय्}
- दय् (दय दानगतिहिंसादानेषु)।
- ‘त्र्यम्बकै रुद्रं निरवादयत’ (तै० ब्रा० १।६।८)। (परितोष्य) निःसारितवान्। दयतिरिह गत्यर्थः।
दा
- {निरवदा}
- दा (डुदाञ् दाने)।
- ‘देवानेव वीरं निरवदायाग्निं पुनराधत्ते’ (तै० सं० १।५।१)। निरवदाय निष्कृष्य।
सो
- {निरवसो}
- सो (षो अन्तकर्मणि)।
- ‘तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति’ (तै० सं० २।५।२।७-८)। पुस्तके न्यस्तचरमेतत् पुनर्न्यस्यतेऽर्थ वैशद्याय। निरवसानमुत्कर्ष इति भट्टभास्करः। व्यावृत्तमुत्कर्षिणमधिकधनवन्तं कुर्वन्तीत्यर्थः।
- ‘प्रतिषिद्धोऽवरवर्णास्वनिरवसितासु’ (का० सू० १।५।२)। उक्तोऽर्थः पुस्तके।