चर्
- {उपन्याचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘मैत्रेण यजुषोपन्याचरति’ (श० ब्रा० ६।५।४।१०)। (अग्निम्) उपन्याचरति अग्नावेधः प्रक्षिपति।
प्लु
- {उपन्याप्लु}
- प्लु (प्लुङ् गतौ)।
- ‘तं स मत्स्य उपन्यापुप्लुवे’ (श० ब्रा० १।८।१।५)। प्लवमानस्तरंस्तस्य सामीप्यमापेत्यर्थः।