इ
- {उपसमे}
- इ (इण् गतौ)।
- ‘वयांसि च वायोविद्यिकाश्चोप समेता भवन्ति’ (श० बा० १३।४।३।१३)। पक्षिदिद्याया विशेषज्ञा उपसमेताः समेताः समुदिता एकीभूताः।
- ‘इति श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति’ (श० ब्रा० १३।४।३।१४)।
- ‘प्रत्येत्याचार्यं सपर्षत्कं भोजयेत् सब्रह्मचारिणश्चोपसमेतान्’ (गो० गृ० ३।२।५२-५३)। उदितचर एवार्थः।
धा
- {उपसमाधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तद् यत् किं चातो रात्र्योपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति’ (श० ब्रा० ६।६।४।१)। समिधमुपर्यादधातीत्यर्थः।
- ‘उपसमाधीयमानपरिणयोपकरणे भवने’ (दशकु०)। उपसमाधीयमानं संगृह्यमाणम्, राशीक्रियमाणम्।
- ‘यत्र क्व चाग्निमुपसमाधास्यन् स्यात्’ (आप० ध० २।१।१३)। उपसमाधास्यन् प्रतिष्ठापयिष्यन्।
- ‘(कला) अन्नेनोपसमाहिता’ (छां० उ० ६।७।६)।
- ‘मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्ते’ (श० ब्रा० ४।६।८।३)। उपसमाधायाश्मन्तकस्योपरि निधाय।
- ‘अग्नीन् उपसमाधाय’ (आप० श्रौ० ६।५।१९।१)। उपसमाधाय काष्ठैरुपसमिध्य।
- ‘तम् (अङ्गारं) तृणैरुपसमाधाय’ (छां० उ० ६।७।५)। उपसमाधाय आच्छाद्य।
- ‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ (पा० ३।३।४१)। उपसमाधानं राशीकरणमिति वृत्तिः। यथा गोमयनिकाय इत्यत्र।
वृत्
- {उपसमावृत्}
- वृत् (वृतु वर्तने)।
- ‘उप मा प्रजाः समावर्तेरन्’ (श० ब्रा० ३।९।१।३)। प्रतिनिवृत्त्य मामुपेयुरित्यर्थः।