इ {उपाती} इ (इण् गतौ)। ‘अथ त्रीण्यहान्युपातियन्ति’ (श० ब्रा० १२।५।२।८)। उपातियन्ति=अतिरिक्तान्यतियन्ति अतिक्रामन्ति। ‘परावनुपात्यय इणः’ (पा० ३।३।३८)। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः परिपाटीति वृत्तिः।